________________
६८६ / १३०८
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
न्यायकुमु० पृ० ८४७ ।
(F-39) “तत: स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकादिवत् ।" न्यायकुमु० पृ० ८७६ । (F-40) “निर्वाणकारणज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्, सप्तमपृथिवीगमनकारणाऽपुण्यपरमप्रकर्षवत् । " न्यायकुमु० पृ० ८६० । प्रमेयक० पृ० ३२८ ।
(F-41) “सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनापश्चिमतनवो न तां यान्ति ॥” स्त्रीमु० श्लो० ५ । सन्मति० टी० पृ० ७५३ । प्रज्ञा० मलय० पृ० २ । नन्दि० मलय० पृ० १३२ । रत्नाकराव० ७।५७ । शास्त्रवा० यशो० पृ० ४२८ । युक्तिप्र० पृ० ११५ ।
(F-42) "विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताहेतुः ||" स्त्रीमु० श्लो० ६ । " अपि च भुजपरिसर्पाः द्वितीयामेव पृथिवीं यावत् गच्छन्ति न परत: परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् तृतीयां यावत् पक्षिणः । चतुर्थी चतुष्पदाः पञ्चमीमूरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद् गच्छन्ति । तत्राधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च न तद्वैषम्यम् । " प्रज्ञा० मलय० पृ० २९ । नन्दि० मलय० पृ० १३३ शास्त्रवा० यशो० पृ० ४२८ । युक्तिप्र० पृ० १९५ ।
(F-43) " ततो यत्र ऐहिकवादिविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषो नास्ति तत्र मोक्षहेतुरसौ भविष्यतीति कः सुधी श्रद्दधीत् ?" न्यायकुमु० पृ० ८७२ । प्रमेयक० पृ० ३३० ।
(F-44) “वादादिविकुवर्णत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमन:पर्ययविरहेऽपि न सिद्धिविरहोऽस्ति || वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्ध्यभावोऽपि । तासामवारयिष्यद् यथैव जम्बूयुगादारात् । " स्त्रीमु० श्लो० ७-८ । प्रज्ञा० मलय० पृ० २१ । रत्नकराव० ७।५७ । माषतुषादीनां लब्धिविशेषहेतुसंयमाभावेऽपि मोक्षहेतुतच्छ्रवणात् क्षायोपशमिक लब्धिविरहेऽपि क्षायिकलब्धेरप्रतिघातात् । शास्त्रवा० यशो० पृ० ४२७ ।
(F-45) “स्त्रीणां न निर्वाणपदप्राप्तिः यतिगृहिदेववन्द्यपदाऽनर्हत्वात्, नपुंसकादिवत् । " न्यायकुमु० पृ० ८७५ ।
(F-46) “अप्रतिबन्द्यत्वाच्चेत्संयतवर्गेण नायिकासिद्धिः । वन्दतां ता यदि ते नोनत्वं कल्प्यते तासाम् || सन्त्यूना: पुरुषेभ्यस्ताः स्मारणचारणादिकारिभ्यः । तीर्थकराकारिभ्यो न च जिनकल्पादिरिति गणधरादीनाम् । अर्हन् न वन्दते न तावताऽसिद्धिरंगगते । प्राप्तान्यथा विमुक्तिः स्थानं स्त्रीपुंसयोस्तुल्यम् ॥” स्त्रीमु० श्लो० २४- २६ । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिः तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । सन्मति० टी० पृ० ७५४ । रत्नाकराव० ७।५७ | शास्त्रवा० यशो० पृ० ४२९ । युक्तिप्र० पृ० ११४ ।
(F-47) “इतश्च तत्सिद्धम् यतः सारणवारणपरिचोदनादीनि स्त्रीणां पुरुषाः कुर्वन्ति न स्त्रियः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org