________________
षड्दर्शन समुञ्चय भाग - २, श्लोक - ५७, जैनदर्शन
२८९/ ९१२
के लिए सोचना) पक्ष और हेतु सर्वथाअभिन्न होगा तो दोनो एकस्वरुप बन जाने के कारण "पक्ष में हेतु रहता है।" एसा व्यपदेश ही हो सकेगा नहीं । इस प्रकार एकांत से भिन्न या अभिन्न मानने में पक्षधर्मत्वादिरुपो की सिद्धि हो सकती नहीं है।)
संबन्धो हि साध्यसाधनयोधर्मिणश्च किं समवायः, संयोगो, विरोधो, विशेषणविशेष्यभावः तादात्म्यं, तदुत्पत्तिर्वा भवेत् ? न तावत्समवायः, तस्य धर्मधर्मिद्वयातिरिक्तस्य प्रमाणेनाप्रतीयमानत्वात्, इह तन्तुषु पट इत्यादेस्तत्साधकस्य प्रत्ययस्यालौकिकत्वात्, पांसुलपादानामपीह पटे तन्तव इत्येवं प्रतीतिदर्शनात्, इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात् । सत्त्वे वा समवायस्य स्वत एव धर्मधादिषु वृत्त्यभ्युपगमे तद्वत्साध्यादिधर्माणामपि स्वत एव धर्मिणि वृत्तिरस्तु किं व्यर्थया समवायकल्पनया ? समवायस्य समवायान्तरेण वृत्त्यभ्युपगमे तु तत्राप्यपरसमवायकल्पनेऽनवस्थानदी दुस्तरा । अस्तु समवायस्य स्वतः परतो वा वृत्तिः, तथापि तस्य प्रतिनियतानामेव संबन्धिनां संबन्धकत्वं न स्यात् अपित्वन्येषामपि व्यापकत्वेन, तस्य सर्वत्र तुल्यत्वादेकस्वभावत्वाञ्च । नापि संयोगः, स हि साध्यसाधनादीनां भवन् किं ततो भिन्नो वा स्यादभिन्नो वा । प्राचि पक्षे कथं विवक्षितानामेवैष किं नान्येषामपि ? भेदाविशेषात्, न च समवायोऽत्र नियामकः तस्य सर्वत्र सदृशत्वात् ?। द्वितीये तु साध्यादीन्येव स्युः न कश्चित्संयोगो नाम कथञ्चिद्भिन्नसंयोगाङ्गीकारे तु परवादाश्रयणं भवेत् । नापि विरोधोऽभिधातव्यः, तस्याप्येकान्तमतेऽसंभवात् । G-3 स हि सहानवस्थानं परस्परपरिहारो वा भवेत् । तत्राद्ये किं कदाचिदप्येकत्रानवस्थानमुत कियत्कालं स्थित्वा पश्चादनवस्थानम् । आये पक्षेऽहिनकुलादीनां न विरोधः स्यात् अन्यथा त्रैलोक्येऽप्युरगादीनामभावः । द्वितीये तु नरवनितादेरपि विरोधः स्यात्, तयोरपि किंचित्कालमेकत्र स्थित्वापगमात् । किंच वडवानलजलधिजलयोर्विधुदम्भोदाम्भसोश्च चिरतरमेकत्रावस्थातः कथमयं विरोधः । परस्परपरिहारस्तु सर्वभावानामविशिष्टः कथमसौ प्रतिनियतानामेव भवेत् । नापि विशेषणविशेष्यभावो घटामियर्ति, तस्य संयोगाद्यसंभवेऽभावात् तस्य तु प्रागेव निरासात् । नापि साध्यसाधनयोस्तादात्म्यं घटते, साध्यसाधनयोरसिद्धसिद्धयोर्भेदाभ्युपगमेन तादात्म्यायोगात्, तादात्म्ये च साध्यं साधनं चैकतरमेव भवेन्न द्वयं कथञ्चित्तादात्म्ये तु जैनमतानुप्रवेशः स्यात् ।। व्याख्या का भावानुवाद : (अब आप बताये कि) साध्य-साधन तथा धर्मी में कौन-सा संबंध मानते है ? क्या उसमें समवाय (G-39)- तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org