Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
६९२/१३१४
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
स्ववृ० श्लो० १० । प्रमाणनय० ३ । १ । प्रमाणमी० १।२।३ ।
(F-81) “संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः । स देवदत्तः तथा ।" परीक्षामु० ३ ३ - ४ । “तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणमिति । तत्तीर्थकरबिम्बमिति यथेति ।” प्रमाणनय० ३।३ - ४ । प्रमाणप० पृ० ६९ । प्रमाणमी० १।२ । ३ ।
(F-82) "दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि । यथा स एवायं देवदत्तः । गोसदृशो गवयः । गोविलक्षणो महिषः । इदमस्माद् दूरम् । वृक्षोऽयमित्यादि ।" परीक्षामु० ३।५-१० । प्रमाणप० पृ० ६९ । प्रमाणनय० ३ | ४ - ६ । प्रमाणमी०
१।२।४
(F-83) “उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः . इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च । यथाग्नावेव धूमस्तदभावे न भवत्येवेति च ।" परीक्षामु० ३।११-१३ । " उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन्सत्येव भवतीत्याकारं संवेदनमूहापरनामा तर्क इति ।" प्रमाणनय० ३ । ७ । प्रमाणसं० का० १२ । प्रमाणप० पृ० ७० । प्रमाणमी० १।२।५ ।
(F-84) “तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमिति । " प्रमाणनय० ३।१० । (F-85) “अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् ।" न्यायाव० श्लो० २२ । “साधनं प्रकृताभावेऽनुपपन्नम् ।” प्रमाणसं पृ० १०२ । न्यायवि० श्लो० २६९ । तत्त्वार्थश्लो० पृ० २१४ । परीक्षमु० ३।१५ । तथा चाभ्यधायि कुमारनन्दिभट्टारकैः - अन्यथानुपपत्त्येकलक्षणं लिङ्गमङ्ग्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधत: || प्रमाणप० पृ० ७२ । प्रमाणनय० ३।११ ।
(F-86) "पक्ष: प्रसिद्धो धर्मी, प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः प्रत्यक्षाद्यविरुद्ध इति वाक्यशेष:।” न्यायप्रवे० पृ० १ । साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । न्यायाव० श्लो० १४ । स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्षः इति । न्यायवि० पृ० ७९ । साध्यं शक्यमभिप्रेतमप्रसिद्धम् । न्यायवि० श्लो० १७२ | परीक्षामु० ३ | १५ | प्रमाणनय० ३ | १२ | जैनतर्कभा० पृ० १३ । प्रमाणमी० १।२।१३ ।
(F-87) “साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी । पक्ष इति यावत् । प्रसिद्धो धर्मी ।" परीक्षामु० ३।२५-२७ । न्यायप्र० पृ० १ । प्रमाणमी० १।२।१५-१६ ।
(F-88) “त्रिरूपलिङ्गाख्यानं परार्थानुमानम् ।" न्यायवि० ३|१ | " साध्याविनाभुवो तोर्वच यत्प्रतिपादकम् । परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥" न्यायवा० श्लो० १३ । परीक्षामु० ३।५५ । प्रमाणमी० २।१।१ - २ । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारादिति । प्रमाणनय० ५।२३ ।
(F-89) “बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् । " परीक्षामु० ३।४६ । मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति । प्रमाणनय- ३।४२ । प्रमाणमी०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aaee39332cdd31b2dda8903f19903fbbac8dc87a5f904e5faa2d33de47531c33.jpg)
Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756