Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
Catalog link: https://jainqq.org/explore/002261/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ [सं-313 स्याद्वादमञ्जरी Page #2 -------------------------------------------------------------------------- ________________ श्री विजयमहोदयसूरिग्रंथमाला - १ स्याद्वादकल्पद्रुमश्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी * प्रधान संपादक * श्री मोतीलाल लाधाजी संपादक तपागच्छाधिराजपूज्यपादाचार्यवर्य श्रीमद्विजयरामचन्द्रसूरीश्वरचरणरेणुः प्रशमरतिविजयः • * लाभार्थी श्री नगीनभाई पौषधशाला श्री केसरबाई ज्ञानमंदिर ट्रस्ट पाटण (उ. गु.) Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम प्रधानसंपादक : संपादक 0: प्रथममुद्रण नवमुद्रण मूल्य प्रकाशक C पूना नवसारी :: अमदावाद : : : : : : भूपेश भायाणी. ४८८, रविवार पेठ, पूना- ४११००२ फोन : ०२०-४४५३०४४ श्री विजयमहोदयसूरिग्रंथमाला - १ स्याद्वादमंजरी श्री मोतीलाल लाधाजी मुनिश्री प्रशमरतिविजयजी वि.सं. १९८२ वि.सं. २०५८ मुद्रण टाइपसेटिंग : रू.८०.०० प्रवचन प्रकाशन, पूना PRAVACHAN PRAKASHAN, 2002 80 प्राप्तिस्थान 98 : : राजेन्द्रभाई लाभाई शाह २०१, अर्थ एपार्टमेन्ट, भरतभाई मफतलाल शाह. डीएनआर डायमंड्स, आशानगर, बोम्बे हाऊस पासे, नवसारी- ३९६४४५ (गुजरात) फोन : ०२६३७-५९५९१ ३५, ब्राह्मण मित्रमंडळ सोसायटी, पालडी, अमदावाद - ३८० ००६ फोन : ०७९-६५८४०४४ राज प्रिन्टर्स, पूना देवराज ग्राफिक्स, अमदावाद - ९ फोन : ०७९-६४६ ०८ २३ Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીય જિનશાસનના પરમ તેજસ્વી અધિનાયક, મહામહિમ સૂરિસમ્રાટ, પૂજ્યપાદ આચાર્યભગવંત શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાની અનન્ત કરુણાથી આપણા શ્રુતવારસાને નવજીવન આપવાની ભગીરથ પ્રવૃત્તિ માટે અમે નાનો સરખો પરિશ્રમ ઉઠાવીને અભ્યાસપાત્ર ગ્રંથોનું નવમુદ્રણ અને પુનર્મુદ્રણ કરી રહ્યા છીએ. અમારી શ્રુતસાધનાને સદા સર્વદા આશીર્વાદ આપીને, અમને ખૂબખૂબ ઉલ્લાસિત રાખનારા સુવિશાલગચ્છાધિપતિ પૂજ્યપાદ આચાર્યભગવંત શ્રીમદ્ વિજય મહોદયસૂરીશ્વરજી મહારાજાના અનન્ત ઉપકારોની અમીવર્ષાને ચિરંજીવ બનાવવાની શુભભાવનાથી “શ્રી વિજયમહોદયસૂરિગ્રંથમાળાનો અમે પ્રારંભ કરી રહ્યા છીએ. “શ્રી સ્યાદ્વાદમંજરી” આ ગ્રંથમાળાનું પ્રથમ પુષ્પ છે. પ્રવચન પ્રભાવક પૂજ્યપાદઆચાર્યદેવ શ્રીમવિજય હેમભૂષણસૂરીશ્વરજી મહારાજાની મંગલ પ્રેરણાથી શ્રી નગીનદાસભાઈ પૌષધશાળા સંચાલિત શ્રી કેસરબાઈ જ્ઞાનમંદિર ટ્રસ્ટ, પાટણ દ્વારા આ ગ્રંથના પ્રકાશનનો લાભ લેવામાં આવ્યો છે. અમો આ ટ્રસ્ટની હાર્દિક અનુમોદના કરીએ છીએ. સૂરિરામના વિદ્વાન શિષ્યરત્નો પ્રવચનકાર બંધુબેલડી પૂ. મુનિરાજશ્રી વૈરાગ્યરતિવિજયજી મહારાજ, પૂ.મુનિરાજશ્રી પ્રશમરતિવિજયજી મહારાજના કુશળ સંપાદન અને માર્ગદર્શન તળે પ્રકાશિત થતી આ ગ્રંથશ્રેણિ જિનશાસનનો જય જયકાર ગજવે એ જ શુભકામના. પ્રવચન પ્રકાશન Page #5 -------------------------------------------------------------------------- ________________ प्रास्ताविकं किञ्चित् । १. अन्ययोगव्यवच्छेदद्वात्रिंशिका । अयि श्रेष्ठा विद्वांसः ! आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रुतानुसारं तृतीयोऽयं किरणः ‘स्याद्वादमञ्जरी' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते । एतस्याः स्याद्वादमञ्जर्या व्याख्याया मूलम् ‘अन्ययोगव्यवच्छेदद्वात्रिंशिका । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितेषु प्रबन्धेषु अयोगव्यवच्छेदिका अन्ययोगव्यवच्छेदिका इति द्वात्रिंशिकाद्वयं वरीवर्ति। तत्रायोगव्यवच्छेदिकाया-मार्हतमतं सविस्तरं प्रतिपादितम् । अन्ययोगव्यवच्छेदिकायां तु मतान्तरखण्डनपूर्वकं तत् प्रतिपादितम् । - एतस्या अन्ययोगव्यवच्छेदिकायाः स्याद्वादमञ्जरीं श्रीमल्लिषेणसूरिविरचितां विरहय्य नान्या टीका तत्प्राक्कालीना तदुत्तरकालीना वोपलभ्यते । स्याद्वादमञ्जर्याः प्रणेतृभिरयोगव्यवच्छेदिका न व्याख्याता सुखोन्नेयत्वात् । तथाच 'तत्र च प्रथमद्वात्रिंशिकायाः सुखोनेयत्वात् तद्-व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिविधीयते'। अन्ययोगव्यवच्छेदद्वात्रिंशिकाया विषयास्तु श्लोकक्रमेण सन्ति । श्लो. १ मङ्गलाचरणम्, स्तुतिप्रतिज्ञा च । ' श्लो. २ कुतीNस्तत्त्वविचारः कर्तव्य इति कथनम् । श्लो. ४. औलूक्य (वैशेषिक) मते योग (नैयायिक) मते च यः सामान्यविशेष वादस्तत्खण्डनम् । श्लो. ५ एकान्तनित्यानित्यपक्षयोर्दूषणम् । श्लो. ६ . ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् । श्लो. ७ धर्मधर्मिभेदस्य समवायस्य च खण्डनम् । nandinik स्याद्वादमञ्जरी ई A Page #6 -------------------------------------------------------------------------- ________________ श्लो. ९ ई ई श्लो. ८ . सत्तापदार्थस्य, आत्मव्यतिरिक्त -ज्ञानगुणस्य आत्मविशेषगुणोच्छेदरूपाया मुक्तेश्च खण्डनम् । देहादतिरिक्तात्मनः खण्डनम् । ग्लो. १० अक्षपादगृहीतपदार्थानां खण्डनम् । श्लो. ११ - यज्ञहिंसायाः खण्डनम् । नित्यपरोक्षज्ञानवादिनां मीमांसकानाम्, एकात्मसमवायिज्ञानान्तर वेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् । मायावादखण्डनम् । स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पितसामान्यविशेषवाच्य वाचकभावखण्डनम् । श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् । श्लो. १६ . प्रमाणाभिन्नं प्रमाणफलं, बाह्यार्थो नास्ति केवलं ज्ञानाद्वैतमेवास्तीति बौद्धमतस्य खण्डनम् । १७ शून्यवादिमतस्य खण्डनम् । १८ , क्षणिकवादिमतस्य खण्डनम् । श्लो. १९ . . बौद्धाभिमतवासनायाः खण्डनम् । श्लो. २० चार्वाकमतस्य खण्डनम् । श्लो. २१. एकान्तवादिमतस्य खण्डनम्। श्लो. .२२-२७. स्याद्वादस्थापना । श्लो. २८ - दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । श्लो. २९ जीवानन्त्यवादस्थापनम् । श्लो. ३०-३२ श्रीवर्द्धमानस्तुतिः । एवंदुर्गमविषयाअपिश्लोकै: श्रीहेमचन्द्राचार्यैः सरलसरससरण्याप्रतिपादितास्तेनसहृदयैः स्याद्वादमञ्जरी RakkakkakAE) ई ईईई 1 Page #7 -------------------------------------------------------------------------- ________________ sts प्यमन्दानन्दोऽनुभूयते । तत्रमध्येमध्येप्रतिवाद्युपहासोऽपि तथैव सरण्या प्रतिपादितोयथा नारुन्तुदो भवति । किंच वासनाखण्डनप्रसंगे १९ तमे श्लोके तटादर्शिशकुन्तपोतन्यायात्' इत्यादिप्रतिपादनंतुविशेषतो हृद्यम् । एतस्याः प्रणेतृणांकलिकालसर्वज्ञ श्री हेमचन्द्राचार्याणां चरितंप्रबन्धाःप्रबन्धप्रणयनयोग्यतादिकंचास्माभिः 'आर्हतमतप्रभाकरस्य' प्रथमकिरणभूतायां प्रमाणमीमांसायां सविस्तरमुपपादितम् । तेनात्र पुनरुक्तिभयान्न लिख्यते । दिदृक्षुभिस्तत एवालोचनीयम् । २. स्याद्वादमञ्जरी । अयमद्वितीयो ग्रन्थः ' अन्ययोगव्यवच्छेदिकाया' व्याख्यारूपः । इयं व्याख्या मूलग्रन्थानन्तरं संवत्सरशतद्वये समभूत् । यतः श्रीहेमचन्द्राचार्याणां सूरिपदप्राप्तिसमयः शालिवाहनशकः १०३१, श्रीमल्लिषेणानां ग्रन्थसमाप्तिसमयः शालिवाहनशकः १२१४ । एतादृशग्रन्थस्य व्याख्या न साधारणपाण्डित्यसुलभा यतोऽत्र बहूनां तत्तच्छास्त्रसमयानां खण्डनम् । तदर्थमपेक्ष्यते व्याख्यातुः सकलशास्त्रीयपाण्डित्यं परमतसहिष्णुतया प्रतिपादनशैली च । तदुभयमप्यत्र स्याद्वादमञ्जरीव्याख्यायां वरीवर्ति । यतः सर्वपरसमयादिप्रतिपादनं यावच्छक्यं याथातथ्येन ग्रन्थनामनिर्देशपुर : सरं प्रत्यपादि व्याख्यायामस्याम् । एतस्याः स्याद्वादमञ्जर्याः प्रणेतृणां श्रीमल्लिषेणसूरीणां जन्मकालादिवृत्तं न ग्रन्थकृदन्तरवदनुमेयमिति महदेव सौभाग्यम् । यत एभिरेव सूरिभिः स्वयमेव ग्रन्थान्ते प्रशस्तिकायां न्यबन्धि तत्सर्वम् । तथाहि नागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ।। श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरविमित (१२१४) शाकाब्दे दीपमहसि शनी ।। श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ।। 6 ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #8 -------------------------------------------------------------------------- ________________ श्लोकत्रयेणानेनैतत्प्रतीयते यत्-श्रीमल्लिषेणसूरयः शालिवाहनशाके १२१४ मिते वत्सरे दीपावलिदिने शनिवासरे ग्रन्थमिमं समापयामासुः । एते च नागेन्द्रगच्छीयउदयप्रभसूरिशिष्या आसन् । श्रीजिनप्रभसूरीणां साहाय्येन चायं ग्रन्थो व्यरचीति । अत्र उदयप्रभसूरीणां जिनप्रभसूरीणां च परिचयार्थ किंचिनिर्दिश्यते । श्री उदयप्रभसूरिभिः १ आरम्भसिद्धिः २ धर्माभ्युदयमहाकाव्यम् ३ उपदेशमालाकर्णिकावृत्तिः, इत्यादयो ग्रन्थाः प्रणीताः । नागेन्द्रगच्छीयाचार्याणां श्रीमल्लिषेणसूरिसम्बध्दानां या परम्परांऽस्माभिर्लब्धा साऽत्र प्राप्तकालेति निर्दिश्यते । . तथाहि- १ श्रीशीलगुणसूरयः । तच्छिष्याः २ श्रीदेवचन्द्रसूरयः । तच्छिष्यद्वयम् । ३ (१) श्रीशीलरुद्रगणयः (२) श्रीपार्श्वलगणयः तदुभयशिष्याः ४ श्रीमहेन्द्रसूरयः । तच्छिष्याः ५ श्रीशान्तिसूरयः । तच्छिष्यद्वयम् ६ (१) श्रीआनन्दसूरयः। (२) श्रीअमरचन्द्रसूरयश्च । श्रीआनन्दसूरिशिष्याः ७ कलिकालगौतमबिरुदधारक - श्रीहरिभद्रसूरयः । तच्छिष्याः ८ श्रीविजयसेनसूरयः । तच्छिष्यत्रयम् ९ (१) श्रीउदयसेनसूरयः (२) श्रीउदयप्रभसूरयः । (३) श्रीयशोदेवसूरयः । तत्र श्रीउदयप्रभसूरिशिष्याः १० श्रीमल्लिषेणसूरयः । जिनप्रभसूरिभिस्तु तीर्थकल्पाजितशान्तिस्तववृत्त्यादयो ग्रन्थाः प्रणीताः । एतैर्जिनप्रभसूरिभिः स्वसमयः अजितशान्तिस्तववृत्तौ स्वयमेव दर्शितः । तथाच संवद्विक्रमभूपतेः शरदऋतूदर्चिः शशांकैर्मिते (वै. १३६५ शा. श. १२३०) पौषस्यासितपक्षभाजि शनिना युक्ते द्वितीयातिथौ ।। श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पन्धयः . पुर्यां दाशरथेर्जिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ।।१।। अनेन समयनिर्देशेन सुधीभिः स्पष्टमेव प्रतीयेत श्रीमल्लिषेणजिनप्रभयोः समानकालिकत्वम्। प्रशस्तिकायां श्रीमल्लिषेणसूरिभिः शाकवत्सरस्य निर्देशः कृतस्तेनैतत्प्रतीयते यदेते सूरयो ग्रन्थसमाप्तिसमये नर्मदाधःप्रदेशे कुत्रापि न्यवसनिति। यतः शालिवाहनशकस्य नर्मदाया दक्षिणप्रदेश एव लेखप्रचारः । नर्मदोत्तरभागे वैक्रमसंवत्सरस्य लेखप्रचार इति । इयं व्याख्या सहस्रग्रंथसंख्यापरिमिता । श्रीमल्लिषेणसूरिभिः परमतं खण्डनार्थं यदा स्याद्वादमञ्जरी 7) Page #9 -------------------------------------------------------------------------- ________________ यदोद्धृतं तदा तत्तन्मतस्थानां प्राचीनपण्डितानां ग्रन्थनिर्देशः कृतः । तथापि बहुषु स्थलेषु विस्तरभयात्केवलमेतदमुकग्रन्थेषु द्रष्टव्यमिति ग्रन्थानां नामनिर्देशः कृतः । ते च ग्रन्था अस्माभिः परिशिष्टे दर्शिताः । श्रीमल्लिषेणसूरीणां वश्यवाक्त्वं विशेषतः प्रशस्यं यतस्तत्र तत्र व्याख्यायां तैः स्वविषयः सारल्यतया बहुभिर्दृष्टान्तैः सर्वजनावर्जकैर्लोकिकैर्न्यायैश्च प्रतिपादितः । किं चार्थजिज्ञासूनां सौकर्याय प्रतिश्लोकं संक्षिप्तार्थो विस्तरार्थश्च प्रतिपादितः । यदा पूर्वग्रन्थानामुपयोगस्तैरभिलषितस्तदा प्रायस्तैरेवाक्षरैस्तत्संग्रहः कृतः । ३. प्रकाशनपरिचयः । आर्हतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तदनुसारमेतस्याः स्याद्वादमञ्जर्याः प्रकाशनं यावच्छक्ति कृतम् । तथाच-अत्र प्रथममन्ययोगव्यवच्छेदिकाया अन्तरङ्गबहिरङ्गपरीक्षणं प्राकाशि अथ च स्याद्वादमञ्जर्या पूर्वपक्षत्वेन गृहीतानि न्यायादिमतानि सविस्तरं ग्रन्थनामनिर्देशपुरःसरं परिशिष्टे दर्शितानि । तथाधोभागेऽर्थदर्शिकाः, तत्तन्न्यायविवरणात्मिकाः ग्रन्थस्थलनिर्देशात्मिकाश्च टिप्पन्यो मुद्रिता येन ग्रन्थार्थजिज्ञासूनां विशेषतः सौकर्यं स्यात् । तथा टिप्पन्यां स्याद्वादमञ्जरीगृहीतानामाचाराङ्गादिग्रन्थानां पारिभाषिकशब्दानां च परिचयो दर्शितः । अत्र नव परिशिष्टानि सन्ति । तथाहि १. पूर्वपक्षाः (विशेषतः श्रीमल्लिषेणसूरिनिर्दिष्टग्रन्थस्थाः ) २. उपलब्धवाक्यानि । 7 ग्रन्थमुद्रणसमाप्तिपर्यन्तं यान्युपलब्धानि . तान्यपि उपलब्धोपलब्धसमपरिशिष्टयोर्द शितानि । ३. अनुपब्धवाक्यानि । ४. उपलब्धसमानि । ५. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थाः । ६. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः । ७. स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः । ८. टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । ९. मुद्रणार्थमुपयोजितानि पुस्तकानि । स्याद्वादमञ्जरी Page #10 -------------------------------------------------------------------------- ________________ T बौद्धग्रन्था यत्र लब्धास्तत्र तन्निर्देशः कृतः । तथापि मतान्तरापेक्षया बौद्धग्रन्था दुर्लभा इत्यस्माभिरनुभूतम् । मागधीभाषाविषये सर्वत्र संस्कृतच्छाया निर्दिष्टा । विशेषस्थले टीकादिकमपि यथायथं प्रादर्शि । एतन्मुद्रणेऽस्माभिः अष्ट पुस्तकानि संगृहीतानि यद्विषयको निर्देशो नवमपरिशिष्टे । तत्र 'अ' पुस्तकस्थः पाठो मुद्रणार्थमादृतः । यतस्तदेव पुस्तकमतीव प्राचीनं शुद्धं च । पुस्तकान्तरात् शुद्धा अर्थवैशिष्ट्यबोधका एव पाठाः संगृहीता न सर्वे । एवंरीत्या संमुद्र्य विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकृपया । संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्वत्रुट्यो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् । प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकम् । तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधक टिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्येतेति निर्दिशन्नह मल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च ' ओसवालवणिग्वंशज श्रेष्ठ शान्तिलाल भगवानजी' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यामानान् दोषान्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकः । पुण्यपत्तनम्. आश्विनाष्टाह्निकम् वीरसंवत् २४५२ विद्वद्वशंवदः मोतीलाल लाधाजी स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ७ Page #11 -------------------------------------------------------------------------- ________________ अस्याद्वादसंकीर्तनम् । प्रशमरतिविजयः जगदिदमनन्तवस्तुकम् । वस्तुमात्रमप्यनन्तधर्मकम् । सर्वज्ञा एव तत्प्रमातारः । तेषामनन्तज्ञानशक्तिमत्त्वाद् । छद्मस्थानामनन्तवस्तु-तद्धर्माणां परिपूर्णज्ञानं नास्ति । तेषां ज्ञानशक्तेः तत्सहायकसामग्र्याश्च सीमितत्वाद् । तथापि छद्मस्थानां ज्ञानमयथार्थेमेवेति न मन्तव्यम् । किञ्च सर्वज्ञानां वचनमेव प्रमाणं, छद्मस्थानां वचनं न प्रमाणमित्यपि नास्ति । शास्त्रकृद्भिः या ज्ञानव्यवस्था निदर्शिता तदभ्यासेन छद्मस्थांनां ज्ञानं वचनं च मर्यादितमपि प्रमाणरूपं भवति । ___ इह खलु जिनदर्शने ज्ञानं द्वधा । प्रत्यक्ष परोक्षञ्च । तत्र सांव्यावहारिकं पारमार्थिकञ्चेति द्विभेदं प्रत्यक्षम् । सांव्यावहारिकं द्विविधम्, इन्द्रियनिबन्धनम्, अनिन्द्रियनिबन्धनञ्च । उभयमपि बाह्येन्द्रियादिसापेक्षम्, अवग्रहादिक्रमानुगतञ्च । पारमार्थिकं सकलं विकलञ्चेति विभेदम् । उभयमप्यात्ममात्रापेक्षम् । अवधि: मनःपर्यायश्च विकलम् । केवलज्ञानं सकलम् । . . परोक्षं पञ्चभेदम् । स्मरणम्, प्रत्यभिज्ञा, तर्कः, अनुमानम्, आगमश्चेति । स्मरणादिचतुष्टयं स्वतंत्रम् । तत्सिद्धिश्च स्याद्वाद-रत्नाकरादिषु ।। - आगमप्रमाणं पञ्चममर्थसंवेदनरूपम् । आप्तवचनाद् अस्य समुद्भवः । तेनाऽऽप्तवचनमागमः । स आप्तो द्विधा । पित्रादिलौकिक: प्रथमः । सर्वज्ञगणधरादयो लोकोत्तरा द्वितीयाः । तैरुञ्चरितं सावधानं वंचनमागमप्रमाणम् । वचनस्य स्वार्थाभिधाने सप्तधा वाक्प्रयोगः । स एव सप्तभङ्गी । अत्र प्रत्येकभङ्गे स्यात्पदमनिवार्यमिति सप्तभङ्गी एव स्याद्वादः । अयं स्याद्वादः सर्वज्ञत्वविकलानामपि ज्ञानं यथार्थतया प्रमाणयति । छद्मस्थो हि प्रमाता वस्तुन एकतरमेव धर्मं जानाति । इतरधर्मसापेक्षतया प्रकृतधर्मप्रतिपत्तिः स्याद्वादेन साध्या । स्यात्कारविशिष्टो धर्मविशेषविषयो निश्चितो बोध एतैः सप्तप्रकारैः भवति । (10 m nitisati स्याद्वादमञ्जरी Page #12 -------------------------------------------------------------------------- ________________ स्याद् अस्ति एवेति प्रथमः । स्याद् नास्ति एवेति द्वितीयः । स्याद् . अवक्तव्यम् एवेति तृतीयः । स्याद् अस्ति एव स्याद् नास्ति एवेति चतुर्थः । स्याद् अस्ति, एव स्याद् अवक्तव्यमेवेति पञ्चमः । स्याद् नास्ति एव स्याद् अवक्तव्यमेवेति षष्ठः । स्याद् अस्ति एव स्याद् नास्ति एव स्याद् अवक्तव्यमेवेति सप्तमः । एकस्य वस्तुनः सर्वेषामेव धर्माणमवगमे ज्ञानं सम्पूर्णं भवति । कस्यचिदेव धर्मस्य ज्ञानेन वस्तुतत्त्वावगमः सम्पूर्णो न भवति । छद्मस्थानां तु सर्वधर्मावगमो नास्तीति तेषां बोधोऽसम्पूर्णः । तथापि वस्तुनिष्ठधर्मविशेषस्य यथार्थरूपेणावगमे तद्धर्मावच्छिन्नत्त्वेन वस्तुनः तत्प्रकारकं ज्ञानं प्रमाणं भवति । धर्मविशेषाश्च ते सप्तप्रकारेण बोधगोचराः । भङ्गेषु चैषु स्यात्पदृम् इतरधर्मसापेक्षतां दर्शयति । अस्ति नास्तिअवक्तव्यपदानि वस्तुनो धर्मविशेषान् दर्शयन्ति । एवकारश्च ज्ञानस्य निश्चितार्थत्वं दर्शयति । इतरधर्मनिरपेक्षं ज्ञानमेकाङ्गी भवति । वस्तुनो धर्मविशेषास्तु ज्ञानविषयाः एवकाररहितं तु ज्ञानमनिश्चितं स्याद् । तेन त्रयाणामेकत्र समावेशः । 'अथ वस्तुधर्माणामानन्त्येऽपि प्रत्येकधर्मस्यावगमः सप्तप्रकार इति सप्तभङ्ग्या अपि आनन्त्यं प्रसक्तमिति चेद्, नानिष्टमेतद् । वस्तुधर्माणामानन्त्ये यदि न दोषस्तर्हि तेषामबंगमप्रकाराणामप्यानन्त्ये कुतो नाम दोषः । यांवन्त एव वस्तुधर्मा ज्ञानविषयाः, ते सर्वेऽपि सप्तभङ्गीप्रकारेणैव विषयतां प्रतिपद्यन्त इति भावः । 1 अत्र स्याद् अस्ति एव इति प्रथमो भङ्ग । अस्तीति सत्त्वप्रतीतिः । वस्तुनः सद्धर्मावच्छिन्नत्वबोधोऽस्य विषयः । सत्त्वे सति ज्ञानम् । सत्त्वाभावे तु ज्ञानाभावः प्रसिद्धः । अस्तित्वधर्मो वस्तुनि, तदवगमश्च ज्ञातरि । यत एव वस्तु अस्ति अत एवं ज्ञातुं पार्यत इति तात्पर्यम् । सद्धर्मावच्छिन्नं वस्तुमात्रपि द्रव्यत्वेन नित्यं, पर्यायत्वेनानित्यम् । द्रव्यत्वधारा स्याद्वादमञ्जरी बैंक ॐ ॐ ॐ ॐ ॐ ॐ ॐ 11 Page #13 -------------------------------------------------------------------------- ________________ शाश्वती । पर्यायप्रवाहस्तु परिवर्तमानः । यथा घटवस्तु घटरूपेण द्रव्यरूपेण च प्रतीत्यम् । द्रव्यरूपेण घटपर्यायाभावेऽपि द्रव्यत्वसत्त्वात् तन्नित्यम् । घटरूपं तु तदाकाररूपेण सद्, आकारविलये चासद् इत्यनित्यम् । घटत्वाश्रयं द्रव्यं पुनः द्रव्यत्वेन पटत्वाद्याश्रयमपि वर्तते । घटज्ञानावसरे पटत्वाद्या विषया न सन्ति । तेन केवलं घटत्वावच्छिन्नास्तित्वबोधः । एवञ्च प्रतीयमानघटत्वपर्यायविशिष्टं द्रव्यत्वप्रकारकं ज्ञानं प्रथमभङ्गस्य विषयः । द्रव्यनिष्ठघटधर्मप्रतीतिरिति भावः । - सेयं द्रव्यादिचतुष्टयेन साध्या । द्रव्यनिष्ठविशेषधर्मप्रतीतिः द्रव्येण क्षेत्रेण कालेन भावेन च कर्तव्या इत्याशयः । तत्र द्रव्येणोपादानविचारः । यथा घटोऽयं सुवर्णनिर्मितो वा रजतनिर्मितो वा । यदुपादानं नास्ति तस्य विचारो नास्ति । स च जलादेः । क्षेत्रेणाधारविचारः । यथा घटोऽयं कर्णावतीनिर्मितः । यत् क्षेत्रमाधारो नास्ति तस्य विचारो नास्ति । स च श्रावस्त्यादेः । कालेन समयविचारः । यथा घटोऽयं शीतकालनिर्मितः । यत्समये निर्मितो नास्ति तस्य विचारो नास्ति । स च ग्रीष्मादः । भावेनाकारविचारः । यथा घटोऽयं रक्तवर्णः । यद्भावेन संबद्धत्वं नास्ति तस्य विचारो नास्ति । यथा श्यामवर्णादेः । द्रव्यादिचतुष्टयेनावगमः सहजः क्रमः । स्याद् इति सापेक्षता । प्रस्तुतधर्माश्रयेण द्रव्यमेतद्रुपमस्तीति सत्यम्, . एतत्तु परं सत्यं यद् वस्तु न केवलं प्रस्तुतधर्माश्रयम् । अनन्तधर्मात्मकत्वात्तस्य । तेन प्रस्तुतधर्मेभ्य इतरैरपि धर्मः सापेक्षता स्वीकार्या इति स्यात्पदस्याशयः । एवेति निश्चयः । एतेन प्रस्तुतावबोधस्य स्व-रूपेण नितान्तमुपपन्नत्वं साध्यते । एवञ्च - स्याद् इति-पटत्वादिधर्मेषु सत्सु-अपि, . अस्तीति - द्रव्यं प्रस्तुतधर्मेण युक्तम् इत्येतत्, एवेति - निश्चितमस्ति । पटत्वादिधर्मरहितत्वेऽपि तत्सापेक्षं, घटत्वधर्मसहितं यद् द्रव्यम्, तस्य तत्प्रकारेण निश्चयकोटिकं ज्ञानं प्रथमो भङ्गः ।। (12R isindurikar स्याद्वादमञ्जरी Page #14 -------------------------------------------------------------------------- ________________ ननु वस्तुमात्रं सत्त्वासत्त्वादिधर्ममयम् । तत्र सदंशं ज्ञेयतया विभज्य तद्व्यपदेशो यत्र क्रियते तत् प्रथमस्य भङ्गस्य ज्ञानम् । सदंशसद्भावज्ञानेऽपि यावद् असदंशाभावज्ञानं नास्ति तावद् याथार्थ्यं नोपलब्धम् । न च तत्प्रतिषेधाभावाद् याथार्थ्यमस्त्येवेति वाच्यम् । सदंशप्रस्तावे तदितरस्याप्रस्तुतत्वाद् इति चेद्, अत्र ब्रूमः । प्रथमोऽयं भङ्गो न सामग्र्येण वस्तुस्वरूपं दर्शयति, विशेषावगाहित्वात् । एको विशेष इतरविशेषसापेक्ष इति तेषामपि समावेशोऽपरिहार्यः । प्रथमभङ्गे प्रस्तुतविशेषस्यावगाहः । इतरेषां त्ववगाहो द्वितीयादिभङ्गेन । तत्र द्वितीयस्तावदयम् । स्याद् नास्ति एव । द्रव्यस्य प्रस्तुतधर्माश्रयत्वम्, इतरधर्मानाश्रयत्वेन गृह्यते । यथा घटस्य घटत्वाश्रयत्वम्, तदितरपटत्वाद्यनाश्रयत्वेन गृह्यते । घटत्वाश्रयत्वम् अस्तिधर्मः । पटात्वाद्यनाश्रयत्वं नास्तिधर्मः । अस्तिधर्मेण द्रव्यस्य घटत्वावच्छिन्नत्वेन प्रतीतिः । नास्तिधर्मेण द्रव्यस्य पटत्वाद्यनवच्छिन्नत्वेन प्रतीतिः । अस्तिधर्मस्य विषयो घटत्वम् । नास्तिधर्मस्य विषयः पटत्वादिकम् । प्रथमभङ्गेऽस्तिधर्मविषयत्वेन घटत्वावच्छिन्नत्वप्रकारकं ज्ञानम् । द्वितीयभङ्गेऽपि नास्तिधर्मविषयत्वेन पटत्वाद्यनवच्छिन्नत्वप्रकारकं ज्ञानम् । प्रथमभङ्गे पटत्वाद्यनवच्छिन्नत्वमप्रस्तुतम् । द्वितीयभङ्गे घटत्वाद्यवच्छिन्नत्वमप्रस्तुतम् । ननु गम्यमानत्वादस्य निर्वचनं व्यर्थम्, घटसत्त्वज्ञाने पटाद्यसत्त्वस्यापि ज्ञानाद् इति चेद् , नैतद् । गम्यमानत्वादेव निर्वचनं सार्थकम् । गम्यमानस्य निर्वचननिषेधे तु ज्ञानमात्रस्योक्तिनिषेधप्रसङ्गः । अथ. नाऽभावप्रतीति: बोधविशेषजननी, शून्यत्वाद् । आकाशकुसुमस्येव तद्विषयस्यानुपलम्भाद् इति चेद्-माऽस्तु अभावस्य प्रतीतिः । निषेधमुखी प्रतीतिस्तु आकाशानवस्थितजलदवत् न विरुद्धा । यथाशत्रुर्नास्तीति मे शर्म क्लेशो नास्तीति मे सुखम् । रोगो नास्तीति मे सौख्यं लोभो नास्तीति मे शमः ।। धनं नास्तीति मे चिन्ता नेत्रं नास्तीति मे व्यथा । स्याद्वादमञ्जरी ALT R A 13 Page #15 -------------------------------------------------------------------------- ________________ ज्ञानं नास्तीति मे दुःखं शक्तिर्नास्तीति मे श्रमः ।। । . बन्धुर्नास्तीति मे चिन्ता प्रिया नास्तीति मे व्यथा । मित्रं नास्तीति मे दुःखं माता नास्तीति मे श्रमः । प्रतीत्यधर्माणामनुपदेशो विदुषां न मान्यः । अस्ति चानुभवोऽपि । यथा पटमन्वेषयन् मञ्जूषामुद्घाटयति सुवर्णघटं च पश्यति तदा विचारयति-किं पुनः सकलगृहे, मञ्जूषायामपि . पटो नास्ति । अत्र घटसत्त्वेऽपि पटाऽसत्त्वेनैवावगमो मुख्यः । .. परद्रव्यादिचतुष्टयेनात्र नास्तिधर्मप्रतीतिः । यथा घटोऽयं न जलनिर्मितो वा मृतिकानिर्मितो वा । अयं द्रव्येण विचारः । क्षेत्रेण यथा घटोऽयं न श्रावस्तीनिर्मितः । काले यथा घटोऽयं न वर्षाकालीनः । भावेन यथा घटोऽयं न शुक्लवर्णः । अत्र घटस्य सुवर्णनिर्मितत्वेऽपि न तत्प्राधान्यम् । अस्तिधर्मत्वेन तेषां प्रथमभङ्गे एव विचारितत्वाद् । .. स्याद् इति-घटत्वावच्छिन्नत्वेऽपि, नास्तीति-व्रव्यं पटत्वाद्यनवच्छिन्नम् इतीदम् एवेतिनिश्चितमस्ति । _प्रथमेनास्तिधर्मोऽवगतः । द्वितीयेन नास्तिधर्मोऽवगतः । तृतीयेन यौगवपद्यहेतुकावक्तव्यता अवगम्यते । वस्तुनि अस्तिधर्मनास्तिधर्मयोः पृथग्-अवगमेऽपि तयोर्युगपदुल्लेखविषयत्वं नास्तीति तदवगमो विभिन्नस्तृतीयभङ्गे भवति । तदभिलापश्चैषः । स्याद् अवक्तव्यम् एव । __वस्तु अस्तिधर्मेण, नास्तिधर्मेण च यथाक्रमं वक्तव्यतामापद्यते । परंतु युगपद्धर्मेण वक्तव्यतां नापद्यत इति । ननु अवक्तव्यम् इति पदस्य, वक्तव्यं नास्तीति वाच्यार्थः । अयं तु नास्तिधर्मः समुपस्थितः । तत्समावेशस्तु द्वितीये भङ्गे एव भवतु इति चेद्-न । नास्ति-धर्मस्य द्वितीयभङ्गे वक्तव्यत्वेन स्वीकारात् । अत्र तु यथैवाऽस्तिधर्मस्य वक्तव्यताऽस्वीकारः, तथैव नास्तिधर्मस्यापि वक्तव्यताऽस्वीकारः । न हि अवक्तव्यतामात्रेण वस्तुनोऽभावः ( 14h A RNA स्याद्वादमञ्जरी Page #16 -------------------------------------------------------------------------- ________________ सिध्यति । तथा सति अनिर्वचनीयानंदकंदस्य समाधेरप्यानंदवैकल्यप्रसङ्गः। ' वस्तुतस्तु प्रथमो भङ्गः स्वविधया निरूप्यं दर्शयति । द्वितीयो भङ्गः स्वविधया निरुप्याभावं दर्शयति । तृतीयो भङ्गः स्वविधया निरुपकाभावं दर्शयति । अत्र निरूप्यनिरुप्याभावयोः स्वीकारेऽपि युगद्रूपेण तेषां निरूपको नास्तीति हार्दम् । निरूप्ये प्रस्तुतसद्भावः, निरूप्याभावे अप्रस्तुतासद्भावः, निरूपकाभावे तु तयोर्निरूपणसामर्थ्याभावः । प्रथमोऽस्तिधर्मावच्छिन्नः, द्वितीयो नास्तिधर्मावच्छिन्नः, तृतीयस्तु अवक्तव्यताऽवच्छिन्नः । अवक्तव्यभङ्गस्य स्वातंत्र्यं शब्दाभावरूपेण । मूकस्य घटज्ञानं निरूपकतारहितमपि निरूप्यविषयवत्त्वेन सद् अस्ति । तस्य ज्ञानाऽभावत्वाभाववत्त्वात् । तथैवायमवक्तव्यताभङ्गः निरूपकाभावविशिष्टोऽपि निरूप्यधर्मानुगत एव।। - ननु अनभिलाप्यावक्तव्ययोः को भेदः ? निरूपकाभावस्योभयत्र तुल्यत्वाद् इत्याशङ्कायाम् इदमुत्तरम् । अभिलाप्यभावानां संदर्भ एवावक्तव्यताविचारः, अनभिलाप्यभावास्तु सङ्ख्यामतिक्रान्ता ज्ञानजनकशब्दमात्रस्याविषया इति कुतस्तयोरैक्यम् । निरूपकाभाव एव ऐक्यमूलम् इति चेद्-नैतत् । अनभिलाप्यभावानां निरूपकाभानस्तेषामानन्त्यमूलः । अनभिलाप्यभावानां विषये निरूपणीयत्वाभावविशिष्टनिरूप्याणां समावेशः । अवक्तव्यताविषये तु निरूपणीयत्वविशिष्टनिरूप्याणां समावेशः । अस्ति-नास्तिधर्मद्वयस्य युगपदुल्लेखनीयत्वाभावमूलः सः । अनभिलाप्यभावाः सदैव शब्दातीताः । अवक्तव्यविषयास्तु पृथक्त्वेन शब्दानुबद्धा एवेति विवेकः । . एवमवक्तव्यभङ्गे वस्तुनोऽभावो, वस्तुधर्माणामभावो, वस्तुधर्माणां वाच्यत्वा-भावोऽपि नाभिप्रेतः । केवलं प्रथमद्वितीयभङ्गकधर्माणां यौगपद्येनोल्लेखाभावो-ऽभिप्रेतः । यथेदं . द्रव्यं घटत्वावच्छिन्नं, पटत्वाद्यनवच्छिन्नञ्चेति । पृथक् वक्तुं पार्यते । परम् इदं द्रव्यमुभयरूपेण कीदृग् इति प्रश्ने योगपद्येन वक्तव्यता नोपलभ्यते । यथा वा रामो हनुमतो मित्रं, रावणस्य शत्रुरिति वाच्यता सुलभा । राम उभयोः किम् इति प्रश्ने मित्रत्वशत्रुत्वसत्त्वेऽपि योगपद्येन वाच्यता दुर्लभा । स्याद्वादमञ्जरी RAAAAAAAAAAAA 15) Page #17 -------------------------------------------------------------------------- ________________ एतेन-यद् वक्तव्यमेव नास्ति तस्य भङ्ग एव निरर्थक इति मतं प्रत्युक्तम् । युगपदस्तित्वस्वीकारपूर्वकं युगपदुल्लेखाभावविधयैव तस्य निरूपणाद् । भावश्चायम् एकसंख्या निरुप्यन्ते नैकसंख्या ह्यगोचराः । निरूपकाणामाधारा धर्मास्तस्यैव रोधकाः ।। अत्र स्यात् पदेन युगपद्-अस्तित्वस्वीकारः, अवक्तव्यतापदेन च युगपदुल्लेख प्रतिषेधः । ननु युगपदुल्लेखाभावेऽपि एकस्मिन् धर्मिणि द्वयोः प्रतीतिरस्तिः । तत् समावेशस्तृतीये भवतु । प्रथमद्वितीयभङ्गेभ्योऽतिरिक्तत्वाद् इति चेद्, न. । एकत्र धर्मिणि युगपत् प्रतीतेरभावात् । ज्ञातुः शब्दस्य च मर्यादानुबद्धत्वात् प्रतीतिः क्रमेणैव भवतीति नियमाञ्च । घटत्वावच्छिन्नत्वबोधपूर्वकं पटत्वाद्यनवच्छिन्नत्वबोधो भवतीत्यत्र पूर्वपश्चाद्भावेन विना न व्यवहारः । अत एव विवक्षाविशेषेण द्वयोरेकत्र क्रमिकसमुल्लेखार्थं चतुर्थो भङ्गोऽस्ति । स चायम्- स्याद् अस्ति एव ! स्याद् नास्ति एव । . ___ द्रव्यमुद्दिश्य-अस्तिधर्म-नास्तिधर्मयोविधेयत्वमत्र प्रस्तुतम् ।. घटद्रव्यं घटत्वावच्छिन्नं पटत्वाद्यनवच्छिन्नं चास्तीति विशेषोऽयमवगमः वस्तुस्वरूपं स्फुटरूपेण दर्शयति । स्यात्पदाभ्यां क्रमेणास्तिधर्मो नास्तिधर्मश्च सापेक्षभावेन गृह्यते । उभयविषयत्वञ्चास्य यथा नट-शब्दे न-बोधपूर्वकं ट-बोधः । न-ट-आकारदर्शनेन . उभयप्रतीतिर्भवति । तेन च तदर्थबोधः । अत्राक्षरद्वय एकतरानवगमे नार्थबोधः । उभयावगमोऽपि क्रमिक एव । न-बोधसमये ट-बोधाभावः, ट-बोध समये नबोधाभावः । युगपद्बोधे तु सामर्थ्याभावः । एवं नबोधपूर्वकट-बोधसहितं ज्ञानं क्रमिकत्वादर्थप्रतीतिं जनयति उभयोर्निजनिजस्थानसमुपस्थितिरपि क्रमेणैव गम्यते । प्रकृतधर्म-तदितरधर्मयोः क्रमिकं ज्ञानं चतुर्थे । पञ्चमभङ्गस्य विषयो व्यतिरिक्तः । तत्पाठश्चायम् । स्याद् अस्ति एव । स्याद् अवक्तव्यमेव । म (16 FANSANNAANANKAR स्याद्वादमञ्जरी Page #18 -------------------------------------------------------------------------- ________________ द्रव्यमुद्दिश्य अस्तित्वम्, अवक्तव्यत्वञ्चेति धर्मद्वयं विधेयम् । क्रमिकत्वमत्रापि समानम् । प्रकृतधर्मवत्त्वेन वस्तुनः सत्त्वेऽपि स्वेतरधर्मयोगपद्येन तस्य वक्तव्यता नास्तीति तात्पर्यम् । एकत्र धर्मिणि अस्तित्व- अवक्तव्यत्वयोः क्रमिको बोधः । षष्ठे ऽपि भङ्गे एकं द्रव्यमुद्दिश्य धर्मद्वयं विधेयम् । तथा च तदालाप: स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । द्रव्यमुद्दिश्य नास्तित्वम्, अवक्तव्यत्वञ्चेति धर्मद्वयं विधेयम् । अत्रापि क्रमिकत्वम् । अप्रकृतधर्माभाववत्त्वेन वस्तुनो नास्तित्वेऽपि स्वेतरधर्मयोगपद्येन तस्य वक्तव्यता नास्तीति तात्पर्यम् । एकत्र धर्मिणि नास्तित्वअवक्तव्यत्वयोः क्रमिको बोधः । . पञ्चम-षष्ठयोः को विशेष इति चेद् अयं स भेदः । अस्तिधर्मबोधोपहित- मवक्तव्यत्वं पञ्चमे, नास्तिधर्मबोधोपहितमवक्तव्यत्वं षष्ठे । इतरधर्मसापेक्षता अनुवर्तत एव । अयं सप्तमः। साना - स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । अत्र द्रव्यमुद्दिश्य विधेयत्रयम् । प्रकृतधर्मसहितत्वेन, अप्रकृतधर्मरहितत्वेन च गम्यमानमिदं . द्रव्यं तदुभयरूपेण युगपदुल्लेखविषयं नास्तीति क्रमेणधर्मत्रयविषयो बोधः । अष्टमो भङ्गो नास्ति । त्रिसंख्याकत्वेन सप्तानामेव संभवाद् । स्थापना चेयम् । १। २ । ३। १.