Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 743
________________ ७१६/१३३८ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ) (१५) दृष्टार्थानुपपत्त्या बलेन कस्याप्यर्थस्य कल्पना क्रियते, सा अर्थापत्तिः उदाहृता । (१६) वस्तुसत्तावबोधार्थं प्रमाणपञ्चकं यत्र वस्तुरुपे न जायते, तत्र अभावप्रमाणता । (१७) अभावश्च प्रागभावादिभेदभिन्नो वस्तुरुपोऽवगन्तव्यः । अन्यथा कारणादिव्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । (१८) अनधिगतार्थधिगन्तृ प्रमाणं । पूर्वं पूर्वं प्रमाणमुत्तरं तु फलं । सामान्यविशेषात्मकं वस्तु प्रमाणगोचरम् । नित्यपरोक्षं ज्ञानं हि भाट्ट प्रभाकरमतयोरर्थप्राकट्यख्य संवेदनाख्यफलानुमेयम्। (१९) वेदोऽपौरुषेयः । वेदोक्ता हिंसा धर्माय । शब्दो नित्यः । सर्वज्ञो नास्ति अविद्याऽपरनाममायावशात्प्रतिभासमानः सर्वः प्रपञ्चोऽपारमार्थिकः । परब्रह्मैव परमार्थसत् । लोकायतमतम् :श्लोक-७९ से ८७ ____ (१) कापालिका भस्मोद्धूलनपज्ञ योगिनो ब्राह्मणाद्यन्त्यजान्ताश्च केचन नास्तिका भवन्ति । ते च जीवपुण्यादिकं न मन्यन्ते । चतुर्भूतात्मकं जगदाचक्षते । केचित्तु पञ्चभूतात्मकं जगदिति निगदनत । ___(२) नास्तिकमते भूतेभ्यो मदशक्तिवच्चैतन्यमुत्पद्यते । जलबुद्बुद्वज्जीवाः । चैतन्यविशिष्ट: कायः पुरुषः । धर्मं कामादपरं न् मन्वते । (३) तन्मते एतावानेव लोकोऽयं यावानिन्द्रयगोचरः । (४)प्रमाणं पुनः प्रत्यक्षमेवैकं न पुनरनुमानादिकं प्रमाणम् । - षड्दर्शनान्तर्गतन्यायसूची (१) यथा उद्देशः तथा निर्देशः। (२) सर्वं हि वाक्यं सावधारणम् । (३) परार्थं हि वाक्यमभिधीयते। (४) नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः । (५) व्याख्यानतो विशेषप्रतिपत्तिः । (६) सुविवेचितं कार्य कारणं न व्यभिचरति । (श्लोक-१७-१८-१९. टीका) (७) गले पादिकान्यायः । (८) यत्तदोर्नित्याभिसम्बन्धात् । (९) व्यवच्छेदफलं वाक्यमिति न्यायः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756