________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, (साक्षीपाठ)
(F-16) "तस्य च न ह वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगो ममेति मन्यमानस्य अपहतिर्विनाश उच्छेदः संततिरूपयीर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रियेन स्पृशतः । स्पृशि: प्रत्येकं संबध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति... धर्माधर्मकार्ये हि ते, अशरीरता तु स्वरूपमिति तत्र धर्माधर्मरसंभवात्तत्कार्यभावी दूरत एवेत्यतो न प्रियाप्रिये स्पृशत: ॥” छान्दो० शां० भा० ।
६८४/१३०६
(F-17) "तदेतत्प्रेय: पुत्रात्प्रेयः अन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा आत्मानमेव प्रियमुपासीत" बृहदा० १।४८ । " एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥" सर्ववेदान्तसि० श्लो० ६२७ । " आत्मा सुखाभिन्नः सुखलक्षणवत्त्वाद् वैषयिकसुखवत् आत्मा सुखम् अनौपाधिकप्रेमगोचरत्वात् ।" संक्षेपशा० टी० पृ० ३० - ३१ । “परमप्रेमास्पदत्वानुपपत्तिरप्यात्मनः सुखरूपत्वे प्रमाणम् ।" चित्सु० पृ० ३५८ । सिद्धान्त वि० पृ० ४४५ ।
(F-18) "वित्तस्त्रीपुत्रादयो हि आत्मार्थमुपादीयन्ते परं चात्मन उपादानं तु नान्यार्थम् स्वयमात्मा आत्मार्थमेवोपादीयते इत्यर्थः । प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमं परः ।” सर्ववेदान्तसि० श्लो० ६३० ।
(F-19) “इष्टार्थो मुमुक्षुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृष्यादि प्रयत्नवत् इति ।" न्यायकुमु० पृ०
८३१ ।
(F-20) "मोक्षेऽभिपद्यते" प्रश० व्यो० पृ० २० ख । " आनन्दं ब्राह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्।' वेदान्तसि० पृ० १५१ । तुलना - नित्यं सुखामात्मानो महत्त्ववन्मोक्षेऽभिव्यज्यते । न्यायभा० १।१।२२ । न्याय० मं० पृ० ५०९ । प्रकृतपाठः सन्मति० टी - पृ० १५९ । न्यायकुमु० पृ० ८३ । (F-21) “उद्धृतोऽयम्” न्यायकुमु० पृ० ८३१ ।
(F-22) "सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।" भगवद्गी० ६ । २१ । यो० सि० ३| १५ |
(F-23) “तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग् ज्ञानमुत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान्निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयमसाध्वी मां मोहयति तस्मान्न ममानया कार्यमितिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति ।" सांख्य० माठरवृ० श्लो० ६१ ।
(F-24) ‘“चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च ।" योगभा० १।२ । (F-25) "तत्र केयं विवेकख्यातिर्नाम प्रकृतिपुरुषयोः स्वेन स्वेन रूपेणावस्थितयोः भेदेन प्रतिभासनमिति चेत्, सा कस्य - प्रकृतेः, पुरुषस्य तद्व्यतिरिक्तस्य वा कस्यचित् ।" न्यायकुमु० पृ० ८२१। (F-26) "तस्या: असंवेद्यपर्वणि स्थितत्वात् अचिद्रूपत्वात्, अनभ्युपगमाच्च ।" न्यायकुमु० पृ०
८२२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org