________________
११४/७३७
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
द्रव्यार्थिकनय की अपेक्षा से परमाणु नित्य = ध्रुव है। पर्यायाथिकनय की अपेक्षा से नीलादि आकार द्वारा अनित्य ही है। परमाणु से परम अणु (छोटा) द्रव्य नहीं है। इसलिए उसे परमाणु कहा जाता है। पांच रस में से एक रस, दो गंध में से एक गंध, पांच वर्णो में से एक वर्ण से युक्त परमाणु है । चार स्पर्शो में परस्पर अविरुद्ध जो स्पर्श है, उसमें से दो स्पर्शो से युक्त परमाणु है। अर्थात् परस्पर विरुद्ध ऐसे स्निग्ध = उष्ण, स्निग्ध - शीत, रुक्ष - शीत और रुक्ष = उष्ण ये चार जोडीयां है। (इन चार जोडीयो में से कोई एक जोडीवाला अर्थात्) परस्पर अविरुद्ध दो स्पर्शवाला परमाणु होता है।
द्वयणुक से लेकर अचित्त महास्कन्ध तक परमाणु के कार्य है। अर्थात् परमाणु को बतानेवाले वे लिंग है। ऐसे प्रकार के लक्षणवाले, निरवयव, परस्पर असंयुक्त परमाणु है।
स्कन्धाः पुन_णुकादयोऽनन्ताणुकपर्यन्ताः सावयवाः प्रायो ग्रहणादादानादिव्यापारसमर्थाः परमाणुसंघाता इति । एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड्द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि, जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि, पुद्गलास्तु मूर्ता एवेति । ननु जीवद्रव्यस्यारूपिणोऽप्युपयोगस्वभावत्वेन स्वसंवेदनसंवेद्यत्वादस्तित्वं श्रद्धानपथमवतारयितुं शक्यम् । धर्माधर्मास्तिकायादीनां तु न जातुचिदपि स्वसंवेदनसंवेद्यत्वं समस्ति, अचेतनत्वात् । नापि परसंवेदनवेद्यता, नित्यमरूपित्वेन । तत्कथं तेषां धर्मास्तिकायादीनां सतां सत्ता श्रद्धेया स्यादिति चेत् ? उच्यते, प्रत्यक्षेण योऽर्थो नोपलभ्यते स सर्वथा नास्त्येव, यथा शशविषाणमित्येकान्तेन न मन्तव्यं । यत इह लोके द्विविधानुपलब्धिर्भवति, तत्रैकाऽसतो वस्तुनोऽनुपलब्धिः, यथा तुरङ्गमोत्तमाङ्गसंसर्गानुषङ्गिशृङ्गस्य, द्वितीया तु सतामप्यर्थाना-मनुपलब्धिर्भवति । या च सत्स्वभावानामपि भावानामनुपलब्धिः, सात्राष्टधाभिद्यते । तथाहि-अतिदूरात्, १, अतिसामीप्यात् २, इन्द्रियघातात् ३, मनसोऽनवस्थानात् ४, सौक्ष्म्यात् ५, आवरणात् ६, अभिभवात् ७, समानाभिहाराञ्चेति ८ [ ]। तत्रातिदूराद्देशकालस्वभावविप्रकर्षात्त्रिविधानुपलब्धिः । तत्र देशविप्रकर्षात् यथा कश्चित् देवदत्तो ग्रामान्तरं गतो न दृश्यते, तत्कथं स नास्ति ? सोऽस्त्येव, देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परतटं मेर्वादिकं वा सदपि नोपलभ्यते । तथा कालविप्रकर्षात् भूता जिनपूर्वजादयो भविष्या वा पद्मनाभादयो जिना नोपलभ्यन्ते, अभूवन् भविष्यन्ति च ते । तथा स्वभावविप्रकर्षान्नभोजीवपिशाचादयो नोपलभ्यन्ते, न च ते न सन्ति १ । तथातिसामीप्यात् यथा नेत्रकज्जलं नोपलभ्यते तत्कथं तन्नास्ति ? तदस्त्येव, पुनरतिसामीप्यान्नोपलभ्यते २ । तथेन्द्रियघातात् यथा अन्धबधिरादयो रुपशब्दादीन्नोपलभ्यते तत्कथं रूपादयो न सन्ति ? सन्त्येव, ते पुनरिन्द्रियघातान्नोपलभ्यन्ते ३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org