Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
७०२/१३२४
षड्दर्शन समुच्चय भाग - २,
(G-72) “विद्यापि चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा ।" प्रश० भा० पृ० ९४ । (G-73) “लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसो संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताच्चसंस्कारादृष्टश्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषया स्मृतिरिति ।" प्रश० भा० पृ० १२८ ।
(G-74) "आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसो संयोगाद् धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते ।" प्रश० भा० पृ० २९ ।
परिशिष्ट - ७, (साक्षीपाठ)
(G-75) “अनुग्रहलक्षणं सुखम् ।" प्रश० भा० पृ० १३० ।
(G-76) "उपघातलक्षणं दुःखम् ।" प्रश० भा० पृ० १३१ ।
(G-77) "स्वार्थं परार्थं वाप्राप्तप्रार्थनेच्छा मैथुनेच्छा कामः । अभ्यवहारेच्छाभिलाषः । पुनः पुनर्विषयानुरञ्जनेच्छा राग: । अनासन्नक्रियेच्छा संकल्पः । स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा । परवञ्चनेच्छा उपधा । अन्तर्निगूढेच्छा भाव: ।" प्रश० भा० पृ० १३१ ।
(G-78) “धर्म: पुरुषगुणः " प्रश० भा० पृ० १३८ ।
(G-79) "अधर्मोऽप्यात्मगुणः " प्रश० भा० पृ० १४२ ।
(G-80) “प्रयत्नः संरम्भ उत्साह इति पर्याया: । स द्विविधो - जीवनपूर्वकः इच्छाद्वेषपूर्वकश्च ।” प्रश० भा० पृ० १३२ ।
(G-81) “संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकञ्च । " प्रश० भा० पृ० १३६ ।
(G-82) “प्रज्वलनात्मको द्वेषः ।" प्रश० भा० पृ० १३२ ।
(G-83) “स्नेहोऽपां विशेषगुणः ।" प्रश० भा० पृ० १३५ ।
(G-84) “गुरुत्वं जलभूम्योः पतनकर्मकारणम् ।" प्रश० भा० पृ० १३३ ।
(G-85) “द्रवत्वं स्यन्दनकर्मकारणम् ।" प्रश० भा० पृ० १३४ ।
(G-86) "वेगो मूर्तिमत्सु पञ्चसु.." प्रश० भा०पृ० १३६ ।
Jain Education International
(G-87) "प्रशस्तपादभाष्यकारा: ।" प्रश० भा० पृ० १३६ ।
(G-88) “द्रव्ये तावद् त्रिविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसंनिकर्षाद् धर्मादिसामग्रये च स्वरूपा लोचनमात्रम् सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्मनः संनिकर्षात् प्रत्यक्षमुत्पद्यते सद् द्रव्यं पृथिवी विषाणी शुक्लो गौर्गच्छतीति ।" प्रश० भा० पृ० ९५ ।
(G-89) “अस्मद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुगृहीतेन मनसा स्वात्मान्तरा
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/633f5f82760a831165b87884efb40a6ff3dc3982befb1175b3aa2da8b20c9429.jpg)
Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756