________________
६६८ / १२९०
षड्दर्शन समुच्चय, भाग-२, परि ६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) ३ - गुणाः-निरवयवो द्रव्येकसमवेतः प्रातिस्विकरूपेण नित्यद्रव्यवृत्तिः संयोगविभागयोरनपेक्षतया अहेतुर्गुण इति वा । (१) रूपम्–बाह्येन्द्रियाणां मध्ये चक्षुर्मात्रं यद् ग्राहकम्, तद् रूपम् । यच्च रूपादन्यच्चाक्षुषं द्रव्यं गुणादिर्वा, तत् सर्वं द्विबाह्येन्द्रियहग्राह्यम् । नित्यानित्यद्रव्येष्वेकमेव रूपं नित्यं च । समवायमपेक्ष्य कार्यत्वव्यवहारः । (२) रसः - रसनग्राह्यो रसः । स च द्विविधः - पाकजसमवायोऽपाकजसमवायश्च । तदपि रूपवन्नेयम् । रूपरसादेरेकत्वं शौक्ल्यमाधुर्यादेरनेकत्वेऽपि शब्दैकत्ववन्नेयम् । (३) गन्धः - घ्राणग्राह्यो गन्धः । स द्विविधः सुरभिरसुरभिश्च । तस्यापि रूपवत्सर्वमुन्नेयम् । (४) स्पर्शः-बाह्येन्द्रियाणां मध्ये त्वङ्मात्रग्राह्यो गुणः स्पर्शः । स च चतुर्विधः - (१) पाकजानुष्णाशीतस्पर्शः, (२) शीतस्पर्शः, (३) उष्णस्पर्श:, (४) अनुष्णाशीतस्पर्श इति । रूपरसस्पर्शसमवायानां यथासम्भवं जलादिकार्यद्रव्यत्रयसमानकारणगुणसमवायपूर्वकत्वमेव, तदनुविधायित्वाद्, अन्यथातिप्रसङ्गात् । आश्रयनाशकारणादेव नाशः । जलादिषु परमाणुषु नित्यत्वमेव, संस्कारकत्वात् । पार्थिवपरमाणुषु तु अग्निसंयोगादेव उत्पत्तिविनाशौ । कार्यद्रव्ये तु समानकारणगुणसमवायाद् अग्निसंयोगाद् वा उत्पत्तिः । आश्रयनाशकारणाद् अग्निसंयोगाद् वा नाशः । द्रव्योत्पत्तिविनाशसमकालीनौ च रूपादिसमवायोत्पत्तिविनाशौ कारणगुणसमवायाद् आश्रयनाशकारणजन्यौ उन्नेयौ । तौ च समवायभावाभावाभ्यामाश्रयोत्पत्तिनाशाभ्यां विनेवानुमितौ पाकजावुन्नेयौ, अतः पाकेन रूपादिरेवोत्पद्यते, न घटोत्पत्तिः, पूर्वघटप्रत्यभिज्ञानात् । (५) शब्दः-श्रोत्रग्राह्योऽम्बरगुणो नित्यो व्याप्यवृत्तिनित्यसमवायः । स द्विविधः- वर्णलक्षणोऽवर्णलक्षणश्च । अकारादिवर्णलक्षणः, शङ्खादिनिमित्तः अवर्णलक्षण इति । (६) परिमाणम् - मानव्यवहारहेतुर्गुणः परिमाणम् । तच्चतुर्विधम्- अणुत्वम्, महत्त्वम्, ह्रस्वत्वम्, दीर्घत्वं चेति । परस्परविरोधाद् एकत्र अणुत्वमहत्त्वयोरनिवेशः, तद्वद् ह्रस्वत्वदीर्घत्वयोरन्यत्र । परमाणुद्व्यणुकयोरणुत्वमेव परिमाणम्, द्व्यणुके ह्रस्वत्वं च । त्र्यणुकेषु महत्त्वदीर्घत्वे । खादिचतुष्टये परमहत्त्वदीर्घवे । मनसस्त्वणुत्वमेव । अणुत्वह्नस्वत्वदीर्घत्व- परममहत्त्वानि नित्यानि, एकत्वं चास्ति तेषाम् । परमाणुषु खादिषु च समवायो नित्योऽनेकश्च । द्व्यणुकादिषु तु समवायोऽनित्यः । त्र्यणुकादिषु तु महत्त्वस्य नित्यत्वमनेकत्वं च । द्व्यणुकत्र्यणुकयोः समवायारम्भकमवयवगतद्वत्वबहुत्वमेव । क्वचिन्महत्त्वमपि, क्वचित् प्रचयमपि, क्वचित् सहैवेति यथासम्भवं वेदितव्यम् । समवायस्य च नाशः आश्रयनाशाद् वा समवायान्तराद्वेति । (७) पृथक्त्वम् – अपोद्धारव्यवहारहेतुर्गुणः पृथक्त्वम् भेदादिशब्दसमानार्थत्वात् कार्यद्रव्येषु स्वरूपभेद एव पृथक्त्वम् । गुणादिष्विव तद्व्यवहारबुद्धिः, नित्येषु तु धर्म एव, अन्यथा व्यावृत्त्यसिद्धेः, स एव विशेष इत्युच्यते । तेन नित्यानि नित्यसमवायानि अनन्ताश्चेति । एकत्वे भेदासिद्धेः द्विपृथक्त्वादि नास्त्येव, कार्यद्रव्येषु भेदातिरिक्तपृथक्त्वानभ्युपगमादिति । (८) संयोगः - युतसिद्धयोः प्राप्तिः संयोगः । सम्बन्धिनोः परस्परविभागाश्रयत्वयोग्यता च युतसिद्धिरिति सामान्यलक्षणम्। नित्येषु तु सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं विशेषलक्षणम् । अनित्येषु तु सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वमिति । 'घटपटौ संयुक्तौ ' - इत्यादिप्रत्ययश्च संयोगसद्भावे प्रमाणम् । स चैको नित्योऽनित्यसमवायश्च । स च समवाय आश्रयाश्रयिभेदात् क्रियाभेदाच्च भिद्यते । स च रूपादिवदेकद्रव्यनिष्ठः, नानेकद्रव्यनिष्ठः प्रत्ययस्य संयुक्तविषयत्वात् । स च त्रिविधः - अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति, यथा-स्थाणुश्येनयोः, यथा - मल्लयोः, यथा - तुरीपटयोरिति । संयोगस्य च द्रव्यारम्भक्त्वे चरमभाविद्रव्यापेक्षत्वम्, गुणकर्मणोः तत्सापेक्षत्वम्, तत्समवायस्य च तदेकार्थसमवेताद् विभागाद् वा आश्रयविनाशकाद् वा विनाश इति । (९) विभागः-संयोगघातकगुणो विभागः । घटपटौ च संयुज्यविभक्तावित्यादि प्रत्ययश्च विभागसद्भावे प्रमाणम् । विभागश्च त्रिविधः-अन्यतरकर्मजः, उभयकर्मजः, विभागजश्चेति । विभागजस्तु द्विविध:--कारणविभागजः, कारणाकारणविभागजश्च। आद्यः वेणुदलविभागजः खदलविभागः । कारणाकारणविभागजश्च अङ्गुलीतरुविभागजनकेन कर्मणा अङ्गुलीतरुविभागः, तेन हस्ततरुविभाग इति । अङ्गुलीसमवेतस्य कर्मणः तत्राकारणत्वात् । विभागश्च सर्वत्रैकोऽनित्यः अनित्यसमवायश्च
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org