________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ)
(G-20) “बुद्धिपूर्वं क्रियां दृष्ट्वा स्वलेहेऽन्यत्र तद्ग्रहात् । मन्यते बुद्धिसद्भाव: सा न येषु न तेषु धीः ||" सन्तान० सि० श्लो० १ । त० वा० पृ० २६ ।
६९६ / १३१८
(G-21) “अत एव सर्वे प्रत्यया अनालम्बना: प्रत्ययत्वात्स्वप्नप्रत्ययवदिति प्रमाणस्य परिशुद्धिः ।" प्रमाणवार्तिकालं ३ | ३३१ ।
(G-22) “उपन्ने वा विगए वा धुवे वा । " स्था० स्था० १० । “उत्पादव्ययध्रौव्ययुक्तं सत् ।” तत्त्व० सू० ५।३० ।
(G-23) “न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते स कत्रोदयादि सत् । " आप्तमी० श्लो० ५७ ।
(G-24) “उत्पादादयो हि परस्परमनपेक्षाः खपुष्पवन्न सन्त्येव । तथा हि-उत्पादः केवलो नास्ति स्थितिविगमरहितत्वाद्वियत्कुसुमवत् तथा स्थितिविनाशौ प्रतिपत्तव्यौ ।" अष्टश० अष्टसह० पृ० २११ ।
(G-25) "द्रव्यं हि नित्यमाकृतिरनित्य... सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमुद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या न भवति द्रव्यं पुनस्तदेव, आकृत्युपमर्देन द्रव्यमेवावशिष्यते ।" पात० महाभा० १ । १ । १ । योगभा० ४।१३ । वर्धमानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ||२१| हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ॥२२॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता ||२३|| मी० श्लो० पृ० ६१९ ।
(G-26) "तस्मादयमुत्पित्सुरेव विनश्यति नश्वर एव तिष्ठति, स्थास्नुरेवोत्पद्यते स्थितिरेवोत्पद्यते, विनाश एव तिष्ठति, उत्पत्तिरेव नश्यति, स्थितिरेव स्थास्यत्युत्पत्स्यते विनङ्क्ष्यति, विनाश एव स्थास्यत्युत्पत्स्यते विनङ्क्ष्यति उत्पत्तिरेवोत्पत्स्यते विनङ्क्ष्यति स्थास्यतीति न कुतश्चिदुपरमति ।" अष्टश० अष्टसह० पृ० ११२ ।
(G-27) “किमिदं कार्यत्वं नाम । स्वकारणसत्तासंबन्ध:, तेन सत्ता कार्यमिति व्यवहारात् ।" प्रश० व्यो० पृ० १२९ ।
(G-28) “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । " प्र० वा० २।३ ।
(G-29) “अथोत्पादव्ययध्रोव्ययुक्तं यत्तत्सदिष्यते । एषामेव न सत्त्वं स्यात् एतद्भावावियोगतः ।। यदा व्ययस्तदा सत्त्वं कथं तस्य प्रतीयते । पूर्वं प्रतीते सत्त्वं स्यात् तदा तस्य व्ययः कथम् ॥ ध्रौव्येऽपि यदि नास्मिन् धीः कथं सत्त्वं प्रतीयते । प्रतीतेरेव सर्वस्य तस्मात्सत्त्वं कुतो ऽन्यथा । तस्मान्न नित्यानित्यस्य वस्तुनः संभवः क्वचित् । अनित्यं नित्यमथवास्तु एकान्तेन युक्तिमत् ॥" प्रमाणवार्तिकालं० पृ० १४२ । 'ध्रौव्येण उत्पादव्यययोर्विरोधात्, एकस्मिन् धर्मिण्ययोगात् । " हेतुबि० टी० पृ० १४६ । “भावस्स णत्थि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org