Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 704
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) (E-40) “कारणं व्यापकाभावे निवृत्तिश्चेह युज्यते । हेतुमद्वयाप्तयोस्तस्मादुत्पत्तेरेकभावतः ॥३२७१।। कुशानुपादपाभावे धूमाम्रादिनिवृत्तिवत् । अन्यथाऽहेतुतैव स्यान्नानात्वं च प्रसज्यते ॥३२७२॥” तत्त्वसं० प० पृ० ८५१ । ६७७ / १२९९ (E-41) “नाप्यनुमानम्, धर्मि - साध्यसाधनानां स्वरूपाप्रसिद्धेः, तदबाधके ह्यनुमाने धर्मित्वेन, सर्वज्ञोऽभिप्रेतः सुगतः, सर्वपुरुषाः वा ? यदि सर्वज्ञः तदा किं तत्र साध्यम् - असत्त्वम्, असर्वज्ञत्वं वा । यद्यसत्त्वम्, किं तत्र साधनम् - अनुपलम्भ:, विरुद्धविधिः, वक्तृत्वादिकं वा । यद्यनुपलम्भ:, स किं सर्वज्ञस्य, तत्कारणस्य, तत्कार्यस्य, तद्व्यापकस्य वा । यदि सर्वज्ञस्य सोऽपि किं स्वसम्बन्धी, सर्वसम्बन्धी वा । स्वसम्बन्धी चेत्, सोऽपि किं निर्विशेषणः उपलब्धिलक्षणप्राप्तत्वविशेषणो वा ? " न्यायकुमु० पृ० ९१ स्या० रत्ना० पृ० ३८२ । किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेतः । आहोस्वित्सर्वपुरुषोपलम्भनिवृत्तिः । अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्राप्तस्येत्येतस्य विशेषणस्यानाश्रयणात् । आहोस्वित् सविशेषेण इति । तत्त्वसं० प० पृ० ८५० । (E-42) “सर्वसंबन्धिसर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥" त० ० पृ० १४ । श्लो० (E-43) “तथाहि-कश्चिदात्मा सकलार्थसाक्षात्कारी, तद्ग्रहणस्वभावकत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् ।" न्यायकुमु० ९१ । प्रमेयक० २५५ । स्या० रत्ना० पृ० २७० । प्रमेयरत्नमा० २।१२ । (E-44) “नापि विरुद्धविधिः यतः साक्षात्, परम्परया वा विरुद्धस्य विधिः सर्वज्ञाभावं प्रसाधयेत्।” -न्यायकुमु० पृ० ९२ । (E-45) “यद्वा-अर्थान्तरस्य साक्षात्पारम्पर्येण वा विरुद्धस्यैव विधानात्तन्निषेधः, नाविरुद्धस्य, तस्य तत्सहभावसंभवात् । यथा - नास्त्यत्र शीतस्पर्शो वह्नेरिति साक्षाद्विरुद्धस्य वह्नेर्विधानाच्छीतस्पर्शनिषेधः, तद्वत्सर्वज्ञनिषेधेऽपि स्यात् ।" तत्त्वसं० पृ० ८५२ । न्यायकुमु० पृ० ९२ । (E-46) "अयं च वक्तृत्वाख्यो हेतुः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणा इत्यत्रादिशब्देनाक्षिप्त एवेति ।.. तदत्रादिपदाक्षिप्तो वक्तृत्वे योऽभिमन्यते । निश्चयं व्यतिरेकस्य परस्परविरोधतः || ३३५९॥” तत्त्वसं० पृ० ८८१ । (E-47) “किंच, सर्वविदः प्रमाणविरुद्धार्थवक्तृत्वं हेतुत्वेन विवक्षितम्, तद्विपरीतम् वक्तृत्वमात्रं वा । " न्यायकुमु० पृ० ९३ । प्रमेयक० पृ० २६३ | सन्मति० टी० पृ० ४५ । स्या० रत्ना० पृ० ३८४ । प्रमेयरत्न० पृ० ५७ । (E-48) “उक्त्यादेर्दोषसंक्षयः । नेत्येके व्यतिरेकोऽस्य संदिग्धाव्यभिचार्य्यतः ।" प्र० वा० १।१४३ “उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं मतम् । तदानीमा श्रयासिद्धः सन्दिग्धासिद्धताऽथवा ||३३७१॥ अस्य चार्थस्य सन्देहात्सन्दिग्धासिद्धता स्थिरा ।" तत्त्वसं० पृ० ८८४ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756