Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 702
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, ( साक्षीपाठ) ६७५/१२९७ मुक्तात्मन इव जगत्कर्तृत्वानुपपत्तेः ।" सन्मति० टी० पृ० ११९ । (E-22) "अस्तु वादृश्योऽसौ तथापि सत्तामात्रेण, ज्ञानवत्त्वेन, ज्ञानेच्छाप्रयत्नवत्त्वेन, तत्पूर्वकव्यापारेण ऐश्वर्येण वा क्षित्यादेः कारणं स्यात् ?" न्यायकुमु० पृ० १०६। (E-23) "ऐश्वर्यमपि ज्ञातृत्वम्, कर्तृत्वम्, अन्यद्वा स्यात् ?" न्यायकुमु० पृ० १०६ । (E-24) "किंच, ईश्वरस्य जगन्निर्माणे यथारुचि प्रवृत्तिः, कर्मपारतन्त्र्येण, करुणया, धर्मादिप्रयोजनोद्देशेन, क्रीडया, निग्रहानुग्रहविधानार्थम्, स्वभावतो वा ?" न्यायकुमु० पृ० १०७ । "अभावाच्चानुकम्प्यानां नानुकम्पास्य जायते । सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः ॥५३॥"मीमांसाश्लो० पृ० ६५२ । तत्त्वसं० पृ० ७६ । सन्मति० टी० पृ० १३० । स्या० रत्ना० पृ० ४४७ । (E-25) "क्रीडार्थायां प्रवृत्तो च विहन्येत कृतार्थता ॥५६॥" मीमांसाश्लो० पृ० ६५३ । तत्त्वसं० पृ० ७७। (E-26) "बोधो न वेधसो नित्यो बोधत्वादन्यबोधवत् । इति हेतोरसिद्धत्वान्न वेधाः कारणं भुवः ॥१२॥"-तत्त्वार्थश्लो० पृ० ३६० । (E-27) "तथापि शास्त्राणां प्रमाणेतरव्यवस्थाविलोपः सर्वशास्त्रं प्रमाणमेव स्यात् ईश्वरप्रणीतत्वात् तत्प्रणीतप्रसिद्धशास्त्रवत् ॥" न्यायकुमु० पृ० १०८ । (E-28) “प्रतिवाद्यादिव्यवस्थाविलोपश्च सर्वेषामीश्वरादेशविधायित्वात् ।"-न्यायकुमु० पृ० १०८ । (E-29) "सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्त्या न चासीदिति कल्पना ॥११७॥"-मीमां० श्लो० सू० २, पृ० ८१ । “सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत् ।।३१८६॥"-तत्त्वसं० । (E-30) "न चागमेन सर्वज्ञः तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥११८।। न चाप्येवं परो नित्यः शक्यो लब्धुमिहागमः । नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता ॥११९॥"मी० श्लो० प्रत्यक्षसू० । (E-31) "सर्वज्ञसदृशः कश्चिद् यदि दृश्येत सम्प्रति । तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥३२१५॥"-तत्त्वसं० पृ० ८३८ । (E-32) "उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः । अन्यथा नोपपद्येत सार्वज्यं यदि नो भवेत् ॥३२१७।। प्रत्यक्षादौ निषिद्धेऽपि सर्वज्ञप्रतिपादके। अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते ॥३२१८॥"तत्त्वसं० पृ० ८३८ । (E-33) "साम्प्रतं सामटयज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह... युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम् । ज्ञानं नैकधिया दृष्टं भिन्ना वा गतयः क्वचित् ॥३२४९।। भूतं भवद्भविष्यच्च वस्त्वनन्तं क्रमेण कः । प्रत्येकं शक्नुयादद्वोद्धं वत्सराणां शतैरपि ॥३२५०॥" तत्त्वसं० पृ० ८४४ । “अपि च सर्वं न क्रमेण Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756