________________
षड्दर्शन समुच्चय, भाग-२, परि ६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः)
पुनः समानजवयोः वाय्वोः विरुद्धदिक्क्रिययोस्सन्निपातः सोऽपि वाय्वोरूर्ध्वगमनादनुमीयते, तदपि तृणादीनामूर्ध्वगत्याऽनुमीयते, प्रयोगस्तु - 'प्रतिहन्यमानाद् वायोः प्रतिहन्ता वायुरन्यः, तत्प्रतिहन्तृत्वाद्, देवदत्ताद् यज्ञदत्तवत् ।' 'प्रतिहन्यते चायं वायुः, अनूर्ध्वगमनशीलत्वे प्रयत्नाद्यसम्भवे सति ऊर्ध्वगमनत्वात् परस्पराभिहतनदीपयः पूरवत् । ' ऊर्ध्वगतिमानयम्, तृणादीनामूर्ध्वगत्यसमवायिकारणसंयोगाश्रयत्वात्, तथाविधज्वलनवत् ।' 'तृणाद्यूर्ध्वगमनं च स्पर्शवद्वेगवद्द्रव्यसंयोगजम्, अनूर्ध्वगमनस्य प्रयत्नाद्यसम्भवे सत्यूर्ध्वगमनत्वात् ज्वलनप्रवर्तिततूलाद्यूर्ध्वगमनवत् । वायुरपि द्विविधः अणुकार्यभेदात् । कार्यं त्रिविधम्-इन्द्रियम्, विषयः प्राण इति । स्पर्शोपलम्भकं त्वग् इन्द्रियम् । केशनखयोः तदभावादशरीरता । विषयवस्तु शब्दकम्पनहेतुः तिर्यग्गमनस्वभावो मेघादिप्रेरणसमर्थः । प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः । स पञ्च कार्यभेदात् पञ्च प्राणादिसंज्ञां लभते । मुखनासिकाभ्यां निष्क्रमणप्रवेशनात् प्राण इत्यादि ।
६६७ / १२८९
(५) आकाशः - नभः शब्दगुणम् । 'शब्दो गुणः, स्पर्शान्यत्वे सति बाह्येकेन्द्रियग्राह्यत्वाद्, रूपवत् ।' परिशेषान्नभ एव कारणम् । तस्य परिमाणपृथक्त्वसंयोगविभागशब्दाः पञ्च गुणाः । 'आकाशो न प्रत्यक्षः, नीरूपत्वात् मनोवत् ।'
(६) काल:- चिरादिविशिष्टप्रत्ययलिङ्गः कालः । (७) दिक् - इतः प्राग् - इत्यादिविशिष्टप्रत्ययलङ्गा दिक् । परत्वमपरत्वं च कार्यमागन्तुहेतुजम् । विना दिक्कालयोर्योगमन्यथा नोपपद्यते ।।३।।
'कालो न प्रत्यक्षः, नीरूपत्वात् मनोवत् ।' अनुमानं तु अस्य सत्त्वे प्रमाणम् - (१) 'स्थविरादौ परत्वम्, तपनविप्रकर्षबुद्धिजन्यम्, तदनुविधायित्वात्, कुविन्दपटवत् । ' (२) 'तपनपरिस्पन्दाः स्थविरशरीरसम्बद्धाः, तदवच्छेदकत्वात्, पटावच्छेदकमहारजतरागवत्' । (३) 'तेषां तत्सम्बन्धः, तदाश्रयसंयुक्तद्रव्यद्वारकः, प्रकारान्तरासम्भवे सति सम्बन्धत्वात्, पटे महारजतरागसम्बन्धवत् ।' अन्यथा परत्वादिविशिष्टप्रत्ययानुपपत्तेः । तस्मात् तपनपरिस्पन्दानां स्थविरादिसम्बन्धद्वारभूतं द्रव्यं कालः । तपनसंयोगानां मूर्त्तसम्बन्धे द्वारभूतं द्रव्यं दिक् । स्थविरादौ परत्वादेः तपनादिक्रियाया असमवायिकारणत्वात् । अन्यत्र संयोगस्य असमवायिकारणत्वात् तेन तत्सिद्ध्यर्थं दिक्कालावाश्रयणीयौ । तौ च प्रत्यक्षौ विशेषगुणरहितनित्यद्रव्यत्वात्, मनोवत्' । तयोः परिमाणपृथक्त्वसंयोगविभागाः चत्वारो 'गुणा इति 1
(८) आत्मा - बुद्ध्याद्याश्रयत्वम्, भोक्तृत्वम्, मितौ कर्तृत्वं वा आत्मनो लक्षणम् । तस्य परिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः त्रयोदश गुणाः । आकाशादिचतुर्णां परममहत्त्वं परिमाणम् अतः सर्वगतत्वाद् अमूर्तत्वम्, निरवयवत्वान्नित्यत्वं चास्त्येव सामान्यरहितत्वं च । आत्मव्यक्तयस्त्वनन्ताः, अन्येषामेकत्वमेवेति ।
(९) मनः- द्रव्यानारम्भकत्वे सत्यणुद्रव्यं भवेन्मनः । अथवा सुखादेरापरोक्ष्यस्य साधनं मन इन्द्रियम् ।।४।। अयौगपद्यं तल्लिङ्गं ज्ञानानामक्षजन्मनाम् ।
'विवादाध्यासिता बुद्ध्यादयः, संयोगासमवायिकारणकाः नित्यद्रव्यगतानित्यविशेषगुणत्वात्, पार्थिवपरमाणुगतलौहित्यवत्'। गुणिनित्यत्वपक्षे बुद्ध्यादयो द्रव्यान्तरसंयोगाधीनसमवायाः नित्यद्रव्यगतानित्यसमवायविशेषणगुणत्वात् परमाणुलौहित्यवत् । परिशेषात्तद् द्रव्यं मनः । मनसोऽणुत्वमेव परिमाण परिशेषादसर्वगतत्वान्मूर्त्तत्वं च भवेत् तस्य । परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाश्चेति सप्त मनसो गुणाः । आश्रयानन्तत्वाद् अनन्तत्वम् । एकस्मिन्नेकमेव आत्मवत् । तत्तदवयवेषु सञ्चरणात् तत्तदवयववेदनादिव्यवहारः । आत्मनस्तु प्रत्यक्षत्वमेव सम्मतम्, अन्येषामनुमेयत्वमेव मनस इति ।
अत्र पृथिव्यादिवायुपर्यन्तानां प्रत्यक्षमेव प्रमाणम् । द्रव्यलक्षणं स्वात्मनि कार्यारम्भकत्वमिति वा । सांसिद्धिकद्रवत्वमपाकजरसाश्रयत्वं वा जलस्य लक्षणम् । स्पर्शान्तराभिव्यञ्जकस्पर्शवान् वायुरिति ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org