Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
७०४/१३२६
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
(G-95) "शास्त्रं शब्दविज्ञानात् असन्निकृष्टेऽर्थे विज्ञानम् ।" शाबर भा० ११५ । (G-96) "अपौरुषेयः शब्दस्यार्थेन संबन्धः ।" शाबरभा० १।१।५ ।
(G-97) "तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ।। प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ।।" मी० श्लो० उपमान० श्लो० ३७-३८ ।
(G-98) "वह्नेरनुमिता सूर्ये यानात्तच्छक्तियोग्यता ।" मी० श्लो० अर्थापत्ति श्लो० ३ । (G-99) "गवयोपमिता या गौस्तज्ज्ञानग्राह्यता मता।" मी० श्लो० अर्थापत्ति० श्लो० ४ ।
(G-100) "अभिधानप्रसिद्ध्यर्थमर्थापत्त्यावबोधितात् । शब्दे बोधकसामर्थ्यात्तन्नित्यत्वप्रकल्पनम् ।। अभिधा नान्यथा सिद्धयेदितिवाचकशक्तताम् । अर्थापत्यावगम्यैवं तदनन्यगते पुनः ॥ अर्थापत्त्यन्तरेण शब्दनित्यत्वनिश्चयः ॥" मी० श्लो० अर्थापत्ति० श्लो० ५-७।।
(H-1) "प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह दर्शिता ॥ तामभावोत्थितामन्यामापत्तिमुदाहरेत् ।" मी० श्लो० अर्थापत्ति- श्लो०८-९।
___ (H-2) "पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ।।" मी० श्लो० अर्थापत्तिः श्लो० ५१॥
(H-3) तुलना "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽवबोधार्थं तत्राभावप्रमाणता ।।" मी० श्लो० अभाव० श्लो० १।।
(H-4) "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनि ॥" मी० श्लो० अभाव० श्लो० ११ । “तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः आत्मनोऽपरिणाम एकः पदार्थान्तविशेषज्ञानं द्वितीय..... प्रमाणनिवृत्तिमात्रात्मकस्तृतीयः ।" तत्त्वसं० पं० पृ० ४७३ ।
__(H-5) "न तावदिन्द्रियैरेषा नास्तीत्युत्पद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि।" मी० श्लो० अभाव० श्लो० १८ । ____ (H-6) "स्वरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ।।" मी० श्लो० अभाव० श्लो० १२ ।
(H-7) "धर्मयोर्भेद इष्टो हि धर्म्यभेदेऽपि नः स्थिते ।" मी० श्लो० अभाव० श्लो० २०।। (H-8) “पूर्वं पूर्वं प्रमाणमुत्तरं तु फलम् ।" मी० श्लो० प्रत्यक्ष० श्लो० ७०-७२ ।
(H-9) "सामान्यं वा विशेषो वा ग्राह्यं नातोऽत्र कल्प्यते ।" मी० श्लो० प्रत्यक्ष० श्लो० १४ । - (H-10) "मदशक्ति वच्चैतन्यमिति ।" प्रकरण पं० पृ० १४६ । न्यायमं० पृ० ४-७।ब्रह्मसू०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756