२ । १.३ । २.३ । १.२.३ । काल्पनिकपद्धत्या त्रयोऽस्य विभागाः । प्रत्येकं चत्वारो लभ्यन्ते । अस्तित्वविभागे- . . १-स्याद् अस्ति एव । २-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद्वादमञ्जरी Annihindisi 170 Page #19 -------------------------------------------------------------------------- ________________ ३-स्याद् अस्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । - नास्तित्वविभागे१-स्याद् नास्ति एव । २-स्याद् अस्ति एव । स्याद् नास्ति एव । ३-स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । अवक्तव्यत्वविभागे१-स्याद् अवक्तव्यमेव । २-स्याद् अस्ति एव । स्याद् अवक्तव्यमेव ३-स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । ४-स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । अस्तित्वविवक्षायां प्रथमो विभागः । नास्तित्वविवक्षायां द्वितीयो विभागः । अवक्तव्यत्वविवक्षायां तृतीयो विभागः । पुनरुक्तिसत्त्वेऽपि विषयवैशद्यमत्र प्रमुखम् । एतेषु सप्तसु भङ्गेषु प्रत्येको भङ्गः सकलादेश-विकंलादेशभेदाद् द्विप्रकारः । सकलादेशः प्रमाणनीत्या उपदेशः । सकलधर्मावगाहि प्रमाणम् । अनन्त-धर्मात्मकवस्तुनि अभेदवृत्तिप्राधान्याद्, अभेदोपचाराद्वा यौगपद्येन सकलधर्मप्रतिपादनं सकलादेशस्य विषयः । विकलादेशो नयनीत्या उपदेशः । विशेषधर्मावगाही नयः । विशेषधर्मात्मकवस्तुनि भेदवृतिप्राधान्याद् एकधर्मप्रतिपादनं विकलादेशस्य विषयः । . . सप्तभङ्ग्या अवगतानां धर्माणां निरूपणं प्रमाण-नयैर्भवति । सकलादेशः प्रमाणम्, विकलादेशो नयः । सकलादेशोऽनन्तधर्मसमावेशार्थं कालाद्यष्टकसाहाय्यमवधारयति. । काल:, (18kinnarkkha स्याद्वादमञ्जरी Page #20 -------------------------------------------------------------------------- ________________ आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इत्यष्टकम् । सप्तभङ्गयाः प्रत्येको भङ्गः एतैरष्टभिः विभक्तो भवति । तच्चैवम् १-घटत्वावच्छिन्नास्तित्वस्य प्रथमभङ्गविषयस्य येन कालेन सह सम्बन्धो वर्तते स कालः शेषैरनन्तैरपि धर्मः सह सम्बद्ध इति कालावच्छेदेनानन्तधर्माणा-मेकत्र युगपत् समावेशः । २-घटत्वावच्छिन्नास्तित्वस्य येन गुणेन सह सम्बन्धो वर्तते स गुणो गुणत्वेनानन्तैरपि गुणैः सह सम्बद्ध इति गुणावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ३-घटत्वावच्छिन्नास्तित्वस्य येन द्रव्येण सह सम्बन्धो वर्तते तद् द्रव्यं द्रव्यत्वेनानन्तैरपि धर्मः सह सम्बद्धमिति द्रव्यावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ४-घटत्वावच्छिन्नास्तित्वस्य स्वाश्रये यो. हि तादात्म्यसम्बन्धो वर्तते स तादात्म्यसम्बन्धोऽनन्तधर्माणामपि स्वाश्रये वर्तत इति सम्बन्धावच्छेदेनानन्त-धर्माणामेकत्र युगपत् समावेशः । . ५-घटत्वावच्छिन्नास्तित्वस्य य एव उपकारकभावः स एवानन्तधर्माणामपीति उपकारकभावेनानन्तधर्माणामेकत्र युगपत् समावेशः । - ६-घटत्वावच्छिन्नास्तित्वस्य संसर्गो येन क्षेत्रेण सह वर्तते तेनैव क्षेत्रेण सहानन्तानामपि धर्माणां संसर्ग इति क्षेत्रांवच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ७-घटत्वावच्छिन्नास्तित्वस्य द्रव्यरूपेणान्यैस्सह य एव संसर्गभावः, स एव संसर्गभावोऽनन्तधर्माणामपीति संसर्गावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । -८-घटत्वावच्छिन्नास्तित्वस्य वाच्यता येनैव शब्देन वर्तते तेनैव शब्देनशब्दतावच्छेदेनानन्तानामपि धर्माणां वाच्यता वर्तत इति शब्दावच्छेदेनानन्त-धर्माणामेकत्र युगपत् समावेशः। ___ अत्र द्रव्यास्तिकतामररीकृत्य सर्वेषामेव धर्माणां विधेयता । वस्तुनोऽशेषधर्मा स्याद्वादमञ्जरी r i nku 19) Page #21 -------------------------------------------------------------------------- ________________ अभेदवृत्तिप्राधान्याद्, अभेदोपचारेण वा यौगपद्येन उच्यन्ते, ते च कालादिभिरिति व्यवस्था । विकलादेशो नयप्रधानः । सकलादेशः सर्वदेशीयो बोधः । विकलादेश एकदेशीयो बोधः । श्रोतुरभिप्रायविशेषो नयः । विशेषत्वादेवास्य न सर्वग्राहित्वम् । यद्विशेषग्राहित्वं नये वर्तते तदितरविशेषसमुदासीनत्वमपि तस्मिन् वर्तते । तदितरविशेषाऽस्वीकारे तु विशेषग्राहित्वेऽपि स नयाभासः । __स नयो द्वधा । द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्याथिके नैगमसङ्ग्रहव्यवहाराः । पर्यायार्थिक पुनः ऋजुसूत्रशब्दसमभिरूढैवंभूताः । तत्र नैगम इति नैके गमाः । गमा इति बोधः । धर्मद्वयस्य धर्मिद्वयस्य धर्मधर्मिणो वा एकत्र मुख्यामुख्यतया विधानं नैगमे भवति । धर्मद्वय एको मुख्यः इतरो गौणः । एवमेव धर्मिद्वये । धर्मधर्मिणोस्तु मध्ये धर्मिणो विशेष्यत्वेन । मुख्यता, धर्मस्य विशेषणत्वेन गौणता । सकलादेशे सर्वेषामेव धर्माणां प्रधान्यम्, अत्र एकस्यैव प्राधान्यमिति तदन्यस्य गौणता । सङ्ग्रह इति विशेषविरहितं सामान्यमात्रावगाहि ज्ञानम् । विशेषाणामेक-रूपतया ग्रहणं सङ्ग्रहः । अस्य भेदद्वयं-पर: अपरश्चेति । विशेषमात्रेषूदासीनः केवलं शुद्धं द्रव्यं सत्-तया मन्यमानः परः । सत्त्वं सकलावच्छिन्नं यथाऽस्य विषयः । अवान्तराणि द्रव्यत्वादीनि सामान्यानि स्वीकुर्वाणोऽपरः । अत्र घटत्वादिषूदासीनता । व्यवहार इति विधिपूर्वकमवहरणम् । सङ्ग्रहगृहीतानर्थान् सत्त्वादीन् स्वीकृत्य परामर्शविशेषण तान् विभजत इति व्यवहारः । ऋजुसूत्रः पर्यायार्थिकेषु प्रथमः । अयम् अतीतान् अनागतांश्च पर्यायान् गुणीकृत्य वर्तमानपर्यायमेव प्रधानभावेन दर्शयति । क्षणविध्वंसिनमपि पर्यायं स्वीकरोतीत्ययमस्य विषयः । ( 20 A uraniuminiu स्याद्वादमञ्जरी Page #22 -------------------------------------------------------------------------- ________________ शब्दो द्वितीय: । अयमेकस्यापि शब्दस्यानेकानर्थान् स्वीकरोति । कालकारणलिङ्गसङ्ख्यापुरुषोपसर्गेरर्थभेद इत्यस्य मतम् । शब्दस्यैकस्यार्था अनेका अस्य विषयः । समभिरूढस्तृतीयः । अयं प्रत्येकशब्दस्य प्रत्येकमर्थं भिन्नमभिमन्यते । शब्दानामभेदमुपेक्षते च । एकस्य शब्दस्यैकोऽर्थोऽस्य विषयः । 1 एवंभूतश्चतुर्थः । अयं शब्दस्यार्थक्रियाकारितामपेक्षते । शब्दस्यार्थमात्रेण न व्यापारः, अपि तु शब्दबोधितार्थक्रियासहितत्वेन व्यापारः । अर्थक्रियाकारित्वमस्य विषयः । विषयोऽतिगहन इत्यनवकाशो विस्तरस्य । सकलादेशसप्तभङ्ग्या अनन्तधर्मात्मकत्वेन वस्तुनः प्रतिपादनम् । विकलादेशसप्तभङ्ग्या विशेषधर्मात्मकत्वेन वस्तुनः प्रतिपादनम् । तदेवं स्याद्वाद एव सप्तभङ्गीनीत्या सर्वव्यवस्थामूल इति निश्चितम् । दर्शनशास्त्रपरंपरायां सर्वेऽपि ग्रन्था निजदृष्टिमाश्रित्यैव परपक्षाक्षेपं स्वपक्षस्थापनं च कुर्वन्ति । प्रमेय-प्रमातृ-प्रमिति प्रमाणकथासु निजदृष्टिविलासः सकल- दार्शनिकैः पुरस्कृतः । पूज्यतमेन भगवता श्रीमद्मल्लिषेणसूरिणा स्याद्वादमञ्जर्यां कलिकालसर्वज्ञश्रीमद् हेमचन्द्राचार्यप्रणीतान्ययोगव्यवच्छेदद्वात्रिंशिकामनुसृत्य परपक्षाक्षेपपूर्वकं स्वपक्षस्थापनं विहितम् । स्याद्वाददृष्टिपरिपाकोऽत्रावसीयते । अत एव सर्वविदुषामादरणीयोऽयं ग्रन्थः । विद्वद्वर्येण श्रीमता मोतीलाललाधाजीमहोदयेनातिशयश्रमपूर्वकं सम्पादितोऽयं ग्रन्थः । पूर्वपक्षाणां मंतानि स्पष्टीकृतानि परिशिष्टे । ग्रन्थभावार्थाः विशदीकृताः टिप्पणीभिः । सर्वग्राही विहितो ग्रन्थसंदर्भसंग्रहः । गृहनिवासिन एतादृग्वैदुष्यं परमाश्चर्यस्य विषयः । परं प्रवर्तमानेऽनुवादयुगे तत्सम्पादनसहितोऽयं ग्रन्थो विस्मृततम एव । ततस्तस्याशुद्धमुद्रणपुरातनलिप्यक्षरादिकमामूलचूलं संशोध्य पुनः संपादितोऽयं ग्रन्थः । नवसौन्दर्यस्यास्य विषये विद्वांस एव साक्षिण इत्यलमाधिक्येन । स्याद्वादमञ्जरी boost 21 Page #23 -------------------------------------------------------------------------- ________________ वीणावेणुमृदङ्गालललितं संगीतमास्वादयन् गीतं भावगुणाश्रयञ्च रसयन्विस्मृत्य सर्वं स्वयम् । रागाभावहतोऽपि मोदविवश: किञ्चिद् यथा गायति ग्रन्थानंदरसात्तथैव विहितं स्याद्वादसंकीर्तनम् । वाणी यस्य सुधासमुद्रसरसा सारस्वतीव प्रभा ज्ञानाऽद्वैतविधायिनी विजयते ऽनेकान्तसंदर्शिका । सन्ति प्रभवो मयीह विबलेऽनन्तप्रभावाश्रयाः सार्वज्ञेश्वररामचन्द्रगुरुवः साक्षात् कृपावर्षिणः ।। सौभाग्य-संभारसमाश्रयाणां ज्योतिर्विदामत्र गणाधिपानाम् । सूरीश्वराणां करुणामृतं श्रीमहोदयानामितदोषमस्ति ।। निरीहसंवेगरतिर्यतीन्द्रः श्रुताब्धि-वैराग्यरतिर्मुनीन्द्रः । पिता च बन्धुश्च सदा ममात्म-‍ - सर्वस्वरूपेण सुसन्निधानाः ।। इति शम् । वि.सं. २०५७ मृगशीर्षशुक्ल पञ्चमी । रामदास पेठ, नागपुर । 22 * * * *Â Â Â Â Â Â Â dcdcdc PIEICHERT Page #24 -------------------------------------------------------------------------- ________________ (समर्पणम्) श्रीरामचन्द्रसूरीन्द्रं पूजय जयमङ्गलशतवासं रे वासवगुरुनुतवचनविहारं हारितभवविश्वासं रे १ श्वासगतावनुबद्धजिनाशं नाज्ञजनैरभिचरितं रे चरितचमत्कृतलक्ष्मीसुकलितंकलिताण्डवहतिललितं रे २ ललितगतिं गतिचक्रनिवारं वारणरिपुसमसत्त्वं रे सत्त्वलक्षवाञ्छितपदसेवं सेवितजिनगुणतत्त्वं रे ३ तत्त्वदेशनमनाहतविनयं नयनिपुणं महापुण्यं रे पुण्यकृपाविकसितभविकमलं मलभिदमाश्रवशून्यं रे ४ शून्यगुणेऽघरते स्रवदीक्षं दीक्षादेव्या दयितं रे ( दयितदर्शनं परिणतप्रशमं शमरतिशिखरे शयितं रे ५ 23 Page #25 -------------------------------------------------------------------------- ________________ अनुक्रमः १. प्रास्ताविकम् २. स्याद्वादसंकीर्तनम् ३. समर्पणम् ४. अनुक्रमः श्लो. १ मङ्गलाचरणम् स्तुतिप्रतिज्ञा च । । ६. श्लो. २ औद्धत्यपरिहार: ७. श्लो. ३ कुतीर्थ्यस्तत्त्वविचारः कर्तव्य इति कथनम् १० श्लो. ४ औलूक्य (वैशेषिक) मते याग .१२ : (नैयायिक) मते च यः सामान्यविशेषवादस्तत्खण्डनम् .. श्लो. ५ एकान्तनित्यानित्य - षक्षयोर्दूषणम् । . १४.. १०. श्लो. ६ ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् २२ श्लो. ७ धर्मधर्मिभेदस्य समवायस्य च खण्डनम् । ३३ . श्लो. ८ सत्तापदार्थस्य, आत्मव्यतिरिक्त ज्ञानगुणस्य आत्मविशेषगुणोच्छेदरूपाया मुक्तेश्च खण्डनम् । श्लो. ९ देहादतिरिक्तात्मन:खण्डनम् १४. श्लो. १० अक्षपादगृहीतपदार्थानां खण्डनम् . ५८ १५. श्लो. ११ यज्ञहिंसायाः खण्डनम् . श्लो. १२ नित्यपरोक्षज्ञानवादिनां मीमांसकानां, एकात्मसमवायि ज्ञानान्तर वेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् ७९ १७. श्लो. १३ मायावादखण्डनम् । ८४ १८. श्लो. १४ स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पित सामान्यविशेषवाच्यवाचकभावखण्डनम् । (24NNNNNNARAANA स्याद्वादमञ्जरी ___३७ ४१ ६४ » Page #26 -------------------------------------------------------------------------- ________________ १०३ १२३ ०२५ १३८ १४२ १४५ १९७ २०१ १९. श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् २०. श्लो. १६ प्रमाणाभिन्नं प्रमाणफलं, बाह्यार्थो नास्ति ११० केवलं ज्ञानाद्वैतमेवास्तीति बौद्धमतस्य खण्डनम् २१. श्लो. १७ शून्यवादिमतस्य खण्डनम् । श्लो. १८ क्षणिकवादिमतस्य खण्डनम् २३.. श्लो. १९ बौद्धाभिमतवासनायाः खण्डनम् २४. श्लो. २० चार्वाकमतस्य खण्डनम् । २५. श्लो. २१ एकान्तवादिमतस्य खण्डनम् । श्लो. २२-२७ स्याद्वादस्थापना श्लो. २८ दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । १७५ २८. श्लो. २९ जीवानन्त्यवादस्थापनम् । २९. श्लो. ३०-३२ श्रीवर्धमानस्तुतिः । . . परिशिष्टानि १. पूर्वपक्षप्रबन्धः .. २. उपलब्धवाक्यानि . ३. अनुलब्धसंदर्भवाक्यानि : . ४. उपलब्धसमानि ५. निर्दिष्टग्रन्थाः ६. स्याद्वादमज्जरीनिर्दिष्टा ग्रन्थकृतः ७. स्याद्वादमज्जरीनिर्दिष्ट न्यायाः २७७ ८. टिप्पणीप्रयुक्ता पूर्वपक्षप्रबन्धप्रयुक्ताश्च ग्रन्थाः २७८ ९. मुद्रणार्थमुपयोजितानि पुस्तकानि २८१ १०. मूलसूत्राणामकारादिक्रमः २८२ . उपलब्धवाक्यानि २७३ २७४ स्याद्वादमञ्जरी M ARAAdard 25) Page #27 -------------------------------------------------------------------------- ________________ ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्वत्वावकाशत्विषा ये जैनागमतत्त्वलाभललिताः संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्ते द्वादशांगीद्विषां : पापोल्लापजुषामशेषमसतां मूकत्वजीवातवः ।। दिशतु दयितधर्मध्यानसंतानशर्म त्रिभुवनमुकुटाईत्पादपूजापरीतम् । समयनयगमार्थज्ञानगाथाभिरूच्चैः कुमतमथनमल्लो मल्लिषेणो मुनीन्द्रः । Page #28 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदिका तद्व्याख्या च श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै प्यते । रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ।।१।। निस्सीमप्रतिभेकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपौ दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ।।२।। ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्वलानां पदं कलानामुचितं भवन्ति ।।३।। मात रति सनिधेहि हृदि मे येनायमाप्तस्तुतेनिर्मातुं विवृतिं प्रसिद्ध्यति जवादारम्भसम्भावना । यद्वा विस्मृतमोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेतिरचनारम्यो ममाहर्निशम् ।।४।। १. 'स्वाङ्गैकरूपे' इति पाठः क. ह. रा. पुस्तकेषु । २. भजन्ति' इत्यपि क. ह. रा. पुस्तकेषु पाठः । ( R ukkakirusnan स्याद्वादमञ्जरी Page #29 -------------------------------------------------------------------------- ________________ इह हि विषमदु:षमार रजनितिमिर तिरस्कार भास्करानुकारिणा वसुधातलावतीर्णसुधा-सारिणीदेश्यदेशनावितानपरमार्हताकृतश्रीकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधान-जीवातुसंजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पाऽवधिस्थायि-विशदयशःशरीरेण निरवद्यचातुर्विद्य निर्माणैकब्रह्मणा श्रीहेमचन्द्र सारिणा जगत्प्रसिद्ध श्रीसिद्धसेन-दिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि-श्रीवर्धमानजिनस्तुतिरुपमयोग व्यवच्छे दान्ययोगव्यवच्छे दा भिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वाऽवबोधनिबन्धनं विदधे । तत्र च प्रथमद्वात्रिंशिकायाः सुखोन्नेयत्वाद् तव्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थ विवरणकरणेन १°स्वस्मृतिबीजप्रबोध- विधिविधीयते । तस्याश्चेदमादिकाव्यम्- .. अनन्तविज्ञान मतीतदोष - मबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ।।१।। १. दुःषमारः-दुःषमाख्यः पञ्चमोऽर एकविंशतिवर्षसहस्रात्मकः कालः । एवं तत्तल्लक्षणविशिष्टाः षड् अरा भवन्ति । तेषां सर्वेषां लक्षणानि-अभिधानचिन्तामणौ प्रथमकाण्डे ४२ श्लोके द्रष्टव्यानि । २. 'तिमिर' इति नास्ति रा. पुस्तके । ३. 'सारणी' इति ख. पुस्तके पाठः । ४. 'जीवातुर्जीवनौषधम्' इत्यमरः । 'जीवानुसंजीवित' इति ख. पुस्तके पाठः । ५. 'स्थिरीकृत' इति ख. पुस्तके पाठः । ६. लक्षणागमसाहित्यतर्का इति चतस्रो विद्याः । ७. एतच्छाब्दार्थो व्याख्याकृताग्रे (श्लो. ६) क्रियते । ८. 'तस्याः' इति च. पुस्तके नास्ति । ९. 'विचारणा' इति च. पुस्तके पाठः । १०. 'संस्कार' इति ख. पुस्तके पाठः । ११. पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।। इत्यभिधानचिन्तामणौ द्वितीयकाण्डे २२४ श्लोकः । स्याद्वादमञ्जरीnaisinsaninindianshi) Page #30 -------------------------------------------------------------------------- ________________ श्री वर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः । किंविशिष्टम् ? अनन्तम्-अप्रतिपाति, वि- विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं केवलाख्यं विज्ञानम्, ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथा अतीता:निःसत्ताकीभूतत्वेनातिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अबाध्यः-परैर्बाधितुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमर्त्याः-देवाः, तेषामपि पूज्यम्-आराध्यम् । __ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः । तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद्ज्ञानाऽतिशयः १ । अतीतदोषमित्यनेनाऽष्टादश दोषसंक्षयाऽभिधानाद् अपायापगमाऽतिशयः २ । अबाध्यसिद्धान्तमित्यनेन कुतीर्थिकोपन्यस्तकुहेतुसमूहाऽशक्यबाध स्याद्वादरूपसिद्धान्तप्रणयनभणनाद् - वचनाऽतिशय: ३ । अमर्त्यपूज्यमित्यनेनाऽकृत्रिम भक्तिभरनिर्भरसुराऽसुरनिकायनायकनिर्मितमहाप्रातिहार्यसपर्यापरिज्ञानात्- पूजाऽतिशयः ४ । १. अत:पूर्वम्-अनन्तविज्ञानमित्यादि-इति प्रतीकं ख. पुस्तके दृश्यते । तत्संगतम् । २. अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।।७२।। . कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।।७३ ।। अभिधानचिन्तामणिः प्रथमकाण्डे श्लोकौ । अन्तरायः-जीवस्य दानादिविघ्नकारकेऽष्टमे कर्मभेदे । यथा राजा कस्मैचिद्दातुमुपदिशति तत्र भाण्डागारिकोऽन्तराले विघ्रकृद्भवति तदन्तरायकर्माष्टमं भवति । ३. कंकिल्लि कुसुमवुट्ठि देवज्झुणि चामरासणाइं च । भावलयभेरिछत्तं जयन्ति जिणपाडिहेराई ।।१।। प्रवचनसारोद्वारे द्वार ३९ (गाथा ४४०) । छाया - १ अशोकवृक्षः, २ कुसुमवृष्टिः, ३ दिव्यध्वनिः, • ४ चामरे, ५ आसनानि च, । ६ भामण्डलं, ७ भेरी, ८ छत्रम्, । १ अशोकवृक्षः केवलः द्वादशगुण एव । सतु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन् एकविंशतिर्धनूंषि भवति । २ सुरकरविमुक्ताधस्थितवृन्तजानुदनपञ्जवर्णसुगन्धिपुष्पवर्षः । ३ सुरनरतिर्यक्जन्तुजातस्वस्वभाषापरिणामरमणीयः संख्यातीतपरिषत्प्राणियुगपदनेकशंसयापहारचतुरः क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवान्योजनगामी देशनानिनादः । ४ चामरे त्रिभुवनैश्वर्यसंसूचके शरञ्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । ५ आसनम्-अमेयमहिमाविर्भावकं समुच्छलत्पञ्चवर्णमणिकीर्ण कदम्बककर्बुरितदिगन्तरं सिंहासनम् । ६ भामण्डलम्-निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् । ७ भेरी-पुरतो व्योनि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । ८ छत्रम् छत्रमेकदेशे समुदायोपचाराज्जगत् त्रयैकप्रभुत्वाविर्भावनचतुरं पार्वणचन्द्रमण्डलनिभातपत्रत्रयम् । ( स्याद्वादमञ्जरी) Page #31 -------------------------------------------------------------------------- ________________ अत्राह पर:- अनन्तविज्ञानमित्येतादेवास्तु, नाऽतीतदोषमिति । गतार्थत्वात् । दोषाऽत्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यतेकुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम् । तथा चाहुराजी विकनयानुसारिणः'ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः' ।।१।। इति । तद् नूनं न ते अतीतदोषाः। कथमन्यथा तेषा तीर्थनिकारंदर्शनेऽपि भवावतारः ? आह-यद्येवम् अतीतदोषमित्येवाऽस्तु अनन्तविज्ञानमित्यतिरिच्यते । दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य । न । कैश्चिंद्दोषाभावेऽपि तदनभ्युपगमात्। तथा च वैशेषिकवचनम् । 'सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य न: क्वोपयुज्यते. ?' ।।१।। तथा-'तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे' ।।१।। तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव । विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात् । तथा चार्षम्-'जे एगं जाएइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ' । तथा- .. ‘एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेना दृष्टाः ।। सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्ट: ।।१।। १. अजीवं निरात्मत्वमभ्युपगच्छन्तीत्याजीविका बोद्धाः । २. 'तद्वचनम्' इति ह. पुस्तके पाठः । ३. आचारांगसूत्रे प्रथमश्रुतस्कंधे तृतीयाध्ययने चतुर्थोद्देशे सूत्रम् १२२ । छायाः य एकं जानाति __स सर्वं जानाति । यः सर्वं जानाति स एकं जानाति । ४. 'इति' इत्यात्यधिकं ख. पुस्तके । स्याद्वादमञ्जरी Mukukkuk ५) Page #32 -------------------------------------------------------------------------- ________________ ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थकम्, यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधायोगात् । न । अभिप्रायापरिज्ञानात् । निर्दोषपुरूषप्रणीत एव अबाध्यः सिद्धान्तः । नापरेऽपौरुषेयाद्याः । ' असम्भवादिदोषाघ्रातत्वात् इति ज्ञापनार्थम्, आत्ममात्रतारकमूकान्त'कृत्केवल्यादिरूपमुण्डकेवलिनो यथोक्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थं वा विशेषणमे अन्यस्त्वाह- अमर्त्यपूज्यमिति न वाच्यम् । यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं न कथञ्चन व्यभिचरतीति । सत्यम् । लौकिकानां हि अमर्त्याः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति । एवं पूर्वार्धे चत्वारोऽतिशया उक्ताः । अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तद्व्यवच्छेदाय श्री वर्धमानमिति विशेष्यपदमंपि विशेषणरूपतया व्याख्यायते । श्रिया चतुस्त्रिंशदतिशयसमृध्दयनुभवात्मक - भावार्हन्त्यरूपया वर्धमानं वर्धिष्णुम् । नवतिशयानां परिमितंतयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिरिति चेत् । न, यथा ४ निशीथंचूर्णो भगवतां श्रीमदर्हतामष्टोत्तरसहस्त्रसङ्ख्यबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्त्वादीनामानन्त्यमुक्तम् । एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमविरूद्धम्। ततो नातिशयश्रिया वर्धमानत्वं दोषाश्रय इति । १. ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादि ततः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः । २. अन्तो विनाशः सच कर्मणस्तत्फलस्य वा संसारस्य कृतो येन सोऽन्तकृत्, केवली - अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदी । " ३. (१) द्रव्यभावमुण्डप्रधानस्तथाविधबाह्यातिशयशून्यः केवली (२) संविग्रो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।। ( ३ ) यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिःसरणमेव केवलमभिवाञ्छति तथैव चेष्टते स मुण्डकेवली भवति । इति । ४. निशीथचूर्णिग्रन्थे १७ उद्देशे । ६ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #33 -------------------------------------------------------------------------- ________________ अतीतदोषता चोपशान्त मोहगुणस्थानवर्तिनामपि सम्भवतीत्यतः २क्षीणमोहाख्या-ऽप्रतिपातिगुणस्थान प्राप्तिप्रतिपत्त्यर्थ जिनमिति विशेषणम् । रागादिजेतृत्वाद् जिनः समूलकाषङ्कषितरागादिदोष इति । अबाध्यसिद्धान्तता च श्रुतकेवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाप्तमुख्यमिति विशेषणम् । आप्तिर्हि रागद्वेषमोहानामैकान्तिक 'आत्यन्तिकश्च क्षयः, सा येषामस्ति-ते खल्वाप्ताः ६अभ्रादित्वाद् मत्वर्थीयोऽप्रत्ययः । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यम् । 'शाखादेर्यः' ।।७।१।