________________
षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः)
६६९ / १२९१
क्रियाभेदादनेकश्च । स द्विष्ठः उत्तरसंयोगाद् आश्रयनाशाद् वा विनाशः । (१०, ११) परत्वापरत्वे - परापराभिधाननिमित्तं परत्वापरत्वमिति लक्षणम् । अस्मादिदं परम्, अस्मादिदमपरमिति अक्षजप्रत्ययो यथाक्रमं परत्वापरत्वसद्भावे प्रमाणम् । ते प्रत्येकं द्विविधे-दिक्कृतत्वकालकृतत्वभेदेन । ते नित्ये एकत्वे च । समवायोत्पत्तिविनाशौ च समवायिकारणासमवायिकारणापेक्षाबुद्धिनाशात् पृथक् पृथक् क्वचित् द्वाभ्यां द्वाभ्यां क्वचित् सर्वेभ्यश्च इति सप्तधा विनाशः ।
(१२) गुरुत्वम्-गुरुत्वं जलभूम्योः पतनासमवायिकारणम् । उत्क्षिप्तस्य यदूर्ध्वदेशविभागपूर्वकमधोदेशसंयोगजनकं कर्म, तत् पतनम् । गुरुत्वं चातीन्द्रियम् । गुरुत्वं च संयोगप्रयत्नसंस्कारप्रतिबन्धेन पतनं जनयति । घोटारूढस्य संयोगात् पतनम्, प्रयत्नात् खचरस्य श्येनादेः, वेगात्तु शरादेः । येषां तोलनतारतम्याद् गुरुत्वतारतम्यधीः, तेषु प्रत्येकं गुरत्वभेदः । येषु तु सा नास्ति तेष्वेकमेव गुरुत्वम् । पतनलिङ्गानुमानेन गुरुत्वग्रहणम्, 'पतनं गुणासमवायिकारणम्, कर्मत्वात् नव वा । तद् रूपादिवन्नित्यम् । समवायस्तु नित्येषु नित्यः, अनित्येषु कारणगुरुत्वसमवायजन्यः आश्रयविनाशकैर्विनाश्यश्च । लघुत्वव्यवहारो गुरुत्वतारतम्यात्, न गुणत्वरूपेणेति । ' (१३) द्रवत्वम् - द्रवत्वं स्यन्दनकर्मासमवायिकारणम् । समदेशस्थितस्य यत् समदेशनिम्नदेशान्तरेषु क्षरणम्, तत् स्यन्दनम् । तच न प्रयत्ननोदनादिजन्यम्, तेन विनापि जायमानत्वात् । नापि प्रशिथिलावयवसंयोगजम्, तन्तुप्रचितावयवे द्वितूलादौ क्षरणानुत्पादात् । तेन द्रवत्वं नाम गुणान्तरं तदसमवायिकारणम् । तद् द्विविधं नैमित्तिकं सांसिद्धिकं च । तद्विशेषगुणः । अन्यत् साधारणम् । भेदोऽनुमेयः । समवायाभिप्रायेण द्वैविध्यं, तेनैकत्वं नित्यत्वं च तस्य अस्ति । समवायस्य नित्यत्वमन्यत्वं च अस्ति जले । अन्यत्राग्निसंयोगादुत्पत्तिः, तद्विनाशाच्च नाशः । अन्यत्र रसादिवत्। यत्तु हिमकरकादौ द्रवत्वानुपलम्भः तद्दिव्यतेजः संयोगात् । वह्निसंयोगेन च लवणगतद्रवत्वप्रतिबन्धनात्। तेन घनीभूतावयवसंयोगात् करकादेः काठिन्यं, न स्वतः । (१४) स्नेहः स्नेहः संग्रहमृजादिहेतुस्तदनुमेयः । संग्रहः परस्परमसंयुक्तानां सक्त्वादीनां पिण्डीभावप्राप्तिधारणाकर्षणहेतुः संयोगविशेषः । मृजा कायस्योद्वर्तनादिकृता विशुद्धिः । आदिशब्दान्मृदुत्वं च तेषां हेतुः तैरनुमीयते । नापि द्रवत्वमात्रकृतं तद्बीजं काचकाञ्चनादिरिति, द्रवीभूतैरपि सत्त्वादिसंग्रहानुत्पादात् । तेन स्नेहो नाम गुणान्तरम् । स च अपां विशेषगुणः । पार्थिवे तु तैलादावुपष्टम्भकजलगतस्यैव स्नेहस्य संयुक्तसमवायादुपलम्भः शैत्यवत् । स्नेहस्यापि गुरुत्ववदेकत्वाद्युन्नेयम्। (१५) संस्कारः - संस्कारस्त्रिविधः वेगो भावना अलौकिकश्च । वेग मूर्तद्रव्यपञ्चकवृत्तिः नोदनादिनिमित्त-विशेषमपेक्ष्याद्यकर्मज उत्तरकर्मानुमेयस्तद्धेतुः, नोदनकर्मसंयोगानां तदुत्पादकत्वासम्भवात्। तेनोत्तरकर्मासमवायिकारणतया यो गुणोऽनुमीयते स वेगः । तच्च नोदनादिसहितमाद्यं कर्म जनयति, न केवलं मन्दगती वेगासम्भवात् । नियतदिक्- क्रियासन्तानहेतुर्वेगः प्रायेण कर्मजः । क्वचित्कारणवेगजोऽपि स्पर्शवद्द्रव्यसंयोगविनाश्यश्च । स च समवायाभिप्रायः । येषु तु प्रत्येकं द्रुतविलम्बितत्वकृतो गतिकार्यभेदो लक्ष्यते, तेषु तु प्रतिद्रव्यं वेगभेदः येषु तु न लक्ष्यते तेषु त्वेक एव वेगो नित्यश्च सामान्यवत् । भावनाख्यस्तु आत्मगुणोऽनुभवजन्योऽनुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुस्तदनुमेयः। स च सर्वात्मस्वेक एव लाघवात्। तेन जातिवन्नित्यत्वाद्युन्नेयम् । तस्य च ज्ञानव्यपदेशोऽस्ति । प्रतिभिन्नार्थस्मरणं संस्कारभेदोऽस्तु, न काचित् क्षतिः । वर्णोपलम्भजसंस्कारस्य भावनात्वे सत्यपि अर्थधीकार्याद् वैलक्षण्यमुन्नेयम् । स्थितस्थापकस्तु नास्त्येव, पूर्वावस्थाप्रापककर्मणः घनावयवसंयोगस्य कारणत्वसम्भवात् । तेन तदर्थं नानुमेयः संस्कार इति । अलौकिकस्तु शब्दैकगम्यसमवायोत्पत्तिविनाशहेतुका नानाकरणद्रव्यवृत्तिप्रोक्षणादिजन्यः संस्कारः तन्त्रभागे विविक्तः ।
(१६) बुद्धिः-अर्थप्रतिबद्धव्यवहारानुकूलस्वभावः पुरुषस्य धर्मविशेषो बुद्धिरुपलब्धिर्ज्ञानं संविदिति व्यपदिश्यते । सा च यथार्था स्वप्रकाशा फलतोऽनुमेया विप्रतिपन्नबोधाय, सर्वात्मस्वभिन्ना, अहं बुध्ये अहं बुध्ये इत्यभिन्नाकारप्रत्ययात्। तत्समवायस्तु इन्द्रियादिहेतुभेदात् प्रत्यात्मप्रतिविषयं च भिद्यते । समवायापेक्षया तत्र व्यवस्थोपपत्तिः । तेनैका नित्या च। प्रत्यक्षादिव्यवहारश्च समवायकारणतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org