________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
६७९/१३०१
(E-58) “एगेण कारणेण दु सादस्सेव दुणिरंतरो उदओ। तेणासादणिमित्ता परीसहा जिणवरेणत्थि ।।" गो० कर्म० गा० २७५ । "घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । यथा विषद्रव्यं मन्त्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं न मरणाय कल्प्यते तथा ध्यानानलनिर्दग्धघातकर्मेन्धन-- स्यानन्ताप्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावन्निरन्तरमुपचीयमानशुभपुद्गलसन्ततेर्वेदनीयाख्यं कर्म सदपि प्रक्षीणसहायबलं स्वयोग्यप्रयोजनोत्पादानं प्रत्यसमर्थमिति क्षुधाद्यभावः, तत्सद्भावोपचारात् ध्यानकल्पनवत् ।" त० वा० ९।११ । “अविकलसामर्थ्य ह्यसातादिवेदनीयं स्वकार्यकारि, सामर्थ्यवैकल्यं च मोहनीयकर्मणो विनाशात्सुप्रसिद्धम् । यथैव हि पतिते सैन्यनायकेऽसामर्थ्य सैन्यस्य तथा मोहनीयकर्मणि नष्टे भगवत्यसामर्थ्यमघातिकर्मणाम् । यथा च मन्त्रेण निर्विषीकरणे कृते मन्त्रिणोपभुज्यमानमपि विषं न दाहमूर्छादिकं कर्तुं समर्थम् तथा असातादिवेदनीयं विद्यमानोदयमप्यसति मोहनीये नि:सामर्थ्यत्वान्नक्षुदुःखकरणे प्रभुसामग्रीतः कार्योत्पत्तिप्रसिद्धेः ।" प्रमेयक० पृ० ३०३ । न्यायकुमु० पृ० ८५९ । रत्नक० टी० पृ० ६ । प्रव० टी० पृ० २८ ।
(E-59) "नापि क्षुद्वेदना प्रतीकारार्थं, अनन्तसुखवीर्ये भगवत्यस्याः सम्भवाभावस्योक्तत्वात् ।" प्रमेयक० पृ० ३०६ ।न्यायकुमु० पृ०८६०। “यदि क्षुधाबाधास्ति तहि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति, तथैव क्षुधा दुःखितस्य अनन्तसुखमपि नास्ति ।" प्रव० टी० पृ० २८ ।
(E-60) "नापि ज्ञानादिसिद्ध्यर्थम्, यतो ज्ञानं तस्याखिलार्थविषयमक्षयस्वरूपम्, संयमश्च यथाख्यातः सर्वदा विद्यते ।" प्रमेयक० पृ० ३०६ ।
(E-61) "नापि आयुषोऽसाधितमुक्तिकस्य अपवर्तननिवृत्त्यर्थम्, चरमोत्तमदेहानामनपवायुष्कत्वादेव तथाविधस्यास्य अपवर्तनानुपपत्तेः।"-न्यायकुमु० पृ० ८६३ । प्रमेयक० पृ० ३०६ । __(E-62) "अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः । नष्टानि न कर्माणि क्षुधो निमित्तं विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ।" केवलिभु० श्लो० १-२ । सन्मति टी० पृ० ६१२ । स्या० २ पृ० ४७४ । आध्यात्मिक० पृ० ६३ । "अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात् पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति ।" सूत्रकृ० शी० पृ० ३४५ । युक्तिप्र० पृ० १५३
(E-63) "न च दग्धरज्जुसंस्थानीयत्वात् तस्य स्वकार्याजनकत्वम् तत एव सातवेदनीयस्यापि स्वकार्याजनकत्वप्रसक्तेः सुखानुभवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्कर्मोदयकार्यं प्राणादिधारणं भगवति तथा प्रकृतमप्यभ्युपगम्यता विशेषाभावात्।" सन्मति० टी० पृ० ६१५ । स्या० रत्ना० पृ० ४६५ ।
___ (E-64) "तम इव भासो वृद्धो ज्ञानादीनां च तारतम्येन । क्षुध् हीयतेऽत्र न च तद् ज्ञानादीनां विरोधगतिः ॥" केवलिभुक्तिप्र० श्लो० ३ । स्या० रत्ना० पृ० ४७४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org