________________
६७० / १२९२
षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) (१७) सुखम्-अनुग्राहकस्वभावं सुखम् । तद् ह्युत्पन्नमात्रं अनुकूलस्वभावतया स्वविषयमनुग्रहरूपमनुभवं कुर्वत् पुरुषमनुगृह्णाति इत्यनुग्राहकस्वभावम् । तच्च आत्ममनस्संयोगादुत्पद्यते । अतीतेषु स्मरणाद्, अनागतेषु सङ्कल्पाद् । दुःखाभावो न, वनितादिष्वधिकानुभवदर्शनादिति । (१८) दुःखम् - उपघातकस्वभावं दुःखम् । तद्धि उत्पन्नमात्रं प्रतिकूलस्वभावतया स्वविषयमनुभवं कुर्वत् पुरुषम् उपहन्तीत्युपघातकस्वभावम् । तच्चाधर्मसहितादात्ममनस्सन्निकर्षाच्च उत्पद्यते। अतीतेषु स्मृतिजमनागतेषु सङ्कल्पाद् । दुःखफलं दैन्यादि । सुखफलं विकासादि । (१९) इच्छा - स्वार्थं परार्थं वा अप्राप्तप्रार्थना इच्छा । अप्राप्तस्य वस्तुनः स्वं प्रति या प्रार्थना इदं मे भूयादिति, परार्थं वा या प्रार्थना अस्येदं भवत्विति सा इच्छा । सापि आत्ममनस्संयोगादुत्पद्यते सुखाद्यपेक्षात् स्मृत्यपेक्षाद्वा । अनागते हि सुखहेतौ इच्छोत्पद्यते, अतीते स्मृत्यपेक्षात् । इच्छाफलानि तु प्रयत्नकृतिधर्माधर्माः । कामादयोऽपि इच्छाभेदा एव । (२०) द्वेषः - प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानां मन्यते स द्वेषः । स च आत्ममनस्संयोगाद् दुःखापेक्षात् तत्स्मृत्यपेक्षाद्वोत्पद्यते । तस्य फलं प्रयत्नधर्माधर्मस्मृतिरिति । क्रोधादिः द्वेषभेदः ।
(२१) प्रयत्नः - प्रयत्नः संरम्भ उत्साह इति पर्यायाः । स द्विविधः - जीवनपूर्वकः इच्छाद्वेषपूर्वकश्च । सदेहस्य आत्मनो विपच्यमानकर्माशयसहितस्य मनस्संयोगो जीवनम् । तत्पूर्वकप्रयत्नः सुप्तस्य प्राणापानक्रियासन्तानहेतुः। सुप्तस्य प्राणापानक्रिया हि प्रयत्नकार्या, प्राणापानक्रियात्वाद्, जाग्रतः प्राणापानक्रियावत् । तस्य धर्माधर्मापेक्षाद् आत्ममनस्संयोगादुत्पत्तिः । इच्छाद्वेषपूर्वकप्रयत्नस्तु हिताहितप्राप्तिपरिहारयोग्यक्रियाहेतुः गुरुणोऽपि शरीरस्य आपाततो धारणहेतुश्च । स च इच्छाद्वेषापेक्षादात्ममनस्संयोगादुत्पद्यते । (२२) धर्मः - विधायकवेदलक्षण आत्मगुणो धर्मः । कर्तुस्सुखाभ्युदयमोक्षहेतुः, श्रेयस्करे हि धर्मशब्दः प्रसिद्धः । स च अपूर्वमेव, तत्साधने लाक्षणिक इति शास्त्रभेदाद्भेदः । विशुद्धाभिसन्धिसापेक्षादात्ममनस्संयोगादुत्पत्तिः। अन्त्यफलज्ञानाद्विनाशः । (२३) अधर्मः - अधर्मोऽपि पुरुषगुणः प्रतिषेधलक्षण: कर्तुरभिहितप्रत्यवायवहेतुः। तस्य प्रतिषिद्धकर्मानुष्ठानविहिताकरणप्रमाददुष्टाभिसन्धिसापेक्षाद् आत्ममनस्संयोगादुत्पत्तिरिति ।
४-कर्म :-विभागसंयोगयोः अनपेक्षकारणं कर्म । तत् संयोगविभागानुमेयम् । कार्यभेदादनन्तता, मूर्तद्रव्यैकसमवेतता, एकद्रव्यवृत्तिद्रव्यकर्मणोरनारम्भकता, स्वाश्रयसमवेतकार्यारम्भकता, आशुतरविनाशिता, गुरुत्वद्रवत्वसंयोगवेगप्रयत्नादृष्टकारणकता, स्वकार्यसंयोगविनाश्यता च, आशुतरविनाशिसमवायिता च एतानि साधर्म्याणि । विभागपूर्वकस्संयोगः कार्यः। तस्मात्संयोगविभागानपेक्षहेतुत्वविधयैकमेव परिस्पन्दात्मकं कर्म । तद्विशेषा एव च उत्क्षेपणादय इति ।
५- सामान्यम्::- नित्यमेकं प्रातिस्विकरूपेण अनित्यद्रव्यैकसमवेतं सामान्यम् । परापरत्वभेदाद् द्वैविध्यं नित्यत्वमेकत्वं च । समवायस्तु अनित्य इति ।
६- संख्या:- एकत्वादिप्रत्ययव्यवहारस्य हेतुस्संख्या । तत्रैकत्वद्वित्वत्रित्वादयो व्यक्तयो जातिवत् सर्वत्रैकैका नित्याश्च, प्रतिभावं तासां भेदप्रमाणाभावात् । समवायास्तु प्रतिभावं भिन्ना: स्वीक्रियन्ते । तत्रैकत्वसमवाय एकाश्रयः । तद्धर्मिमात्राश्रय इति यावत् । स च नित्ये नित्यः, अनित्ये भावहेतुजः, आश्रयनाशकादेव नश्यति । द्वित्वसमवायस्तु अनेकाश्रयः । धर्म्यन्तरसहितधर्म्याश्रय इति यावन् । स तु सर्वत्र अपेक्षाबुद्धिजन्यत्वादनित्यः । तन्नाशादाश्रयनाशकाद् वा विनश्यति । अपेक्षाबुद्धिर्नाम महासंख्यावगत्यपेक्षासहितं तदाश्रयगतैकत्वसामस्त्यज्ञानमिष्यते । द्वित्वोत्पादिकाया हि अपेक्षाबुद्धेरेकान्तरसहितमेकत्वं विषयः । त्रित्वोत्पादिकायास्तु त्रिसहितमेकत्वं विषयः एव सर्वत्र।
एषा चात्र दर्शनप्रक्रिया - इन्द्रियसन्निकर्षः, ततः एकत्वज्ञानं, ततोऽपेक्षाज्ञानं, ततो द्वित्वोत्पादः, ततो द्वित्वज्ञानं, ततो द्वित्वविशिष्टद्रव्यज्ञानम्, ततस्संस्कार इत्युत्पादक्रमः । विनाशप्रक्रमस्तु, अपेक्षाबुद्धितो द्वित्वोत्पत्तिसमकालं एकत्वबुद्धेर्विनाशः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org