Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
२।१।१०
६९३/१३१५
(F-90) "दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदात् ।" परीक्षामु - ३।४७ । न्यायाप्र० पृ० १ । प्रमाणनय० ३ | ४१ । प्रमाणमी० १।२।२१ ।
(F-91) “साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । " परीक्षामु० ३।४८ । न्यायाप्र० पृ० १ न्यायाव० श्लो० १८ । प्रमाणनय० ३ | ४२-४३ । प्रमाणी० १।२।२२ ।
(F-92) “साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ।" परीक्षामु० ३।४९ । न्यायप्र० पृ० २ । न्यायाव० श्लो० १९ । प्रमाणनय० ३।४२, ४३ । प्रमाणमी० १।२।२२ । (F-93) “हेतुरुपसंहार उपनयः ।" परीक्षामु० ३।५० । प्रमाणनय० ३।४६, ४७ । प्रमाणमी० २।१।१४ ।
(F-94) "प्रतिज्ञायास्तु निगमनम् ।" परीक्षामु० ३।५१ । प्रमाणनय० ३ । ४८, ४९, प्रमाणमी० २।१।१५ ।
(F-95) “परिणामी शब्दः, कृतकत्वात् ।" परीक्षामु० ३।६५ । प्रमाणनय० ३ । ७३ । (F-96) “त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् । " न्यायवि० २।५ ।
(F-97) “न च सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधनलक्षणम्, स श्यामः तत्पुत्रत्वात् इतरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धम्, विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्मत्वम्, विपक्षे वाश्यामे क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च । न च तावता साध्यसाधनत्वं साधनस्य।” प्रमाणप० पृ० ७० । न्यायकुमु० पृ० ४४० । सन्मति० टी० पृ० ५९० । स्या० र० पृ० ५१८ । प्रमेयर० ३।१५ । प्रमाणमी० पृ० ४० ।
(F-98) "तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधनस्य सम्यक्त्वप्रतीतेः उदेष्यति शकटं कृतिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वॉव्यवस्थिते: ।" प्रमाणप० पृ० ७१ । तस्मात्प्रतीतिमाश्रित्य हेतुं गमकमिच्छता । पक्षधर्मत्वशून्योऽस्तु गमकः कृत्तिकोदयः । पल्वलोदकनैर्मल्यं तदागस्त्युदये स च । तत्र हेतुः सुनिर्णीतः पूर्वं शरदि सन्मत: । चन्द्रादौ जलचन्द्रादि सोऽपि तत्र तथाविधः । छायादिपादपादौच सोऽपि तत्र कदाचन ॥ तत्त्वार्थ श्लो० पृ० २०१ ।
(F-99) “नो हि शकटे धर्मिणि उदेष्यतायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्षधर्मत्वम्।" प्रमाणप० पृ० ७१ । न्यायकुमु० पृ० ४४० । प्रमेयक० पृ० ३५४ । स्या० र० पृ० ५१९ । प्रमेयर० ३ | १५ | प्रमाणमी० पृ० ४० ।
(F-100) “तथा न चन्द्रोदयात् समुद्रवृद्ध्यनुमानं चन्द्रोदयात् (पूर्वं पश्चादपि) तदनुमानप्रसङ्गात् ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e619782dd92cc7e6560dbaa993881d2e21255a40f2737230921b2f67ecde83cd.jpg)
Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756