Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 706
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ) ६७९/१३०१ (E-58) “एगेण कारणेण दु सादस्सेव दुणिरंतरो उदओ। तेणासादणिमित्ता परीसहा जिणवरेणत्थि ।।" गो० कर्म० गा० २७५ । "घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । यथा विषद्रव्यं मन्त्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं न मरणाय कल्प्यते तथा ध्यानानलनिर्दग्धघातकर्मेन्धन-- स्यानन्ताप्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावन्निरन्तरमुपचीयमानशुभपुद्गलसन्ततेर्वेदनीयाख्यं कर्म सदपि प्रक्षीणसहायबलं स्वयोग्यप्रयोजनोत्पादानं प्रत्यसमर्थमिति क्षुधाद्यभावः, तत्सद्भावोपचारात् ध्यानकल्पनवत् ।" त० वा० ९।११ । “अविकलसामर्थ्य ह्यसातादिवेदनीयं स्वकार्यकारि, सामर्थ्यवैकल्यं च मोहनीयकर्मणो विनाशात्सुप्रसिद्धम् । यथैव हि पतिते सैन्यनायकेऽसामर्थ्य सैन्यस्य तथा मोहनीयकर्मणि नष्टे भगवत्यसामर्थ्यमघातिकर्मणाम् । यथा च मन्त्रेण निर्विषीकरणे कृते मन्त्रिणोपभुज्यमानमपि विषं न दाहमूर्छादिकं कर्तुं समर्थम् तथा असातादिवेदनीयं विद्यमानोदयमप्यसति मोहनीये नि:सामर्थ्यत्वान्नक्षुदुःखकरणे प्रभुसामग्रीतः कार्योत्पत्तिप्रसिद्धेः ।" प्रमेयक० पृ० ३०३ । न्यायकुमु० पृ० ८५९ । रत्नक० टी० पृ० ६ । प्रव० टी० पृ० २८ । (E-59) "नापि क्षुद्वेदना प्रतीकारार्थं, अनन्तसुखवीर्ये भगवत्यस्याः सम्भवाभावस्योक्तत्वात् ।" प्रमेयक० पृ० ३०६ ।न्यायकुमु० पृ०८६०। “यदि क्षुधाबाधास्ति तहि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति, तथैव क्षुधा दुःखितस्य अनन्तसुखमपि नास्ति ।" प्रव० टी० पृ० २८ । (E-60) "नापि ज्ञानादिसिद्ध्यर्थम्, यतो ज्ञानं तस्याखिलार्थविषयमक्षयस्वरूपम्, संयमश्च यथाख्यातः सर्वदा विद्यते ।" प्रमेयक० पृ० ३०६ । (E-61) "नापि आयुषोऽसाधितमुक्तिकस्य अपवर्तननिवृत्त्यर्थम्, चरमोत्तमदेहानामनपवायुष्कत्वादेव तथाविधस्यास्य अपवर्तनानुपपत्तेः।"-न्यायकुमु० पृ० ८६३ । प्रमेयक० पृ० ३०६ । __(E-62) "अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः । नष्टानि न कर्माणि क्षुधो निमित्तं विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ।" केवलिभु० श्लो० १-२ । सन्मति टी० पृ० ६१२ । स्या० २ पृ० ४७४ । आध्यात्मिक० पृ० ६३ । "अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात् पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति ।" सूत्रकृ० शी० पृ० ३४५ । युक्तिप्र० पृ० १५३ (E-63) "न च दग्धरज्जुसंस्थानीयत्वात् तस्य स्वकार्याजनकत्वम् तत एव सातवेदनीयस्यापि स्वकार्याजनकत्वप्रसक्तेः सुखानुभवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्कर्मोदयकार्यं प्राणादिधारणं भगवति तथा प्रकृतमप्यभ्युपगम्यता विशेषाभावात्।" सन्मति० टी० पृ० ६१५ । स्या० रत्ना० पृ० ४६५ । ___ (E-64) "तम इव भासो वृद्धो ज्ञानादीनां च तारतम्येन । क्षुध् हीयतेऽत्र न च तद् ज्ञानादीनां विरोधगतिः ॥" केवलिभुक्तिप्र० श्लो० ३ । स्या० रत्ना० पृ० ४७४। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756