११४।। इति तुल्ये यः । अमर्त्यपूज्यता च तथाविधगुरूपदेश- परिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि. न दुर्घटा, अतस्तन्निराकरणाय स्वयम्भुवमिति विशेषणम् । स्वयम्-आत्मनैव, परोपदेशनिरपेक्षतयाऽवगततत्त्वो भवतीति स्वयम्भूः-स्वयं संबुद्धः, तम् । एवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तुम्, अहं यतिष्ये-यत्नं करिष्यामि । १. उपशान्तः सर्वथानुदयावस्थो मोहो यस्य सः । २. क्षीणः-निःसत्ताकीभूतो मोहो यस्य सः । . ३. काचित्कदाचिदात्मनोऽवस्थाऽज्ञानपूर्णा भवति सा च सर्वतः प्रथमा अतएव निकृष्टा । अस्या अवस्थाया आत्मा स्वाभाविकचेतनाचारित्रादिगुणविकासेन निर्गच्छति शनैः शनैः तत्तच्छक्तिविकासानुसारमत्त्क्रान्तो भवति च ततो विकासस्य पर्णतया पर्णतां गच्छति । यदा आत्मन आवरणरूपं कर्म क्षीयते ततो ज्ञानदर्शनचारित्र्यादिगुणानां शक्तिरधिका भवति । किंच यदा आवरणभूतकर्माधिक्यं तदा गुणानां शुद्धियूंना भवति . प्रथमाया निकृष्टावस्थाया निर्गम्य विकासस्य पूर्णावस्था लंभनीया इत्येव आत्मनः परमसाध्यम् । एतस्याः प्राप्तिपर्यन्त आत्मा क्रमशः तास्ता अवस्था लभते । इयमेव अवस्थाप्राप्तिश्रेणिविकासक्रम इत्यभिधियते । अयमेव विकासक्रमो जैनशास्त्रे गुणस्थानक्रम इत्युच्यते । गुणस्थानस्य चतुर्दश भेदाः । १ मिच्छे २ सासण ३ मीसे ४ अविरय ५ देसे ६ पमत्त ७ अपमत्ते । ८ नियट्टि ९ अनियट्टि १० सुहुमु ११ वसम १२ खीण १३ सजोगि १४ अजोगिगुणा । (द्वितीयकर्मग्रन्थद्वितीयगाथा) छाया मिथ्यात्वास्वादनमिश्रमविरतदेशं प्रमत्ताप्रमत्तम् । निवृत्त्यनिवृतिसूक्ष्मोपशमक्षीणसयोग्ययोगिगुणाः । . ४. श्रुतेन केवलिनः श्रुतकेवलिनः । चतुर्दशपूर्वधरत्वात् । 'अथ प्रभवः प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः ।।३३।। भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।।३४ ।। इति अभिधानचिन्तामणौ प्रथमकाण्डे । ५. निःशेषकृतेऽपि पुनरूद्भवमाशङ्कयात्यन्तिकः, अभूयःसंभवदोषविनाशः । इति ख. पुस्तके टिप्पनम् । ६. 'अभ्रादिभ्यः' हैमसूत्रम् ७।२।४६। स्याद्वादमञ्जरी indurikaruni७) Page #34 -------------------------------------------------------------------------- ________________ अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवगुणस्तवनं मन्यमानः श्रद्धामेव स्तुतिकरणेऽसाधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवद्गुणस्तवनसिद्धिरिति सूचितवान् । अहमिति च गतार्थत्वेऽपि परोपदेशाऽन्याऽनुवृत्त्यादिनिरपेक्षतया निजश्रद्धयैव स्तुतिप्रारम्भ इति ज्ञापनार्थम् । अथवा-श्रीवर्धमानादिविशेषणचतुष्टयमनन्ताविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते-यत एव श्रीवर्धमानम्, अतं एवाऽनन्तविज्ञानम् । श्रिया-कृत्स्नकर्मक्षयाविर्भूताऽनन्त चतुष्कसंपद्रूपया वर्धमानम् । यद्यपि श्रीवर्धमानस्य परमेश्वरस्यानन्तचतुष्कसंपत्तेरुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वात् चयापचयौ न स्तः, तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद् वधर्मानत्वमुपचर्यते । यद्यपि च श्रीवर्धमानविशेषणेनानन्तचतुष्कान्त वित्वेनान्तविज्ञानत्वमपि सिद्धम्, तथाप्यनन्तविज्ञानस्यैव परोपकारसाधकतमत्वाद्, भगवत्प्रवृत्तेश्च परोपकारैकानिबन्धनत्वाद्, अनन्तविज्ञानत्वं शेषानन्तत्रयात् पृथग् निर्धार्याचार्येणोक्तम् । ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं, तथाऽनन्तदर्शनस्यापि केवलदर्शनापरपर्यास्य पारार्थ्यमव्याहतमेव; केवलज्ञानकेवलदर्शनाभ्यामेव हि स्वामी क्रमप्रवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति; तत्किमर्थं तन्नोपात्तम् ? इति चेद् । उच्यते । विज्ञानशब्देन तस्यापि संग्रहाददोषः, ज्ञानमात्राया उभयत्रापि समानत्वात् । य एव हि अभ्यन्तरीकृत समताऽऽख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थाः, त एव ह्यभ्यन्तरीकृतविषमताधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते; जीवस्वाभाव्यात्। सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते । तथा प्रधानविशेषमुसर्जनीकृतसामान्यं च ज्ञानमिति । तथा यत एव जिनम्, अत एवातीतदोषम् । रागादिजेतृत्वाद्धि जिनः । न १. (१) अनन्तज्ञान (२) अनन्तदर्शन (३) अनन्तचारित्र (४) अनन्तवीर्य इति चतुष्कम् । २. ज्ञानेयत्तायाः । . ३. समता-सामान्याख्यधर्मः । ४. उपसर्जनं-गौणम् । Cuisitink स्याद्वादमञ्जरी Page #35 -------------------------------------------------------------------------- ________________ चाजिनस्यातीतदोषता । तथा यत एवाप्तमुख्यम् । अत एवाबाध्यसिद्धान्तम् । आप्तो हि प्रत्ययित उच्यते । तत आप्तेषु मुख्यं श्रेष्ठमाप्तमुख्यम्। आप्तमुख्यत्वं च प्रभोरविसंवादिवचनतया विश्वविश्वासभूमित्वात् । अत एवाबाध्यसिद्धान्तम्। न हि यथावज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर्बाधितुं शक्यते । यत एव स्वयम्भुवम्, अत एवामर्त्यपूज्यम् । पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधमेन्द्रादिभिरमत्यैरिति । अत्र च श्रीवर्धमानमिति विशेषणतया यद् व्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमद्वात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं 'श्री वर्धमानाभिधमात्मरूपम्' इति विशेष्यवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम् । तत्र हि आत्मरूपमिति विशेष्यपदम्, प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत् । आवृत्त्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः ।।१।। अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्यं च तीर्थान्तरीयंपरिकल्पिततत्त्वाभासनिरासेन तेषामाप्तत्वव्यवच्छेदः स्वरूपम् । तब भगवतो यथावस्थितवस्तुतत्त्व- वादित्वख्यापनेनैव प्रामाण्यमतेऽश्नुते । अतः स्तुतिकारनिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुरपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेव वर्णयितुत्मनोऽभिप्रायमाविष्कुर्वन्नाह- . अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्य: स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ।।२।। हे नाथ ! अयं-मल्लक्षणो जनः, तव गुणान्तरेभ्यो-यथार्थवादव्यतिरिक्तेभ्यो ऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालरेव श्रद्धालरेव । किमर्थम् ? स्तवाय स्तुतिकरणाय । इयं 'तादर्थ्य चतुर्थी । पूर्व तु 'स्पृहे'ाप्यं वा इतिलक्षणा चतुर्थी । १. अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ।।१।। इति अयोगव्यवच्छेदद्वात्रिंकायां संपूर्णः श्लोकः । २. हैमसूत्रम् २।२।५४।। ३. हैमसूत्रम् २।२।२६। ४. 'चतुर्थी' इति ह. पुस्तके नास्ति । स्याद्वादमञ्जरीAARAAAAAAAAAAAAAP) Page #36 -------------------------------------------------------------------------- ________________ तव गुणान्तराण्यपि स्तोतुं स्पृहावानयं जन इति भावः । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किं` तान्यपि स्तोष्यति स उत नेत्या शङ्कयोत्तरार्धमाह-किन्त्वितिअभ्युपगमपूर्वकविशेषद्योतने निपातः । एकम् - एकमेव । यथार्थवादं यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणम्, अयं जनो विगाहतां - स्तुतिक्रियया समन्ताद् व्याप्नोतु । तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः । अथ प्रस्तुतगुणस्तुतिः सम्यक्परीक्षाक्षमाणां दिव्यदृशामेवौचितीमञ्चति, नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषणद्वारेण निराकरोति । यतोऽयं जनः परीक्षाविधिदुर्विदग्धः - अधिकृतगुणविशेषणपरीक्षणविधौ दुर्विग्धः - पण्डितंमन्य इति यावत् । अयमाशयः - यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षा मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धातिशयात् तस्यामहमात्मानं विदग्धमिव मन्य इति । विशुद्धश्रद्धाभक्तिव्यक्तिमात्रस्वरूपत्वात् स्तुतेः, इति वृत्तार्थः ।। २ ।। अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह - गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ||३|| अमी इति- 'अदसस्तु विप्रकृष्टे' इति वचनात् तत्त्वातत्त्वविमर्शबाह्यतया दूरीकरणार्हत्वाद् विप्रकृष्टाः, परे - कुतीर्थिकाः भवन्तं त्वाम्, अनन्यसामान्यसकलगुण , १. 'स्पृहावानेवायम्' इति क. ख. पुस्तकयोः पाठः । २. 'तत्किमर्थ तत्रोपेक्षा इत्याशक्योत्तरार्धमाह-' इति रा. ह. पुस्तकयोः पाठः । ३. 'परीक्षणम्' इति रा. ह. पुस्तकयोः पाठः । ४. इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ।।१।। इति संपूर्णः श्लोकः । ख. पुस्तके 'अदसस्तु विप्रकृष्टे' इति नास्ति । स्याद्वादमञ्जरी १० Page #37 -------------------------------------------------------------------------- ________________ निलयमपि; मा ईशं शिश्रियन्-मा स्वामित्वेन प्रतिपद्यन्ताम् । यतो गुणेष्वसूयां . दधत:-गुणेषु बद्धमत्सराः गुणेषु दोषाविष्करणं ह्यसूया, यो हि यत्र मत्सरी भवति स तदाश्रयं नानुरूध्यते, यथा माधुर्यमत्सरी करभः पुण्ड्रेक्षुकाण्डम् । गुणाश्रयश्च भवान् । एवं परतीथिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थमिवास्थाय, तान् प्रति हितशिक्षामुत्तरार्धेनोपदिशति-तथापि-त्वदाज्ञाप्रतिपत्तेरभावेऽपि, लोचनानि नेत्राणि संमील्य- मीलितपुटीकृत्य, सत्यं-युक्तियुक्तं, नयवर्त्म-न्यायमार्ग, विचारयन्तांविमर्शविषयीकुर्वन्तु । ____ अत्र च विचारयन्तामित्यात्मनेपदेन फलवत्कर्तृविषयेणैवं ज्ञापयत्यांचाों यदवितथनयपथविचारणया तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ? इति चेत्, प्रेक्षावत्तेति ब्रूमः । संमील्य विलोचनानीति च. वदतः प्रायस्तत्त्वविचारणमेकाग्रता हेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः । अथवा अयमुपदेशस्तेभ्योऽरोचमान एवाचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनाऽऽयतिसुखत्वाद् भवद्भिनेत्रे निमील्य पेय एवेत्याकूतम् । ननु यदि च पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकता, तत्किमर्थं तान् प्रत्युपदेशक्लेश इति ? नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रूचिमरुचिं वाऽनपेक्ष्य हितोपदेशप्रवृत्तिदर्शनात् तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात्। न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम् - 'रूसऊ' वा परो मा वा, विसं वा परियत्तऊ । भासियव्वा हिया भासा सपक्खगुणकारिया' ।।१।। उवाच च वाचकमुख्यः १. बोध्यछात्रविषयिणीम् । २. छाया-रूपषतु वा परो मा वा विषं वा पर्यटतु । भाषितव्या हिता भाषा स्वपक्षगुणकारिका । एतदर्थक एव श्लोको श्रीहेमचन्द्रकृतश्रेणिकचरित्रे द्वितीयसमें ३२ उपलभ्यते । तथाहि-परो रूष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ।।३२।। ३. उमास्वातिः । स्याद्वादमञ्जरी ANAAK A A ११) Page #38 -------------------------------------------------------------------------- ________________ 'न' भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति' ।।१।। इति वृत्तार्थः ।।३॥ अथ यथावन्नयवर्त्म-विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वना दितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्नाह स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः | परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशला: स्खलन्ति ||४|| अभवन्, भवन्ति, भविष्यन्ति, चेति भावा:-पदार्थाः, आत्मा पुद्गलादयस्ते; स्वत इति - सर्व हि वाक्यं सावधारणमामनन्ति इति स्वत एव-आत्मीयस्वरूपादेव, अनुवृत्तिव्यतिवृत्तिभाज:-एकाकारा प्रतीतिः, एकशब्दवाच्यता चानुवृत्तिः । व्यतिवृत्तिः-व्यावृत्तिः, सजात्यविजातीयेभ्यः सर्वथा व्यवच्छेदः ; ते उभे अपि संवलिते भजन्ते-आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः, सामान्य-विशेषोभयात्मका इत्यर्थः ।। . . - अस्यैवार्थस्य व्यतिरेकमाह-न भावान्तरनेयरूपा इति-नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां, भावव्यतिरिक्तसामान्यविशेषाभ्यां, नेयं-प्रतीतिविषयं प्रापणीयं, रूपंयथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः। स्वभाव एव ह्ययं सर्वभावानां यदुनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । तथाहि घट एव तावत् पृथुबुनोदरायकारवान् प्रतीतिविषयीभवन् सन्नन्यानपि तदाकृतिभृतः पदार्थान् १. तत्त्वार्थसूत्रसंबन्धकारिकासु २९ श्लोकः ।। २. अनुवृत्तिः- अन्वयः । व्यतिवृत्तिः- व्यतिरेकः । ३. पूरणगलनधर्माण: पुद्गलाः (दशवैकालिकप्रथमाध्ययने) ४. 'व्यावृत्तिलक्षणम्' इति क. ख. पुस्तकयोः पाठः । (१२ didniudurirukta स्याद्वादमञ्जरी) Page #39 -------------------------------------------------------------------------- ________________ घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् 'विशेषव्यपदेशमश्नुते । इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च धर्मा धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः । एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः; करभरासभयोरिव धर्मधर्मिव्यपदेशाभावप्रसङ्गाञ्च । धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थानन्त्यप्रसङ्गः; अनन्तधर्मकत्वाद् वस्तुनः । - तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुध्यमाना अंकुशलाः अतत्त्वाभिनिविष्टदृष्टयः तीर्थान्तरीया स्खलन्ति-न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थ । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । किं कुर्वाणाः ?, द्वयम् अनुवृत्तिव्यात्तिलक्षणं प्रत्ययद्वयं वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः ?, इत्याह-परात्मतत्त्वात्-परौ पदार्थेभ्यो व्यतिरिक्तत्वादन्यौ, परस्परनिरपेक्षौ च यो सामान्यविशेषौ, तयोर्यदात्मतत्त्वं-स्वरूपम्, अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात्तदाश्रित्येत्यर्थः, 'गम्ययपःकर्माधारे' ।।२।२।७४ ।। इत्यनेन पञ्चमी । कथभूतात् परात्मतत्त्वाद् ?, इत्याह-अतथात्मतत्त्वात् मा भूत् पराभिमतस्य . परात्मतत्त्वस्य सत्यरूपतेति विशेषणमिदम् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं, न तथा-तेन प्रकारेणात्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्माद् यतः पदार्थेष्वविष्वग्भावेन सामान्यविशेषौ वर्तते; तैश्च तौ तेभ्यः परत्वेन कल्पितौ; परत्वं चान्यत्वं तच्चैकान्तभेदाविनाभावि । . .. किञ्च पदार्थेभ्यः सामान्यविशेषयोरे कान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्ति- व्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः । सामान्यविशेष- व्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणे न५ प्रतीतेः । परस्परनिरपेक्षपक्षस्तु पुरस्तानिोंठयिष्यते । अत एव तेषां वादिनां १. विशेषसंज्ञाम् । २. कुत्सिताग्रहवन्तः । ३. हैमसूत्रम् ।२।२।७४। ' ४. अपृथम्भावेन । ५. 'प्रमाणेनैव' इत क. पुस्तके पाठः । (स्याद्वादमञ्जरीMARRRRRRRRRRRRAN १३) D Page #40 -------------------------------------------------------------------------- ________________ स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो हि अन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परानाशयति, न खलु तस्मादन्य उपहासपात्रम् इति वृत्तार्थः ॥४॥ अथ तदभिमतानेकान्तनित्यानित्यपक्षौ दूषयन्नाहआदीपमाव्योम समस्वभावं स्याद्वादमुद्राऽनतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य दिति त्वदाज्ञाद्विषतां प्रलापाः ||७|| आदीपं-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्ववस्तुपदार्थस्वरूपं, समस्वभावं-समः तुल्यः, स्वभावः स्वरूपं यस्य तत्तथा । किञ्च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकत्वमिति ब्रूमः । तथा च वाचकमुख्यः- उत्पादव्ययध्रौव्ययुक्तं सत्' इति । समस्वभावत्वं कुतः ? इति विशेषणद्वारेण हेतुमाह-स्याद्वादमुद्रानतिभेदि । स्यादित्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादः-अनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्। तस्य मुद्रा-मर्यादा, तां, नाऽतिभिनत्तिनातिक्रामतीति स्याद्वादमुद्रानतिभेदि । यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं • शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात्, एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्रे, तदीयमुद्रां सर्वेऽपि पदार्था नातिक्रामन्ति; तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः । .. सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि नित्यमेव, अन्यञ्च प्रदीपादि- अनित्यमेव इति वादस्य प्रतिक्षेपबीजम् । सर्वे हि भावा द्रव्यार्थिकनयापेक्षयां नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः । . तत्रैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते१. तत्त्वार्थाधिगमसूत्रे अ. ४ सू. २९ । (१४in d ikahani स्याद्वादमञ्जरी Page #41 -------------------------------------------------------------------------- ________________ तथाहि-प्रदीपपर्यायापन्नास्तेजसाः परमाणवः स्वरसतस्तैलक्षयाद् वाताभिघाताद्वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमा श्रयन्तोऽपि नैकान्तेनानित्याः पुद्गलद्रव्यरूपतयावस्थितत्वात् तेषाम् । नह्येतावतैवानित्यत्वंयावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्रव्यं स्थासक-कोश-कुशूल-शिवक-घटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टम्; तेषु मृद्रव्यानुगमस्याबालगोपालं प्रतीतत्वात् । न च तमसः पौद्गलि कत्वमसिद्धम्; चाक्षुषत्वान्यथानुपपत्तेः । प्रदीपालोकवत् । . अथ यञ्चाक्षुषं, तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत्कथं चाक्षुषम् ? । नैवम् । उलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् ।। यस्त्वस्मदादिभिरन्यञ्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते; विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकपेक्षदर्शनाः प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः ? । इति सिद्धं तमश्चाक्षुषम् । ... रूपवत्त्वाञ्च स्पर्शवत्त्वमपि प्रतीयते; शीतस्पर्शप्रत्ययजनकत्वात् । यानि त्वनिबिडावयवत्वमप्रतिघातित्वमनुद्भूतस्पर्शविशेषत्वप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि; तुल्ययोग क्षेमत्वात् । न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ? पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्याद्रंन्धनसंयोगवशाद् भास्वररुपस्यापि वढेरभास्वररुपधूमरुपकार्योत्पादः । इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात्, प्रदीपत्वान्वयाञ्च नित्यानित्य एव । १. 'आसादयन्तोऽपि' इति ह. पुस्तके पाठः ।। २. स्थानककोशादयो घटस्योत्पत्तेः प्राक् मृद एवावस्थाः । ३. 'शबक' इति क. पुस्तके पाठः । ४. अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेम इति । स्याद्वादमञ्जरी AnandA १५) Page #42 -------------------------------------------------------------------------- ________________ एवं व्योमापि-उत्पादव्ययध्रौव्यात्मकत्वाद् नित्यानित्यमेव । तथाहि अवगाह कानां जीवपुद्ग लानामवगाह दानोपग्रह' एव तल्लक्षणम् 'अवकाशदमाकाशम्' इति वचनात्। यदा चावगाहका जीवपुद्गला: प्रयोगतो 'विलसातो वा एकस्मानभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकै; सममेकस्मिन् प्रदेशे विभागः उत्तरस्मिंश्च प्रदेश संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धर्मो, तद्भेदे चावश्यं धर्मिणो भेदः। तथा चाहुः'अयमेव हि भेदो, भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति' । ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाञ्चोत्पन्नम् । उभयत्राकाशद्रव्यस्यानुगतत्वाञ्चोत्पादव्ययोरेकाधिकरणत्वम् । तथाच यद्‘अप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम्' इति नित्यलक्षणमाचक्षते । तदपास्तम् । एवंविधस्य, कस्यचिद्वस्तुनोऽभावात् । तद्भावाव्ययं नित्यम्' इति तु सत्यं नित्यलक्षणम्; उत्पादविनाशयोः सद्भावेऽपि तद्भावाद्-अन्वयिरूपाद् यन्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्ययोनिराधारत्वप्रसङ्गः, न च तयोर्योगे नित्यत्वहानिः ; 'द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । 'क्व कदा केन किंरूपा दृष्टा मानेन केन वा ?' ॥१॥ इति वचनात् । १. उपग्रहः-उपकार इति तत्त्वार्थभाष्ये । २. उत्तराध्ययनसूत्रे अध्ययने २८ गाथा ९ । अत्र वृत्तौ महोपाध्यायश्रीमद्भावविजयगणिकृतायामि.. दमुपलभ्यते । ३. प्रयोगत:-पुरूषशक्त्या ! ४. विस्रसातः-स्वभावेन । ५. 'च' इति क. पुस्तके नास्ति । ६. वस्तूनि द्विविधानि लक्षणमेदात्कारणभेदाच्च घटो जलाहरणादिगुणवान् पटश्च शतित्राणादिगुणवान्। तथा घटस्य कारणं मृत्पिण्डादि । पटस्य कारणं तन्त्वादि । ७. तत्त्वार्थसूत्रम् अ, ५ सू. ३० । ८. एकदर्थिका गाथा-संमतितकें प्रथमकाण्डे दृश्यते-'दव्वं पज्जवविज्जुअं दव्वविउत्ता य पज्जवा नत्थि' ।।१२।। (१६)AAAAAAAAAAAAAA स्याद्वादमञ्जरी Page #43 -------------------------------------------------------------------------- ________________ न 'चाकाशं न द्रव्यम् । लौकिकानामपि घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्यानित्यत्वम् । घटकाशमपि हि यदा घटापगमे, पटेनाक्रान्तं, तदा पटाकाशमिति व्यवहारः । न चायमौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं, तत् तदाधेयघटपटादिसम्बन्धि- नियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादितत्तद्व्यपदेशनिबन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः, ततश्चावस्थाभेदेऽवस्थावतोऽपि भेदः । तासां ततोऽविष्वग्भावात् । इति सिद्धं नित्यानित्यत्वं व्योम्नः । 'स्वायंभुवा अपि हि नित्यानित्यमेव वस्तु प्रपन्नाः । तथा चाहुस्ते 'त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूप: । सुवर्णधर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्धमानकं भक्त्वा रुचकमारचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतालक्षणमापद्यते; वर्तमानतापन्न एव तु रुचको नवपुराणभावमापद्य-मानोऽवस्थापरिणामवान् भवतिः, सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । तथा च धर्म्यभेदात् तन्नित्यत्वेन नित्याः; भेदायोत्पत्तिविनाशविषयत्वम् : इत्युभयमुपपन्नमिति ।' अथोत्तरार्धं विव्रियते-एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तद्वस्तु एकमाकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेव; इत्येवकारोऽत्रापि सम्बध्यते । इत्थं हि "दुर्नयवादापत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादि १. एकद्वाक्यं ख. पुस्तके नास्ति । २. स्वायंभुवा:- पातञ्जलयोगानुसारिणः । ३. 'प्रतिपन्नाः' इति क. पुस्तके पाठः । ४. पातञ्जलयोगसूत्र ३।१३ इत्यत्रैतदर्थक वाक्यजातम् । ५. निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासंगिनः ।। औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया चेदेकांशकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ।।१।। स्याद्वादमञ्जरी Milankar १७) Page #44 -------------------------------------------------------------------------- ________________ धर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः - प्रलपितानि, असम्बद्धवाक्यानीति यावत् । अत्र च प्रथममादीपमिति परप्रसिध्दयाऽनित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तम्, तदेवं ज्ञापयति-यदनित्यं, तदपि नित्यमेव कथञ्चित्, यच्च नित्यं तदप्यनित्यमेव कथञ्चित्; प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकारः 'सा' तु द्विविधा, नित्या चानित्या च; परमाणुलक्षणा नित्या; कार्यलक्षणा त्वनित्या' इति । न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम्; पृथिवीत्वस्योभयत्राप्यव्यभिचारात्; एवमबादिष्वपिति । आकाशेऽपि संयोगविभागाङ्गीकारात् तैरभित्यत्वं युक्त्या प्रतिपन्नमेव । तथा च स एवाह'शब्दकारण- त्ववचनात् 'संयोगविभागो' इति नित्यानित्यपक्षयोः संवलितत्वम्; एतच लेशतो भावितमेवेति । प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम्; तच्चैकान्तनित्यानित्यपक्षयोर्न घटते; ३ अप्रच्युतानुत्पन्नास्थिरैकरूपो हि नित्यः; सच· क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ? अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात्। तत्र न तावत् क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात्; समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत्; न तर्हि तस्य सामर्थ्यम्; अपरसहकारिसापेक्षवृत्तित्वात्; "सापेक्षसमर्थम्' इति न्यायात् । १. वैशेषिकदर्शने प्रशस्तपादभाष्ये पृथिवीनिरूपणप्रकरणे । २. प्रशस्तपादभाष्ये आकाशनिरूपणे । ३. अतः परं पृष्ठे (२१) नानाकार्याणां कथमुत्पत्तिरिति चेदित्यन्तं हेमचन्द्रकृतपमाणमीमांसास्वोपज्ञवृतौ (१-१-३३) यन्निर्दिष्टं तदेव स्याद्वादमञ्जर्या संगृहीतम् । यद्यपि कुत्रचिदक्षरभेदो दृश्यते तथाप्यर्थभेदस्तु न कुत्रापि । ४. कालविलम्बाभावात् । ५. हेमंहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः २८ । १८ ककककक स्याद्वादमञ्जरी Page #45 -------------------------------------------------------------------------- ________________ न तेन सहकारिणोऽपेक्ष्यन्ते; अपि तु कार्यमेव-सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत्; तत् किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत्, किं सहकारिमुखप्रेक्षणदीनानि तान्यपेक्षते ? न पुनर्झटिति घटयति । ननु समर्थमपि बीजम्-'इलाजलानिलादि सहकारिसहितमेवाङ्करं करोति, नान्यथा । तत् किं तस्य सहकारिभिः किञ्चिदु पाक्रियेत, न वा ? । यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् ? । अभेदे स एव क्रियते । इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः । ___ भेदे तु कथं तस्योपकारः ? किं न सह्यविन्ध्याद्रेरपि ? । तत्सम्बन्धात् तस्यायमिति चेत्; उपकार्योपकारयोः कः सम्बन्धः ? । न तावत् 'संयोगः; द्रव्ययोरेव तस्य भावात् अत्र तु उपकार्यं द्रव्यम्, उपकारश्च क्रियेति न संयोगः । नापि समवायः; तस्यैकत्वात्-व्यापकत्वाञ्च- प्रत्यासत्तिविप्रकर्षाभाचेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः । नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाऽभेदकल्पना तदवस्थैव । उपकारस्य. समवायादभेदे समवाय एव कृतः स्यात् । भेदे-पुनरपि समवायस्य न नियतसंबन्धिसंबन्धत्वम् । तनैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । - नाप्यक्रमण-नोको भावः सकलकालकलाकलापभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षभावी दोषः; अकरणे त्वर्थक्रियाकारित्वाभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकांनुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति; इति नैकान्तनित्यपक्षो युक्तिक्षमः । १. इला पृथिवी । २. 