Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
(F-27) “प्रकृतेर्जडतया इत्थं विज्ञानानुपपत्तेः " न्यायकुमु० ८२२ । श्रुतमयी श्रूयमाणेभ्यः
परार्थानुमानवाक्येभ्यः
समुत्पद्यमानेन
"तत्र
(F-28) श्रुतशब्दवाच्यतामास्कन्दता निर्वृत्ता परं प्रकर्षं प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिन्तया निवृत्तां चिन्तमयीभावनामारभते ।" आप्तप० का० ८३ ।
६८५/१३०७
(F-29) “फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात्तत: (क्षय) ।। फलं कथंचित्तज्जन्याल्पं स्यात् न विजातिमत् । अथापि तपसः शक्त्या शक्तिसंकरसंक्षयैः । क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशत: । यदीष्टमपरं क्लेशात् तत्तपः क्लेश एव चेत् । तत् कर्मफलमित्यस्मात् न शक्तेः संकरादिकम् ॥" प्र० वा० १।२७६ - ७८ ।
(F-30) “उद्धृतौ इमौ ।” न्यायकुमु० पृ० ८४१ । स्या० र० पृ० १११८ ।
(F-31) "किन्तु अज्ञो जनः दुःखाननुषक्तसुखसाधनमपश्यन् आत्मस्नेहात् सांसारिकेषु दुःखानुषक्तसुखसाधनेषु प्रवर्तते । हिताहितविवेकस्तु ।" न्यायकुमु० पृ० ८४२ । स्या० र० पृ० १११८ ।
44
(F-32) “क्षणिकादिभावनाया मिथ्यारूपत्वात्, न च मिथ्याज्ञानस्य निःश्रेयसकारणत्वमतिप्रसङ्गात्।” प्रश० व्यो० पृ० २० घ० । 'भावनाया विकल्पात्मिकायाः " श्रुतमय्याश्चिन्तामय्याश्चावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् । कुतश्चिदतत्त्वविषयाद् विकल्पज्ञानात्तत्वविषयस्य ज्ञानस्यानुपलब्धेः । आप्तप० का ० ८३ | तत्त्वार्थश्लो० पृ० २१ । षड्द० बृह० श्लो० ५२ । न्यायकुमु० पृ० ८४२ ।
(F-33) "न बन्धमोक्षो क्षणिकैकसंस्थौ - क्षणिकमेकं यच्चितं तत्संस्थौ बन्धमोक्षौ न स्याताम् । यस्य चित्तस्य बन्ध: निरन्वयप्रणाशादुत्तरचित्तस्याबद्धस्यैव मोक्षप्रसङ्गात् । यस्यैव बन्धः तस्यैव मोक्ष इति एक चित्तसंस्थौ बन्धमोक्षौ ।" युक्त्यनु० टी० पृ० ४१ । न्यायकुमु० पृ० ८४२ ।
(F-34) " इह च कस्तथाविधो मार्गाभ्यासे प्रवर्तमानः मोक्षो मम स्यात् । इत्यनुसंदध्यात् क्षणः संतानो वा ।" न्यायकुमु० पृ० ८४२ ।
(F-35) “अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः । " आप्तमी० का० ५२ । युक्त्यनु० टी पृ० ४० । निर्हेतुकतया विनाशस्य उपायवैयर्थ्यम्, अयत्नसाध्यत्वात् । प्रश० व्यो० पृ० २० । न्यायकुमु० पृ० ८४३ ।
(F-36) " तेन हि प्राक्तनस्य रागादिचित्तलक्षणस्य नाशः क्रियते, भाविनो वानुत्पादः तदुत्पादकशक्तेर्वा क्षय: संतानस्य वोच्छेदः अनुत्पादो वा, निरास्रवचितसंतत्युत्पादो वा ।" न्यायकुमु० पृ०
८४२ ।
(F-37) "केवलं सा चित्तसंततिः सान्वया, निरन्वया वा इति वक्तव्यम् ।" न्यायकुमु० पृ० ८४४ । (F-38) “हिंसादिविरतिलक्षणवृत्तोपबृंहकस्य कायक्लेशकर्मफलत्वेऽपि तपस्त्वाविरोधात् ।”
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f14936c5d8fdc76c93e860c21010209c17e732f62a3c5ecfb3c16d299ae953c6.jpg)
Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756