________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
(G-12) “मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् ।" त० सू० ११९ ।
(G-13) "आद्ये परोक्षम् । " त० सू० १।११ ।
(G-14) “प्रत्यक्षमन्यत्" त० सू० १।१२ ।
(G-15) "अन्तर्व्याप्त्यैव साध्यस्य सिद्धौ बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ।" न्यायावता० श्लो० २० ।
६९५ / १३१७
(G-16) "सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासात् न चैव व्यवतिष्ठते ।" आप्तमी० श्लो० १५ ।
44
(G-17) 'अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति, स्कन्धेष्वष्टावपि यथासंभवमभिधानीया: ।" तत्त्वार्थाधि० भा० टी० ५।२३ ।
(G-18) "अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशं प्रत्यक्षम् ।" न्यायाव० श्लो० ४। " प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा ।" न्यायविनि० १ । ३ । प्रमाणप० पृ० ६७ । परीक्षामु० २।३ । पञ्चाध्यायी १।६१६ । न्यायाव० श्लो० ४। जैनतर्कवा० पृ० ९३ । प्रमाण० तत्त्वा० २।२ । प्रमाणमी० १।१।१३ ।
(G-19) “प्रत्यक्षं कल्पनापोढं नामजात्याद्यसंयुतम् ||३||" प्रमाणस० पृ० ८ । तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् । न्यायवि० पृ० १६ | तत्त्वसं० का० १२१४ । “इन्द्रियार्थसंनिकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।" न्या० सू० १|१|४ | "अक्षस्य अक्षस्य प्रतिविषयं वृत्ति: प्रत्यक्षम्, वृत्तिस्तु सन्निकर्षो ज्ञानं वा ।" न्यायभा० पृ० १७ । न्या० वा० पृ० २८ । सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् । न्यायसार पृ० २ । आत्मेन्द्रियार्थसंनिकर्षाद् यन्निष्पद्यते तदन्यत् । | वैशे० द० ३।१।१८ । “अक्षमक्षं प्रतीत्य उत्पद्यते इति प्रत्यक्षम् ... सर्वेषु पदार्थेषु चतुष्टयसंनिकर्षाद् अवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम् ।" प्रशस्तपा० पृ० १८६ । इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्, अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । मुक्तावली श्लो० ५२ । न्यायबो० ४७ । “साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् ।" न्यायसि० मं० पृ० २ । “प्रतिविषयाध्यवसायो दृष्टम् ।" सांख्यका० ५। “इन्द्रियप्रमाणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।" योगद० व्यासभा० पृ० २७ । यत्संबद्धं सत् तदाकारोल्लेखिविज्ञानं तत् प्रत्यक्षम् । सांख्यद ११८९ । सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षनिमित्तं विद्यमानोपलम्भनत्वात् । मीमां० द० १।१।४ । साक्षात्प्रतीति: प्रत्यक्षम् । प्रकरणपं० पृ० ५१ । तत्र प्रत्यक्षप्रमाया:- करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षत्वम् चात्र चैतन्यमेव ( पृ० १२) तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याऽभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । वेदान्तपरि० पृ० २६ | आत्मेन्द्रियमनोऽर्थात् संनिकर्षात् प्रवर्तते । व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते । चरकसं० ११।२० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org