Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 723
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ) (G-20) “बुद्धिपूर्वं क्रियां दृष्ट्वा स्वलेहेऽन्यत्र तद्ग्रहात् । मन्यते बुद्धिसद्भाव: सा न येषु न तेषु धीः ||" सन्तान० सि० श्लो० १ । त० वा० पृ० २६ । ६९६ / १३१८ (G-21) “अत एव सर्वे प्रत्यया अनालम्बना: प्रत्ययत्वात्स्वप्नप्रत्ययवदिति प्रमाणस्य परिशुद्धिः ।" प्रमाणवार्तिकालं ३ | ३३१ । (G-22) “उपन्ने वा विगए वा धुवे वा । " स्था० स्था० १० । “उत्पादव्ययध्रौव्ययुक्तं सत् ।” तत्त्व० सू० ५।३० । (G-23) “न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते स कत्रोदयादि सत् । " आप्तमी० श्लो० ५७ । (G-24) “उत्पादादयो हि परस्परमनपेक्षाः खपुष्पवन्न सन्त्येव । तथा हि-उत्पादः केवलो नास्ति स्थितिविगमरहितत्वाद्वियत्कुसुमवत् तथा स्थितिविनाशौ प्रतिपत्तव्यौ ।" अष्टश० अष्टसह० पृ० २११ । (G-25) "द्रव्यं हि नित्यमाकृतिरनित्य... सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमुद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या न भवति द्रव्यं पुनस्तदेव, आकृत्युपमर्देन द्रव्यमेवावशिष्यते ।" पात० महाभा० १ । १ । १ । योगभा० ४।१३ । वर्धमानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ||२१| हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ॥२२॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता ||२३|| मी० श्लो० पृ० ६१९ । (G-26) "तस्मादयमुत्पित्सुरेव विनश्यति नश्वर एव तिष्ठति, स्थास्नुरेवोत्पद्यते स्थितिरेवोत्पद्यते, विनाश एव तिष्ठति, उत्पत्तिरेव नश्यति, स्थितिरेव स्थास्यत्युत्पत्स्यते विनङ्क्ष्यति, विनाश एव स्थास्यत्युत्पत्स्यते विनङ्क्ष्यति उत्पत्तिरेवोत्पत्स्यते विनङ्क्ष्यति स्थास्यतीति न कुतश्चिदुपरमति ।" अष्टश० अष्टसह० पृ० ११२ । (G-27) “किमिदं कार्यत्वं नाम । स्वकारणसत्तासंबन्ध:, तेन सत्ता कार्यमिति व्यवहारात् ।" प्रश० व्यो० पृ० १२९ । (G-28) “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । " प्र० वा० २।३ । (G-29) “अथोत्पादव्ययध्रोव्ययुक्तं यत्तत्सदिष्यते । एषामेव न सत्त्वं स्यात् एतद्भावावियोगतः ।। यदा व्ययस्तदा सत्त्वं कथं तस्य प्रतीयते । पूर्वं प्रतीते सत्त्वं स्यात् तदा तस्य व्ययः कथम् ॥ ध्रौव्येऽपि यदि नास्मिन् धीः कथं सत्त्वं प्रतीयते । प्रतीतेरेव सर्वस्य तस्मात्सत्त्वं कुतो ऽन्यथा । तस्मान्न नित्यानित्यस्य वस्तुनः संभवः क्वचित् । अनित्यं नित्यमथवास्तु एकान्तेन युक्तिमत् ॥" प्रमाणवार्तिकालं० पृ० १४२ । 'ध्रौव्येण उत्पादव्यययोर्विरोधात्, एकस्मिन् धर्मिण्ययोगात् । " हेतुबि० टी० पृ० १४६ । “भावस्स णत्थि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756