________________
सप्तभंगी
५१९ / ११४२
" स्यान्नास्ति चावक्तव्यश्च" इस प्रकार का षष्ठ भंग में निषेध स्वरूप अर्थ के वाचक के साथ और युगपत् प्रधानभाव विधि-निषेध-स्वरूप अर्थ का अवाचक शब्द प्रतीत होता है । इसलिए एकान्त पंचम भंग भी रमणीय नहीं है ।
अब षष्ठभंग के एकान्त का खंडन करते है -
निषेधात्मनोऽर्थस्य वाचक सन्नुभयात्मनो युगपद- वाचक एवायमित्यप्यवधारणं न रमणीयम् ।।४-३३॥ इतरथाऽपि संवेदनात् ।।४-३४।। ('कथञ्चिन्नास्तित्वविशिष्टकथञ्चिदवक्तव्यस्वभावस्य वस्तुन एव वाचकः शब्दः ' इति षष्ठभङ्गैकान्तोऽपि न रमणीय इत्यर्थः ।। ३३ ।। प्रथमभङ्गादिषु विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् षष्ठभङ्गैकान्तोऽ न समीचीन इति भावः || ३४ | | )
-
“शब्द कथंचित् नास्तित्व विशिष्ट कथंचित् अवक्तव्य स्वभाववाली वस्तु का ही वाचक है ।" षष्ठभंग भी रमणीय नहीं है । क्योंकि शब्द प्रथम आदि भंग में विधि आदि की प्रधानता से प्रतीत होता षष्ठ भंग भी योग्य नहीं है । अब सप्तमभंग के एकान्त का खंडन करते है
है
-
क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनिर्नान्यथेत्यपि मिथ्या ।।४-३५ ।। विधिमात्रादिप्रधानतयापि तस्य प्रसिद्धेः । ।४-३६ ।। ('क्रमार्पितोभयत्वविशिष्टावक्तव्यस्वभावस्य वस्तुन एव वाचकः शब्द:' इत्यपि मिथ्या ।। ३५ । । ) ' स्यादस्त्येव घटः ' 'स्यान्नास्त्येव घटः' इति विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् सप्तभङ्गैकान्तोऽपि न युक्त इत्यर्थः ।। ३६।।)
ऐसा एकान्त
। इसलिए एकान्त
“शब्द क्रमार्पितउभयत्वविशिष्ट- अवक्तव्य स्वभाववाली वस्तु का ही वाचक है ।" एसा एकान्त सप्तम भंग भी मिथ्या है ।
• सप्तभंगो का सकलादेश एवं विकलादेश स्वभावः
अब सप्तभङ्गो के सकलादेश और विकलादेश स्वभावों का निरूपण करते है
सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । (10)
अर्थ : यह सप्तभङ्गी प्रत्येक भङ्ग में सकलादेश स्वभाववाली और विकलादेश स्वभाववाली है । अब दोनों का स्वरूप बताते है
-
10. इयं सप्तभङ्गी किं सकलादेशस्वरूपा, विकलादेशस्वरूपा वेत्यारेकां पराकुर्वन्ति इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावाच ।।४ - ४३ ।। अथ सकलादेशं लक्षयन्ति प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुन: कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ।।४-४४ ।।
-
Jain Education International
यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति सकलादेशः । अयमर्थः सकलादेशत्वेन विवक्षितं 'स्यादस्त्येव घट:' इदं वाक्यं न केवलमस्तित्वधर्मविशिष्टं घटं बोधयति किन्तु अनन्तधर्मात्मकं घटं प्रकाशयति । ननु कथमस्तित्वधर्मविशिष्टवस्तुबोधकमिदं वाक्यमनन्तधर्मात्मकवस्तुबोधकम् ? इति चेत्, उच्यते- सर्वधर्माणामस्तित्वात्मकत्वाद् एक धर्मविशिष्टवस्तुप्रतिपादनद्वारा इदं वाक्यं अनन्तधर्मात्मकं वस्तु प्रतिपादयति । ननु सर्वधर्माणामस्तित्वात्मकत्वेन न सम्भवति, परस्परभिन्नत्वात् सर्वधर्माणामिति चेत्, न कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा अस्तित्वाख्यस्य धर्मस्यानन्तधर्मात्मकत्वोपपत्तेः तथाहि यदा कालादिभिरष्टाभिः कृत्वा अभेदवृत्तेः-धर्म-धर्मिणोरभेदस्य प्राधान्यमङ्गीक्रियते तदा कालादिभिः समस्तधर्माणां तादात्म्येनावस्थितत्वात् 'स्यादस्त्येव घट:' इति वाक्यमेकधर्मविशिष्टवस्तुप्रतिपादनमुखेन यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति । के पुनः कालादयः ? इति चेत्, उच्यतेकाल:, आत्मरूपम्, अर्थ:, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दश्चैत्यष्टौ ।
तत्र 'स्यादस्त्येव घटः' इत्यत्र घटादौ यत्कालावच्छेदेनास्तित्वं वर्तते तत्कालावच्छेदेन शेषा अनन्तधर्मा अपि तत्र वर्तन्ते इति कालेनाऽभेदवृत्तिः । यदेवास्तित्वस्य घटगुणत्वमात्मरूपं स्वरूपं तदेवान्यसर्वगुणानामिति आत्मरूपेणाभेदवृत्तिः । य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एवान्यपर्यायाणामपीत्यर्थेनाऽभेदवृत्तिः । य एव चाविनाभावः कथञ्चित्तादात्म्यस्वरूपोऽस्तित्वस्य
For Personal & Private Use Only
www.jainelibrary.org