________________
२३०/८५३
षड्दर्शन समुच्चय भाग - २, श्लोक - ५७, जैनदर्शन
सत्ता रहती ही है।")
इसलिए द्रव्य की दृष्टि से सर्ववस्तुओ की स्थिति = ध्रुवता ही है। पर्याय की दृष्टि से सभी वस्तुए उत्पन्न होती है और विनाश भी प्राप्त करती है। क्योंकि पदार्थ के पर्यायो का परिवर्तन अस्खलितरुप से महसूस किया जाता है।
न चैवं शुक्ले शो पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात्, न खलु सोऽस्खलद्रूपो, येन पूर्वाकारविनाशोऽजहद्वृत्तोत्तराकारोपादानाविनाभावी भवेत् । न च जीवादी वस्तुनि हर्षाम|दासीन्यादिपर्यायानुभवः स्खलद्रूपः, कस्यचिद्वाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं त्र्यात्मकम् कथमेकात्मकम् । न भिद्यन्ते चेत्, तथापि कथमेकं त्र्यात्मकमिति कथमेकात्मकम् चेत् ? तदयुक्तं, कथञ्चिद्भिवलक्षणत्वेन तेषां कथिञ्चिद्भेदाभ्युपगमात् । तथाहि-उत्पादविनाशध्रोव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वात्, रूपादिवत् । न च भिनलक्षणत्वमसिद्धं, असत आत्मलाभ उत्पादः, सतः सत्तावियोगो विनाशः, द्रव्यरूपतयानुवर्तनं ध्रौव्यम्, इत्येवमसंकीर्णलक्षणानां तेषां सर्वैः प्रतीतेः । न चामी परस्परानपेक्षत्वेन भिन्ना एव, G-24परस्परानपेक्षाणां खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात्, कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत्, एवं स्थितिरपि केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव, इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा च G-25कथं नैकं त्र्यात्मकम् नैकमाकात्मकम् ? तथा चोक्तम्-“प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ।।१।। घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्यलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ।।२।। पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम् ।।३।। [आप्तमी- श्लो० ५९-६०] व्याख्या का भावानुवाद :
तदुपरांत, इससे हमारा हेतु शुक्लशंख में होने वाले पीतादि पर्याय के अनुभव से अर्थात् शुक्लशंख पीले रंग के जाननेवाले भ्रान्त पीतशंखज्ञान से व्यभिचारी नहीं है। क्योंकि सफेद शंख में होता पीतशंख का
1 तथा च कथं नैकंत्र्यात्मकम् । (G-24-25) - त० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org