________________
६६६ / १२८८
'
षड्दर्शन समुच्चय, भाग-२, परि-६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) असाधारणधर्मत्वात् तेषाम् । रूपरसगन्धस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्वसंस्काराः त्रयोदश तस्या गुणाः । पाकजाश्च रूपरसाः पृथिव्यामेव, तत्सम्पर्काज्जलादौ तेषामुपलम्भः, तदपगमे तदनुपलम्भात् । गन्धस्तु तस्या एव स द्विविध:- सुरभिरसुरभिश्च । पाकजोऽनुष्णाशीतस्पर्शः तस्या एव । रूपरसावनियतौ । सा च द्विविधा नित्या अनित्या च । परमाणुलक्षणा कार्यलक्षणा च । तत्र कार्यं त्रिविधम्-शरीरेन्द्रिर्यावषयसंज्ञकम् । तत्र मनस्त्वगिन्द्रियायनं शरीरं भोगायतनं वा । तच्च द्विविधम् - योनिजमयोनिजं चेति । शुक्रशोणितसन्निपातो योनिः, तदुत्पन्नं योनिजम् । तदपि द्विविधम्- जरायुजमण्डजं च । उद्भिज्जं तु नास्त्येव । अयोनिजं तु क्षुद्रजन्तूनां शरीरं यातनाशरीरम् । इन्द्रियं तु गन्धव्यञ्जकं घ्राणम् । यच्च शरीरसंयुक्तमतीन्द्रियं साक्षात्प्रतीतिकारणम्, तदिन्द्रियमुच्यते । प्रतीयमानतया भोगसाधनं विषयः । स च द्व्यणुकादिक्रमेण आरब्धः त्रिविधो मृत्पाषाणस्थावरलक्षणः । क्रमे कारणमुच्यते - (१) 'त्रसरेणवो महान्तः, चाक्षुषद्रव्यत्वाद्, घटवत् । (२) 'ते च कार्याः, महत्वाद्, घटवत् ।' (३) 'ते च सावयवाः, कार्यत्वाद्, घट ।' (४) ‘त्रसरेण्ववयवा न महान्तः, आरम्भकद्रव्यत्वे सत्यप्रत्यक्षत्वात्, परमाणुवत् । ' ( ५ ) त्रसरेणवः कार्यद्रव्येणारब्धा, महत्त्वे सति कार्यत्वाद्, घटवत् । (६) त्रसरेण्वारम्भकं कार्यद्रव्यं सावयवम्, कार्यद्रव्यत्वाद् घटवत् । तदवयवाः परमाणव एव । (७) ‘लोष्ठादिष्ववयवेषु अणुत्वातिशयोऽवधिमान्, परिमाणातिशयत्वात्, महत्त्वातिशयवत् ।' (८) स च नित्यः, निरवयवत्वाद्, आकाशवत् । ( ९ ) स च निरवयवः, अल्पपरिमाणतारतम्यस्यावधित्वाद्, यत् सावयवं तदल्पपरिमाणतारतम्यं न भवति, यथा तन्त्वादयः' यद्वा (१०) स च निरवयवः, परिमाणतारतम्यस्य अवधित्वात्, महत्त्वपरिमाणावधिभूतवत्' । (११) 'परमाणोः संयोगः क्रियाजः संयोगाजन्ये सति संयोगत्वात्, तन्तुतुरीसंयोगवत् । ' (१२) परमाणोराद्यं कर्म पुरुषविशेषगुणकारितम्, नोदनाभिघातसंस्काराजन्यत्वे सति कर्मत्वात्, पाणिकर्मवत् ।' (१३) परमाणूनामाद्यं कर्म सुखदुःखेच्छाद्वेषप्रयत्नसंस्कारेभ्यो व्यतिरिक्तपुरुषविशेषगुणकारितम्, प्रयत्नादीनामभावे सति पुरुषगुणकारितत्वाद्, यदभावे यदुत्पद्यते, तत्ततो व्यतिरिक्तकारणम्, यथा तत्वाद्यभावे घटः तद्व्यतिरिक्तजन्यः' । (१४) 'तच्चादृष्टं स्वाश्रयसंयोगमपेक्ष्य आश्रयान्तरे कर्म आरभते, एकद्रव्यत्वे सति क्रियाहेतुत्वाद्, गुरुत्ववत् । ' परमाणूनामाद्यं कर्म अदृष्टवदात्मसंयोगादेव, ततश्च परस्परसंयोगः, स द्वितीयसंयोगस्याश्रयः, संयुक्ताभ्यां द्वाभ्यां द्व्यणुकोत्पत्तिः, द्व्यणुकत्रयेण त्र्यणुकोत्पत्तिः, न द्वाभ्याम्, महत्त्वानुपपत्तेः । त्रित्वनियमो लाघवात् । द्व्यणुकावयवस्य कार्यत्वे परिमाणतारतम्यानुपपत्तिः, अतस्तदवयवौ निरवयवाविति द्व्यणुकादिक्रमेण घटाद्युत्पत्तिः ।
(२) जलम्-स्नेहाश्रयं जलम् । रूपरसस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्काराः त्रयोदश तस्य गुणाः । तस्य शौक्ल्यमेव रूपम्, माधुर्यमेव रसः, शैत्यमेव स्पर्शः, स्वाभाविकमेव द्रवत्वम्, अपाकजाश्च ते । तद् द्विविधम्-परमाणुकार्यभेदात् । कार्यं द्विविधम्-इन्द्रियं विषयं च । इन्द्रियं रसनम् । विषयश्चाब्धि हिमकरकादिः । करकायाः काठिन्यं दृढसंयोगात् । गन्धादेरुपलम्भोऽन्यसम्पर्कात् । गुरुत्वं जलभूम्योरेव, स्नेहोऽम्भस्येवेति ।
(३) तेज - भास्वररूपवत् तेजः, पररूपप्रकाशकं भास्वरमुच्यते । रूपस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्काराः दश तेजोगुणः । तेजोऽपि अणुकार्यभेदाद् द्विविधम् । इन्द्रियरूपं कार्यं चक्षुः । विषयश्चतुर्विध:-भौमम्, दिव्यम्, औदर्यम् आकरजं च । भौमं काष्ठेन्धनप्रभवम्, ऊर्ध्वज्वलनस्वभावम् । दिव्यम् अबिन्धनं चन्द्रसूर्यादि । अशितपीताहारपरिणत्यर्थम् औदर्यम् । आकरजं सुवर्णादि । तस्य शौक्ल्यं भास्वरं च रूपम् । पाकनिमित्तं द्रवत्वम् । स्पर्शश्चाष्ण्यमेव, चन्द्रचामीकरादौ त्वन्यसंसर्गादनुपलम्भः । गुरुत्वादेरन्यसंसर्गादुपलम्भ इति ।
(४) वायु-अपाकजत्वे सति अनुष्णाशीतस्पर्शवान् वायुः । तस्य स्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अष्टौ गुणाः । तस्य युगपच्छीतोष्णादिविरुद्धधर्मविशिष्टस्य उपलम्भान्नानात्वं प्रत्यक्षं सम्मूर्च्छनादनुमेयमपि, सम्मूर्च्छनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org