________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ७६, मीमांसक दर्शन
परन्तु रत्नाकरावतारिका में प्रत्यक्षादि की अनुत्पत्ति के ही दो रुप कहकर, इस श्लोक में अभाव प्रमाण दो प्रकार ही बता है । "स" शब्द पुल्लिंग है और प्रमाणाभाव का विशेषण है ।
भाव प्रमाण को दो प्रकार का मानना या तीन प्रकार का मानना, वह बहुश्रुत आचार्य भगवंतो के ग्रंथो से जान लेना ।
अथ येऽभावप्रमाणमेकधाभिदधति तन्मतेन प्रस्तुतश्लोको व्याख्यायते । प्रमाणपञ्चकं - प्रत्यक्षादिप्रमाणपञ्चकं यत्र - यस्मिन् वस्तुरूपे - घटादिवस्तुरूपे न जायते-न व्यापिपर्त्ति वस्तुरूपं द्वेधा, सदसद्रूपभेदात् । अतो द्वयोरूपयोरेकतरव्यक्तये प्राह- “ वस्तुसत्ता" इत्यादि । वस्तुनो-घटादेः सत्ता- सद्रूपता सदंश इति यावत् तस्या अवबोधार्थं सदंशो हि प्रत्यक्षादिपञ्चकस्य विषयः, स चेत्तेन न गृह्यते, तदा तत्र वस्तुरूपे शेषस्यासदंशस्य ग्रहणायाभावस्य प्रमाणतेति । “वस्त्वसत्तावबोधार्थं " इति क्वचित्पाठान्तरम् । तत्रायमर्थःप्रमाणपञ्चकं यत्र वस्तुनो रूपे न व्याप्रियते, तत्र वस्तुनो याऽसत्ता-असदंशः, तदवबोधार्थमभावस्य प्रमाणतेति । अनेन च त्रिविधेनैकविधेन वाभावप्रमाणेन प्रदेशादौ घटाभावो गम्यते न च प्रत्यक्षेणैवाभावोऽवसीयते, तस्याभावविषयत्वविरोधात्, II-5 भावांशेनैवेन्द्रियाणां संयोगात् । अथ घटानुपलब्ध्या प्रदेशे धर्मिणि घटाभावः साध्यत इत्यनुमानग्राह्योऽभाव इति चेत्, न साध्यसाधनयोः कस्यचित्संबन्धस्याभावात् तस्मादभावोऽपि प्रमाणान्तरमेव । अभावश्च प्रागभावादिभेदभिन्नो वस्तुरूपोऽभ्युपगन्तव्यः, अन्यथा कारणादिव्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् 1 तदुक्तम् ""न च स्याद्व्यवहारोऽयं कारणादिविभागतः । प्रागभावादिभेदेन नाभावो यदि भिद्यते 11911 यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिवद्वस्तुप्रमेयत्वाच्च 'गृह्यताम् ।।२।। न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता । कार्यादीनामभावः को भावो यः कारणादिना । । ३ । । (२/ १) वस्तुसंकरसिद्धिश्च तत्प्रामाण्यं समाश्रिता । क्षीरोदध्यादि यन्नास्ति प्रागभावः स उच्यते । । ४ । । नास्तिता पयसोदनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते । । ५ । ।" शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । । शशशृङ्गादिरुपेण सोऽत्यन्ताभाव उच्यते । । ६ । ।" यदि चैतद्व्यवस्थापकमभावाख्यं प्रमाणं न भवेत्, तदा प्रतिनियतवस्तुव्यवस्था दूरोत्सारितैव स्यात् । “ क्षीरे दधि भवेदेवं दनि क्षीरं घटे पटः । शशे श्रृङ्गं पृथिव्यादौ चैतन्यं
३६९ / ९९२
१ मीमांसाश्लोकवार्तिक, पृ. ४१४- श्लो. ७१-७३७-९-८-२-३-४-५-६ । २. गम्यते, ( २ / १) वस्त्वसंकरसिद्धिश्च मी. श्लोक. । ३. एव समाश्रया, ४ . इष्यते
(H-5 ) तु० पा० प्र० प० ।
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org