Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 697
________________ ६७० / १२९२ षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) (१७) सुखम्-अनुग्राहकस्वभावं सुखम् । तद् ह्युत्पन्नमात्रं अनुकूलस्वभावतया स्वविषयमनुग्रहरूपमनुभवं कुर्वत् पुरुषमनुगृह्णाति इत्यनुग्राहकस्वभावम् । तच्च आत्ममनस्संयोगादुत्पद्यते । अतीतेषु स्मरणाद्, अनागतेषु सङ्कल्पाद् । दुःखाभावो न, वनितादिष्वधिकानुभवदर्शनादिति । (१८) दुःखम् - उपघातकस्वभावं दुःखम् । तद्धि उत्पन्नमात्रं प्रतिकूलस्वभावतया स्वविषयमनुभवं कुर्वत् पुरुषम् उपहन्तीत्युपघातकस्वभावम् । तच्चाधर्मसहितादात्ममनस्सन्निकर्षाच्च उत्पद्यते। अतीतेषु स्मृतिजमनागतेषु सङ्कल्पाद् । दुःखफलं दैन्यादि । सुखफलं विकासादि । (१९) इच्छा - स्वार्थं परार्थं वा अप्राप्तप्रार्थना इच्छा । अप्राप्तस्य वस्तुनः स्वं प्रति या प्रार्थना इदं मे भूयादिति, परार्थं वा या प्रार्थना अस्येदं भवत्विति सा इच्छा । सापि आत्ममनस्संयोगादुत्पद्यते सुखाद्यपेक्षात् स्मृत्यपेक्षाद्वा । अनागते हि सुखहेतौ इच्छोत्पद्यते, अतीते स्मृत्यपेक्षात् । इच्छाफलानि तु प्रयत्नकृतिधर्माधर्माः । कामादयोऽपि इच्छाभेदा एव । (२०) द्वेषः - प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानां मन्यते स द्वेषः । स च आत्ममनस्संयोगाद् दुःखापेक्षात् तत्स्मृत्यपेक्षाद्वोत्पद्यते । तस्य फलं प्रयत्नधर्माधर्मस्मृतिरिति । क्रोधादिः द्वेषभेदः । (२१) प्रयत्नः - प्रयत्नः संरम्भ उत्साह इति पर्यायाः । स द्विविधः - जीवनपूर्वकः इच्छाद्वेषपूर्वकश्च । सदेहस्य आत्मनो विपच्यमानकर्माशयसहितस्य मनस्संयोगो जीवनम् । तत्पूर्वकप्रयत्नः सुप्तस्य प्राणापानक्रियासन्तानहेतुः। सुप्तस्य प्राणापानक्रिया हि प्रयत्नकार्या, प्राणापानक्रियात्वाद्, जाग्रतः प्राणापानक्रियावत् । तस्य धर्माधर्मापेक्षाद् आत्ममनस्संयोगादुत्पत्तिः । इच्छाद्वेषपूर्वकप्रयत्नस्तु हिताहितप्राप्तिपरिहारयोग्यक्रियाहेतुः गुरुणोऽपि शरीरस्य आपाततो धारणहेतुश्च । स च इच्छाद्वेषापेक्षादात्ममनस्संयोगादुत्पद्यते । (२२) धर्मः - विधायकवेदलक्षण आत्मगुणो धर्मः । कर्तुस्सुखाभ्युदयमोक्षहेतुः, श्रेयस्करे हि धर्मशब्दः प्रसिद्धः । स च अपूर्वमेव, तत्साधने लाक्षणिक इति शास्त्रभेदाद्भेदः । विशुद्धाभिसन्धिसापेक्षादात्ममनस्संयोगादुत्पत्तिः। अन्त्यफलज्ञानाद्विनाशः । (२३) अधर्मः - अधर्मोऽपि पुरुषगुणः प्रतिषेधलक्षण: कर्तुरभिहितप्रत्यवायवहेतुः। तस्य प्रतिषिद्धकर्मानुष्ठानविहिताकरणप्रमाददुष्टाभिसन्धिसापेक्षाद् आत्ममनस्संयोगादुत्पत्तिरिति । ४-कर्म :-विभागसंयोगयोः अनपेक्षकारणं कर्म । तत् संयोगविभागानुमेयम् । कार्यभेदादनन्तता, मूर्तद्रव्यैकसमवेतता, एकद्रव्यवृत्तिद्रव्यकर्मणोरनारम्भकता, स्वाश्रयसमवेतकार्यारम्भकता, आशुतरविनाशिता, गुरुत्वद्रवत्वसंयोगवेगप्रयत्नादृष्टकारणकता, स्वकार्यसंयोगविनाश्यता च, आशुतरविनाशिसमवायिता च एतानि साधर्म्याणि । विभागपूर्वकस्संयोगः कार्यः। तस्मात्संयोगविभागानपेक्षहेतुत्वविधयैकमेव परिस्पन्दात्मकं कर्म । तद्विशेषा एव च उत्क्षेपणादय इति । ५- सामान्यम्::- नित्यमेकं प्रातिस्विकरूपेण अनित्यद्रव्यैकसमवेतं सामान्यम् । परापरत्वभेदाद् द्वैविध्यं नित्यत्वमेकत्वं च । समवायस्तु अनित्य इति । ६- संख्या:- एकत्वादिप्रत्ययव्यवहारस्य हेतुस्संख्या । तत्रैकत्वद्वित्वत्रित्वादयो व्यक्तयो जातिवत् सर्वत्रैकैका नित्याश्च, प्रतिभावं तासां भेदप्रमाणाभावात् । समवायास्तु प्रतिभावं भिन्ना: स्वीक्रियन्ते । तत्रैकत्वसमवाय एकाश्रयः । तद्धर्मिमात्राश्रय इति यावत् । स च नित्ये नित्यः, अनित्ये भावहेतुजः, आश्रयनाशकादेव नश्यति । द्वित्वसमवायस्तु अनेकाश्रयः । धर्म्यन्तरसहितधर्म्याश्रय इति यावन् । स तु सर्वत्र अपेक्षाबुद्धिजन्यत्वादनित्यः । तन्नाशादाश्रयनाशकाद् वा विनश्यति । अपेक्षाबुद्धिर्नाम महासंख्यावगत्यपेक्षासहितं तदाश्रयगतैकत्वसामस्त्यज्ञानमिष्यते । द्वित्वोत्पादिकाया हि अपेक्षाबुद्धेरेकान्तरसहितमेकत्वं विषयः । त्रित्वोत्पादिकायास्तु त्रिसहितमेकत्वं विषयः एव सर्वत्र। एषा चात्र दर्शनप्रक्रिया - इन्द्रियसन्निकर्षः, ततः एकत्वज्ञानं, ततोऽपेक्षाज्ञानं, ततो द्वित्वोत्पादः, ततो द्वित्वज्ञानं, ततो द्वित्वविशिष्टद्रव्यज्ञानम्, ततस्संस्कार इत्युत्पादक्रमः । विनाशप्रक्रमस्तु, अपेक्षाबुद्धितो द्वित्वोत्पत्तिसमकालं एकत्वबुद्धेर्विनाशः, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756