________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ८७, उपसंहार
३८७/१०१०
एवात्र यधुच्यत तर्हि विस्तरेण तत्परमार्थः कथमवभोत्स्यते ? इत्याशङ्क्याह-“अभिधेय" इत्यादि । अभिधेयस्य-सर्वदर्शनवाच्यस्यार्थस्य तात्पर्यार्थः-अशेषविशेषविशिष्टः परमार्थः परिसमन्तात्पौर्वापर्येणालोच्यः-स्वयं विमर्शनीयः । अथवा “लोचूड् दर्शने” इति धातुपाठादालोच्यस्तत्तत्तदीयशास्त्रेभ्योऽवलोकनीयः सुबुद्धिभिः-सुनिपुणमतिभिः सङ्क्षितरुचिसत्त्वानुग्रहार्थत्वादस्य सूत्रकरणस्येति । अथवा सर्वदर्शनसंमतानां सत्त्वानां परस्परं विरोधमाकर्ण्य । किं कर्तव्यता मूढानां प्राणिनां यत्कर्तव्योपदेशमाह “अभिधेय" इत्यादि अभिधेयं-सर्वदर्शनसंबन्धी प्रतिपाद्योऽर्थः तस्य यस्तात्पर्यार्थः-सत्यासत्यविभागेन व्यवस्थापितस्तत्त्वार्थः स पर्यालोच्यः। सम्यग्विचारणीयो न पुनर्यथोक्तमात्रो निर्विचारं ग्राह्यः । कैः ? सुबुद्धिभिः-सुष्ठु शोभना मार्गानुसारिणी पक्षपातरहिता बुद्धिः-मतिर्येषां ते सुबुद्धयः, तैर्न पुनः कदाग्रहग्रहिलैः । यदुक्तम्-“आग्रही बत निनीषति युक्तिं यत्र तत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ।।१।।” अयमत्र भावार्थःसर्वदर्शनानां परस्परं मतविरोधमाकर्ण्य मूढस्य प्राणिनः सर्वदर्शनस्पृहयालुतायां निजदर्शनेकपक्षपातितायां वा दुर्लभं स्वर्गापवर्गसाधकत्वम्, अतो मध्यस्थवृत्तितया विमर्शनीयः सत्यासत्यार्थविभागेन तात्त्विकोऽर्थः, विमृश्य च श्रेयस्करः पन्थाभ्युपगन्तव्यो यतितव्यं च तत्र कुशलमतिभिः ।।८७।।
इति श्री तपोगणगगनाङ्गणदिनमणिश्रीदेवसुन्दरसूरिपदपद्मोपजीविश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकायां षड्दर्शनसमुञ्चयटीकायां जैमिनीयचार्वाकीयमतस्वरुपनिर्णयो नाम षष्ठोऽधिकारः ॥ तत्समाप्तौ च समाप्तेयं तर्करहस्यदीपिकानाम्नी षड्दर्शनसमुञ्चयवृत्तिः ।। व्याख्या का भावानुवाद : "अपि" समुच्चयार्थक है। इस अनुसार से केवल अन्य मत ही नहीं, लोकायतमत का भी संक्षेप कहा
गया।
शंका : इस ग्रंथ में यदि बौद्धादि सर्वदर्शनो का संक्षेप ही कहा गया है, तो विस्तार से उस उस दर्शन के परमार्थ का बोध किस तरह से होगा?
समाधान : यहाँ हमने केवल सर्वदर्शनो का संक्षेप से वर्णन किया है। परन्तु उस उस दर्शन के अभिधेय के तात्पर्यार्थ को सभी विशेषो से विशिष्ट परमार्थ को पूर्वापर का विचार करके स्वयं सोच लेना।
"लोचु" धातु दर्शनार्थक है। इसलिए "पर्यालोच्य" का अर्थ यह है कि, उस उस दर्शन के उस उस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org