________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
(E-40) “कारणं व्यापकाभावे निवृत्तिश्चेह युज्यते । हेतुमद्वयाप्तयोस्तस्मादुत्पत्तेरेकभावतः ॥३२७१।। कुशानुपादपाभावे धूमाम्रादिनिवृत्तिवत् । अन्यथाऽहेतुतैव स्यान्नानात्वं च प्रसज्यते ॥३२७२॥” तत्त्वसं० प० पृ० ८५१ ।
६७७ / १२९९
(E-41) “नाप्यनुमानम्, धर्मि - साध्यसाधनानां स्वरूपाप्रसिद्धेः, तदबाधके ह्यनुमाने धर्मित्वेन, सर्वज्ञोऽभिप्रेतः सुगतः, सर्वपुरुषाः वा ? यदि सर्वज्ञः तदा किं तत्र साध्यम् - असत्त्वम्, असर्वज्ञत्वं वा । यद्यसत्त्वम्, किं तत्र साधनम् - अनुपलम्भ:, विरुद्धविधिः, वक्तृत्वादिकं वा । यद्यनुपलम्भ:, स किं सर्वज्ञस्य, तत्कारणस्य, तत्कार्यस्य, तद्व्यापकस्य वा । यदि सर्वज्ञस्य सोऽपि किं स्वसम्बन्धी, सर्वसम्बन्धी वा । स्वसम्बन्धी चेत्, सोऽपि किं निर्विशेषणः उपलब्धिलक्षणप्राप्तत्वविशेषणो वा ? " न्यायकुमु० पृ० ९१ स्या० रत्ना० पृ० ३८२ । किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेतः । आहोस्वित्सर्वपुरुषोपलम्भनिवृत्तिः । अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्राप्तस्येत्येतस्य विशेषणस्यानाश्रयणात् । आहोस्वित् सविशेषेण इति । तत्त्वसं० प० पृ० ८५० ।
(E-42) “सर्वसंबन्धिसर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥" त० ० पृ० १४ ।
श्लो०
(E-43) “तथाहि-कश्चिदात्मा सकलार्थसाक्षात्कारी, तद्ग्रहणस्वभावकत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् ।" न्यायकुमु० ९१ । प्रमेयक० २५५ । स्या० रत्ना० पृ० २७० । प्रमेयरत्नमा० २।१२ । (E-44) “नापि विरुद्धविधिः यतः साक्षात्, परम्परया वा विरुद्धस्य विधिः सर्वज्ञाभावं प्रसाधयेत्।” -न्यायकुमु० पृ० ९२ ।
(E-45) “यद्वा-अर्थान्तरस्य साक्षात्पारम्पर्येण वा विरुद्धस्यैव विधानात्तन्निषेधः, नाविरुद्धस्य, तस्य तत्सहभावसंभवात् । यथा - नास्त्यत्र शीतस्पर्शो वह्नेरिति साक्षाद्विरुद्धस्य वह्नेर्विधानाच्छीतस्पर्शनिषेधः, तद्वत्सर्वज्ञनिषेधेऽपि स्यात् ।" तत्त्वसं० पृ० ८५२ । न्यायकुमु० पृ० ९२ ।
(E-46) "अयं च वक्तृत्वाख्यो हेतुः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणा इत्यत्रादिशब्देनाक्षिप्त एवेति ।.. तदत्रादिपदाक्षिप्तो वक्तृत्वे योऽभिमन्यते । निश्चयं व्यतिरेकस्य परस्परविरोधतः || ३३५९॥” तत्त्वसं० पृ० ८८१ ।
(E-47) “किंच, सर्वविदः प्रमाणविरुद्धार्थवक्तृत्वं हेतुत्वेन विवक्षितम्, तद्विपरीतम् वक्तृत्वमात्रं वा । " न्यायकुमु० पृ० ९३ । प्रमेयक० पृ० २६३ | सन्मति० टी० पृ० ४५ । स्या० रत्ना० पृ० ३८४ । प्रमेयरत्न० पृ० ५७ ।
(E-48) “उक्त्यादेर्दोषसंक्षयः । नेत्येके व्यतिरेकोऽस्य संदिग्धाव्यभिचार्य्यतः ।" प्र० वा० १।१४३ “उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं मतम् । तदानीमा श्रयासिद्धः सन्दिग्धासिद्धताऽथवा ||३३७१॥ अस्य चार्थस्य सन्देहात्सन्दिग्धासिद्धता स्थिरा ।" तत्त्वसं० पृ० ८८४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org