'जलानलानिलादि' इति ख. पुस्तके पाठः । ३. यदा कश्चिद्वांधुषिः स्वद्रव्यं कुसीदेच्छयाधमर्णाय प्रयच्छति । तेनाधमणेन न मूलद्रव्यं न वा __कुसीदं प्रत्यावर्त्यते तदायं न्यायः समापतति । वृद्धिमिच्छतो मूलद्रव्यक्षतिरूत्पन्नेत्यर्थः । ४. न प्रतीयत इत्यर्थः । स्याद्वादमञ्जरी ARR ANAMANA १९) Page #46 -------------------------------------------------------------------------- ________________ एकान्तानित्यपक्षोऽपि न 'कक्षीकरणार्हः । अनित्यो हि प्रतिक्षणविनाशी; स च न क्रमेणार्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्। क्रमो हि पौर्वापर्यम्, तच्च क्षणिकस्यासम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः देशक्रमः कालक्रमश्चाभिधीयते; न चैकान्तविनाशिनि साऽस्ति । यदाहु:.. 'यौ यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते' ।।१।। न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति; सन्तानस्याऽवस्तुत्वात् वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं, न तर्हि क्षणेभ्यः कचिद्विशेषः । अथाक्षणिकत्वं, तर्हि समाप्तः क्षणभङ्गवादः । ___ नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । स ह्येको ४बीजपूरादिक्षणो५ युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेत्, नानास्वभावैर्वा ? । . यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यात्; एकस्वभावजन्यत्वात् । अथ नानास्वभावैर्जनयति-किञ्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत्: तर्हि ते स्वभावास्तस्यात्मभूता अनात्मभूता वा ? । अनात्मभूताश्चेत् स्वभावत्वहानिः । यद्यात्मभूताः तर्हि तस्यानेकत्वम् अनेकस्वभावत्वात् स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात् तेषां, तस्य चैकत्वात् । .. .... अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्यं च कथमिष्यते क्षणिकवादिना ? । अथ नित्यमेकरूपत्वादक्रम, अक्रमाञ्च क्रमिणां १. स्वीकतुं योग्य इत्यर्थः ।. २. आजीविकाः । ३. 'दृश्यते' इति क. पुस्तके पाठः । . . ४. 'बीजपुरादिरूपादि' इति क. पुस्तके पाठः । . ५. एते बौद्धाः क्षणशब्देन पदार्थन् गृह्णन्ति । यतः सर्वे पदार्थाः क्षणिकाः । (२०THAKAKARANA स्याद्वादमञ्जरी " mo 5 Page #47 -------------------------------------------------------------------------- ________________ नानाकार्याणां कथमुत्पत्तिः? इति चेत्, अहो स्वपक्षपाती देवानांप्रियः- यः खलु स्वयमेक स्माद् निरंशाद् रूपादि क्षणलक्षणात् कारणाद् युगपदनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्माद् क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा । इत्यनित्यैकान्तादपि क्रमाक्रमयोर्व्यापकयोनिवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते; तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः ।। स्याद्वादे तु-पूर्वोत्तराकारपरिहार स्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरूद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम्; नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात्। तथैव च सर्वैरनुभवात् । तथा च पठन्ति 'भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते' ।।१।।इति। वैशेषिकैरपि चित्ररूपस्यैकस्यावयविनोऽभ्युपंगमात् । एकस्यैव पटादेश्चलाचलरक्तारक्तावृतानावृतत्वादिविरूद्धधर्माणामुपलब्धेः सौगतैरप्येकत्र चित्रपटीज्ञाने नीलानीलयोविरोधानङ्गीकारात् । , . अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात् क्षणिकं न मन्यते; तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यलंक्षणात् । तथापि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः; इति तदधिकारेऽपि क्षणिकवादचर्चा नानुपपन्ना । 'यदपि च कालान्तरावस्थायि वस्तु, तदपिं नित्यानित्यमेव । क्षणोऽपि ' न खलु सोऽस्ति-यत्र उत्पादव्ययध्रौव्यात्मकं नास्ति इति काव्यार्थः ।।५।। १. 'यदापि' इति रा. पुस्तके पाठः । २. 'तदापि' इति रा. पुस्तके पाठः । स्याद्वादमञ्जरीMARA LA २१ Page #48 -------------------------------------------------------------------------- ________________ अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाहकर्तास्ति कश्चिद् जगत: स चैक: स सर्वगः स स्ववश: स नित्यः | इमा: कुहेवाकविडम्बनाः स्यु- . स्तेषां न येषामनुशासकस्त्वम् ।।६।। जगतः-प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य, कश्चिद्अनिर्वचनीयस्वरूपः, पुरुषविशेषः; कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उवीपर्वतंतर्वादिकं सर्वं, बुद्धिमत्कर्तृकं, कार्यत्वात्; यद् यत् कार्यं तत् तत्सर्वं बुद्धिमत्कर्तृकं, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमादि । यश्च बुद्धिमांस्तत्कर्ता-स भगवानीश्वर एवेति । न 'चायमसिद्धो हेतुः-यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया, अवयवितया . . वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको विरुद्धो वाविपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टः-प्रत्यक्षानुमानागमाऽबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् ।। नापि "प्रकरणसमः-तत्प्रतिपन्थि.धर्मोपपादनसमर्थप्रत्यनुमानाभावात् । ___ न च वाच्यम्-ईश्वरः-पृथ्वीपृथ्वीधरादेर्विधाता न भवति; अशरीरत्वात्; निर्वृतात्मवत्; इति प्रत्यनुमानं तद्बाधकमिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः ? । न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसंगात् । प्रतीतश्चेत्, येन प्रमाणेन स प्रतीतस्तेनैव १. अयं साध्यसमशब्देनाभिधीयते । तल्लक्षणं-'साध्याविशिष्टः साध्यत्वात्साध्यसमः' । गौतमसूत्र । १-२-८ । २. तल्लक्षणं-'अनैकान्तिकः सव्यभिचारः' । गौतमसूत्रे १-२-५ । ३. तल्लक्षणं-'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' । गौतमसूत्रे १-२-६ । ४. तल्लक्षणं-'कालात्ययापदिष्ट: कालातीतः' । गौतमसूत्रे १-२-९ । ५. तल्लक्षणं-'यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' । गौतमसूत्रे १-२-७। (२२ स्याद्वादमञ्जरी Page #49 -------------------------------------------------------------------------- ________________ किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमशरीरत्वम् ? तस्मान्निरवद्य एवायं हेतुरिति । स चैक इति च:- पुनरर्थे । स पुनः पुरुषविशेषः ; एक:- अद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे, परस्परविमतिसंभावनाया अनिवार्यत्वाद् एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वं समञ्जसमापद्यते इति । तथा स सर्वग - इति । सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी । तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भकारादिषु तथा दर्शनाद् । अथवा सर्वं गच्छति-जानातीति सर्वगः - सर्वज्ञः ; 'सर्वे 'गत्यर्था ज्ञानार्था:' इति वचनात्।सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वाद्-अनुरूपकार्योत्पत्तिर्न स्यात् । तथा स स्ववशः-स्वतन्त्रः, सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम् 'ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वंभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ' । । १ । । इति-पारतन्त्र्ये तु तस्यं परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः । तथा स नित्य इति - अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः; अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यच्चापरस्तत्कर्ता कल्प्यते स नित्योऽनित्यो वा स्यात् ? । नित्यश्चेत्-अधिकृतेश्वरेण किमपराद्धम् ? । अनित्यश्चेत्-तस्याप्युत्पादकान्तरेण भाव्यम्; तस्यापि नित्यानित्यत्व- कल्पनायाम् - अनवस्थादौस्थ्यमिति । , तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदर्श्य उत्तरार्धेन तस्य दुष्टत्वमाचष्टे - इमा:- एताः ; अनन्तरोक्ताः, कुहेवाकविडम्बना: १. 'आपनीषद्येत' इति घ. ख. ह. पुस्तकेषु पाठः । २. 'गत्यर्था ज्ञानार्थाः' हेमहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः ४४ इति । ३. 'नित्यानित्यविकल्पकल्पनायाम्' इति क पुस्तके पाठः । (स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐ २३ Page #50 -------------------------------------------------------------------------- ________________ कुत्सिता हेवाकाः-आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थः । त एव विडम्बनाःविचार- चातुरीबाह्यत्वेन तिरस्काररूपत्वाद् 'विगोपकप्रकारः; स्युः भवेयुः; तेषां प्रामाणिकापसदानां; येषां हे स्वामिन् त्वं, नानुशासकः-न शिक्षादाता । तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः; तथा चैकमेव निन्दनीयं प्रति वक्तारो वदन्ति- स मूर्खः, स पापीयान्, स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्द- प्रयोगेण-परमेशितुः परमकारुणिकतयाऽनपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । अतोऽत्रायमाशयः-यद्यपि भगवानविशेषण सकलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे, तथापि सैव केषाञ्चिद् निचितनिकाचितपापकर्मकलुषिता त्मनां रूचिरूपतया न परिणमते । अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा र कादम्बर्यां बाणोऽपि बभाण-'अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणाः । गुरुवचनममलमपि सलिलमिव < १. विशेषतया गोपनाप्रकारा इत्यर्थः । 'विक्षेपप्रकाराः' इति च. पुस्तके पाठः । २. 'च' इत्यधिकं क. पुस्तके । ३. 'चैवमेव' इति रा. पुस्तके पाठ: । : ४. 'कल्माषितात्मनाम्' इति क. ख. घ. पुस्तकेषु पाठः । ५. 'पावं ण तिव्वभावा कुणइ ण बहुमन्नई भवं घोरं । उचिअठ्ठीइं च सेवइ सव्वत्थ वि अपुणबन्धोत्ति इति' ।। इति धर्मसंग्रहे तृतीयाधिकरणे । पापमशुद्धं कर्म तत्कारणत्वाद्धिंसाद्यपि पापम् । तन्नैव तीव्रभावाद्गाढसंक्लिष्टपरिणामात् करोति । अत्यन्तोत्कमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्तीव्र इति विशेषणादापनम् । अतीव्रभावात्करोत्यपि । तथाविधकर्मदोषात् । तथा न बहु मन्यते न बहुमानविषयीकरोति भवं संसारं घोरं रौद्रं घोरत्वावगमात् । तथोचितस्थितिमनुरूपप्रतिपत्तिम् । चशब्दः समुच्चये । सेवते-भजते कर्मलाघवात्सर्वत्रापि । आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धकः उक्तनिर्वचनो जीव इत्येवंविधक्रियालिंगो भवतीति । अभिधानराजेन्द्रकोशे प्रथमभागे पृ. ६०७ ।। (२४isitind स्याद्वादमञ्जरी Page #51 -------------------------------------------------------------------------- ________________ महदुपजनति श्रवणस्थितं शूलमभव्यस्य' इति । अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति न चैतावता जगद्गुरोरसामर्थ्य सम्भावना । न हि कालदष्टमनुज्जीवन् समुज्जीवितेतरदष्टको विषभिषगुपालम्भनीय, अतिप्रसंगात् । स हि तेषामेव दोषः । न खलु निखिलभुवनाभोगमवभासयन्तोऽपि भानवीया' भानवः 'कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसम्भावनास्पदम्ं । तथा च श्रीसिद्धसेनः सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं, खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ ३१ ॥ अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् ? इति ब्रूमः । यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कर्तृकाः, कार्यत्वाद् घटवदिति । तदयुक्तम्, व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसंवादः । स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् - सशरीरोऽपि किमस्मदादिवद् दृश्यशरीरविशिष्टः, उन पिशाचादिवददृश्यशरीरविशिष्टः ?। प्रथमपक्षे-प्रत्यक्षबाधः ; तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः । १. भानोः सूर्यस्येमे भानवीया मानवः किरणाः । २. कौशिकलोकस्य घूकसमुदायस्य । ३. द्वितीयद्वात्रिंशिका श्लोक १३ । द्वितीयविकल्पे-पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्, आहोस्विदस्मदाद्यदृष्टवैगुण्यम् ? । प्रथमप्रकारः " कोशपानप्रत्यायनीयः; तत्सिद्धौ प्रमाणाभावात्, इतरेतराश्रयदोषापत्तेश्च सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम्, तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वैतीयिकस्तु प्रकारो-न संचरत्येव विचारगोचरें; संशयानिवृत्तेः किं तस्यासत्त्वाद् ४. अनुप्तं क्षेत्रं खिलशब्देनाभिधीयते । ५. ܕ. कोशपानप्रत्यायनीयः - शपथेन विभावनीयः । स्याद्वादमञ्जरी बैंकक I ४ २५ Page #52 -------------------------------------------------------------------------- ________________ अदृश्यशरीरत्वं वान्ध्येयादिवत्, किंवाऽस्मदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाभावात् । . २अशरीरश्चेत् तदा दृष्टान्तदाान्तिकयोर्वेषम्यम्-घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् ?, आकाशादिवत्। तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोप्त्यसिद्धिः । किञ्च, त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः धयेकदेशस्य तरुविधुदभ्रादेरिदानीम- प्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिद् जगतः कर्ता । एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायाऽऽनीयमानानि तद्विशेषणानि षण्ढं प्रति कामिन्या रूपसंपन्निरूपणप्रायाण्येव; तथापि तेषां विचारासहत्वख्यापनार्थं किञ्चिदुच्यते । तत्रैकत्वचर्चस्तावत्-बहुनामेककार्यकरणे वैमत्यसम्भावना इति, नायमेकान्तःअनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमः, अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां, नैकसरघानिर्वतितत्वेऽपि५ मधुच्छत्रादीनां चैकरूपताया ६अविगानेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे; एवं चेद् भवतो भवानीपतिं प्रति निष्प्रतिमा वासना; तर्हि कविन्दकुम्भकारादितिरस्कारेण पटघटादीनामापि कर्ता स एव किं न कल्प्यते ? । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपगोतुं शक्यम् ? तर्हि कीटिकादिभिः किं तव "विराद्धं ?, यत् तेषामसदृशतादृशप्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते । तस्माद् वैमत्यभयाद् 'महेशितुरे कत्वकल्पना- भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र . १. वन्ध्याया अपत्यं पुमान् वान्ध्येयः । वन्ध्यापत्यमित्यर्थः । .. २.. 'अशरीरश्चेद्विरुद्धो हेतुः' इति क. पुस्तके पाठः । ततः परं 'वैषम्यम्' इत्यतेत्पर्यन्तं क. पुस्तके न दृश्यते । ३. अशरीरोऽपीश्वरो न भवति कन्दलीकारवचनात् । यतो गृह्णातीश्वरः शरीरं दर्शयति चान्तरा विभूतीरिति । ख. पुस्तकें टिप्पनी । ' ४. शक्रमूर्धः-वल्मीकस्य । ५. सरघा-मधुमक्षिका । ६. अनिन्दया । ७. निरूपमा श्रद्धा । ८. अपरांद्धम् । ( Ra i kunti स्याद्वादमञ्जरी Page #53 -------------------------------------------------------------------------- ________________ कलत्रादिपरित्यजनेन शून्या रण्यानीसेवनामिवा भासते । · तथा सर्वगतत्वमपि तस्य नोपपन्नम्-तद्धि शरीरात्मना, ज्ञानात्मना वा स्यात् ? । प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद् इतरनिर्मेयपदार्थानामाश्रयानवकाशः । द्वितीयपक्षे तु सिद्धसाध्यता; अस्माभिरपि निरतिशयज्ञानात्मना. परमपुरूषस्य जगत्रयक्रोडीकरणाभ्युपगमात् । यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोध:तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्-'विश्वतश्चक्षुरुत विश्वतोमुखो विश्वयतः पाणिरुत विश्वतः पाद्' इत्यादिश्रुतेः । . ___ यच्चोक्तं-तस्य प्रतिनियतदेशवर्तित्वे। त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्छयते-स जगत्त्रयं निर्मिमाणस्तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते, यदि वा सङ्कल्पमात्रेण ? । आद्ये पक्षेएकस्यैव भूभूधरादेविधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद् बंहीयसाप्यनेहसा . न परिसमाप्तिः । द्वितीयपक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः । किञ्च तस्य सर्वगतत्वेऽङ्गीक्रियमाणे-अशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि * तस्य वृत्तिः प्रसज्यते; तथा चानिष्टापत्तिः । अथ युष्मत्पक्षेऽपि यदा ज्ञानात्मना सर्व जगत्रयं व्याप्नोतीत्युच्यते, तदाशुचिरसास्वादादीनामप्युपालम्भसंभावनात् नरकादि'दुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाञ्च, अनिष्टापत्तिस्तुल्यैवेति चेत्; तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धूलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि स्वस्थानस्थमेव विषयं परिच्छिनत्ति, न पुनस्तत्र गत्वा, तत्कुतो भवदुपालम्भः १. महदरण्यमरण्यानी । २. 'आभासते' इति रा. पुस्तके नास्ति । ३. शुक्लजुर्वेदमाध्यन्दिनसंहितायां सप्तदशेऽध्याये १९ मन्त्रे । ४. यद्वा देहस्य सर्वगतत्वेनावकाशं विना व्यापारासंभवात्-इत्यधिंक क. पुस्तके । । ५. 'उचितकार्य' इति क. पुस्तके पाठः । ६. 'प्रतिपत्तिः' इति क. पुस्तके पाठः । ७. 'स्थलेष्वपि' इति रा. पुस्तके पाठः । ८. 'अवकिरणम्' इति क. पुस्तके पाठः । (स्याद्वादमञ्जरी in d india २७ Page #54 -------------------------------------------------------------------------- ________________ समीचीनः ? नहि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादाऽनुभूतिः । तद्भावे हि स्रक्चन्दनाङ्गना- रसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तियत्नवैफल्यप्रसक्तिरिति । यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम्; तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति-अस्य मतिः सर्वशास्त्रेषु प्रसरति इति । न च ज्ञानं प्राप्यकारि; तस्यात्मधर्मत्वेन बहिनिर्गमाभावात् । बहिनिर्गमे चात्मनोऽचैतन्यापत्त्या अजींवत्वप्रसङ्गः; न हि धर्मो धर्मिणमतिरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टान्तयन्ति-यथा सूर्यस्य किरणा गुणरूपा अपि सूर्याद निष्क्रम्य भुवनं भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद् बहिनिर्गत्य प्रमेयं परिच्छिनत्तीति । तत्रेदमुत्तरम्-किरणानां गुणत्वमसिद्धम्; तेषां तैजसपुद्रलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु पृथग् भवतीति । तथा च धर्मसङ्ग्रहण्यां श्रीहरिभद्राचार्यपादाः किरणा' गुणा न दब्वं, तेसि पगासो गुणो, णवा दव्वं ।। जं नाणं आयगुणो कहमदव्वो स अन्नत्थ ? ।।३७०॥ । गन्तुं ण परिच्छिन्दइ नाणं णेयं तयम्मि देसम्मि । आयत्थं चिय, नवरं अचिंतसत्ती उ विनेयं ।।३७१।। लोहोवलस्स सत्ती आयत्था चेव भित्रदेसंपि । लोहं आंगरिसंती दीसह कजपञ्चक्खा ।।३७२।। एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिच्छिंदइ सम्मं को णु विरोहो भवे एत्थं ? ।।३७३।। इत्यादि । १. 'एव' इत्याधिक क. पुस्तके । २. अत्र मलयगिरीयवृत्तिः- अधुना प्रकारान्तरेण परो दृष्टान्तदान्तिकयोवैषम्यमाह-ननु किरणा गुणा न भवन्ति किन्तु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो द्रव्यदेशादन्यत्र वर्तते, ज्ञानं पुनरिदं यत् यस्मादात्मगुणस्ततः स कथमद्रव्यो द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ?, नैव भवेदिति भावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा सर्वव्यापी प्रतीयत एव ।।३७०।। (२८ स्याद्वादमञ्जरी Page #55 -------------------------------------------------------------------------- ________________ अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्रापि प्रतिविधीयते । ननु तस्य सार्वज्यं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा ? । न तावत् प्रत्यक्षेण; तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयाऽतिन्द्रिय ग्रहणाऽसामर्थ्यात् । नापि परोक्षेण; तद्धि अनुमानं, शाब्दं वा स्यात् ? न तावदनुमानम्। तस्य लिङ्गिलिङ्गसम्बन्धस्मरणपूर्वकत्वात्; न च तस्य सर्वज्ञत्वेऽनुमेये किञ्चिदव्यभिचारि लिङ्गं पश्यामः; तस्यात्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् । अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं-सर्वज्ञत्वमर्थादापादयतीति चेत् । न । अविनाभावाभावात्-न हि जगद्वैचित्री तत्सार्वज्यं विनाऽन्यथा नोपपन्ना । द्विविधं हि जगत्-स्थावरजङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यंस्वोपात्तशुभाशुभकर्मपरिपाकक्शेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु तदुपभोगयोग्यसाधनत्वेनानादि- कालसिद्धमेव वैचित्र्यमिति । नाऽऽप्यागमस्तत्साधकः, स हि-तत्कृतोऽन्यकृतो वा स्यात् ? । तत्कृत एवं चेत् तस्य सर्वज्ञतां साधयति-तदा तस्य महत्त्वक्षतिः स्वयमेव स्वगुणोल्कीर्तनस्य महतामनधिकृतत्वात् । अन्यञ्च, तस्य शास्त्रकर्तृत्वमेव,न युज्यते शास्त्रं हि वर्णात्मकम् तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह-न ज्ञानं यस्मिन्देशे ज्ञेयमस्ति तस्मिन्देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किन्तु आत्मस्थमेव सत् तत् दूरदेशस्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ।।३७१।। अमुमेवार्थ दृष्टान्तेन भावयति-. लोहस्याकर्षक उपल: लोहोपलः । अत्राकृष्याकर्षकभावलक्षणसम्बन्धे षष्ठी । यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे । तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि भिन्नस्थ (लस्थ) मपि लोहमाकृषन्ती दृश्यन्ते, 'न च दृष्टेऽनुपपन्नं नाम' । अतीन्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनमिति चेत् । अत आह । कार्यप्रत्यक्षा कार्यं लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा । एतदुक्तं भवति तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवह्रियत इत्यदोषः ।।३७२।। तदेवं दृष्टान्तमभिधाय दार्टान्तिके योजनामाहएवं लोहोपलशक्तिरिव 'इह' जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा । शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ।।३७३ ।।' इति धर्मसंग्रहण्याम् । १. 'अतीन्द्रियार्थ' च. पुस्तके पाठः ।। स्याद्वादमञ्जरीMARATrirint २९) Page #56 -------------------------------------------------------------------------- ________________ ते च ताल्वादिव्यापारजन्या: स च शरीरे एव सम्भवी; शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः । अन्यकृतश्चेत् सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ?। सर्वज्ञत्वे-तस्य द्वैतापत्त्या प्रागुक्ततदेकत्वाभ्युपगमबाधः; तत्साधकप्रमाणचर्यायामनवस्थापातश्च । असर्वज्ञश्चेत्-कस्तस्य वचसि विश्वासः ?। अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति; पूर्वापरविरुद्धार्थवचनोपेतत्वात् । तथाहि-'न' हिंस्यात् सर्वभूतानि' इति प्रथममुक्त्वा , पश्चात् तत्रैव पठितम्'षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ।' तथा 'अग्नीषोमीयं पशुमालभेत', 'सप्तदश प्राजापत्यान् पशूनालभेत' इत्यादि वचनानि कथमिव नं पूर्वापरविरोधमनुरुध्यन्ते ? । तया-'नानृतं ब्रूयात्' इत्यादिनाऽनृतभाषणं प्रथमं निषिध्य पचात् 'ब्राह्मणार्थेऽनृतं ब्रूयात्' इत्यादि । तथा 'न' नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारें पानृतान्याहुरपातकानि' ।।१।। तथा 'परद्रव्याणि लोष्ठवत्' इत्यादिना अदत्तादानमनेकधा निरस्य, पश्चादुक्तम्'यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नादत्तादानम्, यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम्; ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुञ्जते; १. 'पाताव' इति क. घ. पुस्तकयोः पाठः । २. छां. ८ अ. । ३. ए. अ. ६-३ । ४. तै. सं. अ. १ अ. ४ . ५. 'उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ।।३६।।' वसिष्ठंधर्मसूत्रम् अ. १६ सू. ३६ । . ६. अत्र धर्ममिति पदमध्याहत्य हिनस्तीति क्रियापदेन तस्य संबन्धः कर्तव्यः । ७. मनुस्मृतौ अ. १ श्लो. १०१ इत्यत्राल्पांशेनैतत्समम् । ( autarinitiatinidhikari स्याद्वादमञ्जरी Page #57 -------------------------------------------------------------------------- ________________ तस्मादपहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते, स्वं ददाति' इति । तथा- 'अपुत्रस्य गतिर्नास्ति' इति लपित्वा, 'अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्' । । १ । । इत्यादि । कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते; तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्च सर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्ल वकरणवैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, एतदंधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजति इति । तन्नायं सर्वज्ञः । तथा स्ववशत्वं-स्वातन्त्र्यं; तदपि तस्य न क्षोदक्षमम् - सहि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकश्च त्या वर्ण्यते, तत् कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् एक न्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते ? । अथ जन्मान्तरोपार्जिततत्तत्तदायशुभाशुभकर्मप्रेरितः सन् तथा करोतीति, दत्तस्तर्हि 'स्ववशत्वाय जलाञ्जलिः । कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वात्- अस्मन्मतमैवाङ्गीकृतं प्रेक्षावता । तथा चायातोऽयं 'घट्टकुट्यां प्रभातम्' इति न्यायः । किञ्च, प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति प्राप्तं तर्हि 'यदयमपेक्षते- तन्न करोतीति । न हि कुलालो दण्डादि करोति । एवं कर्मापेक्षश्चेदीश्वरो जगत्कारणं स्यात् तर्हि कर्मणीश्वरत्वम्, ईश्वरोऽनीश्वरः स्यादिति । १. स्ववशत्वं नष्टमित्यर्थः । २. शिपिविष्टाः - महेश्वरः । 'स्पायद्योमकेशः शिपिविष्टभैरवौ' । