Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
पृ० २९० । नयवि० पृ० १५२ । तन्त्ररह० पृ० १३ । प्रभाकरवि० पृ० ५३ ।
(F-58) "शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात् ।" प्रश० भा० कन्द० पृ० २१३ । " शब्द ऐतिह्यानर्थान्तरभावाद् अनुमानेऽर्थापत्तिसंभवानर्थान्तरभावाच्चाप्रतिषेधः । न्यायसू० २।२।२ । प्रत्यक्षेणाप्रत्यक्षस्य संबद्धस्य प्रतिपत्तिरनुमानं तथा चार्थापत्तिसंभवाभावाः । वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणमर्थापत्तिरनुमानमेव । न्यायभा० २।२।२ । न्यायवा० पृ० २७६ । न्यायली० पृ० ५७ । न्यायकुमु० ३।१९ । तत्त्वार्थश्लो० पृ० २१७ । प्रमेयक० पृ० १९३ न्यायकुमु० पृ० ५१३ | सन्मति टी० पृ० ५८५ । जैनतर्कवा० पृ० ७७ । स्या० २० पृ० २८३ । रत्नाकराव० २।१ । दर्शनार्थादर्थापत्तिर्विरोध्येव श्रवणादनुमितानुमानम् । प्रश० भा०, कन्द० पृ० २२३ ।
(F-59) “प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिमाणो वा विज्ञानं वान्यवस्तुनि ॥" मी० श्लो० अभाव० श्लो० ११ ॥
६८९/१३११
(F-60) "अभावोऽप्यनुमानमेव यथोत्पन्नं कार्यं कारणसद्भावे लिङ्गम्, एवमनुत्पन्नं कार्यं कारणसद्भावे लिङ्गम्।" प्रश० भा० पृ० ५७७ । तुलना प्रत्यादिनैवाभावस्य प्रतीते:, तथा चाक्षव्यापारादिह भूतले घटो नास्तीति ज्ञानमपरोक्षमुत्पद्यमानं दृष्टम् । प्रश० व्यो० पृ० ५९२ । प्रश० शब्द० पृ० २२६ । “शब्दे ऐतिह्यानर्थान्तरभावात् अनुमानोऽर्थापत्तिसंभवोभावानर्थान्तरभावाच्चाप्रतिषेधः ।" न्यायसू० २।२।६ । " अभावोऽप्यनुमानमेव" न्यायवा० पृ० २७६ । सत्यमभावः प्रमेयमभ्युपगम्यते प्रत्यक्षाद्यवसीयमानस्वरूपत्वान्न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते । अदूरमेदिनिदेशवर्तिनस्तस्य चक्षुषा । परिच्छेदः परोक्षस्य क्वचिन्मानान्तरैरपि ॥ न्यायमं० पृ० ५१ । अन्यस्य घटादिविविक्तस्य भूतलस्योपलब्ध्या घटानुपलब्धिरिति प्रत्यक्षसिद्धानुपलब्धिः । एतदुक्तं भवति घटग्राहकत्वस्य भूतलग्राहकत्वस्य चैकज्ञानसंसर्गित्वात् यदा भूतलग्राहकमेव तज्ज्ञानं भवति तदा-घटग्राहकत्वाभावं निश्चाययतीति प्रतीतिप्रत्यक्षसिद्धैव घटानुपलब्धिः । प्रमाणवा० स्ववृ० टी० १।६ । तत्त्वसं० पृ० ४७५ । तत्त्वार्थश्लो० पृ० १८२ । न्यायकुमु० पृ० ४६८ । स्या० र० पृ० ३१० । न्यायावा० टी० टि० पृ० २१ ।
(F-61) "अभावोऽप्यनुमानमेव, यथा उत्पन्नं कार्यं कारणसद्भावे लिङ्गम्, एवमनुत्पन्नं कार्यं कारणसद्भावे लिङ्गम् ।" प्रश० भा०, कन्द० पृ० २२५ । कश्चित्पुन्नरसंनिकृष्टदेशवृत्तिरनुमेयोऽपि भवत्यभावः । न्यायमं० पृ० ५४ । न्यायकुमु० पृ० ४६९ ।
(F-62) "संभवोऽप्यविनाभावित्वादनुमानमेव" प्रश० भा०, कन्द० पृ० २२५ । संभवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणं यथा - द्रोणस्य सत्ताग्रहणादाढकस्य सत्ता ग्रहणम्, आढकस्य ग्रहणात् प्रस्थस्येति । न्यायभा० २।२।१ ।
(F-63) “ऐतिह्यमर्थापत्तिः संभवोऽभाव इत्येतान्यपि प्रमाणानि तानि कस्मान्नोक्तानि । इति होचुः इत्यनिर्दिष्टप्रवक्तृकं-प्रवादपारंपर्यम् ऐतिह्यम् ।" न्यायभा० २।२।१ । '''" तथैवैतिह्यमप्यवितथमाप्तोपदेश
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org
Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756