________________
षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः)
६७१ / १२९३
द्वित्वबुद्धितो द्रव्यबुद्धिसमकालमपेक्षाबुद्धेर्विनाशः, द्रव्यबुद्धितो द्वित्वबुद्धेर्विनाशः संस्कारस्योत्पादः अपेक्षाबुद्धिविनाशाच्च द्वित्वनाश इत्येकः कालः, संस्काराद् द्रव्यबुद्धेविनाश इति । तत्र च प्रमाणं संस्कारे द्वित्वविशिष्टद्रव्यस्मरणम्, द्रव्यज्ञानेऽनुव्यवसायः, द्वित्वज्ञाने तद्विशिष्टद्रव्यज्ञानं, द्वित्वे तज्ज्ञानम् अपेक्षाबुद्धौ तत्कार्यमेकत्वज्ञाने अपेक्षाबुद्धिः, इन्द्रियसन्निकर्षे च एकत्वज्ञानमिति विवेक्तव्यम् । यदा च द्वित्वबुद्धिसमकालमेव द्रव्यनाशः, तदा तत्कालमाश्रयनाशादेव द्वित्वनाश इति । गुणव्यतिरिक्तत्वं गुणकर्मणोः समवायात् । प्रत्यक्षद्रव्येषु प्रत्यक्षा, गुणादिषु च अनुमेया । संख्या न गुणः, गुणकर्मणोराश्रितत्वाच्छक्तिवत् । ६- शक्तिः - सर्वभावनां कार्यानुमेया शक्तिः ।
अकारकदशातोऽग्निः कारकत्वदशासु हि । प्राप्तातिशयसम्बन्धः कारकत्वाद् यथा पुमान् ।।
७- सादृश्यम् - सादृश्यज्ञानात् सदृशविषयधीरुपमा, तद्विषयत्वं सादृश्यम् ।।
८- समवायः - -अयुतसिद्धानामाधार्याधारभूतानां विशेषणविशेष्यभावधीहेतुः यः सम्बन्धः, स समवायः । सोऽनुमेय एव । प्रयोगस्तु समवायोऽनुमेय इन्द्रियसम्बन्धरहितत्वात्, कर्मवत् । संयोगव्यतिरिक्तत्वे अवयवावयव्यादयः परस्परमसम्बन्धसंयोगरहिता तद्व्यापकरहितत्वाद्, यदित्थं तत्तथा यथा धूमव्यापकाग्निरहितो महाह्रदो धूमरहित इति । समवायश्चानेकः । समवायिनोरेकस्योभयोर्वा अनित्यत्वे अनित्यः नित्ययोर्नित्यः ।
Jain Education International
इति गुरुसम्मत पदार्थाः समाप्ताः 11
(श्री नारायणद्वयीप्रणीतः "मानमेयोदयः " में से साभार स्वीकृत)
For Personal & Private Use Only
www.jainelibrary.org