________________
सप्तभंगी
५०५/११२८ परिशिष्ट-४ सप्तभंगी सप्तभंगी का स्वरूप : जैनदर्शन के अनेकान्त सिद्धांत के स्तंभरुप सप्तभंङ्गी के स्वरूप का अब निरूपण करते हैसर्वत्रायं ध्वनिर्विधि-प्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ।।४-१३।। (प्रमाणनय तत्त्वालोक)
अयं ध्वनि:-शब्दः, सर्वत्र विधिमुखेन निषेधमुखेन च, स्वार्थ:-नित्यानित्याद्यनेकान्तात्मकं वस्तु, अभिदधान:प्रतिपादयन्, सप्तभङ्गी-स्यादस्तीत्यादिवक्ष्यमाणप्रकारं सप्तधा प्रयोगमनुगच्छति ।।१३।।
यह शब्द सर्वत्र विधि और निषेध की प्रधानता से स्वार्थ का (नित्यानित्यादि अनंतधर्मात्मक वस्तु का) प्रतिपादन करते वक्त "स्यादस्ति, स्यान्नास्ति..." इत्यादि आगे बतायेंगे, वे सप्तभंगी का = सात प्रकार के प्रयोग का अनुसरण करता है।
अब सप्तभंगी का स्वरूप स्पष्ट करते हुए जैनतर्क भाषा में कहा है कि,
केयं सप्तभङ्गीति चेदुच्यते-एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कित: सप्तधा वाक्प्रयोग: सप्तभङ्गी ।1)
अर्थ : सप्तभङ्गी क्या है ? इस प्रकार के प्रश्न का उत्तर यह है - किसी भी एक वस्तु में एक एक धर्म के विषय में
अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्ति- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्काराङ्कित: सप्तधा वाक्प्रयोग: सप्तभङ्गी ।।४-१४ ।। (प्रमाणनयतत्त्वालोक) एकत्र-जीवाजीवादी वस्तुनि, एकैकधर्मपर्यनुयोगवशात्-एकैकसत्त्वादिधर्मप्रश्नवशात्, अविरोधेन-प्रत्यक्षादिबाधापरिहारेण, व्यस्तयो:पृथग्भूतयोः, समस्तयोः-समुदितयोश्च विधि-निषेधयोः कल्पनया-पर्यालोचनया कृत्वा, स्यात्काराङ्कितः-स्याच्छब्दलाञ्छितः, सप्तधासप्तप्रकारैर्वचनविन्यासः सप्तभङ्गी ज्ञातव्या । इदमत्राऽऽकूतम्-जीवाजीवात्मकं सर्वं हि वस्तुजातमनन्तधर्मात्मकमिति सिद्धान्तः । तत्रैकैकधर्ममवलम्ब्य सप्तविधप्रश्नवशात् सप्तधावाक्यं प्रवर्तते । उद्देश्य-विधेयात्मकं हि वाक्यं भवति, एवं च कस्मिंश्चिद् वस्तुनि कमपि धर्ममवलम्ब्योद्देश्य-विधेयात्मकं सप्तधैव वचनविन्यासः प्रवर्तते, नाधिकं नाऽपि न्यूनं, तथाहि-घटे अस्तित्वधर्ममवलम्ब्य ‘स्यादस्त्येव घटः' 'स्यात्रास्त्येव घटः' 'स्यादस्ति नास्ति च घटः' 'स्यादवक्तव्य एव घटः' 'स्यादस्ति चावक्तव्यश्च घटः' 'स्यानास्ति चावक्तव्यश्च घटः' 'स्यादस्ति नास्ति चावक्तव्यश्च घटः' इति सप्तभङ्गाः प्रवर्तन्ते । प्रश्नानां सप्तविधत्वं च प्रश्नकर्तुः सप्तविधजिज्ञासोदयात् । जिज्ञासाया: सप्तविधत्वं सप्तविधसंशयसमुद्भवात् । सन्देहस्यापि सप्तविधत्वं संदेहविषयीभूतधर्माणां कथञ्चिदस्तित्वादीनां सप्तविधत्वात् । तथाहि-कथञ्चिदस्तित्वं, कथञ्चिन्नास्तित्वं, कथञ्चित्क्रमार्पितोभयत्वं, कथञ्चिदवक्तव्यत्वं, कथञ्चिदस्तित्वविशिष्टावक्तव्यत्वं, कथञ्चिन्नास्तित्वविशिष्टावक्तव्यत्वं, कथञ्चित्क्रमार्पितोभयविशिष्टावक्तव्यत्वमिति। एवं च वस्तुषु प्रतिपर्यायमवलम्ब्य सप्तविधसंशयविषयीभूतधर्माणां विद्यमानत्वाद् घटः स्यादस्ति न वा ? इति कथञ्चित्सत्त्वसर्वथासत्त्वरूपविरुद्धकोटिद्वयात्मकः संशय: समाविर्भवति, संशयेन च घटे वास्तविकसत्त्वनिर्णयार्थं जिज्ञासोत्पद्यते, ततो घट: किं स्यादस्त्येव ? इति प्रश्नः प्रवर्तते तादृशप्रश्नवशात् प्रतिपादयितुः प्रतिपिपादयिषा जायते, ततः प्रतिपादयति, तथा च प्रश्नानां सप्तधैव प्रवर्तमानत्वादुत्तरस्यापि सप्तविधत्वमेव प्रपन्नं भवति । इयंसप्तभङ्गीप्रमाणसप्तभङ्गी-नयसप्तभङ्गीभेदेन द्विविधा । तत्र प्रतिभङ्गं सकलादेशस्वभावा प्रमाणसप्तभङ्गी । प्रतिभङ्गं विकलाऽऽदेशस्वभावा च नयसप्तभङ्गी । एकधर्मबोधनमुखेन अभेदवृत्त्या अभेदोपचाराद्वा तदात्मकाशेषधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं सकलादेशत्वम्। कुत्राऽभेदवृत्त्या प्रतिपादयति ? कुत्र चाभेदोपचारेण ? इति चेत्, उच्यते-द्रव्यार्थनयाङ्गीकारपक्षे सर्वपर्यायाणां द्रव्यात्मकत्वात् 'स्यादस्त्येव घटः' इति वाक्यमस्तित्वलक्षणैकधर्मप्रतिपादनद्वारा तदात्मकाशेषधर्मात्मकं वस्तु अभेदवृत्त्या प्रतिपादयति । पर्यायार्थनयस्वीकारपक्षे तु सर्वपर्यायाणां परस्परभिन्नत्त्वाद् एकस्य शब्दस्यानेकार्थप्रत्यायने सामर्थ्याऽभावादभेदोपचारेणानन्तधर्मात्मकं वस्तु प्रतिपादयति। अभेदवृत्तेरभेदोपचारस्याऽनाश्रयणे एकधर्मात्मकवस्तुविषयकबोधजनकं वाक्यं विकलादेश इति ।।१४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org