Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 694
________________ षड्दर्शन समुच्चय, भाग-२, परि ६, मीमांसादर्शन का विशेषार्थ (गुरूसम्मतपदार्थाः) पुनः समानजवयोः वाय्वोः विरुद्धदिक्क्रिययोस्सन्निपातः सोऽपि वाय्वोरूर्ध्वगमनादनुमीयते, तदपि तृणादीनामूर्ध्वगत्याऽनुमीयते, प्रयोगस्तु - 'प्रतिहन्यमानाद् वायोः प्रतिहन्ता वायुरन्यः, तत्प्रतिहन्तृत्वाद्, देवदत्ताद् यज्ञदत्तवत् ।' 'प्रतिहन्यते चायं वायुः, अनूर्ध्वगमनशीलत्वे प्रयत्नाद्यसम्भवे सति ऊर्ध्वगमनत्वात् परस्पराभिहतनदीपयः पूरवत् । ' ऊर्ध्वगतिमानयम्, तृणादीनामूर्ध्वगत्यसमवायिकारणसंयोगाश्रयत्वात्, तथाविधज्वलनवत् ।' 'तृणाद्यूर्ध्वगमनं च स्पर्शवद्वेगवद्द्रव्यसंयोगजम्, अनूर्ध्वगमनस्य प्रयत्नाद्यसम्भवे सत्यूर्ध्वगमनत्वात् ज्वलनप्रवर्तिततूलाद्यूर्ध्वगमनवत् । वायुरपि द्विविधः अणुकार्यभेदात् । कार्यं त्रिविधम्-इन्द्रियम्, विषयः प्राण इति । स्पर्शोपलम्भकं त्वग् इन्द्रियम् । केशनखयोः तदभावादशरीरता । विषयवस्तु शब्दकम्पनहेतुः तिर्यग्गमनस्वभावो मेघादिप्रेरणसमर्थः । प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः । स पञ्च कार्यभेदात् पञ्च प्राणादिसंज्ञां लभते । मुखनासिकाभ्यां निष्क्रमणप्रवेशनात् प्राण इत्यादि । ६६७ / १२८९ (५) आकाशः - नभः शब्दगुणम् । 'शब्दो गुणः, स्पर्शान्यत्वे सति बाह्येकेन्द्रियग्राह्यत्वाद्, रूपवत् ।' परिशेषान्नभ एव कारणम् । तस्य परिमाणपृथक्त्वसंयोगविभागशब्दाः पञ्च गुणाः । 'आकाशो न प्रत्यक्षः, नीरूपत्वात् मनोवत् ।' (६) काल:- चिरादिविशिष्टप्रत्ययलिङ्गः कालः । (७) दिक् - इतः प्राग् - इत्यादिविशिष्टप्रत्ययलङ्गा दिक् । परत्वमपरत्वं च कार्यमागन्तुहेतुजम् । विना दिक्कालयोर्योगमन्यथा नोपपद्यते ।।३।। 'कालो न प्रत्यक्षः, नीरूपत्वात् मनोवत् ।' अनुमानं तु अस्य सत्त्वे प्रमाणम् - (१) 'स्थविरादौ परत्वम्, तपनविप्रकर्षबुद्धिजन्यम्, तदनुविधायित्वात्, कुविन्दपटवत् । ' (२) 'तपनपरिस्पन्दाः स्थविरशरीरसम्बद्धाः, तदवच्छेदकत्वात्, पटावच्छेदकमहारजतरागवत्' । (३) 'तेषां तत्सम्बन्धः, तदाश्रयसंयुक्तद्रव्यद्वारकः, प्रकारान्तरासम्भवे सति सम्बन्धत्वात्, पटे महारजतरागसम्बन्धवत् ।' अन्यथा परत्वादिविशिष्टप्रत्ययानुपपत्तेः । तस्मात् तपनपरिस्पन्दानां स्थविरादिसम्बन्धद्वारभूतं द्रव्यं कालः । तपनसंयोगानां मूर्त्तसम्बन्धे द्वारभूतं द्रव्यं दिक् । स्थविरादौ परत्वादेः तपनादिक्रियाया असमवायिकारणत्वात् । अन्यत्र संयोगस्य असमवायिकारणत्वात् तेन तत्सिद्ध्यर्थं दिक्कालावाश्रयणीयौ । तौ च प्रत्यक्षौ विशेषगुणरहितनित्यद्रव्यत्वात्, मनोवत्' । तयोः परिमाणपृथक्त्वसंयोगविभागाः चत्वारो 'गुणा इति 1 (८) आत्मा - बुद्ध्याद्याश्रयत्वम्, भोक्तृत्वम्, मितौ कर्तृत्वं वा आत्मनो लक्षणम् । तस्य परिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः त्रयोदश गुणाः । आकाशादिचतुर्णां परममहत्त्वं परिमाणम् अतः सर्वगतत्वाद् अमूर्तत्वम्, निरवयवत्वान्नित्यत्वं चास्त्येव सामान्यरहितत्वं च । आत्मव्यक्तयस्त्वनन्ताः, अन्येषामेकत्वमेवेति । (९) मनः- द्रव्यानारम्भकत्वे सत्यणुद्रव्यं भवेन्मनः । अथवा सुखादेरापरोक्ष्यस्य साधनं मन इन्द्रियम् ।।४।। अयौगपद्यं तल्लिङ्गं ज्ञानानामक्षजन्मनाम् । 'विवादाध्यासिता बुद्ध्यादयः, संयोगासमवायिकारणकाः नित्यद्रव्यगतानित्यविशेषगुणत्वात्, पार्थिवपरमाणुगतलौहित्यवत्'। गुणिनित्यत्वपक्षे बुद्ध्यादयो द्रव्यान्तरसंयोगाधीनसमवायाः नित्यद्रव्यगतानित्यसमवायविशेषणगुणत्वात् परमाणुलौहित्यवत् । परिशेषात्तद् द्रव्यं मनः । मनसोऽणुत्वमेव परिमाण परिशेषादसर्वगतत्वान्मूर्त्तत्वं च भवेत् तस्य । परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाश्चेति सप्त मनसो गुणाः । आश्रयानन्तत्वाद् अनन्तत्वम् । एकस्मिन्नेकमेव आत्मवत् । तत्तदवयवेषु सञ्चरणात् तत्तदवयववेदनादिव्यवहारः । आत्मनस्तु प्रत्यक्षत्वमेव सम्मतम्, अन्येषामनुमेयत्वमेव मनस इति । अत्र पृथिव्यादिवायुपर्यन्तानां प्रत्यक्षमेव प्रमाणम् । द्रव्यलक्षणं स्वात्मनि कार्यारम्भकत्वमिति वा । सांसिद्धिकद्रवत्वमपाकजरसाश्रयत्वं वा जलस्य लक्षणम् । स्पर्शान्तराभिव्यञ्जकस्पर्शवान् वायुरिति । For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756