Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 693
________________ ६६६ / १२८८ ' षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) असाधारणधर्मत्वात् तेषाम् । रूपरसगन्धस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्वसंस्काराः त्रयोदश तस्या गुणाः । पाकजाश्च रूपरसाः पृथिव्यामेव, तत्सम्पर्काज्जलादौ तेषामुपलम्भः, तदपगमे तदनुपलम्भात् । गन्धस्तु तस्या एव स द्विविध:- सुरभिरसुरभिश्च । पाकजोऽनुष्णाशीतस्पर्शः तस्या एव । रूपरसावनियतौ । सा च द्विविधा नित्या अनित्या च । परमाणुलक्षणा कार्यलक्षणा च । तत्र कार्यं त्रिविधम्-शरीरेन्द्रिर्यावषयसंज्ञकम् । तत्र मनस्त्वगिन्द्रियायनं शरीरं भोगायतनं वा । तच्च द्विविधम् - योनिजमयोनिजं चेति । शुक्रशोणितसन्निपातो योनिः, तदुत्पन्नं योनिजम् । तदपि द्विविधम्- जरायुजमण्डजं च । उद्भिज्जं तु नास्त्येव । अयोनिजं तु क्षुद्रजन्तूनां शरीरं यातनाशरीरम् । इन्द्रियं तु गन्धव्यञ्जकं घ्राणम् । यच्च शरीरसंयुक्तमतीन्द्रियं साक्षात्प्रतीतिकारणम्, तदिन्द्रियमुच्यते । प्रतीयमानतया भोगसाधनं विषयः । स च द्व्यणुकादिक्रमेण आरब्धः त्रिविधो मृत्पाषाणस्थावरलक्षणः । क्रमे कारणमुच्यते - (१) 'त्रसरेणवो महान्तः, चाक्षुषद्रव्यत्वाद्, घटवत् । (२) 'ते च कार्याः, महत्वाद्, घटवत् ।' (३) 'ते च सावयवाः, कार्यत्वाद्, घट ।' (४) ‘त्रसरेण्ववयवा न महान्तः, आरम्भकद्रव्यत्वे सत्यप्रत्यक्षत्वात्, परमाणुवत् । ' ( ५ ) त्रसरेणवः कार्यद्रव्येणारब्धा, महत्त्वे सति कार्यत्वाद्, घटवत् । (६) त्रसरेण्वारम्भकं कार्यद्रव्यं सावयवम्, कार्यद्रव्यत्वाद् घटवत् । तदवयवाः परमाणव एव । (७) ‘लोष्ठादिष्ववयवेषु अणुत्वातिशयोऽवधिमान्, परिमाणातिशयत्वात्, महत्त्वातिशयवत् ।' (८) स च नित्यः, निरवयवत्वाद्, आकाशवत् । ( ९ ) स च निरवयवः, अल्पपरिमाणतारतम्यस्यावधित्वाद्, यत् सावयवं तदल्पपरिमाणतारतम्यं न भवति, यथा तन्त्वादयः' यद्वा (१०) स च निरवयवः, परिमाणतारतम्यस्य अवधित्वात्, महत्त्वपरिमाणावधिभूतवत्' । (११) 'परमाणोः संयोगः क्रियाजः संयोगाजन्ये सति संयोगत्वात्, तन्तुतुरीसंयोगवत् । ' (१२) परमाणोराद्यं कर्म पुरुषविशेषगुणकारितम्, नोदनाभिघातसंस्काराजन्यत्वे सति कर्मत्वात्, पाणिकर्मवत् ।' (१३) परमाणूनामाद्यं कर्म सुखदुःखेच्छाद्वेषप्रयत्नसंस्कारेभ्यो व्यतिरिक्तपुरुषविशेषगुणकारितम्, प्रयत्नादीनामभावे सति पुरुषगुणकारितत्वाद्, यदभावे यदुत्पद्यते, तत्ततो व्यतिरिक्तकारणम्, यथा तत्वाद्यभावे घटः तद्व्यतिरिक्तजन्यः' । (१४) 'तच्चादृष्टं स्वाश्रयसंयोगमपेक्ष्य आश्रयान्तरे कर्म आरभते, एकद्रव्यत्वे सति क्रियाहेतुत्वाद्, गुरुत्ववत् । ' परमाणूनामाद्यं कर्म अदृष्टवदात्मसंयोगादेव, ततश्च परस्परसंयोगः, स द्वितीयसंयोगस्याश्रयः, संयुक्ताभ्यां द्वाभ्यां द्व्यणुकोत्पत्तिः, द्व्यणुकत्रयेण त्र्यणुकोत्पत्तिः, न द्वाभ्याम्, महत्त्वानुपपत्तेः । त्रित्वनियमो लाघवात् । द्व्यणुकावयवस्य कार्यत्वे परिमाणतारतम्यानुपपत्तिः, अतस्तदवयवौ निरवयवाविति द्व्यणुकादिक्रमेण घटाद्युत्पत्तिः । (२) जलम्-स्नेहाश्रयं जलम् । रूपरसस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्काराः त्रयोदश तस्य गुणाः । तस्य शौक्ल्यमेव रूपम्, माधुर्यमेव रसः, शैत्यमेव स्पर्शः, स्वाभाविकमेव द्रवत्वम्, अपाकजाश्च ते । तद् द्विविधम्-परमाणुकार्यभेदात् । कार्यं द्विविधम्-इन्द्रियं विषयं च । इन्द्रियं रसनम् । विषयश्चाब्धि हिमकरकादिः । करकायाः काठिन्यं दृढसंयोगात् । गन्धादेरुपलम्भोऽन्यसम्पर्कात् । गुरुत्वं जलभूम्योरेव, स्नेहोऽम्भस्येवेति । (३) तेज - भास्वररूपवत् तेजः, पररूपप्रकाशकं भास्वरमुच्यते । रूपस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्काराः दश तेजोगुणः । तेजोऽपि अणुकार्यभेदाद् द्विविधम् । इन्द्रियरूपं कार्यं चक्षुः । विषयश्चतुर्विध:-भौमम्, दिव्यम्, औदर्यम् आकरजं च । भौमं काष्ठेन्धनप्रभवम्, ऊर्ध्वज्वलनस्वभावम् । दिव्यम् अबिन्धनं चन्द्रसूर्यादि । अशितपीताहारपरिणत्यर्थम् औदर्यम् । आकरजं सुवर्णादि । तस्य शौक्ल्यं भास्वरं च रूपम् । पाकनिमित्तं द्रवत्वम् । स्पर्शश्चाष्ण्यमेव, चन्द्रचामीकरादौ त्वन्यसंसर्गादनुपलम्भः । गुरुत्वादेरन्यसंसर्गादुपलम्भ इति । (४) वायु-अपाकजत्वे सति अनुष्णाशीतस्पर्शवान् वायुः । तस्य स्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अष्टौ गुणाः । तस्य युगपच्छीतोष्णादिविरुद्धधर्मविशिष्टस्य उपलम्भान्नानात्वं प्रत्यक्षं सम्मूर्च्छनादनुमेयमपि, सम्मूर्च्छनं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756