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे श्लो. ११२ । ३. विष्टपं विश्वं 'स्याल्लोकोविष्पं विश्वम्' इत्याभिधानचिन्तामणौ षष्टकाण्डै श्लो. १ । ४. उद्देश्यासिद्धिर्यत्र प्रतीयते तत्रायं न्याय उपयुज्यते । न्यायार्थः कश्चित् शाकटिको मध्येमार्ग राजदेयं द्रव्यं दातुमनिच्छन्मार्गान्तरं समासादयति परं रात्रौ भ्रष्टमार्गः प्रभाते राजग्राह्यद्रव्यग्राहिकुटीसविधावेवागच्छति । तेन तदुद्देश्यं न सिध्यतीति ।. (स्याद्वादमञ्जरी में और ४ ३१ Page #58 -------------------------------------------------------------------------- ________________ तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम्, । स खलु नित्यत्वेनैकरूपः सन्, त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा ? प्रथमविधायां जगन्निर्माणात् कदाचिदपि नोपरमेत; तदुपरमे तत्स्वभावत्वहानि: । एवं च सर्गक्रियाया अपर्यवसानाद् - एकस्यापि कार्यस्य न सृष्टिः । घटो हि 'स्वारम्भक्षणादारभ्य परिसमाप्तेरूपान्त्यक्षणं यावद् निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयति; जलाहरणाद्यर्थक्रियायामसाधकतमत्वात् । अतत्स्वभावपक्षे तु-न जातु जगन्ति सृजेत् तत्स्वभावायोगाद्, गगनवत् । अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत् संहारोऽपि न घटते । नानारुपकार्यकरणेऽ-नित्यत्वापत्तेः । स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत्, स्वाभावान्तरेण वा ? । तेनैव चेत्; सृष्टिसंहारयोर्यौगपद्यप्रसङ्गः, स्वभावाभेदात्; एकस्वभावात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावान्तरेण चेद् नित्यत्वहानिः स्वभावभेद एव हि लक्षणमनित्यतायाः । यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः रजोगुणात्मकतया सृष्टी, तमोगुणात्मकतया संहरणे, सात्त्विकतया च स्थितो, तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः; तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः । अथाऽस्तु नित्य:, तथापि कथं सततमेव सृष्टौ न चेष्टते ?। इच्छावशात् "चेत्, ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः ?। तथा शम्भोरष्टगुणाधिकरणत्वे, कार्यभेदानुमेयानां तदिच्छानामपि विषमरूंपत्वाद् नित्यत्वहानिः केन वार्य ? इति । किञ्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारूण्याभ्यां व्याप्ता ततश्चायं जगत्सर्गे व्याप्रियतेस्वार्थात्, कारुण्याद् वा ? । न तावत् स्वार्थात् तस्य कृतकृत्यत्वात् । नच कारुण्यात्; १. विचारासहमित्यर्थः । २. 'स्वारम्भण' इति कं. पुस्तके पाठः । ३. 'सः' इत्याधिकं रा. पुस्तके । ४. 'सततसृष्टौ ' इति क पुस्तके पाठः । ५. 'चेत्' इति क . पुस्तके नास्ति । ६. बुद्धीच्छाप्रयत्नसंख्यापरिणामपृथक्त्वसंयोगविभागाख्या अष्टौ गुणाः । ३२ (स्याद्वादमञ्जरी Page #59 -------------------------------------------------------------------------- ________________ परदुःखप्रहाणेच्छा हि कारुण्यम् ? । ततः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तो दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम् । कारुण्येन सृष्टिः सृष्ट्या च कारुण्यम् इति नास्य जगत्कर्तृत्वं कथमपि सिद्धयति । तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाक:- स खलु केवलं बलवन्मोहविडम्बनापरिपाक इति । अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति-यथा इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः इति; तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयः; अन्ययोगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ।।६।। अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते, "इति तन्मतं दूषयन्नाह न धर्मधर्मित्वमतीवभेदे वृत्त्याऽस्ति चेद् न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकबाधः ||७|| धर्मधर्मिणोरतीवभेदे-अतीवेत्यत्र-इवशब्दो वाक्यालंकारे तं च प्रायोऽतिशब्दात्, किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः । यथा-'६आवर्जिता किञ्चिदिव स्तनाभ्याम्', 'उद्वृत्तः १. 'केवलं' इति क, पुस्तके नास्ति । २. मध्यमणिन्यायः, देहलीदीपकन्यायस्तद्वदेवायं घण्टालालान्याय उपयुज्यते । ३. उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति समयात् गुणानां गुणिनो व्यतिरिक्तत्वम् । ४. 'अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः' इति प्रशस्तपादभाष्ये __समवायप्रकरणे । ५. इति पदं रा. पुस्तके नास्ति । ६. कुमारसम्भवमहाकाव्ये तृतीयसर्गे श्लो. ५४ । ७. शिशुपालवधमहाकाव्ये । स्याद्वादमञ्जरी naukarukukku ३३) Page #60 -------------------------------------------------------------------------- ________________ क इव सुखावहः परेषाम्' इत्यादि । ततश्च धर्मधर्मिणोः 'अतीवभेदेएकान्तभिन्नत्वेऽङ्गीक्रियमाणे, स्वभावहानेर्धर्मधर्मित्वं न स्यात् - अस्य धर्मिण इमे धर्माः, येषां च धर्माणामयमाश्रयभूतो धर्मी इत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति । तयोरत्यन्तभिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरं धर्माणामपि विवक्षितधर्मधर्मित्वापत्तेः । एवमुक्ते सति परः प्रत्यवतिष्ठते वृत्त्यास्तीति अयुतसिद्धानामाधार्याधार भूतानामिहप्रत्ययहेतुः सम्बन्धः समवायः; स च समवचनात् समवाय इति, द्रव्यगुण- कर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोः - इतरेतरविनिर्लुठितत्वेऽपि धर्मधर्मिव्यपदेश इष्यते; इति नानन्तरोक्तो दोष इति । - , 'अत्राचार्यः समाधत्ते चेदिति यद्येवं तव मतिः-सा प्रत्यक्षप्रतिक्षिप्ता, यतो न त्रितयं चकास्ति । अयं धर्मी इंमे चास्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं वस्तुत्रयं न चकास्ति - ज्ञानविषयतया न प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते; नैवमत्र समवायस्यापि प्रतिभानम्', किन्तु द्वयोरेव धर्मधर्मिणों; इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः । • किञ्च, अयं तेन वादिना एको, नित्यः, सर्वव्यापकः अमूर्तश्च परिकल्प्यते । ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसम्बन्धेन घटे समवेताः तथा किं न पंटेऽपि ?; तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् । ३४ - यथाकाश एको, नित्यो, व्यापकः, अमूर्तश्च सन्- सर्वैः सम्बन्धिभिर्युगपदविशेषेण सम्बध्यते, तथा किं नायमपीति ? । विनश्यदे क वस्तु समवायाभावे च समस्तवस्तुसमवायाऽभावः प्रसज्यते । तत्तदवच्छेदकभेदाद् नायं दोष इति चेत्, १. 'धर्मधर्मिणोरतीवभेदे' इति तथाग्रे 'स्वभावहाने:' इति रा. पुस्तके नास्ति । २. 'प्रतिभासनम्' इति क . पुस्तके पाठः । ३. 'न' इति क पुस्तके पाठः । ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #61 -------------------------------------------------------------------------- ________________ एवमनित्यत्वापत्तिः; प्रतिवस्तस्वभावभेदादिति । . . अथ कथं समवायस्य न ज्ञाने प्रतिभानम् ?। यतस्तस्येहेतिप्रत्यः सावधानं साधनम् इह प्रत्ययश्चानुभवसिद्ध एव । इह तन्तुषु पटः, इहात्मनि ज्ञानम्, इह घटे रूपादय इति प्रतीतेरूपलम्भात् । अस्य च प्रत्ययस्य केवलधर्मधर्म्यना-लम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुः ; इति पराशङ्कामभिसन्धाय पुनराह-इहेदमित्यस्ति मतिश्च वृत्ताविति-इदेहमिति-इहेदमिति आश्रयाश्रयिभाव-हेतुक इहप्रत्ययो वृत्तावप्यस्तिसमवायसंबन्धेऽपि विद्यते । चशब्दोऽपिशब्दार्थः तस्य च व्यवहितः सम्बन्धः, तथैव च व्याख्यातम् । इदमत्र हृदयम्-यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं नापरं 'वस्त्वन्तरम् । तेन स्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः- स एव समवाय इत्युच्यते; ‘प्राप्तानामेव प्राप्तिः समवायः' इति वचनात् । एवं समवायत्वाभिसम्बन्धात् समवाय इत्यपि किं न कल्प्यते ?; यतस्तस्यापि यत् समवायत्वं स्वस्वरूपं, तेन सार्धं सम्बन्धोऽस्त्येव, अन्यथा निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भवेत्। ततश्च इह समवाये समवायत्वम् इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव । ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि समवायत्वं समवायान्तरेण सम्बन्धनीयम्; तदप्यपरेण, इत्येवं दुस्तराऽनवस्थामहानदी । - एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्त्या उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्यभिसम्बन्धनिबन्धनं समवायो मुख्यः, तत्र त्वतलादिप्रत्ययाभिव्यङ्ग्यस्य सङ्गहीतसकलाऽवान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित १. 'वस्त्वन्तरम्' इति ख. पुस्तके नास्ति । २. 'यतो यट्या' इति घ. पुस्तके पाठ: । ३. 'समवायेऽपि समवायत्वमेवम्' इति रा. पुस्तके पाठः । ४. 'अपि' इति क. पुस्तके नास्ति । स्याद्वादमञ्जरी A nirudhir ३५) Page #62 -------------------------------------------------------------------------- ________________ इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः, तत्साध्यश्च समवाय इति । तदेतद् न 'विपश्चिञ्चमत्कारकारणम्; यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्यते ?।. व्यक्तेरभेदेनेति चेत् । न । तत्तदवच्छेदकवशात् तद्भेदोपपतौ व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति; तत्सिद्धौ सिद्ध एव जात्युद्भवः । तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात् । तदेतत्सकलं . सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति-गौण इति योऽयं भेदः-स नास्ति; गौणलक्षणाभावात् । तल्लक्षणं चेत्थमाचचक्षते 'अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे ? ॥१॥' तस्माद् धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः । .. किञ्च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः- स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम्; इह तन्तुषु पट इत्यादेर्व्यवहारस्यालौकिकत्वात्; "पांशुलपादानामपि इह पटे. तन्तव इत्येव प्रतीतिदर्शनात्; इह भूतले घटाभाब इत्यत्रापि समवायप्रसङ्गात् । अत एवाह-अपि च लोकबाध इति-अपि चेति-दूषणाभ्युञ्चये, लोकःप्रामाणिक लोकः, सामान्यलोकश्च; तेन बाधो-विरोधः, लोकबाध; तदप्रतीतव्यवहारसाधनात्; बाधशब्दस्य 'ईहाद्याः५ प्रत्ययभेदतः' इति पुंस्त्रीलिङ्गता । तस्माद्धर्मधर्मिणो- रविष्वग्भावलक्षण एव सम्बन्धः प्रतिपत्तव्यो १. 'विपचिच्चेत' । इति ह. रा. पुस्तकयोः पाठः । २. 'व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसंग्रहः' । इति किरणावल्यामुदयनाचार्यकृतायाम् । ३. अनुहरते-अनुकरोति । ४. पांशुलपादाः-धूलिधूसरपादा अचिरादेवागताः । अप्रकरणज्ञा इत्यर्थः । ५. हैमलिङ्गानुशासने पुंस्त्रीलिङ्गप्रकरणे श्लो. ५ । (३६RAKARMA स्याद्वादमञ्जरी Page #63 -------------------------------------------------------------------------- ________________ नान्यः समवायादिः । इति काव्यार्थः ।।७।। . . अथ सत्ताभिधानं पदार्थान्तरम्, आत्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणम्, आत्मविशेष- गुणोच्छेदस्वरूपां च मुक्तिम्, अज्ञानादङ्गीकृतवत: परानुपहसन्नाहसतामपि स्यात् क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्ति: सुसूत्रमासूत्रितमत्वदीयैः IIII वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थास्तत्त्वतयाऽभिप्रेताः; तत्र "पृथिव्यापस्तेजो वायुराकाश: कालो दिगात्मा मन' इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः; तद्यथा-'२रूपरसगन्धस्पर्शसंख्यांपरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च' इति सूत्रोक्ताः सप्तदश । चशब्दसमुञ्चितांश्च सप्त-द्रवत्वं, गुरूत्वं, संस्कारः, स्नेहो, धर्माधर्मों, शब्दश्च, । इत्येवं चतुर्विंशतिर्गुणाः । संस्कारस्य वेगभावनास्थितिस्थापकभेदाद् त्रैविध्येऽपि- संस्कारत्वजात्यपेक्षया एकत्वात्, शौयौदार्यादीनां चात्रैवान्तर्भावाद् नाधिक्यम् । कर्माणि पञ्च, तद्यथा-"उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । गमनग्रहणाद्-भ्रमणरेचनस्यन्दनाद्यविरोधः । अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद्-अन्योऽन्यस्वरूपानुगमः प्रतीयते, तदनुवृत्तिप्रत्ययहेतुः सामान्यम् । तञ्च द्विविधं परमपरं च । तत्र "परं-सत्ता, भावो, १. वैशेषिकदर्शनस्य प्रथमाध्यायस्य प्रथमाह्रिके सूत्रं ५ । २. वैशेषिकदर्शनस्य प्रथमाध्याये प्रथमाह्रिके सूत्रं ६ (किंचित्पाठभेदः) ३. प्रशस्तपादभाष्ये उद्देशप्रकरणे । ४. उर्ध्वदेशसंयोगकारणं कर्मोत्क्षेपणम् । अधोदेशसंयोगकारणं कर्मापक्षेपणम् । वक्रत्वापादकं कर्माकुञ्चनम् । ऋजुत्वापादकं कर्म प्रसारणम् अनियंतदेशसंयोगकारणं कर्म गमनम् । प्रशस्तपादभाष्ये । उद्देशप्रकरणे । ५. 'द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते' । कारिकावली प्रत्यक्षखण्डे का. ८ । स्याद्वादमञ्जरीsanilunia ३७) Page #64 -------------------------------------------------------------------------- ________________ महासामान्यमिति चोच्यते; द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं च द्रव्यत्वादि । एतञ्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहिद्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः ; ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यम्; द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम्, एवं पञ्चसु कर्मसु 'वर्तमानत्वात् कर्मत्वं सामान्यम्; द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः । एवं कर्मत्वापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता-द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्या ?, इतिचेद् उच्यते । न द्रव्यंसत्ता, द्रव्यादन्येत्यर्थः; एकद्रव्यवत्त्वाद्-एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत्यथा द्रव्यत्वं- नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषणलक्षणं द्रव्यत्वमेव; एवं सत्ताऽपि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वाद्रव्यम्। तत्राऽद्रव्यं द्रव्यम् आकाशः, कालो, दिगात्मा, मनः, परमाणवः; अनेकद्रव्यं तु व्यणुकादिस्कन्धाः; एकद्रव्यं तु-द्रव्यमेव न भवति; एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद न द्रव्यम् । एवं न गुणः-सत्ता; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत; निर्गुणत्वाद् गुणानाम्; वर्तते च गुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता-कर्म; कर्मसु भावात्, कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तहि कर्मसु वतेत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः । सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता । ____ तथा विशेषाः-नित्यद्रव्यवृत्तयः, अन्त्याः-अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकार:- 'अन्त्येषु भवा अन्त्याः ; स्वाऽश्रयविशेषकत्वाद् विशेषाः । विनाशाऽरम्भरहितेषुनित्यद्रव्येष्वण्वाऽकाशकालदिगाऽत्ममनस्सु-प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्ति-बुद्धिहेतवः । १. 'वर्तानात्' इति ह. रा. पुस्तकयोः पाठः । २. - द्रव्यं द्विधा । अद्रव्यमनेकद्रव्यं च । न विद्यते द्रव्यं जन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम्। यथाकाशकालादि । अनेकं द्रव्यं जन्यतया च जनकतया च यस्य तदनेकद्रव्यं द्रव्यम् । इति ख. पुस्तकटिप्पन्याम् । ३. विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८ । ( ३८ istiniantertakindianki स्याद्वादमञ्जरी) . Page #65 -------------------------------------------------------------------------- ________________ यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याऽऽकृतिगुणक्रियाऽवयवोपचयाऽवयवसंयोग निमित्ता प्रत्ययव्यावृत्तिर्दृष्टा-गौः शुक्लः शीघ्रगतिः पनिः ककुमान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां-नित्येषु तुल्याकृतिगुणक्रियेषु मुक्ताऽत्ममनस्सु चान्यनिमित्ताऽसम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः' इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तेरेव हेतुत्वात् । .. ____ तथा अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः परस्परपरिहारेण पृथगाऽऽश्रयाऽनाश्रितयोराऽश्रयाश्रयिभावः इह तन्तुषु पटः इत्यादे : प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्यं तत्त्वाद्याधारे सम्बध्यते; यथा छिदिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः । साम्प्रतमक्षरार्थो व्याक्रियते- सतामषीत्यादि-सतामपि-सद्बुद्धिवेद्यता साधारणानामपि, षण्णां पदार्थानां मध्ये कचिदेवकेषुचिदेव पदार्थेषु; सत्तासामान्ययोगः, स्याद्-भवेत्, न सर्वेषु । तेषामेष वाचोयुक्तिः-सदिति, यतोद्रव्यगुणकर्मसु सा सत्ता इति वचनाद्-यत्रैव सत्प्रत्ययस्तत्रैव सत्ता; सत्प्रत्ययश्चद्रव्यगुणकर्मस्वेव, अतस्तेष्वेव, सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति-यद्यपि वस्तुस्वरूपं-अस्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति; य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्तायोगस्तत्रद्रव्यादीनां पुनस्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपम् अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासमबन्धोऽप्यस्ति, निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् । .. सामान्यादित्रिके कथं नानुवृत्तिप्रत्ययः ?। इति चेद्; बाधकसद्भावादिति बूमः । तथाहि-सत्तायामपि सत्तायोगाऽङ्गीकारे-अनवस्था । विशेषेषु पुनस्तदभ्युपगमे-व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः । समकाये तु तत्कल्पनायां १. 'विशेषसंयोग' इत्यपपाठ: । प्रशस्तपादभाष्येऽनुपलब्धेः । स्याद्वादमञ्जरी KarkikNNA ३९) Page #66 -------------------------------------------------------------------------- ________________ सम्बन्धभावः; केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायाऽन्तराऽभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः " व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थिति: । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः' ।।१।। इति । ततः स्थितमेतत्सतामपि स्यात् क्वचिदेव सत्तेति । तथा', चैतन्यमित्यादि, चैतन्यं ज्ञानम्, आत्मनः - क्षेत्रज्ञाद्, अन्यद्-अत्यन्तव्यतिरिक्तम्, असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धिज्ञानमिति व्यपदेश: ?, इति पराऽऽशङ्कापरिहारार्थम् औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमौपाधिकम् । समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतम्, आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धोपढौकितमिति यावत् । यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद् बुद्ध्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसर आत्मनोऽप्युच्छेदः स्यात्, तदव्यतिरिक्तत्वाद्; अतो भिन्नमेवात्मनो ज्ञानं यौक्तिकमिति । तथा न संविदित्यादि; मुक्ति:- मोक्षः; न संविदानन्दमयी न ज्ञानसुखस्वरूपा । संविद्-ज्ञानं, आनन्दः- -४ सौख्यम्, ततो द्वन्द्वः, संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दीमयी, एतादृशी न भवति बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मासंस्काररूपाणां नव़ानामात्मनो 'वैशेषिकगुणानामत्यन्तोच्छेदो मोक्ष इति वचनात् । चशब्दः "पूर्वोक्ताभ्युपगमद्वयसमुच्चये । ज्ञानं हि क्षणिकत्वादनित्यं सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थातः; इति तदुच्छेद आत्मस्वरूपेणावस्थानं मोक्ष इति । प्रयोगश्चात्र नवानामात्मविशेषगुणानां सन्तान:- - अत्यन्तमुच्छिद्यते, १. किरणावल्यां द्रव्यप्रकरणे पृष्ठ १६१ । २. 'तथा' इति कं. पुस्तके नास्ति । ३. तत्वज्ञानान्मिथ्याज्ञानाऽपाये रागद्वेषमोहाख्या दोषा अपयान्ति, दोषापाये वाङ्मनःकायव्यापाररूपायाः शुभाशुभफलायाः प्रवृत्तेरपायः । प्रवृत्त्यपाये जन्मापायः । जन्मापाये एकविंशतिभेदस्य दुःखस्याऽपायः । ४. 'सुखम्' इति क पुस्तके पाठः । ५. पूर्वोक्तयो: सत्ताज्ञानयोः । ४० ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #67 -------------------------------------------------------------------------- ________________ सन्तानत्वात्, यो यः सन्तान: स सोऽत्यन्तमुच्छिद्यते, यथा प्रदीपसन्तानः, तथा चायम, तस्मात्तदत्यन्तमुच्छिद्यत इति । तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति । न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः'। इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये-सुखदुःखे, ते चाशरीरं-मुक्तं न स्पृशतः । अपि च-'यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदाऽऽत्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ।।१।। धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । . मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ।।२।। तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ।।३।। इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ।।४।। तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्ग: प्रतिष्ठितः ।।५।। ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।।६।। ऊर्मिषट्कातिगं रूपं तदस्याऽऽहुर्मनीषिणः । . संसारबन्धनाधीनदुःखकेशाद्यदूषितम् ।।७।। । कामक्रोधलोभगर्वदम्भहर्षा- ऊर्मिषट्कमिति' । १. न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः । इति छां. अ. ८.१२। २. 'प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते । जरामृत्यू शरीरस्य षडूमिरहितः शिवः'।। इति पुराणे। ख. पुस्तकटिप्पन्याम् । स्याद्वादमञ्जरी u nniu ४१ Page #68 -------------------------------------------------------------------------- ________________ तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वादाज्ञाबहिर्भूतैः, कणादमतानुगामिभिः, सुसूत्रमासूत्रितम्-सम्यगागमः प्रपञ्चितः । अथवा सुसूत्रमिति क्रियाविशेषणम् शोभनं सूत्रं वस्तुंव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितंतत्तच्छानार्थोपनिबन्धः कृतः, इति हृदयम् । "सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः' । इत्यनेकार्थवचनात् । - अत्र च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भप्रशंसावचनम् । यथा-''उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् ।' इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अविशेषेण सद्बुद्धिवेद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये, इति महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थः-अस्तीति सन्, सतो भावः सत्ता, अस्तित्वं तद्वस्तुस्वरूपं; तञ्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाऽप्युक्तम्, तत्किमिदमर्द्धजरतीयं यद् द्रव्यादित्रय एव सत्तायोगो, नेतरत्र त्रये ? इति । अनुवृत्तिप्रत्ययाभावाद् न सामान्यादित्रये सत्तायोग इति चेत् । न; तत्राप्यनुवृत्तिप्रत्य- स्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्य सामान्यमिति; विशेषेष्वपि बहुत्वाद्अयमपि विशेषोऽयमपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद्-एकाकारप्रतीतेरनुभवात् ।। ___ स्वरूपसत्त्वसाधर्म्यण सत्ताऽध्यारोपात् सामान्यादिष्वति सत् सदित्यनुगम इति चेत्.तर्हि मिथ्यांप्रत्ययोऽयमापद्यते । अथ भित्रस्वभावेष्वेकानुगमो मिथ्यैवेति चेद् द्रव्यादिष्वपि सत्ताऽध्यारोपकृत एवाऽस्तु प्रत्ययाऽनुगमः, नैवम् । असति १. हेमचन्द्रकृतेऽनेकार्थसंग्रहे द्वितीयकाण्डे श्लो. ४५८ । २. 'विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्' इत्युत्तरार्धम् । ३. पश्यतोहरश्चौरः । पश्यतोहरता चौर्यम् । ४. 'षण्णां पदार्थानां साधर्म्यमस्तित्वं ज्ञेयत्वमभिधेयत्वं च इति प्रशस्तकारवचनात्' । इति ख. पुस्तकटिप्पन्याम् । ५. अर्धा जरती अर्धा युवतिरितिवत् ।। ६. 'नैवम्' इति नास्ति रा. ह. पुस्तकयोः । D (PRAKASHATARNATAK स्याद्वादमञ्जरी Page #69 -------------------------------------------------------------------------- ________________ मुख्येऽध्यारोपस्याऽसम्भवाद्र्व्यादिषु मुख्योऽयमनुगतः प्रत्ययः, सामान्यादिषु . तु गौण इति चेत् । न विपर्ययस्यापि शक्यकल्पनत्वात् । . . ___सामान्यादिषु बाधकसम्भवाद्-न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु तदभावाद् मुख्य इति चेद्; ननु किमिदं बाधकम् ?। अथ सामान्येऽपि सत्ताऽभ्युपगमे-अनवस्था; विशेषेषु पुनः सामान्यसद्भावे- स्वरूपहानिः, समवायेऽपि सत्ताकल्पने-तद्वृत्त्यर्थं सम्बन्धान्तराभाव इति बाधकानीति चेत् । न; सामान्येऽपि सत्ताकल्पने यद्यनवस्था, तर्हि कथं न सा द्रव्यादिषु ?; तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात्। विशेषेषु पुनः सत्तांभ्युपगमेऽपि न 'रुपहानिः; स्वरूपस्य प्रत्युतोत्तेजनात्; निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकार उपपद्यत एवाविष्वग्भावात्मकः सम्बन्धः, अन्यथा तस्य स्वरूपाभावप्रसङ्गः; इति बाधकाभावात् तेष्वपि द्रव्यादिवद् मुख्य एव सत्तासम्बन्धः इति व्यर्थं द्रव्यगुणकर्मस्वेव सत्ताकल्पनम् । किञ्च तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः सत्तासम्बन्धः कक्षीकृतः, सोऽपि विद्यार्यमाणो विशीर्येत । तथाहि- यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाणि स्युः । सत्तायोगात् सत्त्वमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुत: सत्त्वम् ? ; सतां तु निष्फल: सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवेति चेत, तर्हि कि 'शिखण्डिना सत्तायोगेन ? । सत्तायोगात् प्राग् भावो न सन्, नाप्यसन्, सत्तायोगात् तु सन्निति चे; वाङ्मात्रमेतत्; सदसद्विलक्षणस्य प्रकारन्तरास्यासम्भवात् । तस्मात् सतामपि स्यात् क्वचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ?। १. 'अनुगमप्रत्ययः' इति क. पुस्तके पाठ: । २. 'अनुगमप्रत्ययः' इति क. पुस्तके पाठः । ३. 'स्वरूपहानिः' इति रा. हा. पुस्तकयोः पाठः । ४. 'निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वे तु विशेषास्तद्वदेव हि' ।।१।। ५. 'एव' इति ह. रा. पुस्तकयोरधिकम् । ६. शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता सैव शिखण्डीति संज्ञया व्यवजते । स च स्त्रीपूर्वत्वानिन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्याऽर्जुनो भीष्मं जघान । सोऽपि शिखण्डी पश्चादश्वत्थाम्ना हतः । ... (स्याद्वादमञ्जरीhathiandian ४ ३) Page #70 -------------------------------------------------------------------------- ________________ ज्ञानमपि यद्येकान्तेनात्मनः सकाशाद् भिन्नमिष्यते, तदा तेनचैत्रज्ञानेनं मैत्रस्येव, नैव विषयपरिच्छेदः स्यादात्मनः । अथ यत्रैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेत् । न समवायस्यैकत्वाद्, नित्यत्वाद्, व्यापकत्वाच्च, सर्वत्र वृत्तेरविशेषात्, समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । यथा च घटे रूपादयः समवायसम्बन्धेन समवेताः, तद्विनाशे च तदाश्रयस्य घटस्यापि विनाशः, एवं ज्ञानमप्यात्मनि समवेतं, तंञ्च क्षणिकं, ततस्तद्विनाशे आत्मनोऽपि विनाशापत्तेरनित्यत्वापत्तिः । अथाऽस्तु समवायेन ज्ञानाऽऽत्मनोः सम्बन्धः, किंतु स एव समवायः केन तयोः सम्बध्यते ? । समवायान्तरेण चेद्; अनवस्था । स्वेनैव चेत्; किं न ज्ञानात्मनोपरि तथा ? । अथ यथा प्रदीपस्तंत्स्वाभाव्याद् आत्मानं, परं च प्रकाशयति, तथा समवायस्येदृगेव स्वभावो यदात्मानं, ज्ञानात्मानौ च सम्बन्धयतीति चेत्, ज्ञानात्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ सम्बध्येते ? । किञ्च, प्रदीपदृष्टान्तोऽपि भवत्पक्षे न जाघटीति, यतः प्रदीपस्तावद् द्रव्यं, प्रकाशश्च तस्य धर्मः, धर्मधर्मिणोश्च त्वयाऽत्यन्तं भेदोऽभ्युपगम्यते; तत्कथं प्रदीपस्य प्रकाशात्मकता ?; तदभावे च स्वपरप्रकाश स्वभावताभणितिनिर्मूलैव । यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामपि तदनुषज्यते; भेदाऽविशेषात् । अपि च तौ स्वपरसम्बन्धस्वभावौ समवायाद् भिन्नौ स्याताम्, अभिन्नौ वा ? । यदि भिन्नौ ततस्तस्यैतौ स्वभावाविति कथं सम्बन्धः?; सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ, ततः समवायमात्रमेव; न तौ तदव्यतिरिक्तत्वात् तत्स्वरूपवदिति । किञ्च, यथा इह समवायिषु समवाय इति मतिः समवायं विनाप्युपपन्ना, तथा इहात्मनि ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोषः ? । अथाऽऽत्मा कर्ता, ज्ञानं च करणं, कर्तृकरणयोश्च वर्धकिवासिवद् भेद १. 