Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 713
________________ ६८६ / १३०८ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) न्यायकुमु० पृ० ८४७ । (F-39) “तत: स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकादिवत् ।" न्यायकुमु० पृ० ८७६ । (F-40) “निर्वाणकारणज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्, सप्तमपृथिवीगमनकारणाऽपुण्यपरमप्रकर्षवत् । " न्यायकुमु० पृ० ८६० । प्रमेयक० पृ० ३२८ । (F-41) “सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनापश्चिमतनवो न तां यान्ति ॥” स्त्रीमु० श्लो० ५ । सन्मति० टी० पृ० ७५३ । प्रज्ञा० मलय० पृ० २ । नन्दि० मलय० पृ० १३२ । रत्नाकराव० ७।५७ । शास्त्रवा० यशो० पृ० ४२८ । युक्तिप्र० पृ० ११५ । (F-42) "विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताहेतुः ||" स्त्रीमु० श्लो० ६ । " अपि च भुजपरिसर्पाः द्वितीयामेव पृथिवीं यावत् गच्छन्ति न परत: परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् तृतीयां यावत् पक्षिणः । चतुर्थी चतुष्पदाः पञ्चमीमूरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद् गच्छन्ति । तत्राधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च न तद्वैषम्यम् । " प्रज्ञा० मलय० पृ० २९ । नन्दि० मलय० पृ० १३३ शास्त्रवा० यशो० पृ० ४२८ । युक्तिप्र० पृ० १९५ । (F-43) " ततो यत्र ऐहिकवादिविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषो नास्ति तत्र मोक्षहेतुरसौ भविष्यतीति कः सुधी श्रद्दधीत् ?" न्यायकुमु० पृ० ८७२ । प्रमेयक० पृ० ३३० । (F-44) “वादादिविकुवर्णत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमन:पर्ययविरहेऽपि न सिद्धिविरहोऽस्ति || वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्ध्यभावोऽपि । तासामवारयिष्यद् यथैव जम्बूयुगादारात् । " स्त्रीमु० श्लो० ७-८ । प्रज्ञा० मलय० पृ० २१ । रत्नकराव० ७।५७ । माषतुषादीनां लब्धिविशेषहेतुसंयमाभावेऽपि मोक्षहेतुतच्छ्रवणात् क्षायोपशमिक लब्धिविरहेऽपि क्षायिकलब्धेरप्रतिघातात् । शास्त्रवा० यशो० पृ० ४२७ । (F-45) “स्त्रीणां न निर्वाणपदप्राप्तिः यतिगृहिदेववन्द्यपदाऽनर्हत्वात्, नपुंसकादिवत् । " न्यायकुमु० पृ० ८७५ । (F-46) “अप्रतिबन्द्यत्वाच्चेत्संयतवर्गेण नायिकासिद्धिः । वन्दतां ता यदि ते नोनत्वं कल्प्यते तासाम् || सन्त्यूना: पुरुषेभ्यस्ताः स्मारणचारणादिकारिभ्यः । तीर्थकराकारिभ्यो न च जिनकल्पादिरिति गणधरादीनाम् । अर्हन् न वन्दते न तावताऽसिद्धिरंगगते । प्राप्तान्यथा विमुक्तिः स्थानं स्त्रीपुंसयोस्तुल्यम् ॥” स्त्रीमु० श्लो० २४- २६ । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिः तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । सन्मति० टी० पृ० ७५४ । रत्नाकराव० ७।५७ | शास्त्रवा० यशो० पृ० ४२९ । युक्तिप्र० पृ० ११४ । (F-47) “इतश्च तत्सिद्धम् यतः सारणवारणपरिचोदनादीनि स्त्रीणां पुरुषाः कुर्वन्ति न स्त्रियः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756