________________
सप्तभंगी
५०७/११३०
कारण संदेह से उत्पन्न सात प्रकार की जिज्ञासा और उनके कारण सात प्रकार के प्रश्न होते हैं, इन प्रश्नों के कारण प्रत्येक पर्याय में सात भङ्ग उत्पन्न होते हैं । ___ कहने का आशय यह है कि, मुख्यरूप से सत्त्व और असत्त्व धर्म का आश्रय लेकर सप्तभङ्गी उठती है । क्रम से
और क्रम के बिना इन्हीं दो धर्मों का विधान और निषेध करने के कारण सातभङ्ग हो जाते हैं । एक धर्म का आश्रय लेकर इन सात प्रकार के धर्मों से अतिरिक्त धर्म नहीं हो सकते, इसलिए उनके विषय में संशय-जिज्ञासा और प्रश्न ही नहीं हो सकते, इसलिए सप्तभङ्गी के समान अष्टभङ्गी आदि सम्भव नहीं है । प्रत्येक भङ्ग में स्यात् और एवकार का प्रयोग होता है । घट के सत्त्व धर्म को लेकर सात भङ्ग इस प्रकार होंगे-स्यादस्त्येव घट: १. स्यात्रास्त्येव घटः २. स्यादस्त्येव स्यानास्त्येव च घट: ३. स्यादवक्तव्य एव घटः ४. स्यादस्त्येव स्यादवक्तव्य एव च घटः ५. स्यानास्त्येव स्यादवक्तव्य एव च घटः ६. स्यादस्त्येव स्यात्रास्त्येव स्यादवक्तव्य एव च घटः ।
प्रथम भंग : अब प्रथमभंग का स्वरूप एवं उदाहरण बताते हुए जैनतर्क भाषा में कहा है कि, तत्र स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः ।(3) अर्थ : ‘स्यात्' सब पदार्थ हैं ही, इस प्रकार प्रधान रूप से विधि की विवक्षा करने पर प्रथम भङ्ग होता है ।
कहने का सार यह है कि, सब अर्थो को धर्मी बनाकर और एक सत्त्व धर्म का आश्रय लेकर भङ्गो का प्रकाशन 3. अथास्यां प्रथमभङ्गोल्लेखं तावद् दर्शयन्ति- तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः ॥४-१५ ।। (प्र.न.तत्त्वा.)
अत्र स्यात्पदमनेकान्तबोधकम्, 'अस्त्येव सर्वं कुम्भादि', इत्युक्ते स्वरूपेणास्तित्वमिव पररूपेणाप्यस्तित्वं प्राप्नोति, तव्यावृत्त्यर्थं स्यात्पदं, तेन च स्यात्-कथञ्चित्स्वद्रव्य-क्षेत्र-काल-भावैरेव कुम्भोऽस्ति, न परद्रव्य-क्षेत्र-काल-भावैरित्यर्थो लभ्यते । तथाहि-कुम्भो द्रव्यत: पार्थिवत्वेनास्ति नाऽऽबादित्वेन, देशतः पाटलिपुत्रत्वेनास्ति न कान्यकुब्जत्वेन, कालत: वासन्तिकत्वेनास्ति न शैशिरत्वेन, भावतः श्यामत्वेनास्ति न रक्तत्वेन । 'स्यादस्त्येव सर्वम्' इत्यत्र स्वरूपादिभिरस्तित्वमिव स्वरूपादिभिरेव नास्तित्वमपि स्यात् तद्व्यावृत्त्यर्थमेवकारग्रहणं, तेन चायमर्थो लभ्यते-यत् स्वरूपादिभिरस्त्येव सर्वं वस्तु न तु नास्त्यपि, पररूपादिभिर्नास्तित्वं तु इष्टमेव । एवकारस्त्रिधा-अयोगव्यवच्छेकः, अन्ययोगव्यवच्छेदकः, अत्यन्तायोगव्यवच्छेदकश्च । तत्र विशेषणसंगतैवकारोऽयोगव्यवच्छेदकः। अयोगव्यवच्छेदकत्वं नाम-उद्देश्यतावच्छेदकसमानाधिकरणाऽत्यन्ताभावाऽप्रतियोगित्वं, यथा 'शङ्खः पाण्डुर एव' इत्यत्रोद्देश्यतावच्छेदकं शङ्खत्वं, तत्समानधिकरणात्यन्ताभावो न तावत्पाण्डुरत्वात्यन्ताभावोऽपि तु पीतत्वाद्यत्यन्ताभावः, तत्प्रतियोगित्वं पीतत्वादी, अप्रतियोगित्वं पाण्डुरत्वे वर्तत इति लक्षणसमन्वयः । विशेष्यसंगतैवकारोऽन्ययोगव्यवच्छेदकः, अन्ययोगव्यवच्छेदकत्वं च विशेष्यभिन्नतादात्म्यादिव्यवच्छेदः, यथा-'पार्थ एव धनुर्धरः, अत्र पार्थान्यतादात्म्याभावो धनुर्धरे एवकारेण बोध्यते । क्रिया संगतैवकारश्चात्यन्तायोगव्यवच्छेदकः। अत्यन्ताऽयोगव्यवच्छेदकत्वं नाम-उद्देश्यतावच्छेदकव्यापकाभावाप्रतियोगित्वं, यथा-'नीलं सरोजं भवत्येव' इत्यत्र उद्देश्यतावच्छेदकं सरोजत्वं तद्व्यापकोऽत्यन्ताभावो नहि नीलाऽभेदाऽभावोऽपि तु पटाऽभेदाऽभावः, तत्प्रतियोगित्वं पटाऽभेदे, अप्रतियोगित्वं नीलाऽभेदे वर्तत इति लक्षणसमन्वयः । ननु ‘स्यादस्त्येव सर्वम्' इत्यादौ एवकारस्य क्रियासंगतत्वादत्यन्तायोगव्यवच्छेदेन भवितव्यं, तथा सति विवक्षिताऽसिद्धिः स्यात्, कस्मिंश्चिद् घटे अस्तित्वस्याभावेऽपि 'स्यादस्त्येव घटः' इत्याकारकप्रयोगसम्भवात्, यथा कस्मिंश्चित् सरोजे नीलत्वाऽभावेऽपि 'नीलं सरोजं भवत्येव' इत्याकारकप्रयोग इति चेत्, न, राद्धान्तेऽत्रायोगव्यवच्छेदकस्यैवकारस्य स्वीकृतत्वात्, क्रियासंगतैवकारोऽपि क्वचिदयोग-व्यवच्छेदबोधको भवति, यथा-'ज्ञानमर्थं गृह्णात्येव' इत्यत्र ज्ञानत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य अर्थग्राहकत्वे बोधः। एवं 'स्यादस्त्येव घटः' इत्यादिष्वपि अयोगव्यवच्छेदक एव एवकारो बोद्धव्यः । यद्यपि राद्धान्ते सत्त्वमिवाऽसत्त्वमपि घटस्य स्वरूपमेव, तथापि 'स्यादस्त्येव घटः' इत्यत्र सत्त्वस्य प्राधान्येन भानम्, असत्त्वस्य चाप्राधान्येन । एवं द्वितीयभने नास्तित्वस्य प्राधान्येन अस्तित्वस्य चाप्राधान्येन भानम् । एवमन्यभङ्गेष्वपि ज्ञातव्यम् ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org