________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
(F-2) “गुणवान् शब्दः स्पर्श - अल्पत्व- महत्त्वपरिमाण-संख्या-संयोगाश्रयत्वात्, यद् एवंविधं तद् गुणवत् यथा बदर-आमलकादि, तथा च शब्दः, तस्मात्तथा इति ।" न्यायकुमु० पृ० २४३ । (F-3) “मिथ्यादर्शनाविरतिप्रमादकषाययोगः बन्धहेतवः । " त० सू० । (F-4)
“स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रै: ।" त० सू० ९।२ । (F-5) “आस्रवनिरोधः संवरः ।" त० सू० ९।१ ।
(F-6) “प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ।" त० सू० ८।३ ।
(F-7) “आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । " त० सू० ८।४ । (F-8) “पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ।" त० सू० ८५ । (F-9) “नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः ।" प्रश० व्यो० पृ० ६३८ । न्यायमं० पृ० ५०८ ।
(F-10) "नवानामात्मगुणानां संतानोऽत्यन्तमुच्छिद्यते, संतानत्वात्, यो यः संतानः सः सोऽत्यन्तमुच्छिद्यमानो दृष्टः यथा प्रदीपसंतान:, तथाचायं सन्तानः, तस्माद् अत्यन्तमुच्छिद्यते ।" प्रश० व्यो० पृ० २० क० । “दुःखसंततिरत्यन्तमुच्छिद्यते संततित्वात् प्रदीपसंततिवदित्याचार्याः ।" प्रश० किर० पृ० ९ ।
६८३/१३०५
(F-11) “यदा तु तत्त्वज्ञानात् मिथ्याज्ञानमपैति तथा मिथ्याज्ञानापाये दोषा अपयान्ति दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति जन्मापाये दुःखमपैति, दुःखापाये चात्यन्तिकोऽपवर्गो निश्रेःयसमिति।” न्यायभा० १।१।२ | “निवृत्ति च मिथ्याज्ञाने तन्मूलत्वाद्रागादयो नश्यन्ति कारणाभावे कार्यस्यानुत्पादादिति । रागाद्यभावे च तत्कार्यप्रवृत्तिर्व्यावर्तते, तदभावे च धर्माधर्मयोरनुत्पत्तिः । आरब्धकार्ययोश्चोपभोगात् प्रक्षयः।” प्रश० व्यो० पृ० २०क० ।
(F-12) यस्मादात्मन: "सर्वथा भिन्नानां बुद्ध्यादिविशेषगुणानां संतानस्य उच्छेदः प्रसाध्यते, अथ अभिन्नानाम्, कथंचिद्भिन्नानां वा ? " न्यायकुमु० पृ० ८२५ । प्रमेयक० पृ० ३१७ ।
(F-13) " किंच, अतोऽनुमानात् इन्द्रियजानां बुद्ध्यादिविशेषगुणानामत्यन्तोच्छेदः साध्येत, अतीन्द्रियाणां वा ।" न्यायकुमु० पृ० ८२७ ।
(F-14) “अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतमः ।" संबन्धवा० श्लो० ४२३ | विवरणप्र० पृ० १३७ । " वरं वृन्दावने रम्ये श्रृगालत्वं प्रपद्यते ।" न्यायकुमु० पृ० ८२८ । “वरं वृन्दावने रम्ये क्रोष्टृत्वमभिवाञ्छितम् ।" स्या० मं० पृ० ८६ ।
(F-15) “प्राणस्य क्षुप्तिपासे द्वे लोभमोहौ च चेतसः । शीतातपौ शरीरस्य षडूर्मिरहितः शिवः || ” न्यायम० प्रमे० पृ० ७७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org