Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 710
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) (F-2) “गुणवान् शब्दः स्पर्श - अल्पत्व- महत्त्वपरिमाण-संख्या-संयोगाश्रयत्वात्, यद् एवंविधं तद् गुणवत् यथा बदर-आमलकादि, तथा च शब्दः, तस्मात्तथा इति ।" न्यायकुमु० पृ० २४३ । (F-3) “मिथ्यादर्शनाविरतिप्रमादकषाययोगः बन्धहेतवः । " त० सू० । (F-4) “स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रै: ।" त० सू० ९।२ । (F-5) “आस्रवनिरोधः संवरः ।" त० सू० ९।१ । (F-6) “प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ।" त० सू० ८।३ । (F-7) “आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । " त० सू० ८।४ । (F-8) “पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ।" त० सू० ८५ । (F-9) “नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः ।" प्रश० व्यो० पृ० ६३८ । न्यायमं० पृ० ५०८ । (F-10) "नवानामात्मगुणानां संतानोऽत्यन्तमुच्छिद्यते, संतानत्वात्, यो यः संतानः सः सोऽत्यन्तमुच्छिद्यमानो दृष्टः यथा प्रदीपसंतान:, तथाचायं सन्तानः, तस्माद् अत्यन्तमुच्छिद्यते ।" प्रश० व्यो० पृ० २० क० । “दुःखसंततिरत्यन्तमुच्छिद्यते संततित्वात् प्रदीपसंततिवदित्याचार्याः ।" प्रश० किर० पृ० ९ । ६८३/१३०५ (F-11) “यदा तु तत्त्वज्ञानात् मिथ्याज्ञानमपैति तथा मिथ्याज्ञानापाये दोषा अपयान्ति दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति जन्मापाये दुःखमपैति, दुःखापाये चात्यन्तिकोऽपवर्गो निश्रेःयसमिति।” न्यायभा० १।१।२ | “निवृत्ति च मिथ्याज्ञाने तन्मूलत्वाद्रागादयो नश्यन्ति कारणाभावे कार्यस्यानुत्पादादिति । रागाद्यभावे च तत्कार्यप्रवृत्तिर्व्यावर्तते, तदभावे च धर्माधर्मयोरनुत्पत्तिः । आरब्धकार्ययोश्चोपभोगात् प्रक्षयः।” प्रश० व्यो० पृ० २०क० । (F-12) यस्मादात्मन: "सर्वथा भिन्नानां बुद्ध्यादिविशेषगुणानां संतानस्य उच्छेदः प्रसाध्यते, अथ अभिन्नानाम्, कथंचिद्भिन्नानां वा ? " न्यायकुमु० पृ० ८२५ । प्रमेयक० पृ० ३१७ । (F-13) " किंच, अतोऽनुमानात् इन्द्रियजानां बुद्ध्यादिविशेषगुणानामत्यन्तोच्छेदः साध्येत, अतीन्द्रियाणां वा ।" न्यायकुमु० पृ० ८२७ । (F-14) “अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतमः ।" संबन्धवा० श्लो० ४२३ | विवरणप्र० पृ० १३७ । " वरं वृन्दावने रम्ये श्रृगालत्वं प्रपद्यते ।" न्यायकुमु० पृ० ८२८ । “वरं वृन्दावने रम्ये क्रोष्टृत्वमभिवाञ्छितम् ।" स्या० मं० पृ० ८६ । (F-15) “प्राणस्य क्षुप्तिपासे द्वे लोभमोहौ च चेतसः । शीतातपौ शरीरस्य षडूर्मिरहितः शिवः || ” न्यायम० प्रमे० पृ० ७७ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756