'प्रकाशकस्वभावता' इति ह. रा. पुस्तकयो पाठः । २. 'च' इति ख. घ. पुस्तकयो स्ति । ३. वर्धकिस्त्वष्टा, वासी तच्छस्त्रम् । (४४Muhura स्याद्वादमञ्जरी Page #71 -------------------------------------------------------------------------- ________________ एव प्रतीतः, तत्कथं ज्ञानात्मनोरभेदः ? इति चेत् । न; दृष्टान्तस्य वैषम्यात् । वासी हि बाह्यं करणं, ज्ञानं 'चान्तरं, तत्कथमनयोः साधर्म्यम् ? न चैवं . करणस्य द्वैविध्यमप्रसिद्धम् । यदाहुर्लाक्षणिकाः 'करणं द्विविधं ज्ञेयं बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दात्रेण मेरुं गच्छति चेतसा' ।।१।। यदि हि किञ्चित्करणमान्तरमेकान्तेन भिन्नमुपदर्श्यते, ततः स्याद् दृष्टान्तदार्टान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषां देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात्। तथा च सति लोकप्रतीतिविरोध इति । अपि च, साध्यविकलोऽपि वासिवर्धकिदृष्टान्तः, तथाहि-नायं वर्धकि:'काष्ठमिदमनया वास्या घटयिष्ये' इत्येवं वासिग्रहणपरिणामेनाऽपरिगतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा; तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने 'व्याप्रियते, पुरुषोऽपि इत्येवं लक्षणैकार्थसाधकत्वात् वासिवर्धक्योरभेदोऽप्युपद्यते; तत्कथमनयोर्भेद एव ?', इत्युच्यते । एवमात्माऽपि 'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' इति ज्ञान-ग्रहणपरिणामवान् ज्ञानं गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानात्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एव । एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्यं किमात्मनि व्यवस्थितं, आहोस्विद् विषये ? इति वाच्यम् । आत्मनि चेत्-सिद्धं नः समीहितम् । विषये चेत् कथमात्मनोऽनुभवः प्रतीयते ? । अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्याऽपि ?; तद्भेदाऽविशेषात् । अथ ज्ञानाऽऽत्मनोरभेदपक्षे कथं कर्तृकरणभावः, इति चेत्, ननु यथा १. 'चाभ्यन्तरम्' इति रा. पुस्तके पाठः । २. 'नचेदम्' इति क. पुस्तके पाठः । ३. 'व्याप्रियेत' इति ख. पुस्तके पाठः । ४. 'तमर्थम्' इति क. पुस्तके पाठः । स्याद्वादमञ्जरी NRNAMANANDNA ४५) Page #72 -------------------------------------------------------------------------- ________________ सर्प आत्मानमात्मना 'वेष्टयतीति । अथ परिकल्पितोऽयं कर्तृकरणभाव इति चेद्, वेष्टनावस्थायां प्रागवस्था - विलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ? न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तुं शक्यम्; तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव । किञ्च चैतन्यमिति शब्दस्य चिन्त्यतामन्वर्थ:- चैतनस्य भावश्चैतन्यम्; चेतनश्चात्मा त्वयाऽऽपि कीर्त्यते; तस्य भावः स्वरूपं - चैतन्यम् । यच्च यस्य स्वरूपं, न तत् ततो भिन्नं भवितुमर्हति; यथा वृक्षाद् वृक्षस्वरूपम् । अथास्ति चेतन आत्मा, परं चेतना समवायसम्बन्धात्, न स्वतः, तथाप्रतीतेः इति चेत्; तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निर्बाधमुपयोगात्मक एवात्मा प्रसिद्ध्यति; न हि जातुचित् स्वयमचेतनोऽहं-चेतनायोगात् चेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः । भेदे तथाप्रतीतिरिति चेत् । न; कथञ्चित् तादात्म्याऽभावे सामानाधिकरण्यप्रतीतेरदर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तब्धत्वादिगुणैरभेदः । उपचारस्य मुख्यार्थस्पर्शित्वात् । तथा चात्मनि ज्ञाताऽहमितिप्रतीतिः कथञ्चित् चेतनात्मतां गमयति, तामन्तरेण ज्ञाताऽहमिति प्रतीतेरनुपपद्यमानत्वात् घटादिवत्; न हि घटादिरचेतनात्मको ज्ञाताहमिति प्रत्येति । चैतन्ययोगाभावाद् असौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगात्-चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं पराकरोति । तं पुनरिच्छता-चैतन्यस्वरूपताऽस्य स्वीकरणीया । ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावानुषङ्गः । तदसत्; ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति, जडैकान्तरूपत्वाद्, घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमितिप्रत्ययश्च स्याद् अस्य; विरोधाभावाद् इति मा निर्णैषीः । तस्य तथोत्पत्त्यसम्भवात् । ज्ञानवानहमित्तिं हि प्रत्ययो न अगृहीते ज्ञानाख्ये विशेषणे, विशेष्ये चात्मनि जातूत्पद्यते; स्वमतविरोधात् । 'नागृहीतविशेषणा विशेष्ये बुद्धिः' इति वचनात् । १. 'अत्र' इत्यधिकं रा. ह. पुस्तकयोः । तथाग्रे 'अभेदे' यथा कर्तृकरणभावस्तथाऽत्रापि । इति रा. ह. पुस्तकयोरधिकम् । २. 'तत्' इति क पुस्तके नास्ति । ३. 'जातूपपद्यते' इति घ. पुस्तके पाठः । स्याद्वादमञ्जरी Page #73 -------------------------------------------------------------------------- ________________ गृहीतयोस्तयोरुत्पद्यत इति चेत् - कुतस्तद्गृहीति: ? । न तावत् स्वतः; स्वसंवेदनाऽनभ्युपगमात् । स्वसंविदिते ह्यात्मनि, ज्ञाने च, स्वतः सा युज्यते; नान्यथा; सन्तानान्तरवत् । परतश्चेत्; तदपि ज्ञानान्तरं विशेष्यं-नागृहीते ज्ञानत्वविशेषणे, ग्रहीतुं शक्यम् । गृहीते हि घटत्वे घटग्रहणमिति ज्ञानाऽन्तरात् तद्ग्रहणेन भाव्यम्; इत्यनवस्थानात् कुतः प्रकृतप्रत्ययः । तदेवं नात्मनो जडस्वरूपता 'संगच्छते तदसङ्गतौ च चैत्यमौपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् । - तथा यदपि-न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादिसन्तानत्वादिति । तत्राभिधीयते ननु किमिदं सन्तानत्वं - स्वतन्त्रम्अपरापरपदार्थोत्पत्तिमात्रं वा, एकाऽऽश्रयापरापरोत्पत्तिर्वा ? तत्राद्यः पक्षः सव्यभिचारः अपराऽपरेषामुत्पादकानां घटपटकटादीनां सन्तानंत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाऽभावात् । अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्च भविष्यति विपर्यये बाधकप्रमाणाऽभावात्; इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च, स्याद्वादवादिनां नास्ति क्वचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्तूनामेव सतां भावानामुत्पादव्यययुक्तत्वाद्, ४ इति विरूद्धश्च । इति नाधिकृतानुमानाद् बुद्ध्यादिगुणोच्छेदरुपा सिद्धिः सिद्ध्यति । नापि ‘“न हि वै सशरीरस्य' इत्यादेरागमात्; स हि शुभाशुभाऽदृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः । मुक्तिदशायां तु सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते ? । आगमस्य चायमर्थ:-सशरीरस्य- गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः प्रियाप्रिययो:परस्परानुषक्तयोः सुखदुःखयोः- अपहति-अभावो नास्तीति । अवश्यं हि तत्र १. 'संगच्छेत' इति घ. पुस्तके पाठः । २. जडस्वरूपताप्राप्त्यभावे च । - ३. 'सत्तानस्य' इति क पुस्तके पाठः । ४. 'इति' पदं घ. पुस्तके नास्ति । ५. 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति इति छां. अ. ८ । १२ । स्याद्वादमञ्जरी बैंक ४७ Page #74 -------------------------------------------------------------------------- ________________ सुखदुःखाभ्यां भाव्यम् । 'परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते । अशरीरंमुक्तात्मानं 'वाशब्दस्यैवका - रार्थत्वाद् अशरीरमेव; वसन्तं-सिद्धिक्षेत्रमध्यासीनं, प्रियाप्रिये परस्परानुषक्ते सुखदुःखे न स्पृशतः । इदमत्र'हृदयम्-यथा किल संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां, न तथा मुक्तात्मनः, किन्तु केवलं सुखमेव दुःखमूलस्य शरीरस्यैवाऽभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेव; स्वस्वरूपाऽवस्थानं हि मोक्षः; अत एव चाशरीरमित्युक्तम् । आगमार्थश्चायमित्थमेव समर्थनीयः ; यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते 'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः ।। १ ।।' न चायं सुखशब्दो दुःखाभावमात्रे वर्तेत - मुख्यसुखवाच्यतायां बाधकाभावात् । अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति ४ प्रयोगस्य पौनरूक्त्यप्रसङ्गाच्च । दुःखाभावमात्रस्य - रोगाद् विप्रमुक्त इतीयतैव गतत्वात् । न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः । को हि नाम शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत दुःखसंवेदनरूपत्वादस्य सुखदुःखयोरेकस्याऽभावे परस्याऽवश्यंभावात् । अत एव " त्वदुपहासः श्रूयते 'वरं वृन्दावने रम्ये क्रोष्टृत्वमभिवाञ्छितम् । न तु वैशेषिकीं मुक्तिं गौतमो गन्तुमिच्छति' ।। १ ।। सोपाधिकसावधिकपरिमिताऽऽनन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीतानन्द १।२. एकद्वाक्यं चिन्हान्तर्गतत्वेन अस्मदुपलब्धेषु लिखितपुस्तकेषु नास्ति । तेनास्माभिरपि चिह्नरहितत्वेन मुद्रापम् । ३. रहस्यमित्यर्थः । ४. 'प्रयोगस्यापि' इति घ. पुस्तके पाठः । ५. 'तदुपहास:' इति घ. पुस्तके पाठः । ४८ स्याद्वादमञ्जरी Page #75 -------------------------------------------------------------------------- ________________ मम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः । यदि तु जड: पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण; संसार एव वरमस्तु । यत्र तावदन्तराऽन्तरापि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां तावत्किमल्पसुखाऽनुभवो भव्यः, उत सर्वसुखोच्छेद एव ? | अथाऽस्ति तथाभूते मोक्षे लाभातिरेकः २ प्रेक्षादक्षाणाम्; ते ह्येवं विवेचयन्तिसंसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दुःखं चावश्यं हेयम्, विवेकानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम्, अत एव द्वे अपि त्यज्येते, "ततश्च संसाराद् मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्यात् । वरमियती कादाचित्कसुखमात्राऽपि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति । , तदेतत्सत्यम्; संसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तज्जिहासा, किन्त्वात्यन्तिकसुख विशेषलिप्सूनामेव । इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः । येऽपिं विषमधुनी एकत्र सम्पृक्ते त्यज्येते, तेऽपि सुखविशेषलिप्सयैव । किञ्च यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र' प्रवृत्तिः स्यात्, भवति चेयम् । ततः सिद्धः मोक्षः सुखसंवेदनस्वभाव:, प्रेक्षावत्प्रवृत्तेरन्यथाऽनुपपत्तेः । १. 'जडः' इति घ. पुस्तके नास्ति । २. 'सत्प्रेक्षा' इति क पुस्तके पाठः । ३. 'विचारयन्ति' इति क . पुस्तके पाठः । ४. 'दुः शक्यम्' इति घ. पुस्तके पाठः । 'अतश्च' इति रा. ह. पुस्तकयोः पाठः । ६. 'विशेष' इति क पुस्तके नास्ति । ५. ७. 'एव' इति क पुस्तके नास्ति । ८. 'अत्र' इति रा. पुस्तके नास्ति । ९. 'सिद्धम्' इति रा. ह. पुस्तकयोः पाठः । स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ४९ Page #76 -------------------------------------------------------------------------- ________________ अथ यदि सुखसंवेदनकस्वभावो मोक्षः स्यात्, तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि रागिणां मोक्षोऽस्ति; रागस्य बन्धनात्मकत्वात् । नैवम् । सांसारिकसुख एव रागो बन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात्; मोक्षसुखे तु रागः-तनिवृत्तिहेतुत्वाद् न बन्धनात्मकः परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते; 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः' इति वचनात् । अन्यथा भवत्पक्षेऽपि दु:खनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायंकालुष्यं केन निषेध्येत ? इति 'सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनाऽऽत्मको मोक्षो, न बुद्ध्यादिविशेषगुणोच्छेदरूप इति । अपि च भोस्तपस्विन् । कथञ्चिदेषामुच्छेदोऽस्माकमप्यभिमत एवेति मा विरूपं मनः कृथाः । तथाहि- बुद्भिशब्देन ज्ञानमुच्यते; तच्च मतिश्रुताऽवधिमनःपर्यायकेवलभेदात् पञ्चधा । तत्राद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम्; "नटुंमि य छाउमथिए नाणे' इत्यागमात् । केवलं तु सर्वद्रव्यपर्यायगतं क्षायिकत्वेन निष्कलङ्काऽऽत्मस्वरूपत्वाद्-अस्त्येव मोक्षाऽवस्थायाम्, सुखं तु वैषयिकं तत्र 'नास्ति, तद्धेतोर्वेदनीयकर्मणोऽभावात् । यत्तु निरतिशयक्षयमनपेक्षमनन्तं च सुखं तद् बाढं विद्यते दुःखस्य चाधर्ममूलत्वात् तदुच्छेदादुच्छेदः । नन्वेवं सुखस्याऽपि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तदपि न युज्यते; 'पुण्यपापक्षयो मोक्षः' इत्यागमवचनात् । नैवम् । वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदः, न पुनरनपेक्षस्यापि सुखस्योच्छेदः । इच्छाद्वेषयोः पुनर्मोहभेदत्वात्, तस्य च समूलकाषंकर्षितत्वादभावः । प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव; १. 'सिद्धः' इति घ. पुस्तके पाठः । २. विस्तरतस्तु अस्मन्मुद्रापितसभाष्यतत्त्वार्थाधिगमसूत्रे १-९, १-१५, १-२०, १-२१, १-२४, १०-१ सूत्रेषु दृष्टव्यम् । ३. 'विलीनम्' इति घ. पुस्तके पाठः । ४. उप्पण्णंमि अणंते नळूमि च छाउमत्थिए नाणे । राईए, संपत्तो महसेणवणंभिउज्जाणे ।।, छाया उत्पन्नेऽनन्ते नष्टे च छाद्यस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनं उद्यानं ।।५३९ ।।. आवश्यकपूर्वविभागः । ५. 'नास्त्येव' इति घ. पुस्तके पाठः । ५० Minisitinkuraudurint स्याद्वादमञ्जरी Page #77 -------------------------------------------------------------------------- ________________ कृतकृत्यत्वात् । वीर्याऽन्तराय क्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादिलब्धिवत्; न च क्वचिदुपयुज्यते; कृतार्थत्वात् । धर्माधर्मयोस्तु पुण्य पापापरपर्याययोरूच्छेदोऽस्त्येव; तदभावे मोक्षस्यैवाऽयोगात्। संस्कारश्च मतिज्ञानविशेष एव; तस्य च मोह क्षयान्तरं क्षीणत्वादभाव इति । तदेवं न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तेयमुक्ति: । इति काव्यार्थः ।।८।। अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमपलप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते, अतस्तत्रोपालम्भमाह यत्रैव यो दृष्टगुण: स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ।।९।। . यत्रैव-देशे, यः पदार्थः ; दृष्टगुणो, दृष्टाः-प्रत्यक्षादिप्रमाणतोऽनुभूताः, गुणा धर्मा यस्य स तथा; "स पदार्थः,तत्रैव-विवक्षितदेश एव । उपपद्यते इति क्रियाध्याहारो गम्यः। पूर्वस्यैवकारस्याऽवधारणार्थस्यात्राऽप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः । अमुमेवार्थं दृष्टान्तेन द्रढयति-कुम्भादिवदिति-घटादिवत्; यथा कुम्भादेर्यत्रैव देशे रूपादयोगुणा उपलभ्यन्ते, तत्रैवतस्याऽस्तित्वंप्रतीयते, नाऽन्यत्र ।एवामात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः; १. बलवता यूना रोगरहितेनापि पुंसा यस्य कर्मण उदयात्तृणपि न तिर्यक्कतु पार्यते तत्कर्म वीर्यान्तरायाऽऽख्यम् । २. लब्धय: पञ्च । तथाहि-दानलाभभोगोपभोगगवीर्यभेदात्पञ्चधा । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे १२ अ. । तत्त्वार्थसू. २-५ । ३. 'एव' इत्यधिक रा. ह. क. ख. घ. पुस्तकेषु । ४. 'स' इति क, पुस्तके नास्ति । स्याद्वादमञ्जरी ५१) Page #78 -------------------------------------------------------------------------- ________________ तदाऽऽश्रया हि गन्धादिपुद्गलाः तेषां च वैश्रसिक्या, प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-निष्प्रतिपक्षमेतदिति; एतद् निष्प्रतिपक्षं-बाधकरहितम् 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । ___ बनु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोञ्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः । स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम्; तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः ? । न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति । अथोत्तरार्द्ध व्याख्यायते-तथापीत्यादि । तथापि-एवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे; अतत्त्ववादोपहताः । अनाचार इत्यत्रेव नञः कुत्सार्थत्वात् । कुत्सिततत्त्ववादेन तदभिमताप्ताऽऽभासपुरूषविशेषप्रणीतेन तत्त्वाऽऽभासप्ररूपणेनोपहताः-व्यामोहिताः देहाद् बहिः-शरीरव्यतिरिक्तेऽपि देशे, आत्मतत्त्वम्"आत्मरूपम्; पठन्ति शास्त्ररूपतया प्रणयन्ते । इत्यक्षरार्थः । भावार्थस्त्वयम्-आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धेः । यो यः सर्वत्राऽनुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः । तथा चायम् । तस्मात् तथा । व्यतिरेके-व्योमादि । न चायमसिद्धो हेतुः-कायव्यतिरिक्तदेशे तद्गुणानां.बुद्ध्यादीनां वादिना, प्रतिवादिना वाऽनभ्युपगमात् । तथा चभट्टः श्रीधर:'सर्वगतत्वेऽप्यात्मनोदेहप्रदेशे ज्ञातृत्वम् । नान्यत्र । शरीररस्योपभोगाऽऽयतनत्वात् । अन्यथा तस्य वैयर्थ्यादिति' । _ अथास्त्यदृष्टमात्मनो विशेषगुणः; तञ्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं च; कथमितरथा द्वीपान्तरादिष्वपि प्रतिनियतदे शवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाऽङ्गनादीनि तेनोत्पाद्यन्ते ? । गुणश्च गुणिनं विहाय न वर्तते, १. स्वाभाविकया । . . . २. दृष्टे वस्तुनि उपपत्तेरनपेक्षेत्यर्थः । ३. निर्विवादमित्यर्थः । ४. 'अपि' इति ख. पुस्तके नास्ति । ५. 'आत्मस्वरूपम्' इति क. ख. पुस्तकयोः पाठः । ६. 'स्वरूपतया' इति घ. पुस्तके पाठः । ७. 'अन्यथा' इति क. पुस्तके पाठः । (५२ aintinuinkukur स्याद्वादमञ्जरी Page #79 -------------------------------------------------------------------------- ________________ अतोऽनुमीयते सर्वगत आत्मेति । नैवम् । अदृष्टस्यं सर्वगतत्वे प्रमाणाऽभावात् । अथाऽस्त्येव प्रमाणं वह्नेरूद्मज्वलनं, वायोस्तिर्यक्पवनं चादृष्टकारितमिति चेत् । न; तयोस्तत्स्वभावत्वादेव तत्सिद्धेः; दहनस्य दहनशक्तिवत्। साऽप्यदृष्टकारिता चेत्, तर्हि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेव सूत्रधारायतां, किमीश्वरकल्पनया ? तनायमंसिद्धो हे तुः । न चाऽनैकान्तिकः-साध्यसाधनयोाप्तिग्रहणेन व्यभिचाराऽभावात् । नापि विरुद्धः- अत्यन्तं विपक्षव्यावृत्तत्वात् । आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते, ततो गुणिनाऽपि तत्रैव भाव्यम् इति सिद्धः कायप्रमाण आत्मा । अन्यच्च, त्वयाऽऽत्मनां बहुत्वमिष्यते; नानात्मानो व्यवस्थातः' इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्पराऽनुवेधे तदाश्रितशुभाशुभ- कर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेद्, इतरस्याशुभकर्मणा चान्यो दुःखीत्यसमञ्जसमापद्येत । अन्यञ्च, एकस्यैवाऽऽत्मनः स्वोपात्तशुभकर्मविपाकेन सुखित्वं, परोपार्जिताऽशुभकर्मविपाक सम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनप्रसङ्गः । अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयो गः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिनिष्क्रम्य वढेरूद्मज्वलनादिकं करोति ? इति चिन्त्यमेतत् । आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः; सर्वगतत्वेनेश्वरान्तरानुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरऽनुप्रवेशे-तस्याऽप्यकर्तृत्वाऽऽपत्तिः, न हि क्षीरनीरयोरन्योऽन्यसम्बन्धे, एकतरंस्य-पानादिक्रियाऽन्यतरस्य न भवतीति युक्तं वक्तुम् । किञ्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगायतनाऽभ्युपगमाद् नायं दोष इति चेत्; ननु स भोगायतनं सर्वात्मना अवष्टनीयाद्, एकदेशेन वा ? । सर्वात्मना चेद् अस्मदभिमताङ्गीकारः । एकदेशेन चेत् सावयवत्वप्रसङ्गः, परिपूर्णभोगाऽभावश्च । १. 'सर्वगतत्वसाधने' इति रा. ह. क. ख. घ. पुस्तकेषु पाठः । . . २. सूत्रधारवन्मुख्यतः कर्तृत्वं लभताम् । ईश्वरे कर्तृत्वं किमर्थ कल्प्यत इत्यर्थः । ३. 'कर्मविपाकेन' इति क. पुस्तके पाठः । ४. 'अभ्युपगमे नायं दोषः' इति ख. पुस्तके पाठः । स्याद्वादमञ्जरी ५३) Page #80 -------------------------------------------------------------------------- ________________ अथाऽऽत्मनो व्यापकत्वाऽभावे दिग्देशाऽन्तरवर्तिपरमाणुभिर्युगपत्संयोगाऽभावाद्आद्यकर्माऽभावः, तदभावाद् - अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन 'तत्सम्बन्धस्य- चाऽभावाद्-अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम्; यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमाऽसम्भवात्; अयस्कान्तं प्रतिअयसस्तेनाऽ-संयुक्तस्याऽऽप्याकर्षणोलब्धेः । अथासंयुक्तस्याप्याकर्षणेतच्छरीराऽऽरम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ? इति चेत्, संयुक्तस्याऽऽप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनाऽऽनुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् । अथाऽस्तु यथाकथञ्चिच्छरीरोत्पत्तिः; तथापि सावयवं शरीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात्; तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः, कार्यत्वे चाऽसौविजातीयैः सजातीयैर्वा कारणैरारभ्येत ? ; न तावद्विजातीयैः-तैषामनारम्भकत्वात्; न हि तन्तवो घटमारभन्ते न च सजातीयैः । यत आत्मत्वाभिसम्बन्धादेव तेषां कारणानां सजातीयत्वम्; पार्थिवादिपरमाणूनां विजातीयत्वात्; तथा चाऽऽत्मभिरात्मा आरभ्यत इत्यायातम् । तच्चायुक्तम् एकत्र शरीरेऽनेकात्मनामात्माऽऽरम्भकाणामसम्भवात्; सम्भवे वा प्रतिसन्धानाऽनुपपत्तिः । न हि अन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति ; अतिप्रसङ्गात् । तदारभ्यत्वे॰चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात्; तस्माद् व्यापक एवात्मा युज्यते, कायप्रमाणतायामुक्तदोषसद्भावादितिचेत् । न; सावयवत्वाऽकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयवत्वं तावद्असंख्येयप्रदेशात्मकत्वात् । तथा च 'द्रव्यालङ्कारकार:- 'आकाशोऽपि सदेशः, १. 'तत्संबंधस्याभावात्' इति क पुस्तके पाठः । २. 'नियमाभावातू' इति ख. पुस्तके पाठः । ३. 'इति' पदमधिकं क पुस्तके । ४. 'वास्य' इति घ. पुस्तके पाठः । ५. 'द्रव्यालंकारकारौ' इति रा. ह. क. ख. पुस्तकेषु पाठः । ५४ क - स्याद्वादमञ्जरी Page #81 -------------------------------------------------------------------------- ________________ सकृत्सर्वमूर्ताऽभिसम्बन्धार्हत्वात् इति ।यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र सूक्ष्मेक्षिका चिन्त्या । प्रदेशेष्ववयवव्यवहारात्कार्यत्वं तु वक्ष्यामः । नन्वात्मनां कार्यत्वे घटादिवत्प्राक्प्रसिद्धसमानजातीयाऽवयवाऽऽरभ्यत्वप्रसक्तिः; अवयवा ह्यवयविनमारभन्ते, यथा-तन्तवः पटमिति चेत्, न वाच्यम् । न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगाऽऽरभ्यत्वं दृष्टम्; कुम्भकाराऽऽदिव्यापाराऽन्विताद् मृत्पिण्डात् प्रथममेव पृथुबुनोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाऽकारपरित्यागेनोत्तरकारपरिणाम: कार्यत्वम् । तञ्च बहिरिवान्तरप्यनुभूयत एव । ततश्चात्माऽपि स्यात् कार्यः । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः; काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात्; प्रमाणबाधनमुभयत्राऽपि तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानांभावोऽनुषज्यते; कथञ्चिदनित्यत्वे सत्येवाऽस्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरुपम्; तच्चैकान्तनित्यत्वे कथमुपपद्यते ? अवस्थाभेदात्; अन्या ह्यनुभवाऽवस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चाऽवस्थावतोऽपि भेदादेकरूपत्वक्षतिः कथञ्चिदनित्यत्वं युक्त्यायातं केन वार्यताम् ? । . अथाऽऽत्मनः शरीरपरिणामत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद्; मूर्ते मूर्तस्यानुप्रवेशाविरोधात्; ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीतिचेत्, किमिदं मूर्तत्वं नाम ?-असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा ? । तत्र नाऽऽद्यः पक्षो दोषाय, संमतत्वात्। द्वितीयस्त्वयुक्तः-५व्याप्त्यभावात्; नहि यदसर्वगतं तद् नियमेन रुपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपिभवन्मते तदसम्भवात् । १. तत्त्वार्थसूत्रोपरि श्रीसमन्तभद्रस्वामिविरचितं ८४००० लोकपरिमितं गन्धहस्तिसंज्ञकं महाभाष्यम्। अस्य मङ्गलाचरणं देवागमस्तोत्रसंज्ञकमाप्तमीमांसासंज्ञकं सपादशतलोकपरिमितमस्ति । अत्र मङ्गलाचरणे श्रीमदकलंकदेवनिर्मिता अष्टशतश्लोकप्रमाणा तथा श्रीविद्यानन्दिस्वामिविरचिताष्टसहस्रश्लोकात्मिका चेति व्याख्याद्वयमस्ति भाष्यं त्वधुना नोपलभ्यते । २. सूक्ष्मविचारः । ३. 'अवस्थाभेदेन' इति क. पुस्तके पाठः । ४. 'क्षते' इति रा. ह. क. घ. पुस्तकेषु पाठः । ५. 'व्याप्त्यभावात्' इति रा. पुस्तके नास्ति । स्याद्वादमञ्जरीdaddddddakkad ) Page #82 -------------------------------------------------------------------------- ________________ आकाशकालादिगात्मनां सर्वगतत्वं', परममहत्त्वं', सर्वसंयोगि- समानदेशत्वं चेत्युक्तत्वाद्मनसो वैधर्म्यात्, सर्वगतत्वेन प्रतिषेधनात्; अतो नात्मनः शरीरेऽनुप्रवेशाऽनुपपत्तिः, येन निरात्मकं तत् स्यात्, असर्वगतद्रव्यपरिमाण - लक्षणमूर्तत्वस्य मनोवत् प्रवेशाऽप्रतिबन्धकत्वात्, । