SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) (F-27) “प्रकृतेर्जडतया इत्थं विज्ञानानुपपत्तेः " न्यायकुमु० ८२२ । श्रुतमयी श्रूयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेन "तत्र (F-28) श्रुतशब्दवाच्यतामास्कन्दता निर्वृत्ता परं प्रकर्षं प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिन्तया निवृत्तां चिन्तमयीभावनामारभते ।" आप्तप० का० ८३ । ६८५/१३०७ (F-29) “फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात्तत: (क्षय) ।। फलं कथंचित्तज्जन्याल्पं स्यात् न विजातिमत् । अथापि तपसः शक्त्या शक्तिसंकरसंक्षयैः । क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशत: । यदीष्टमपरं क्लेशात् तत्तपः क्लेश एव चेत् । तत् कर्मफलमित्यस्मात् न शक्तेः संकरादिकम् ॥" प्र० वा० १।२७६ - ७८ । (F-30) “उद्धृतौ इमौ ।” न्यायकुमु० पृ० ८४१ । स्या० र० पृ० १११८ । (F-31) "किन्तु अज्ञो जनः दुःखाननुषक्तसुखसाधनमपश्यन् आत्मस्नेहात् सांसारिकेषु दुःखानुषक्तसुखसाधनेषु प्रवर्तते । हिताहितविवेकस्तु ।" न्यायकुमु० पृ० ८४२ । स्या० र० पृ० १११८ । 44 (F-32) “क्षणिकादिभावनाया मिथ्यारूपत्वात्, न च मिथ्याज्ञानस्य निःश्रेयसकारणत्वमतिप्रसङ्गात्।” प्रश० व्यो० पृ० २० घ० । 'भावनाया विकल्पात्मिकायाः " श्रुतमय्याश्चिन्तामय्याश्चावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् । कुतश्चिदतत्त्वविषयाद् विकल्पज्ञानात्तत्वविषयस्य ज्ञानस्यानुपलब्धेः । आप्तप० का ० ८३ | तत्त्वार्थश्लो० पृ० २१ । षड्द० बृह० श्लो० ५२ । न्यायकुमु० पृ० ८४२ । (F-33) "न बन्धमोक्षो क्षणिकैकसंस्थौ - क्षणिकमेकं यच्चितं तत्संस्थौ बन्धमोक्षौ न स्याताम् । यस्य चित्तस्य बन्ध: निरन्वयप्रणाशादुत्तरचित्तस्याबद्धस्यैव मोक्षप्रसङ्गात् । यस्यैव बन्धः तस्यैव मोक्ष इति एक चित्तसंस्थौ बन्धमोक्षौ ।" युक्त्यनु० टी० पृ० ४१ । न्यायकुमु० पृ० ८४२ । (F-34) " इह च कस्तथाविधो मार्गाभ्यासे प्रवर्तमानः मोक्षो मम स्यात् । इत्यनुसंदध्यात् क्षणः संतानो वा ।" न्यायकुमु० पृ० ८४२ । (F-35) “अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः । " आप्तमी० का० ५२ । युक्त्यनु० टी पृ० ४० । निर्हेतुकतया विनाशस्य उपायवैयर्थ्यम्, अयत्नसाध्यत्वात् । प्रश० व्यो० पृ० २० । न्यायकुमु० पृ० ८४३ । (F-36) " तेन हि प्राक्तनस्य रागादिचित्तलक्षणस्य नाशः क्रियते, भाविनो वानुत्पादः तदुत्पादकशक्तेर्वा क्षय: संतानस्य वोच्छेदः अनुत्पादो वा, निरास्रवचितसंतत्युत्पादो वा ।" न्यायकुमु० पृ० ८४२ । (F-37) "केवलं सा चित्तसंततिः सान्वया, निरन्वया वा इति वक्तव्यम् ।" न्यायकुमु० पृ० ८४४ । (F-38) “हिंसादिविरतिलक्षणवृत्तोपबृंहकस्य कायक्लेशकर्मफलत्वेऽपि तपस्त्वाविरोधात् ।” www.jainelibrary.org Jain Education International For Personal & Private Use Only
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy