________________
षड्दर्शन समुञ्चय भाग - २, श्लोक - ६८, मीमांसक दर्शन
३५१/९७४
मानुषत्वात् रथ्यापुरुषवत् । अथ किंकरायमाणसुरासुरसेव्यमानता त्रैलोक्यसाम्राज्यसूचकछत्रचामरादिविभूत्यन्यथानुपपत्तिरस्ति सर्वज्ञे विशेष इति चेत् ? न, मायाविभिरपि कीर्तिपूजालिप्सुभिरिन्द्रजालवशेन तत्प्रकटनात् । यदुक्तं त्वयूथ्येनैव समन्तभद्रेण“देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।१।।" [आप्त मी० श्लो-१] । अथ यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया विशोध्यमानस्य निर्मलत्वं, एवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात्सर्वज्ञत्वं किं न संभवेदिति मतिः, तदपि न । अभ्यासेन हि शुद्धेस्तारतम्यमेव भवेत्, न पुनः परमः प्रकर्षः । न हि नरस्य लङ्घनमभ्यासतस्तारतम्यवदप्युपलभ्यमानं सकललोकविषयमुपलभ्यते । उक्तं च-“दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ।। १ ।।” अथ मा भून्मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादीनां तु तदस्तु । ते हि देवा, संभवत्यपि तेष्वतिशयसंपत् । यत्कुमारिल:-“अथापि दिव्यदेहत्वाद्ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः सार्वइयं मानुषस्य किम् ।।१।।" इति तदपि न रागद्वेषमूलनिग्रहानुग्रहग्रस्तानां कामासेवनविहस्तानामसंभाव्यमिदमेषामिति । न G-91च प्रत्यक्षं तत्साधकं “संबद्धं वर्त्तमानं च गृह्यते चक्षुरादिना" [मी. प्रत्यक्ष० सू० श्लो० ८४] इति वचनात् । न चानुमानं, प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः । न चागमः सर्वज्ञस्यासिद्धत्वेन तदागमस्यापि विवादास्पदत्वात् । न चोपमानं, तदपरस्यापि सर्वज्ञस्याभावादेव । न चार्थापत्तिरपि, सर्वज्ञसाधकस्यान्यथानुपपन्नपदार्थस्यादर्शनात् । ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः । प्रयोगश्चात्रनास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशश्रृङ्गवदिति ।।६८ ।। व्याख्या का भावानुवाद :
जैमिनीय अनुयायी कहते है कि... सर्वज्ञ, सर्वदर्शी, वीतराग, सृष्ट्यादि के कर्ता इत्यादि गुणोवाले, पहले जैनदर्शन आदि में कहे हुए सर्वदर्शनो को संमत देव में से कोई भी देव विद्यमान नहीं है - उस देव की सत्ता ही नहीं है कि जिससे उनका वचन प्रमाणभूत माना जाये । कहने का मतलब यह है कि, पहले तो सर्वज्ञ वक्ता ऐसे कोई देव ही जगत में विद्यमान नहीं है। तो फिर उनके द्वारा प्ररुपित वचन तो कहाँ से होगा? और इसलिए सर्वज्ञ वक्ता के द्वारा प्ररुपित वचन प्रमाणरुप है, या अप्रमाणभूत है ऐसी विचारणा विचारमाध्यम में किस तरह से आ सकेगी? तथा सर्वज्ञ वक्ता के अभाव में किसी भी मनुष्य के बोले हुए वचन प्रमाणरुप भी किस तरह से बनेंगे? इसलिए अनुमान किया जा सकता है कि... कोई भी पुरुषविशेष सर्वज्ञ नहीं है। क्योंकि वह मनुष्य है। (G-91)- तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org