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुकादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्राऽसौ प्रतिषिध्यत इति महञ्चित्रम् । अथाऽऽत्मनः कायपरिमाणत्वे - बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् ?। किं तत्परिमाणत्यागात्, तदपरित्यागाद् वा ? । परित्यागात् चेत्, तदा शरीरवत् तस्याऽनित्यत्वप्रसङ्गात्-परलोकाऽद्यभावाऽनुषङ्गः । अथाऽपरित्यागात् । तंत्र; पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तदयुक्तम्; युवशरीरपरिमाणाऽवस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाऽसम्भवात् विफणाऽवस्थोत्पादे सर्पवत् इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् । ४ अथात्मन: कायपरिमाणत्वे- तत्खण्डने 'खण्डनप्रसङ्गः, इतिचेत् कः किमाह ? शरीरस्य खण्डने कथञ्चित् तत्खण्डनस्येष्टत्वात्; शरीराऽसम्बद्धाऽऽत्मप्रदेशेभ्यो हि कतिपयाऽऽत्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानादात्मनः खण्डनम्; तच्चाऽत्र विद्यत एव। अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्याऽत्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवाऽनुप्रवेशात् । नचैकत्र सन्तानेऽनेक आत्मानः । अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् । शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खण्डितावयवयोः संघट्टनं पश्चाद् ? इति चेत्; एकान्तेन छेदाऽनभ्युपगमात्। पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् । तथाभूताऽदृष्टवशात् १. सर्वमूर्तसंयोगित्वम् । २. इयत्तारहितत्वम् । ३. 'तत्' इति क पुस्तके नास्ति । ४. 'अथ' इति ख. पुस्तके नास्ति । ५. 'चैतत्खण्डन' इति क पुस्तके पाठः । ५६ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी) Page #83 -------------------------------------------------------------------------- ________________ तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यः, न व्यापकः । तथा च आत्मा व्यापको न भवति, चेतनत्वात्, यत्तु व्यापकं-न तत् चेतनम्, यथा व्योम, चेतनश्चात्मा तस्माद् न व्यापकः; अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टमसमयसाध्यकेवलिसमुद्धातदशायामार्हतानामपि चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः सर्वव्यापकत्वम्, तत् कादाचित्कम् ; इति न तेन व्यभिचारः । स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशबिभीषिकाभ्यो भयम् । इति काव्यार्थः ॥९॥ १. समुद्धातः-हन् हिंसागत्योः । हननं घातः । सम् एकीभावे । उत् प्रांबल्ये । ततश्चैकीभावेन प्राबल्येन च घातः समुद्धातः । अथ केन सहैकीभावगमनम् । उच्यते । यदाऽऽत्मा वेदनादि (वेदनाकषायमरण क्रियतेजसाहार के वलि के ति) अनुभवज्ञानपरिणतो बहून्वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति । आत्मप्रदेशैः सह संक्लिष्टान् सातयतीत्यर्थः । अतः प्राबल्येन घात. इति । भगवतीसूत्रे शतक १३ उद्देश १० अभयदेवीयटीकायाम् । केवलिसमुद्धातोऽष्टंसामयिकः । . तं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्नमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति । द्वितीयसमये पूर्वापर दक्षिणोत्तरं वा कपाटम् । तृतीये मंथानम् चतुर्थेऽवकाशाऽन्तराणां पूरणम् । पञ्चमेऽवकाशाऽन्तराणां संहारम् । षष्ठे मंथः सप्तमे कपाटस्थः । अष्टमे स्वशरीरस्थो भवति । इत्यभिधानराजेन्द्रकोशे सप्तमभागे पृ. ४२९ । . केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणरज्जुरवगन्तव्या अधस्तादधोभागो ऽधोमुखमल्ल्कतुल्योऽधोमुखीकृत शरावसदृक्षाकार उपरि पुनः संपुटस्थितयोर्मल्लकयोशरावयोराकारमनुसरति लोकः । अयमर्थः । प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैाप्तः । प्रवचनसारोद्धार- टीकायां सिद्धसेनसूरिशेखरकृतायां द्वारं १४६ । अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ।।८।। सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ।।९।। प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ।।१०।। रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ।।११।। तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ।।१२।। भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ।।१३।। भवेद् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । धर्मोर्श्वभागादूर्ध्वाधः सप्तसप्तेति रज्जवः ।।१४ ।। उपाध्यायश्रीविनयविजयजीकृत लोकप्रकाशे २२ सर्गे ।। तत्त्वार्थाधिगमसूत्रे ३-६ । स्याद्वादमञ्जरी Annabis ५७) Page #84 -------------------------------------------------------------------------- ________________ वैशेषिकनैयायिकयोः प्राय: समानतन्त्रत्वादौलुक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम्। पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरूषार्थं प्रत्यसाधनकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन् । अहो विरक्तो मुनिरन्यदीयः ||१०|| अन्ये-अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामानः परे, तेषामयं शास्तृत्वेन सम्बन्धी अन्यदीयो मुनिः अक्षपाद ऋषिः, अहो ! विरक्त:-अहो ! वैराग्यवान् । अहो इत्युपहासगर्भमाश्चर्यं सूचयति । अन्यदीय इत्यत्र 'ईयकारके' (हैमसू. ३।२।१२१ ।।) इति दोऽन्तः । किं कुर्वनित्याह-परमर्म भिन्दन्-'जातावेकवचनप्रयोगात् परमर्माणि व्यथयन् 'बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति परिभाषिकी संज्ञा, तत उपचारात् साध्य स्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् तद्भिन्दन् ? मायोपदेशाद्धेतोः; माया-परवञ्चनम्, तस्या उपदेशःछलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्येभ्यः प्रतिपादनं, तस्मात् 'गुणादस्त्रियां न वा' (हेमसू. २।२।७७।।) इत्यनेन हेतौ तृतीयाप्रसङ्गे-पञ्चमी । - कस्मिन् विषये मायामयमुपदिष्टवान् ?, इत्याह-अस्मिन्-प्रत्यक्षोपलक्ष्यमाणे, जनेतत्त्वाऽतत्त्वाविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते ? स्वयम्-आत्मना परोपदेशनिरपेक्षमेव, विवादग्रहिले-विरुद्धः-परस्परलक्ष्यीकृतपक्षाधिक्षेपदक्षः, वादोवचनो-पन्यासो विवादः । तथा च भगवान् हरिभद्रसूरिः १. 'एकवचनात्' इति क. घ. पुस्तकयोः पाठः ।। २. 'सतत्व' इति घ. पुस्तके पाठः । AAAAAAAAAAAAAAA स्याद्वादमञ्जरी Page #85 -------------------------------------------------------------------------- ________________ "लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनाऽमहात्मना। छलजातिप्रधानो यः स विवाद इति स्मृतः' ।।१।। . तेन ग्रहिल इव-ग्रहगृहीत इव, तत्र । यथा-ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनप्रलापी स्याद् एवमयमपि जन इति भावः । तथा, वितण्डा-प्रतिपक्षस्थापनाहीनं वाक्यमः; वितण्ड्यते आहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्तेः; 'अभ्युपेत्य' पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते' इति न्यायवार्तिकम् । वस्तुतस्त्वपरामृष्टंतत्त्वाऽतत्त्वविचारं 'मोखर्यं वितण्डा; तत्र यत्पाण्डित्यम्-अविकलं कौशलं, तेन कण्डूलं मुखं लपनं यस्य स तथा तस्मिन् । कण्डू:-खजूं:, कण्डूरस्यास्तीति कण्डूलम्, "सिध्मादित्वाद् मत्वर्थीयो लप्रत्ययः । यथा-किलाऽन्तरुत्पन्नकृमिकुलजनितां कण्डूति निरोद्धमपारयन् पुरुषो व्याकुलतां कलयति, एवं तन्मुखमपि वितण्डापाण्डित्येनाऽसंबद्धप्रलापचापलमाकलयत् कण्डूलमित्युपचर्यते । .... . एवं च स्वरसत एव स्वस्वाभिमत व्यवस्थापनाविसंस्थुलो वैतण्डिकलोकः, तत्र च तत्परमाप्तभूतपुरुषविशेषपरिकल्पितपरवञ्चनप्रचुरवचनरचनोपदेशश्चेत् सहायः समजनि, तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताऽऽहुतिप्रक्षेप इति; तैश्च भवाभिनन्दिभिर्वादिभिरेतादृशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितम् । तथा चाहुः । १. श्रीहरिभद्रसूरिकृते १२ अष्टके श्लो. ४ । २. न्यायवार्तिक पृ. १५ पं. ४ .सूत्र १ अध्याय १ आह्निक १ । ... ३. 'हि' इत रा. क. ख. घ. ह. पुस्तकेष्वधिकम् । ४. 'तथाऽपरामृष्ट' इति क. पुस्तके पाठः । ५. 'विचारमौखर्यम्' इति क. पुस्तके पाठः । ६. 'कण्डूलमिव' इत्यधिंक क. ख. घ. ह. पुस्तकेषु । ७. 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' हैमसू. ७।२।२१। ८. 'स्वाभिमतमत' इति रा. पुस्तके पाठः । ९. भवाभिनन्दी-असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधिदुग्धम्बुताम्बूलपुण्यपण्याङ्गनादिभिः ।। इत्यादिवचनैः संसाराभिनन्दनशीलः ।। स्याद्वादमञ्जरीkaki ५९) Page #86 -------------------------------------------------------------------------- ________________ "दुःशिक्षितकुतर्काशलेशवाचालिताऽऽननाः । शक्या: किमन्यथा जेतुं वितण्डाऽऽटोपमण्डिताः ? ।।१।। गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ।।२।।' कारुणिकत्वं च वैराग्याद् न भिद्यते, ततो युक्तमुक्तम्-अहो ! विरक्त इति स्तुतिकारेणोपहासवचनम् । अथ मायोपदेशादिति सूचनासूत्रं वितन्यते,- अक्षपादमते किल षोडशपदार्थाः; *प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ताऽवयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसाऽवाप्तिहेतुः । न ह्येकेनेव क्रियाविरहितेन ज्ञानमात्रेण-मुक्तियुक्तिमती; असमग्रसामग्रीकत्वात्; विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत् । न च वाच्यं-न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्त्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति; म ह्यमीषां संहते अपि ज्ञानक्रिय मुक्तिप्राप्तिहेतुभूते; वितथत्वात् तज्ञानक्रिययोः । न च वितथत्वमसिद्धम्; विचार्यमाणानां षोडशानामपि तत्त्वाऽऽभासत्वात् । तथाहि तैः प्रमाणस्य तावद् लक्षणमित्थं सूत्रितम् ५अर्थोपलब्धिहेतुः प्रमाणम्' इति । एतञ्च न विचारसहम्; यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्र, तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः। अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं, तर्हि १. 'कुशिक्षित' इति घ. पुस्तके पाठः । २. 'उक्तम्' इति क. पुस्कते नास्ति ।। ३. गौतमसूत्र १।१।१। ४. 'आसूत्रितम्' इति क. पुस्तके पाठः । ५. एतदर्थकं गौतमसूत्र भाष्ये २।१।११ । ( ६० i ndian स्याद्वादमञ्जरी Page #87 -------------------------------------------------------------------------- ________________ तद्ज्ञानमेव युक्तं, न चेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम्; न चेन्द्रियसन्निकर्षसामग्नयादी. सत्यपि ज्ञानाऽभावेऽर्थोपलम्भः । साधकतमं हि करणम्; अव्यवहितफलं च तदिष्यते; व्यवहितफलस्याऽपि करणत्वे दुग्धभोजनादेरपि तथाप्रसङ्गः । तन्न ज्ञानादन्यत्र प्रमाणत्वम्; अन्यत्रोपचारात्। यदपि न्यायभूषणसूत्रकारेणोक्तम्-''सम्यगनुभवसाधनं प्रमाणम्' इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति । तथाऽप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैव; इति न तत् सम्यग् लक्षणम् । 'स्वपरव्यवसायि ज्ञानं प्रमाणम्' इति तु तात्त्विकं लक्षणम् । .. प्रमेयमपि तै;-आत्मशरीरेन्द्रियाऽर्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाऽपवर्गभेदाद् द्वादशविधमुक्तम् । तच्च न सम्यग्; यतः शरीरेन्द्रियबुद्धिमनःप्रवृत्तिदोषफलदुःखानाम्आत्मन्येवाऽन्तर्भावो युक्तः; संसारिण आत्मनः कथञ्चित् तदविष्वाभूतत्वात् । आत्मा च प्रमेय एव न भवति, तस्य प्रमातृत्वात् । इन्द्रियबुद्धिमनसां तु करणत्वात् प्रमेयत्वाऽभावः। दोषास्तु-रागद्वेषमोहाः,ते च प्रवृत्तेर्न पृथग्भवितुमर्हन्ति; वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्यं तन्मते प्रवृत्तिशब्दवाच्यत्वात् रागदिदोषाणां च- मनोव्यापारात्मकत्वात् । दुःखस्य शब्दादीनामिन्द्रियार्थानां च फल एवान्तर्भाव: 'प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम्' इति जयन्तवचनात् । प्रेत्यभावाऽपवर्गयो:पुनरात्मन एव परिणामाऽन्तराऽऽपत्तिरुपत्वाद्, न पार्थक्यमात्मनः सकाशादुचितम्; तदेवं द्वादशविधं प्रमेयंमिति वाग्विंस्तरमात्रम्; 'द्रव्यपर्यायात्मकं वस्तु प्रमेयम्' इति तु समीचीनं लक्षणम्; सर्पसंग्राहकत्वात् । एवं संशयादीनामपि तत्त्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम्; अन तु-प्रतीतत्वाद्, ग्रन्थगौरवभयाञ्च न प्रपञ्चितम् । “न्यक्षेण ह्यत्र न्यायशास्त्रमवतारणीयम्; तञ्चाऽवतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्ताम् । १. उपचारो लक्षणा । २. न्यायसारे भासर्वज्ञप्रणीते, प्रथमपरिच्छेदे प्रथमसूत्रम् । ३. प्रमाणनयतत्त्वालोकालङ्कारे परिच्छेद १ सूत्र २ । ४. 'अपि' इति क. पुस्तके नास्ति । ५. पूर्णत्वेन ।। स्याद्वादमञ्जरी ६१ Page #88 -------------------------------------------------------------------------- ________________ तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्त्वाभासत्वे प्रकटकपटनाटकसूत्र धाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादिति पदेनोपक्षेपः कृतः । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः-छलम् । तत् त्रिधा-वाक्छलं, सामान्यछलम् उपचारछलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तनिषेधो वाक्छलम्; यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते, परः संख्यामारोप्य निषेधति-कुतोऽस्य नव कम्बलाः ?, इति । संभावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधःसामान्यछलम्; यथा-अहो ! नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति-सम्भवति ब्राह्मणे, विद्याचरणसम्पदिति; तत् छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वनभियुङ्क्ते यदि ब्राह्मणे विद्याचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्-उपचारछलम् । यथा-मञ्चाः क्रोशन्तीत्युक्ते, परः प्रत्यवतिष्ठते- कथमचेतना मञ्चाः क्रोशन्ति ?, *मञ्चस्थाः पुरुषाः क्रोशन्तीति । तथा सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते, झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबम्बनप्रायं किमपि प्रत्यवस्थानं-जातिः, दूषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन; यथा - "साधर्म्यवैधोत्कर्षाऽपकर्षवाऽवर्ण्यवि- कल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वार्थापत्त्य-विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यात्यकार्यसमाः' । तत्र साधर्म्यण प्रत्यवस्थानं-साधर्म्यसमा जातिर्भवति;-अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्,-नित्यःशब्दो, निरवयवत्वाद्, आकाशवत् । न चास्ति विशेषहेतुः-घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न घुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधयेण प्रत्यवस्थानं १. 'अभिप्रेतादर्थात्' इति रा. पुस्तके पाठः । २. 'यथा' शब्दो घ. पुस्तके नास्ति । ३. 'मञ्चस्थास्तु' इति क. घ. पुस्तकयोः पाठः ४. 'प्रतिबन्धनप्रायम्' इति क. पुस्तके पाठः । ५. गो. सू. ५।११। (६२inutana स्याद्वादमञ्जरी Page #89 -------------------------------------------------------------------------- ________________ वैधर्म्यसमा जातिर्भवति;-अनित्यः शब्दः, -कृतकत्वाद् घटवदित्यत्रैव प्रयोगे, 'स एव प्रतिहेतुवैधर्म्येण प्रयुज्यते-नित्यः शब्दो निरवयवत्वात् । अनित्यं हि सावयवं दृष्टम् । घटादीति । न चास्ति विशेषहेतुः घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैधर्म्याद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम् उत्कर्षापकर्षसमे जाती भवतः तत्रैव प्रयोगे, दृष्टान्तधर्मं कञ्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दः घटवदेव मूर्तोऽपि भवतु । न चेद् मूर्त:, घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्- अश्रावणो दृष्टः, एवं शब्दोंऽप्यस्तु ।. नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्त्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः । एवं शेषा अपि विंशतिरक्ष 'पाद- शास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः । तथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । तत्र विप्रतिपत्तिःसाधनाऽऽभासे साधनबुद्धिः, दूषणाऽऽभासे च दूषणबुद्धिरिति । अप्रतिपत्तिः साधनस्याऽदूषणं, दूषणस्य चाऽनुद्धरणम् । तञ्च निग्रहस्थानं द्वाविंशतिविधम्; तद्यथा-१ प्रतिज्ञाहानिः २ प्रतिज्ञान्तरम् ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासः - ५ हेत्वन्तरम् ६ अर्थान्तरम् ७ निरर्थकम् ८ अविज्ञातार्थम् ९ अपार्थकम् १० अप्राप्तकालम् ११ न्यूनम् १२ अधिकम् १३ पुनरूक्तम् १४ अननुभाषणम् १५ अज्ञानम् १६ अप्रतिभा १७ विक्षेपः १८ मतानुज्ञा १९ पर्यनुयोज्योपेक्षणम् २० निरनुयोज्यानुयोगः २१ अपसिद्धान्तः २२ हेत्वाभासाश्च । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । यथा नित्यः शब्दः ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियकमपि नित्यं दृष्टमिति तावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद् घटोऽपि नित्यो भवत्विति, स एवं ब्रुवाणः शब्दाऽनित्यत्वप्रतिज्ञां जह्यात् । प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम - निग्रहस्थानं भवति । अनित्यः शब्दः १. निखयवत्वस्वरूपः । २. गौतमसूत्र ५ । २ ।१ । ३. 'तथा च' इति घ. पुस्तके पाठः । स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ६३ Page #90 -------------------------------------------------------------------------- ________________ ऐन्द्रियकत्वादित्युक्ते, तथैव सामान्येन व्यभिचारे चोदिते, यदि ब्रूयाद्-युक्तं यत् सामान्यमैन्द्रियकं नित्यम्, तद्धि सर्वगतम्, असर्वगतस्तु शब्द इति । तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः-प्रतिज्ञान्तरमसर्वगतः शब्द इति निग्रहस्थानम् । अनया दिशा शेषाण्यपि विंशति यानि । इह तु न लिखितानि, पूर्वहेतोरेव । इत्येवं मायाशब्देनात्र छलदित्रयं सूचितम् । तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतो अक्षपादर्षेर्वैराग्यव्यावर्णनं, तमसः प्रकाशात्मकत्वप्रख्यापनमिव कथमिव नोपहसनीयम् ? इति काव्यार्थः ।।१०।। अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरःसरं निरस्यनाह न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । . स्वपुत्रघाताद् नृपतित्वलिप्सा स ब्रह्मचारी स्फुरितं परेषाम् ।।११।। इह खल्वचि मार्गप्रतिपक्ष धूममार्गाश्रिता जैमिनीया इत्थमाचक्षते- या हिंसा "ग़ााद्, व्यसनितया वा क्रियते; सैवाऽधर्माऽनुबन्धहेतुः । प्रमादसंपादितत्वात् । सौनिक लुब्धका-दीनामिव । वेदविहिता तुहिंसा-प्रत्युत धर्महेतुः । देवतातिथिपितॄणां १. जैमिनेरभिमतम् । २.. 'अनियोतिरह: शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । इत्यर्चिार्गः: । अयमेवोत्तरमार्ग इत्यभिधीयते । भ.गी.अ.८श्लो. २४ . ३. 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्यनिवर्तते ।। इति धूममार्गः । अयमेव दक्षिणमार्ग इत्यप्यभिधीयते । भ.गी.अ.८ श्लो. २५ ४. 'या' इति ख. पुस्तके नास्ति । ५. गाद्धर्यात्-लोभात् । ६. सैनिकः-सूना हिंसा तया चरतीति सैनिको हिंसाजीवीत्यर्थः । ७. लुब्धक:-व्याधः । (६४Hindi स्याद्वादमञ्जरी Page #91 -------------------------------------------------------------------------- ________________ प्रीतिसंपादकत्वात्, तथाविधपूजोपचारवत् । न चं तत्प्रीतिसंपादकत्वमसिद्धम्ः 'कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्ट्यादिफले यः खल्वव्यभिचारः, स तत्प्रीणितदेवताविशेषाऽनुग्रहहेतुकः । एवं त्रिपुरार्णववर्णितच्छगल जाङ्गल होमात् परराष्ट्रवंशीकृतिरपि तदनुकूलितदैवतप्रसाद- संपाद्या । अतिथिप्रीतिस्तु मधुपर्कसंस्कारादिसमास्वादजा प्रत्यक्षोपलक्ष्यैव । पितृणामपि तत्तदुपयाचितश्रद्धादिविधानेन प्रीणितात्मनां स्वसन्तानवृद्धिविधानं साक्षादेव वीक्ष्यते । आगमश्चात्र प्रमाणम्; स च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधादि विधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु'महोशंवा महाजंवा श्रोत्रियायोपकल्पयेत् ।।' इत्यादिः । पितृप्रीत्यर्थस्तु-'द्वौ मासौंमत्स्यमांसेन त्रीन्मासान्हारिणेनतु । औरभ्रेणाथ चतुरःशाकुनेनेह पञ्च . तु ।।१।। इत्यादः । . . . ..... ___ एवं पराभिप्रायं हृदि संप्रधार्याऽऽचार्यः प्रतिविधत्ते-न धर्मत्यादि; विहितापिवेदप्रतिपादितापि; आस्तां तावदविहिता । हिंसा-प्राणिप्राणव्यपरोपणरूपा । न धर्महेतुः-न धर्मानुबन्धनिबन्धनम्। यतोऽत्र प्रकट एव स्ववचनविरोधः । तथाहि"हिंसा चेद्-धर्महेतुः कथम्' ? 'धर्महेतुश्चेद् हिंसा कंथम्' ? '१°श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्' इत्यादिः । न हि भवति माता च, वन्ध्या चेति । हिंसा १. कारीरी-एतत्संज्ञिकेष्टिः । तस्याश्च फलं वृष्टिः । कं जलमृच्छतीति कारो जलदस्तमीरयति प्रेरयतीति कारीरीति कारीरीशब्दस्य व्यत्पत्तिः । . . २. त्रिपुरार्णवो-मन्त्रशास्त्रविषयको निबन्धः । ३. छगलो मेषः । ४. जाङ्गलं-हरिणमांसम् । ५. दधिमधुसंयुक्तः पूजाविशेषः । ६.. 'एवं पितृणाम्' इति क. पुस्तके पाठ: । ७. याज्ञवल्क्यस्मृतिः-आचाराध्यायः श्लो. १०९ । ८. मनुस्मतिः अ. ३ श्लो. २६८ तदने-'षण्मासांश्छागमांसेन पार्षतेन हि सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु । २६९ । दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मस्य मांसेन मासानेकादशैव तु । २७० । संवत्सरं तु गव्येन पयसा पायसेन वा। वार्धाणस्य च मांसेन तृप्तिादशवार्षिकी ।। २७१ ।।' ९. 'प्रकटतः' इति क. पुस्तके पाठः । १०. 'श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवोपधारयेत्' । इति चाणक्यराजनीतिशास्त्रे अ. १ श्लो. ७ । (स्याद्वादमञ्जरी ६५) Page #92 -------------------------------------------------------------------------- ________________ कारणं, धर्मस्तु तत्कार्यमिति 'पराभिप्रायः; न चायं निरपाय:२ । यतो यद् यस्यान्वयव्यतिरेकावनुविधत्ते तत् तस्य कार्यम्; यथा मृत्पिण्डादेर्घटादिः । न च धर्मो हिंसात एव भवतीति प्रातीतिकम् । तपोविधानदानध्यानादीनां तदकारणत्व प्रसङ्गात् । अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टामेव । विशिष्टा च सैव-या वेदविहिता इति चेत्-ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाऽभावेन, मरणेऽपि तेषामार्तध्यानाऽभावात् सुगतिलाभेन वा ? । नाद्यः पक्षः-प्राणत्यागस्य तेषां साक्षादवेक्ष्यमाणत्वात् । न द्वितीयःपरचेतोवृत्तीनां दुर्लक्षतयाऽऽर्तध्यानाऽभावस्य वाङ्मात्रत्वात्। प्रत्युत हा ! कष्टमस्तिन कोऽपि कारुणिकः शरणम्, इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां "लिङ्गानां दर्शनाद् दुर्ध्यानस्य स्पष्टमेव निष्टश्यमानत्वात् । ... अथेत्थमाचक्षीथा:-यथा अयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलोपरि प्लवते, "यथा च मारणात्मकमपि विषं मन्त्रादिसंस्कारविशिष्टं सद्गुणाय जायते, यथा वा दहनस्वभावोऽप्यनि: सत्यादिप्रभावप्रतिहतशक्तिः सन् नहि दहति । एवं मन्त्रादिविधिसंस्काराद् न खलु वेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं शङ्कनीयम् । तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति तदेतद् न दक्षाणां क्षमते क्षोदम् । "वैधयेण दृष्टान्तानामसाधकतमत्वात् । अयःपिण्डादयो हि पत्रादिभावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कार-विधिनापि विशस्यमानानां पशूनां काचिद् “वेदनाऽनुत्पादादिरूपा भावाऽन्तरापत्तिः प्रतीयते । १. वादिनोऽभिप्राय: । २. निरपाय:-निर्बाधः ।... ३. 'नः' इति घ. क. ख. पुस्तकेषु पाठः । ४. “लिङ्गानाम्' इति घ. पुस्तके नास्ति । ५. 'यथाच' इत्यारभ्य ‘जायते' इत्यन्तं रा. पुस्तके नास्ति । ६. दोषाणां पोषणायेत्यर्थः । ७. 'वैषम्येण' इति घ. रा. ह. पुस्तकेषु पाठः । ८. 'वेदनानुदयादि' इति क. पुस्तके पाठः । ( ६६ u rukkuarius स्याद्वादमञ्जरी Page #93 -------------------------------------------------------------------------- ________________ अथ तेषां वधानन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेत्-किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम्-तस्य संबद्धवर्तमानार्थग्राहकत्वात्-"सम्बन्धं वर्तमानं च गृह्यते चक्षुरादिना ।' इति वचनात् । नाप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धेः । नाप्यागमः-तस्याऽद्याऽपि विवादास्पदत्वात् । अर्थापत्त्युमानयोस्त्वनुमानान्तर्गततया तद्रूषणेनैव 'गतार्थत्वम् । अथ भवतामपि जिनायतनादिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते इति कल्पना । तथा अस्माकमपि किं मेष्यते ? । वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात् । नैवम् । परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमित- सुकृत्तसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तु सत्स्वपि तत्तच्छ्रुतिस्मृति- पुराणेतिहासप्ततिपादितेषु यमनियमादिषु स्वर्गाऽवाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया "कान्दिशीकान् कृपणपञ्चेद्रियान् सौनकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभ: शुभपरिणामविशेषः । एवं च यं कञ्चन पदार्थं किञ्चित्- साधर्म्य द्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते ।। . न च "जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः । तथाहि तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः, पूजाऽतिशयविलोकनाऽऽदिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । तथा च भगवान्१२पञ्चलिङ्गीकारः १. मीमांसाश्लोकवार्तिके सू. ४ श्लो. ८४ । २. 'गतार्थत्वात्' इति ह. रा. पुस्तकयोः पाठः । . ३. 'वेदोक्तविधान' इति ह. पुस्तके पाठः । ४. प्रतीकः-अवयवः । ५. कान्दिशीकः-भयद्रुतः । ६. सौनकः-हिसाजीवी । ७. 'साधर्म्यमात्रेणैव' । इति क. पुस्तके पाठः । ८. 'जिनभवन' इति क. पुस्तके पाठः । ९. सिद्धिगमनयोग्यानाम् । १०. बोधनं बोधिः समक्त्वं प्रेत्यजिनधर्मावाप्तिर्वा । ११. सम्यग्दर्शनादिका मोक्षपद्धतिः । १२. श्रीजिनपतिसूरिः । स्याद्वादमञ्जरी L istanAAAAA६७) Page #94 -------------------------------------------------------------------------- ________________ 'पुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो । तविसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ।।१।। एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई । इत्तो निव्वाणगया अबाहिया आभवमिमाणं ॥२॥ . रोगिसिरोवेहो इव सुविजकिरिया व सुपउत्ताओ । परिणामसुंदरचिय चिठ्ठा से बाहजोगे वि' ।।३।। इति । १. छाया-पृथिव्यादीनां यद्यपि भवत्येव विनाशो जिनालयादिभ्यः तद्विषयाऽपि सुदृष्टेनियमतोऽस्त्य नुकम्पा ।।१।। एताभ्यो बुद्धा विरता रक्षन्ति येन पृथिव्यादीन् । अतो निर्वाणगता अबाधिता आभवमेषाम् ।।२।। रोगिशिरावेध इव सुवैद्यक्रिया इव सुप्रयुक्ता तु । परिणामसुन्दर इव चेष्टा सा बाधायोगेऽपि ।।३।। इमा गाथा जिनपतिसूरिकृतपञ्चलिङ्गीग्रन्थे ५८।५९।