Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 734
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ) निमित्तकारणम् (यथा दण्डादय:), (३) निर्वर्तककारणम् (यथा घटं प्रति कुम्भकारः) । (१६) निमित्तकारणं च द्वेधा निमित्तकारणमपेक्षाकारणं च । (१७) अमूर्तश्च रुपरसगन्धस्पर्शपरिणामबाह्यवर्त्यभिधीयते परिणामवर्त्यभिधीयते । (१८) गुणपर्यायवद्द्रव्यम् । (१९) अजीवो धर्मास्तिकाय-अधर्मास्तिकाय-आकाशस्तिकाय -काल- पुद्गलभेदात्पञ्चविधः । ७०७/१३२९ (२०) स्वत एव गतिपरिणतानां जीवपुद्गलानामुपकारकरोऽपेक्षाकारणम् धर्मास्तिकायः । स च लोकव्यापी नित्योऽवस्थितोऽरुपीद्रव्यम्-अस्तिकायोऽसंख्यप्रदेशागत्युपग्रहकारी च भवति । (२२) आकाशमपि वगाहोपकारकरम् । I मूर्तश्च रुप-रस- गन्ध-स्पर्श (२१) स्वत एव स्थितिपरिणतानां जीवपुद्गलानां स्थितिविषयेऽपेक्षाकारणं अधर्मास्तिकाय: शेषंस्वरुपं धर्मास्तिकायवत् मन्तव्यः । लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरुपिद्रव्यमस्तिकायोऽ (२३) ये केचनाचार्याः कालं द्रव्यं नाभ्युपयन्ति किन्तु धर्मादिद्रव्याणां पर्यायमेव, तन्मते धर्माधर्माकाशपुद्गलजीवाख्यपञ्चास्तिकायात्मको लोकः । ये तु कालं द्रव्यमिच्छन्ति तन्मते षट्द्द्रव्यात्मको लोकः । (२४) आकाशद्रव्यमेकमेवास्ति यत्र सोऽलोकः लोकलोकयोर्व्यापकमवगाहोपकारकमिति स्वत एवावगाहमानानां द्रव्याणामवगाहदायि भवति न पुनरनवगाहमानं पुद्गलादि बलादवगाहयति । (२५) कालकृता वर्तनाद्या वस्तूनामुपकाराः । अथवा वर्तनाद्याः उपकाराः कालस्य लिङ्गानि । तत्र वर्तन्ते स्वयं पदार्थाः, तेषां वर्तमानानां प्रयोजिका कालाश्रया वृत्तिर्वर्तना प्रथमसमयाश्रया स्थितिः । द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः । प्रयोगविस्रसाभ्यां जनितो जीवानां परिणमनव्यापारः करणं क्रिया तस्या अनुग्राहकः कालः । इदं परमिदमपरमितिप्रत्ययाभिधाने कालनिमित्ते। (२६) वर्तनाद्युपकारानुमेयः कालो द्रव्यं मानुषक्षेत्रे, तद्बहिः कालद्रव्यं नास्ति । (२७) स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । अत्र स्पर्शग्रहणमादौ स्पर्शे सति रसादिसद्भावज्ञापनार्थम् । (२८) स्पर्शा हि मृदकठिनगुरुलघुशीतोष्णस्निग्धरुक्षाः । अत्र स्निग्धरुक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति । स्कन्धेष्वष्टावपि यथासंभवम् । For Personal & Private Use Only (२९) रसास्तिक्तकटुकषायाम्लमधुराः । लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756