________________
६७६/१२९८
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
शक्यावगमम्, आनन्त्यात् । न हि पूर्वापरकोटिविरहिणो ज्ञेयस्योत्पादवतः परिनिष्ठास्ति । न यौगपद्येन, आनन्त्यादेव । इयत्तानवधारणे सर्वैकदेशप्रतिपत्त्योरविशेषात् । अतो नानन्त्याकारमेकं ज्ञानं, अनन्तानि वा युगपद् ज्ञानानि । अपि चानन्त्यमेव सर्वज्ञत्वे तदवधारणं न संभवति । तथाहि-सर्वा व्यक्तयोऽवधारिताश्चेत्तावत्य एव नानन्ताः । अनवधारणे ह्यनन्तत्वं तासां तदनवधारणं चानन्तमिति कथं तदवधारणम् ?" विधिवि० पृ० १९९ । “अशुच्यादिरसंवादसङ्गमश्चानिवारितः । प्राप्यकारीन्द्रियत्वे च सर्ववित् कथमुच्यते ॥३५९।। युगपत्सर्वविज्ञानेऽनादिसंसारता कथम् । यस्मिन् परिसमाप्तिज्ञः स एवात्रादिरुच्यते ॥३७०॥" प्र० वार्तिकाल० पृ० ५०।
(E-34) "अथवा प्रत्युत्पन्नाकारमेव ज्ञानमतीतानागताकारमपि वा । पूर्वत्र सर्वस्यातथाभावान्मिथ्या । उत्तरत्राऽतीतादिरूपकल्पनाप्रवृत्तत्वान्न प्रत्यक्षम् । सर्वं वा ज्ञानकाले प्रत्युत्पन्नात्मना ज्ञायेत, तथावस्थं वा । पूर्वस्मिन्मिथ्यात्वम् । उत्तरत्र न सर्वं प्रत्यक्षमवस्थान्तराप्रत्यक्षीकरणात् ।" विधिवि० पृ० ५९८ । “तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्यं बह्विति सर्वज्ञबीजम्, एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिज्ञानस्य स सर्वज्ञः स च पुरुषविशेष इति ।" योगसू० व्यासभा० १।२५ । "प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ।" प्रमाणमी० अ० १, आ० १, सू० १६ ।
(E-35) "अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेदादितः स चेत् ॥१२२।। पुनर्यनमपेक्षेत यदि स्याच्चास्थिराश्रयः । विशेषो नैव वर्द्धत स्वभावश्च न तादृशः ॥१२३।।" प्र० वा० १।१२२-१२३ । तत्त्वसं० पृ० ८९२ ।
(E-36) "सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥" आप्तमी० ५ । "ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽञ्जसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ।।८८॥" आप्तप० श्लो०८८ ।
(E-37) "सूक्ष्माद्यर्थोपदेशो हि तत्साक्षात्कर्तृपूर्वकः । परोपदेशलिङ्गाक्षानपेक्षावितथत्वतः ॥९॥" तत्त्व० श्लो० पृ० ११ । “सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः अनुपदेशलिङ्गान्वयव्यतिरेकपूर्वकाविसंवादिनष्टमुष्टिचिन्तालाभालाभसुखदुःखग्रहोपरागाद्युपदेशकरणान्यथानुपपत्तेः ।" बृहत्सर्वज्ञसि० पृ० १३० । “यो यविषयानुपदेशालिङ्गान्वयव्यतिरेकाविसंवादिवचनानुक्रमकर्ता स तत्साक्षात्कारी यथा अस्मदादिर्यथोक्तजलशैत्यादिविषयवचनरचनानुक्रमकारी तद्दष्टा नष्टमुष्टयादिविषयानुपदेशलिङ्गान्वयव्यतिरेकाविसंवादिवचनरचनानुक्रमकर्ता च कश्चिद्विमत्यधिकरणभावापन्नः पुरुष इति ।" लघुसर्वज्ञसि० पृ० १०७ । सन्मति० टी० पृ० ६५ । न्यायवि० वि० द्वि० पृ० २९७ ।
(E-38) "अतीन्द्रियार्थदर्शिनो हि बाधकं प्रमाणं प्रत्यक्षम् अनुमानादि अभावो वा स्यात् ?" न्यायकुमु० पृ० ८९।
(E-39) "न तावत् प्रत्यक्षं बाधकम्, तस्यातद्विषयत्वात् ।" तत्त्वसं० प० पृ० ८४८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org