________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ५५, जैनदर्शन
तिर्यंच-मनुष्यत्व, शरीर आदि रुप से परिणत, (सर्व पुद्गल के साथ संबंध रखने स्वरुप) सर्व पुद्गलत्व, अनादि-अनंतत्व (सर्व जीवो के साथ सर्वसंबंध किये होने से ) सर्वजीवो के साथ सर्वसंबंधवत्त्व, (चार गतिरुप संसार में परिभ्रमण करने स्वरुप) संसारित्व, (क्रोधादि असंख्य अध्यवसायो से विकृत होता होने से) क्रोधादि असंख्याताध्यवसायत्व, हास्य-रति- अरति-भय-शोक- जुगुप्सा आदि भावो का सद्भाव, स्त्रीत्व, पुरुषत्व, नपुंसकत्व, मूर्खत्व, अंधत्व, बधिरत्व इत्यादि क्रमभावीधर्म होते है ।
२१६/८३९
मुक्तात्मा में सिद्धत्व, सादि -- अनंतत्व, ज्ञान, दर्शन, क्षायिक सम्यक्त्व, सुख, वीर्य, अनंत द्रव्य, क्षेत्र और काल में रहनेवाले समस्त पर्यायो का ज्ञातृत्व, दर्शित्व, अशरीरत्व, अजरामरत्व, अरुपत्व, अरसत्व, अगंधत्व, अस्पर्शत्व, अशब्दत्व (अर्थात् रुपादि से शून्य), निश्चलत्व, नीरुक्त्व (रोगरहितत्व) अक्षयत्व, अव्याबाधत्व, संसार अवस्था में रहनेवाले जीवद्रव्य के अपने-अपने जीवत्व आदि सामान्यधर्मो की प्राप्ति करना... इत्यादि अनेक धर्म होते है ।
धर्माधर्माकाशकालेष्वसङ्ख्यासङ्ख्यानन्तप्रदेशाप्रदेशत्वं सर्वजीवपुद्गलानां गतिस्थित्यवगाहवर्तनोपग्राहकत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमनाद्यनन्तत्वमरूपित्वमगुरुलघुतैकस्कन्धत्वं मत्यादिज्ञानविषयत्वं सत्त्वं द्रव्यत्वमित्यादयः, पौद्गलिकद्रव्येषु घटदृष्टान्तोक्तरीत्या स्वपरपर्यायाः शब्देषु चोदात्तानुदात्तस्वरितविवृतसंवृतघोषवदघोषताल्पप्राणमहाप्राणता
भिलाप्यानभिलाप्यार्थवाचकावाचकताक्षेत्रकालादिभेदहेतुकतत्तदनन्तार्थप्रत्यायनशक्त्यादयः, आत्मादिषु च सर्वेषु नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्यत्वात्मकता परेभ्यश्च वस्तुभ्यो व्यावृत्तिधर्माश्चावसेयाः । आह-ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात्कथं तस्य सम्बन्धिनो व्यपदिश्यन्ते ? उच्यते, इह द्विधा सम्बन्धोऽस्तित्वेन नास्तित्वेन च । तत्र स्वपर्यायैरस्तित्वेन सम्बन्धः यथा घटस्य रूपादिभिः । परपर्यायैस्तु नास्तित्वेन सम्बन्धस्तेषां तत्रासम्भवात् यथा घटावस्थायां मृद्रूपतापर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्वसंबन्धेन सम्बद्धाः, अत एव च ते परपर्याया इति व्यपदिश्यन्ते । ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते, न खलु धनं दरिद्रस्य न विद्यत इति तत्तस्य सम्बन्धि व्यपदेष्टुं शक्यम्, मा प्रापल्लोकव्यवहारातिक्रमः, तदेतन्महामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते, तर्हि सामान्यतस्ते परवस्तुष्वपि न सन्तीति प्राप्तम्, तथा च ते स्वरूपेणापि न भवेयुर्न चैतद्दृष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमधिकृत्य तस्येति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव तथा च लोके वक्तारो भवन्ति "धनमस्य दरिद्रस्य न विद्यते " इति । यदपि चोक्तं " तत्तस्येति व्यपदेष्टुं न शक्यं" इति, तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि ततो न कश्चिल्लोकव्यवहारातिक्रमः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org