Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 727
________________ ७००/१३२२ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, ( साक्षीपाठ) तत्त्वज्ञानान्निः श्रेयसम् ।" वैशे० सू० १।१।४ । (G-44) "भावपरिज्ञानापेक्षित्वादभावस्य पृथगनुपसंख्यानम्.." प्रश० व्यो० पृ० २० । "अभावस्य पृथगनुपदेशः भावपारतन्त्र्यात् न त्वभावात् ।" प्रश० कन्दली० पृ० ७ । अभावस्य च समानतन्त्रसिद्धस्याप्रतिषिद्धस्य न्यायदर्शने मानसेन्द्रियतासिद्धिवदत्राप्यविरोधाद् अभ्युपगमसिद्धान्तसिद्धत्वात् । न्यायली० पृ० ३ । (G-45) "पृथिव्यापस्तेजो-वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।" वैशे० सू० १।१।५ (G-46) "भासामभावरूपत्वाच्छायायाः ।" प्रश० व्यो० पृ० ४६ । द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः । वैशे० सू० ५।२।१९ । उद्भूतरूपवद्यावत्तेजः संसर्गाभावस्तमः । वैशे० उप० ५।२।२० । (G-47) "पृथिवीत्वाभिसंबन्धात् पृथिवी । विषयस्तु व्यणुकादि क्रमेणारब्धस्त्रिविधो मृत्पाषाणस्थावरलक्षणः । तत्र भूप्रदेशाः- प्राकारेष्टकादयो मृत्प्रकाराः । पाषाणा उपलमणिवज्रादयः । स्थावरास्तृणौषधिवृक्षलतावतानवनस्पतय इति ।" प्रश० भा० पृ० १३ । (G-48) "अप्त्वाभिसंबन्धादापः । विषयस्तु सरित्समुद्रहिमकरकादि ।" प्रश० भा० पृ० १४ । (G-49) "तेजस्त्वाभिसंबन्धात् तेजः । विषयसंज्ञकं चतुर्विधम् सुवर्णादि।" प्रश० भा० पृ० १५ (G-50) "वायुत्वाभिसंबन्धाद्वायुः ।" प्रश० भा० पृ० १६ । (G-51) "तत्राकाशस्य गुणाः शब्दसंख्यापरिमाणपृथकत्वसंयोगविभागाः शब्दलिङ्गाविशेषादेकत्वं सिद्धम्.. विभववचनात् परममहत्परिमाणम् ।" प्रश० भा० पृ० २३-२५ । । (G-52) "कालः परापरव्यतिकरयोगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् । काललिङ्गाविशेषादेकत्वं सिद्धम् । कारणे काल इति वचनात् परममहत्परिमाणम् ।" प्रश० भा० पृ०२६ । (G-53) "दिक् पूर्वापरादिप्रत्ययलिङ्गा मूर्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति, अन्यनिमित्तासंभवात् । दिग् लिङ्गाविशेषादञ्जसैकत्वेऽपि दिश, परममहर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थं मेरुं प्रदक्षिणमावर्तमानस्य भगवतः सवितुर्ये संयोगविशेषाः लोकपालपरिगृहीतदिक्प्रदेशानामन्वर्थाः प्राच्यादिभेदेन दशविधाः संज्ञाः कृताः अतो भक्त्या दश दिशः सिद्धाः ।" प्रश० भा० पृ० २८ । (G-54) "आत्मत्वाभिसंबन्धादात्मा । तथा चात्मेति वचनात्परममहत्परिमाणम् ।" प्रश० भा० पृ० ३०। (G-55) "मनस्त्वयोगान्मनः । सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते । श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरभावाच्चान्तः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756