Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 733
________________ ७०६/१३२८ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ) परिशिष्ट-८ पारिभाषिकशब्दानुक्रमणी - सार्थ • जैनदर्शनम् श्लोक : ४५ से ५८ (१) जैनमते रागद्वेषविवर्जितः हतमोहमहामल्लः केवलज्ञानदर्शनः सुरासुरेन्द्रसंपूज्यः सद्भूतार्थप्रकाशकः संप्राप्तपरम (मोक्ष) पदम् जिनेन्द्रो देवता । (२) मायालोभौ रागः, क्रोधमानौ द्वेषः । रागद्वेषौ हि दुर्जयौ दुरन्तभवसंतापहेतुतया च मुक्तिप्रतिरोधक समये (शास्त्रे) प्रसिद्धौ । (३) छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते ततो ज्ञानं, केवलिनस्त्वादौ ज्ञानं ततो दर्शनमिति । (४) जैनदर्शने सर्वप्रमेयानि ( सर्वाणि प्रमेयानि ) सामान्यविशेषात्मकानि सन्ति । तत्र सामान्यस्य उपसर्जनीभावेन विशेषाणां च प्रधानभावेन यद्ग्राहकं तज्ज्ञानम् विशेषाणामुपसर्जनीभावेन सामान्यस्य च प्राधान्येन यद्ग्राहकं तद्दर्शनम् । (५) जैनमते नवतत्त्वानि सन्ति । तद्यथा : (१) जीव:, (२) अजीव:, (३) पुण्यं, (४) पापं, (५) आश्रवः, (६) संवर:, (७) निर्जरा, (८) बन्ध:, (९) मोक्षश्च । (६) चेतनालक्षणो जीवः । तद्विपरीतलक्षणस्त्वजीवः । धर्माधर्माकाश कालभेदेन असौ अजीवः पञ्चधा व्यवस्थितः । अनयोरेव द्वयोर्जगद्वर्तिनः सर्वेऽपि भावा अन्तर्भवन्ति । (७) पुण्यं शुभाः कर्मपुद्गलाः । पापमशुभाः कर्मपुद्गलाः । (८) आस्रवति कर्म यतः स आस्रवः कायवाङ्मनो व्यापारः, पुण्यापुण्यहेतुतया चासौ द्विविधः । (९) आस्रवनिरोधः संवरः, गुप्तिसमितिधर्मानुप्रेक्षादीनां चास्रवप्रतिबन्ध कारित्वात्, स च द्विविधः सर्वदेशभेदात् । (१०) योगनिमित्तः सकषायस्यात्मनः कर्मवर्गणापुद्गलैः संश्लेशविशेषो बन्धः । स च सामान्येनैकविधोऽपि प्रकृतिस्थित्यनुभागप्रदेशभेदेन चतुर्धा । पुनरेकैको ज्ञानावरणादिमूल प्रकृतिभेदादष्टधा । (११) आत्मसंयुक्तकर्मनिर्जरणकारणं निर्जरा द्वादशविधतपोरुपा । (१२) विनिर्मुक्ताशेषबन्धस्य प्राप्तनिजस्वरुपस्यात्मनो लोकान्तेऽवस्थानं मोक्षः । (१३) ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो, विवृत्तिमान्, शुभाशुभकर्मकर्ता, कर्मफलस्य भोक्ता, चैतन्यलक्षणो जीवः । एतद्विपरीतवान् अजीवः । पुण्यं सत्कर्मपुद्गलाः । (१४) यत्र निषेधात्मकशब्दे व्युत्पत्तिसिद्ध-शुद्धाखंडपदस्य निषेधं दृश्यते, तत्र तं पदं प्रतिपक्षवान् भवति। (१५) कारणं त्रिविधमुच्यते । तद्यथा (१) परिणामिकारणम् (यथा घटस्य मृत्परिणामिकारणम्), (२) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756