Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 721
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ) चन्द्रोदयकाल एव तदनुमानं तदैव व्याप्तेर्गृहीतत्वादिति चेत्, यद्येवं तत्कालसंबन्धित्वमेव साध्यसाधनयो:, तदा च स एव कालो धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्संबन्धीति कथमपक्षधर्मत्वम्।" प्रमाणवा० स्ववृ० टी० १।३ । ६९४/१३१६ (G-1) “कालादिधर्मिकल्पनायामतिप्रसङ्ग ।" प्रमाणसं० पृ० १०४ । “यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटत्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति मतम्, तदा धरित्रीधर्मिणी महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महानसधूमो महोदधौ अग्नि गमयेदिति न कश्चिचदपक्षधर्मो हेतुः स्यात् ।" प्रमाणप० पृ० ७१ । तत्त्वार्थश्लो० पृ० २०० । ‘“काककार्ण्यादेरपिप्रासादधावल्ये साध्ये जगतो धर्मित्वेन पक्षधर्मत्वस्य कल्पयितुं सुशकत्वात् । " न्यायकुमु० पृ० ४४० । सन्मति - टी० पृ० ५९१ । स्या० र० पृ० ५१९ । जैनतर्कभा० पृ० १२ । (G-2) "अनित्यः शब्दः श्रावणत्वात् सर्वं क्षणिकं सत्त्वात् इत्यादे: सपक्षे सत्त्वाभावेऽपि गमकत्वप्रतीतेः ।” न्यायकुमु० ४४० । (G-3) “आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ।" परीक्षामु० ३।९९ । प्रमाणनय० ४।९ । (G-4) “उपरचारादाप्तवचनं चेति । " प्रमाणनय० ४।२ । (G-5) "समस्त्यत्र प्रदेशे रत्नविधानं सन्ति रत्नसानुप्रभृतय इति ।" प्रमाणनय० ४ | ३ | (G-6) “यथा मेर्वादय: सन्ति ।" परीक्षामु० ३ । १०१ । (G-7) “अभिधेयं वस्तु यथावस्थितं यो जानाति यथाज्ञानं चाभिधत्ते स आप्त इति ।" प्रमाणनय० ४।४ । (G-8) “स च द्वेधा लौकिको लोकोत्तरश्चेति । लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिरिति । " प्रमाणनय० ४।६, ७ । (G-9) “तेन मुख्यसंव्यवहारेण... ।" सन्मति० टी० पृ० ५१५ । (G-10) “यद्यथैवाविसंवादि प्रमाणं तत्तथा मतम् ।" लघी० श्लो० २२ । सिद्धिवि० । तत्त्वार्थश्लो० पृ० १७० । अष्टसह० पृ० १६३ | सन्मति० टी० पृ० ५९५ । (G-11) “तिमिराद्युपप्लवज्ञानं चन्द्रादावविसंवादकं प्रमाणम् यथा तत्संख्यादौ विसंवादकत्वादप्रमाणं प्रमाणेतरव्यवस्थायाः तल्लक्षणत्वात् ।" लघी० स्ववृ० श्लो० २२ । येनाकारेण तत्त्वपरिच्छेदः तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयोरपि प्रायशः संकीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्य भूताकारावभासनात्, तथोपहताक्षादेरपि संख्यासंख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् । अष्टश० अष्टसह० पृ० २७७ । तत्त्वार्थ श्लो० पृ० १७० | सन्मति० टी० पृ० ५९५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756