६० । इत्यत्र लभ्यन्ते । अत्र टीका ननु महानयं जिनगृहाद्यारम्भस्तत्र चावश्यंभावी पृथिव्याधुपमर्दस्तथा चानुकम्पाऽभाव इत्याशङ्कय तान् समर्पयितुमाह-पृथ्व्यम्बुतेजोवायुवनस्पतित्रस-लक्षणानां षट्जीवनिकायानां यद्यपि बहुरवधारणं भवत्येव जायेतैव विनाशो विध्ांसः । भूखननेष्टकापाकजलसेकादेरवश्यं तत्रभवान् जिनालयान् अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयापि विनश्यत्पृथ्व्यादिगोचरा अपि सुदृष्टेः सम्यग्दृशस्तु निर्धापयतु नियमात्रिश्चयेनास्तु व इति अनुकंपारक्षणाभिप्राय इति गाथार्थः ।।५८।। अथ तादृशं जीवोपम प्रत्यक्षेण पश्यन् कथं तस्यानुकम्पां प्रतीमेत्यत आह-एतस्माद् जिनवसत्यादिदर्शनाद् बुद्धास्तत्त्वज्ञानेन प्राप्तसम्यक्त्वाविरता चारित्राचारकर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तो रक्षन्ति न हिंसन्ति येन यस्मात्कारणात् पृथिव्यादीन् जन्तून् । ततः किमित्याह इतोऽस्मात् पृथिव्यादिरक्षणरूपचारित्रानिर्वाणगता मुक्ति प्राप्ताः सन्तोऽबाधका रक्षका भवन्तीति शेषः। आभवमासंसारं ईमानन्ति-एषां जिनालयाधुपयुज्यमानानामन्येषां च पृथिव्यादीनाम् इति कथं तत्त्वतो जिनालयादिकारयितुस्तेष्वनुकम्पा नास्तीति गाथार्थः ।५९। एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह-रोगेण रक्तविकाराऽऽदिना व्याधितस्य शिरोवेध इव रुधिराकर्षणाय शास्त्रेण नाडीव्यध इव वस्तुवैद्यक्रिये च वा प्रधानवैद्यचिकित्से वस्तुप्रयुक्ता निर्व्याजं प्रयुक्ता । वा समुचये । परिणामसुन्दर एवागामिनी काले सुखावह एव चेष्टा जिनालयादिनिर्माणारम्भक्रिया भवतीति शेषः । से इति । तस्य सम्यादृष्टेबर्बाधायोगेऽपि आपाततो रोगिणः पीडासद्भावेऽपि देवगृहादौ तु पृथिव्याधुपमर्दसंभवेऽपि । इति गाथार्थः ।।६० ।। (६८ A nimukamuk स्याद्वादमञ्जरी Page #95 -------------------------------------------------------------------------- ________________ वैदिकवधविधाने तु न कञ्चित्पुण्याऽर्जनाऽनुगुणं गुणं पश्यामः ।अथ विप्रेभ्यः पुरोडाशादिप्रदानेन 'पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् ।न /पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निघृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं, किन्तु भूत्यादिकम्। यदाह श्रुति:'श्वेतं वायव्यमजमालभेत भूतिकामः' इत्यादि ।एतदपि व्यभिचारपिशाचग्रस्त्वादप्रमाणमेव । भूतैश्चौपयिकान्तरैरपि साध्यत्वात् ।अथतत्र सत्रे हन्यमानानां छागादीनां प्रेत्य सद्गतिप्राप्तिरूपोऽस्त्येवोपकार इतिचेत् । वाङ्मात्रमेतत्। प्रमाणाभावात् । न हि ते निहताः पशवः सद्गतिलाभमुदितमनसः कस्मैचिदागत्य तथा भूतमात्मानं कथयन्ति ।अथास्त्यागमाख्यं प्रमाणम् । यथा-. . . . '५औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । : यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः' ।।१।। इत्यादि । नैवम् । तस्य पौरुषेयाऽपौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात् । न चश्रौतेन विधिना पशुविशसनविधायिनां स्वर्गाप्तिरुऽऽपकार इतिवाच्यम् । यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यात्, तर्हि बाढं पिहिता नरकपुरप्रतोल्यः । सौनिकादीनामपि स्वर्गप्राप्तिप्रसङ्गात् । तथा च पठन्ति परमार्षा: 'यूपं रित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ?' ॥१॥ किञ्च, अपरिचिताऽस्पष्टचैतन्याऽनुपकारिपशुहिंसनेनाऽपि यदि त्रिदिवपदवी १. 'पुण्यानुगुण' इति घ. पुस्तके पाठः । . २. पुरो दाश्यते इति पुरोडाशो हुतद्रव्यावशिष्टम् । ३. पुष्पावहः । ४. 'साध्यमानत्वात्' इति घ. ह. रा. पुस्तकेषु पाठः । ५. हेमचन्द्रकृतयोगशास्त्रे परिगृहीतः श्लोकः । ६. प्रतोल्यः-मार्गाः । ७. 'पारमर्षाः' इति क. ख. ह. पुस्तकेषु पाठः । स्याद्वादमञ्जरी) dhun i k PR) Page #96 -------------------------------------------------------------------------- ________________ प्राप्तिः, तदा परिचिंतस्पष्टचैतन्यपरमोपकारिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकतरपदप्राप्तिः प्रसज्यते ।अथ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति वचनाद् वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिः, इतिचेत् । न । इह लोके विवाहगर्भाऽऽधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाद्-अदृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहादिभ्योऽनन्तरं वैधव्याऽल्पाऽऽयुष्कतादारिद्र्याधुपद्रवविधुराः परःशताः । अपरेचमन्त्रसंस्कारं विनाकृतेभ्योऽपितेभ्योऽनन्तरं तद्विपरीताः अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इतिचेत् । न । संशयाऽनिवृत्तेः । किं तत्र क्रियावैगुण्यात्.फले विसंवादः, किंवा मन्त्राणामसामर्थ्याद् ? इति न निश्चयः । तेषां फलेनाऽविनाभावाऽसिद्धेः । . . · अथ यथा युष्मन्मते 'आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु' इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न.प्रतिपद्यते ?. इतश्च विवाहाऽऽदौं नोपलम्भाऽवकाशः, इतिचेत् । अहो ! वचनवैचित्री यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम्, एवं द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धानं प्रसज्यते । एवं च नं कदाचन संसारस्य परिसमाप्तिः । तथा चनकस्यचिदपवर्गप्राप्तिः । इति प्राप्तं भवदभिमतवेदस्यपर्यवसितसंसारवल्लरीमूलकन्दत्वम् । आरोग्याऽऽदिप्रार्थना तुअसत्याऽमृषाभाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि-भावाऽऽरोग्यादिकमेव विवक्षितम्, तञ्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरुपत्वाद् उत्तमफलम् । तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीया । न च तज्जन्यपरिणामविशुद्धस्तत्फलं न प्राप्यते । सर्ववादिनां भावशुद्ध रपवर्गफलसम्पादनेऽविप्रतिवत्तेरिति । १. आवश्यकसूत्रचतुर्विशतिस्तवाध्ययनमूलसूत्रगाथा ६ । छाया-आरोग्यं बोधिलाभं समाधिवरमुत्तमं ददतु । २. 'अतश्च' ख. क. ह. रा. पुस्तकेषु पाठः । ३. नारक १ तिर्यक् २ मानुष ३ देव ४ इति गतिचतुष्टयम् । (७०inik स्याद्वादमञ्जरी Page #97 -------------------------------------------------------------------------- ________________ न च वेदनिवेदिता हिंसा न कुत्सिता । सम्यग्दर्शनज्ञानसम्पन्नै रचिर्मार्गप्रपन्नवेदान्तवादिभिश्च गर्हितत्वात् । तथा च तत्त्वदर्शिनः पठन्ति 'देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम्' ।।१।। वेदान्तिका अप्याहुः'अन्धे तमसि मजामः पशुभिर्ये यजामहे । हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति' ।।१।। तथा 'अग्निर्मातस्माद्धिंसाकृतादेनसो मञ्चतु छान्दसत्वाद् मोचयतु इत्यर्थः । इति । व्यासेनाप्युक्तम्:'ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाऽम्भसि । स्नात्वाऽतिविमले तीर्थे पापपङ्काऽपहारिणि ।।१।। ध्यानाऽग्नौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ।।२।। कषायपशुभिर्दुष्टैर्धर्मकामाऽर्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि, विहितं बुधैः ।।३।। प्राणिघातात् तु यो धर्ममीहते मूढमानसः । सं वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ।।४।। इत्यादि । १. 'अचिर्मार्गः' (७९) पृष्ठे टिपन्यां द्रष्टव्यः । २. 'यथा' इति ख. पुस्तके पाठः । - - स्याद्वादमञ्जरी ७१ Page #98 -------------------------------------------------------------------------- ________________ यच्च याज्ञिकानां लोकपूज्यत्वोपलम्भादित्युक्तम् । इदमप्यसारम् । अबुधा एव पूजयन्ति तान् न तु विविक्तबुद्धयः । अबुधपूज्यता तु न प्रमाणम् । तस्याः सारमेयादिष्वप्युपलम्भात् । यदप्यभिहितं- देवतातिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषायेति । तदपि वितथम् । यतो देवानां संकल्पमात्रोपनताऽभि- मताऽऽहारपुद्गलरसाऽऽस्वादसुहितानां वैक्रियशरीरत्वाद् युष्मदावर्जितजुगुप्सि- तपशुमांसाद्याहुतिप्रगृहीतो, इच्छै व दु:संभवा । औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्यपग़मबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम् । 'चतुर्थ्यन्तं पदमेव देवता' इति जैमिनिवचनप्रामाण्यात् । तथा च मृगेन्द्रः 'शब्देतरत्वे, “युगपद् भिन्नदेशेषु यष्टषु । . न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत्' ।।१।। सेति-देवता । . .. हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात्, तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् । अपि च, योऽयं त्रेताग्निः-स त्रयस्त्रिंशत्कोटिदेवतानां मुखम्; अग्निमुखा वै देवाः' इति श्रुतेः । ततश्चोत्तममध्यमाऽधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः । तथा च ते 'तुरुष्केभ्योऽप्यतिरिच्यन्ते । तेऽपि तावदेकत्रैवाऽमत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किञ्च एकस्मिन् वपुषि वदनबाहुल्यं वचन श्रूयते, यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽकृते, यदा केनचिदेको देवः १. 'तदप्यरम्' इति ह. पुस्तके पाठः । २. 'यथा, इति ख. पुस्तके पाठः । ३/४.विस्तरस्तुतत्त्वार्थे. २-४९ द्रष्टव्यः । . ५. देवताः शब्दमयाः । अस्मदादिवत्तेषां मूर्तिस्वीकारे युगपत्सकलयज्ञेषु गमनाऽसंभव इत्यर्थः । ६. (१) दक्षिणाग्निः (२) आहवनीयः (३) गार्हपत्य इति त्रयोऽग्नयः । 'अग्नित्रयमिदं त्रेता' इत्यमरः । ७. आश्व. गृ. सू. अ. ४ . ८. तुरुष्काः -यवनाः । ९. अमत्रं-पात्रम् । (७२NAKAMANAKAMANA स्याद्वादमञ्जरी Page #99 -------------------------------------------------------------------------- ________________ पूजादिनाऽराद्धोऽन्यश्च निन्दादिना विराद्धः, ततश्चेकेनैव मुखेन युगपदनुग्रहनिगहवाक्योच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहात्मकं, तेषामेकैकशः सकलदेहस्य दाहाऽऽत्मकत्वं त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया । ... यश्च कारीरीयज्ञादौ वृष्ट्यादिफलेऽव्यभिचारस्तत्प्रीणितदेवतानुग्रहहेतुक उक्त:सोऽप्यनैकान्तिकः । क्वचिद् व्यभिचारस्याऽपि दर्शनात् । यत्राऽपि न व्यभिचारस्तत्राऽपि न त्वदाऽऽहिताऽऽहुतिभोजनजन्मा तदनुग्रहः, किन्तु स देवताविशेषोऽतिशयज्ञानी स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानाऽवस्थितः सन् जानीते, तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानोऽपि वा पूजाकर्तुरभाग्यसहकृत्तः सन् न साधयति । द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्याऽपेक्षस्यैव कार्योत्पादस्योपलम्भात् । स च पूजोपजार: पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया सौनिकवृत्त्या ? । ___यच्च छगलजाङ्गहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषाऽनुमानम्, तत्र कः किमाह ? कासाञ्चित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात् केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तदुपभुक्तया । निम्बपत्रकटुकतैला२रनाल धूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु तत्तत्सहकारिसमवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति। अचेतने चिन्तामण्यादौ तथा दर्शनात् । अतिथीनां तु प्रीति: संस्कारसंपन्नपक्वान्ना-ऽऽदिनाऽपि साध्या । तदर्थ महोक्षमहाजाऽदिप्रकल्पनं निर्विवेकतामेव ख्यापयति । पितृणां पुनः प्रीतिरनैकान्तिकी । श्राद्धाऽऽदिविधानेनाऽपि भूयसां सन्तानवृद्धरनुपलब्धेः । तदविधानेऽपि च केषाञ्चिद् गर्दभशूकराजादीनामिव सुतरां तदर्शनात् । ततश्च श्राद्धाऽऽदिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लोकाऽन्तरं प्राप्तास्ते तावत् स्वकृतसुकृत- दुष्कृतकर्माऽनुसारेण सुरनारकादिगतिषु १. 'तत्कार्याणि' इति च. पुस्तके पाठः । २. आरनल:-तन्दुलजातिविशेषः । ३. धूमांशः-सालवृक्षः । ‘साग' इति भाषायाम् । स्याद्वादमञ्जरी) AIRNainition७३) Page #100 -------------------------------------------------------------------------- ________________ सुखमसुखं वा भुञ्जाना एवासते । ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्युः ? । तथा च युष्मद्यूथिनः पठन्ति'मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । तनिर्वाणप्रदीपस्य स्नेहः संवर्धयेच्छिखाम्' ।।१।। इति । कथं च श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु । तस्य तंदन्यकृतत्वाद्, जडत्वाद्, निश्चरणत्वाञ्च । अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्न । तेन तज्जन्यपुण्यस्य स्वाध्यावसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैक तर स्यापि इति-विचाल' एव विलीनं त्रिशङ्कज्ञातेन, किन्तु ४पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत्प्रत्येतु ? विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते । भोजनाऽवसरे तत्सङ्क्रमलिङ्गस्य कस्याऽप्यनवलोकनात्, विप्राणामेवं च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगाा भक्षयन्तः प्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम्। यदपि च गयाश्राद्धा-ऽऽदियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भकविभङ्गज्ञानि व्यन्तराऽऽदिकृतमेव निश्चयम् । यंदप्युदितम्-आगमश्चात्र प्रमाणमिति । तदप्यप्रमाणम् । स हि पौरुषेयो वा स्यात्, अपौरुषेयो वा ? । पौरुषेयश्चेत्-सर्वज्ञकृतः, तदितरकृतो वा ? । आद्यपक्षे-युष्मन्मतव्याहतिः । तथा च भवत्सिद्धान्त: १. 'यूथ्येनं' पठितम् इति क. पुस्तके पाठः । २. मध्य एव । अकाण्ड इत्यर्थः । ३. वसिष्ठशापेन त्रिंशङ्कर्नाम राजा चण्डालत्वमाप । ततस्तेन विश्वामित्रद्वारा ऋतुः . संपादितस्तन्माहात्म्याश्रूमेः स्वर्गमार्गे ययौ । इन्द्रादिभिस्तस्य स्वगों निषिद्धस्तदा सोऽन्तराल एव स्थितः । तथा च तेन स्वर्गसुखं न वा भूमिसुखं लब्धं तद्वत् । ४. 'गेहाद् गेहान्तरं कश्चिच्छोभनादितरं नरः । याति यद्वदसद्धर्मात्तद्वदेव भवाद्भवम्' ।।२।। ___ हरिभद्रसूरिविरचिते चतुर्विशतितमेऽष्टके द्वितीय: श्लोकः ।। ५. 'भक्षयन्त' इति घ. पुस्तके नास्ति । ६. गया-तीर्थविशेषः । . ७. तत्त्वार्थसू. १-३२ । । (७४ स्याद्वादमञ्जरी Page #101 -------------------------------------------------------------------------- ________________ १अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः' ।।१।। द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाऽऽश्वासप्रसङ्गः । अपौरुषेयश्चेद् न संभवत्येव । स्वरूपनिराकरणात्, तुरङ्गशृङ्गवत् । तथाहि उक्तिर्वचनमुच्यते इति चेति पुरुषक्रियानुगतं रुपमस्य । एतत्क्रियाभावे कथं भवितुमर्हति ? । न चैतत् केवलं क्वचिद् ध्वनदुपलभ्यते। उपलब्धावप्यदृश्यवक्ताशङ्कासंभवात् । तस्मात् 'वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात्, कुमारसंभवाऽऽदिवचनवत्, वचनाऽऽत्मकश्च वेदः । तथा चाहुः-. 'ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्याद- तपौरुषेयोऽयमिति प्रतीतिः ?'... श्रुतेरपौरुषेयत्वमुररीकृत्याऽपि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाऽङ्गीक्रियते। अन्यथा '४अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यस्य-श्वमांस भक्षयेदिति किं नाऽर्थः ? नियामकाऽभावात् । ततो वरं सूत्रमपि पौरुषेयमभ्युपंगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याप्रामाण्ये, तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च हिंसात्मको यागश्राद्धाऽऽदिविधिः प्रामाण्यविधुर एवेति । .. .. ___ अथ योऽयं न हिंस्यात् सर्वभूतानि' इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः । वेदविहिता तु हिंसा अपवादपदम् । विशेषतो विधिरित्यर्थः । ततश्चाऽपवादेनोत्सर्गस्य बाधितत्वाद् न श्रौतो हिंसाविधिर्दोषाय, 'उत्सर्गापवादयोरपवादोविधिर्बलीयान्' इतिन्यायात् । भवतामपिहिनखल्वेकान्तेन १. 'तस्मादतीन्द्रियार्थानां साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः' . ।।६९।। श्रीहरिभद्रसूरिकृतषड्दर्शनसमुञ्चये जैमिनीयदर्शने । २. 'यद्' इत्यधिकं क. ख. घ. पुस्तकेषु । ३. कुमारसंभवाख्यं काव्यं कालिदासकृतम् । ४. तै. सं. । ५. छां. अ. ८ ६. श्री हेमहंसगणिसमुञ्चितहेमव्याकरणस्थन्यायः । स्याद्वादमञ्जरीMA MANARRANA ७५) Page #102 -------------------------------------------------------------------------- ________________ हिंसानिषेधः । तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात्, ग्लानाद्यसंस्तरे आधाकर्मादिग्रहणभणनाञ्च । अपवादपदं च-याज्ञिकी हिंसा, देवतादिप्रीतेः पुष्टालम्बनत्वात् । इति परमाशङ्कय स्तुतिकार आह-नोत्सृष्टमित्यादि । । __ अन्यार्थमिति मध्यवर्ति पदं 'डमरुकमणिन्यायेनोभयत्राऽपि सम्बन्धनीयम् । अन्यार्थमुत्सृष्टम्-अन्यस्मै कार्याय प्रयुक्तम्-उत्सर्गवाक्यम्, अन्यार्थप्रयुक्तेन वाक्येन, नापोद्यते-नापवादगोचरीक्रियते । यमेवार्थमाश्रित्य शास्त्रेपूत्सर्गः प्रवर्तते, तमेवार्थमाश्रित्या- ऽपवादोऽपि प्रवर्तते; तयोनिनोन्नतादिव्यवहारवत् परस्परसापेक्षत्वेनैकार्थ-साधनंविषयत्वात् । यथा जैनानां संयमपरिपालनार्थं नवकोटि-विशुद्धाहारग्रहणमुत्सर्गः । तथाविधद्रव्यक्षेत्रकाल- भावाऽऽपत्सु च निपतितस्य गत्यन्तराऽभावे "पञ्चकादियतनयाऽ नेषणीयादि- ग्रहणमपवादः । सोऽपि च संयमपरिपालनार्थमेव । नंच मरणैकशरणस्य गत्यन्तराभावोऽसिद्ध १. ग्लानाद्यसंस्तरः-संयमानिर्वाह: । . २. आधायसाधूंश्चेतसि प्रणिधाय यक्रियते भक्तादि तदाऽऽधाकर्म । पृषोदरादित्वादिति यलोपः । आधानं साधुनिमित्तं चेतसः प्रणिधानं यथाऽमुकस्य साधोः कारणेन मया भक्तादिपचनीयमिति । आधया कर्म पाकाऽतिक्रिया-आधाकर्म । तद्योगाद् भक्ताद्यपि आधाकर्म । ३. डमरुमध्ये प्रतिबद्धो मणिरेक एव सन् डमरुविचाले तदुभयाङ्गसंबद्धो भवति तद्वदेकमेवान्यार्थमिति पदमुभयत्र संबध्यते । अयमेव न्यायो देहलीदीपन्यांय इत्यप्यभिधीयते । ४. कोटयो नव । १ स्वयं हननं २ अन्येन घातनं ३ अपरेण हन्यमानस्यानुमोदनं ४ स्वयं पचनं . ५ अन्येन पाचनं ६ अपरेण पाच्यमांनस्यानुमोदनं ७ स्वयं क्रयणं ८ अन्येन क्रायणं ९ अपरेण क्रीयमाणस्यानुमांदनम् । इति मलयगिर्याचार्यकृतायां पिण्डनियुक्तिविवृतौ उद्गमद्वारे गा. ४०२ । ५. 'तत्थेव अन्नगामे वुच्छन्तर असंभरंत जयणाए । संथरणे सणमादि छन्नं कडजोगी गीयत्थे' ।। 'प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथाऽ सावन्यग्रामो दूरतरस्ततोऽपान्तरालग्राम उषित्वा द्वितीये दिन आनयन्ति । अथैवमव्यसंस्तरणं भवति ततः, अकारप्रश्लेषादसंस्तरतो ग्लानस्यार्थाय यतनया पञ्चकपरिहाण्या गृह्णन्ति । अथ म्लानाऽर्थ व्यापूतानां परिचारकाणां संस्तरणं तत एषणादोषेषु आदिशब्दादुद्गमादिदोषेषु च पश्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततश्छन्नमप्रकटं कृतयोगी गीतार्थो वा प्रायोग्यं द्रव्यं परिवासयन्ति । यथाकर्णितछेदश्रुतार्थ: प्रत्युच्चारणासमर्थः कृतयोगी यस्तु छेदश्रुतार्थे श्रुत्वा प्रत्युञ्चारयितुमीशः स गीतार्थ उच्यते' । बृहत्कल्पसूत्रे १ उद्देशे बृहच्छालीयश्रीक्षेमकीर्तिसूरिकृतटीकायाम् । (समासार्थोऽपि तत्रैव ।) ६. अनेषणीयं-अशुद्धम् । .. (७६) स्याद्वादमञ्जरी Page #103 -------------------------------------------------------------------------- ________________ इति वाच्यम् । 'सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिजा।। मुवइ अइवायाओ पुणो विसोही नयाऽविरई ।।१।। इत्यागमात् । .' तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्यांञ्चिदवस्थायां किञ्चिद्वस्त्वपथ्यं, तदेवाऽवस्थाऽन्तरे तत्रैव रोगे पथ्यम्'उत्पद्यते हि साऽवस्था देशकालामयान् प्रति । . यस्यामकार्यं कार्यं स्यात् कर्म कार्य तु वर्जयेत् ।।१।। इति वचनात् । यथा बलवदादेरिणो लङ्घनं, क्षीणधातोस्तु तद्विपर्ययः । एवं देशाद्यपेक्षया ज्वरिणोऽपि दधिपानाऽदियोज्यम् । तथा च वैद्या: 'कालाऽविरोधि निर्दिष्टं ज्वराऽदौ लङ्घनं हितम् ।। ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ।।१॥ एवं च यः पूर्वमपथ्यपरिहारो, यश्च तत्रैवावस्थान्तरे तस्यैव परिभोगः स खलूभयोरपि तस्यैव रोगस्य शमनार्थः । इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति । भवतां चोत्सर्गोऽन्याऽर्थः, अपवादश्चान्याऽर्थः । 'न हिंस्यात् सर्वभूतानि' इत्युत्सर्गो हि दुर्गतिनिषेधार्थः । अपवादस्तु वैदिकहिंसाविधि देवताऽतिथिपितृप्रीतिसंपादनार्थः । अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते ? 'तुल्यबलयोर्विरोध' इति न्यायात् । भिन्नार्थत्वेऽपि तेन तद्बाधने-अतिप्रसङ्गात् । नच वाच्यं वैदिकहिंसाविधिरपि स्वर्गहेतुतया दुर्गतिनिषेधार्थमेवेति । तस्योक्तयुक्त्या १. सर्वत्र संयमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात्पुनर्विशुद्धिर्न चाविरतिः ।। इति ___ छाया । २. 'इति' पदं क. पुस्तके नास्ति । ३. छां. अ. ८ । ४. 'विधिरपि स्व' इति क. पुस्तके पाठः । स्याद्वादमञ्जरीkarinaraduation ७७) Page #104 -------------------------------------------------------------------------- ________________ स्वर्गहेतुत्वनिर्लोठनात् । तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्धिभावात् । गत्यन्तराऽभावे ह्यपवादपक्षकक्षीकारः ।। नच वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षि: 'पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुध्दयर्थं ज्ञानं ध्यानं च मुक्तिदम्' ।।१।। अत्राऽग्निकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्यः-तस्य सुगतिहेतुत्वमर्थात् कर्थितवानेव । तथाच स एव भावाऽग्निहोत्रं ज्ञानपालीत्यादि श्लोकैः स्थापितवान् । __. तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति-स्वपुत्रेत्यादि । परेषांभवत्प्रणीतवचनपराङ्मुखानां स्फुरितं चेष्टितम्, स्वपुत्रघाताद् नृपतित्वलिप्सासब्रह्मचारि-निजसुतनिपातनेन. राज्यप्राप्तिमनोरथसदृशम् । यथा किल कश्चिदविपश्चित् पुरुषः परुषाऽऽशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते । नच तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः क्वचिदपयाति । एवं वेदविहितहिंसया देवतादिप्रीतिसिद्धावपि, हिंसासमुत्थं दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति-यथा तस्य दुराशयस्याऽसदृशतादृशदुष्कर्मनिर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, "न पुनस्तत्सिदः । एवं तेषां दुर्वादिनां वेदविहितां हिंसामनुतिष्ठतामपि देवतादिपरतोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्रादिदिवौकसां १. कक्षीकारः-अङ्गकरणम् । २. (८३) पत्रे ११ लोके उद्धृता अवतरणे । ३. 'श्रूयतां धर्मसर्वस्वमित्यादि स्वोत्पन्नवचनरूपनिजसुतनिपातनेन वेदविहिताहिंसाया मुग्धपुरुष स्वामित्वक्षुद्र' इति घ. पुस्तके पाठः । ४. 'पराहन्यते' इति च. पुस्तके पाठ: । ५. स्वपुत्रपतित्वाऽभावे पुरुषपतित्वस्याप्याऽभावात्तत्त्वतो न तत्सिद्धिरिति घ. पुस्तके पाठः । ( ७८ r intinuink स्याद्वादमञ्जरी Page #105 -------------------------------------------------------------------------- ________________ च तृप्तिः । प्रागुक्तयुक्त्या निराकृतत्वात् । इति काव्यार्थः ।। ११ ।। सांप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् एकात्मसमवायिज्ञानान्तर- वेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह स्वार्थावबोधक्षम एव बोध: प्रकाशते नार्थकथाऽन्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ||१२|| बोधो-ज्ञानं, स च स्वार्थाऽवबोधक्षम एव प्रकाशते - स्वस्य- आत्मस्वरुपस्य, अर्थस्य च योऽवबोधः - परिच्छेदस्तत्र, क्षम एव समर्थ एव प्रतिभासते ।. इत्ययोगव्यवच्छेदः । प्रकाशत इति क्रियया अवबोधस्य प्रकाशरूपत्वसिद्धेःसर्वप्रकाशानां स्वार्थप्रकाशकत्वेन, बोधस्याऽपि तत्सिद्धिः । विपर्यये दूषणमाहनार्थकथान्यथात्विति । अन्यथेति- अर्थप्रकाशनेऽविवादाद्, ज्ञानस्य स्वसंविदितत्वाऽनभ्युपगमेऽर्थकथैव न स्यात् । अर्थकथापदार्थसम्बन्धिनी वार्ता, सदसद्रूपात्मकं स्वरुपमिति यावत् । तुशब्दोऽवधारणे भिन्नक्रमश्च स चार्थकथया सह योजित एव । यदि हि ज्ञानं स्वसंविदितं नेष्यते, तदा तेनाऽऽत्मज्ञानाय ४ ज्ञानाऽन्तरमपेक्षणीयं तेनाऽप्यपरमित्याद्यनवस्था । ततो ज्ञानं तावत् स्वाऽवबोधव्यग्रतामग्नम् । अर्थस्तु जडतंया स्वरुपज्ञापनाऽसमर्थ इति को नामाऽर्थस्य कथामपि कथयेत् ? । तथापि एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि परे - तीर्थान्तरीयाः, ज्ञानं-कर्तृताऽपन्नम्, अनात्मनिष्ठं - न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य १ अतः परं 'पदार्थस्य' इति क. ख. घ. पुस्तकेष्वधिकम् । २ ‘प्रकाशते' इत्यतः ‘तत्सिद्धिः' इत्यन्तं क. ख. पुस्तकयोर्नास्ति । ३ 'वस्तुस्वरूपम्' इति क पुस्तके पाठः । ४ 'ज्ञानार्थम्' इति घ. पुस्तके पाठः । (स्याद्वादमञ्जरी ** ७९ Page #106 -------------------------------------------------------------------------- ________________ तदनात्मनिष्ठम्, अस्वसंविदितमित्यर्थः, प्रपेदिरे-प्रपन्नाः । कुतः ? इत्याह-परेभ्यो भयतः, परे पूर्वपक्षवादिनः, तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, 'स्वात्मनि क्रियाविरोधादित्युपालम्भ सम्भावनासम्भवं यद्भयं तस्मात्तदाश्रित्येत्यर्थः । इत्थमक्षरगमनिका विधाय भावार्थः प्रपञ्च्यते-भट्टास्तावदिदं वदन्ति । यद् ज्ञानं स्वसंविदितं न भवति, स्वाऽऽत्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरो, पटुः, न च सुतीक्ष्णाऽप्यसिधारा स्वं छेत्तुमाहितव्यापाराः । ततश्च परोक्षमेव ज्ञानमिति । तदेतन सम्यक् यतः-किमुत्पत्तिः स्वाऽऽत्मनि विरुध्यते ज्ञप्तिा ?। यद्युत्पत्तिः-सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ ज्ञप्तिः-नेयमात्मनि विरुद्धा । तदाऽऽत्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् । प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपाऽऽलोक उत्पन्न इति परप्रकाशोऽस्तु । आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः ? । इति चेत् । तत्किंतेन वराकेणाप्रकाशितेनैव स्थातव्यम, आलोकान्तराद् वाऽस्य प्रकाशेन भवितव्यम् ? । प्रथमे प्रत्यक्षबाधः । द्वितीयेऽपि-सैवाऽनवस्थाऽऽपत्तिश्च । अथ नाऽसौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः । प्रकाशरूपतया तूत्पनत्वात् स्वयं प्रकाशत एवेति चेत् । चिरञ्जीव । नहि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः । ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं "स्वं जानामीति कर्मतयाऽपि तद्भाति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया "प्रथित एव । . . १. स्वप्रकाशत्वं नाम स्वप्रकाशजनकत्वं । तत्स्वात्मनि क्रियां विनाऽत्यन्तमसंभवि । ___'गुणादिनिर्गुणक्रियः' इत्युक्तेः । आत्मनो ये चतुर्दश गुणास्तत्र ज्ञानमात्मनो विशेषगुणः । । २. वैशेषिकोपालम्भः । ३. 'भाव्यम्' इति क. पुस्तके पाठः । ४. प्रकाशनात् । ५. 'स्वम्' इति घ. पुस्तके नास्ति । .. ६. ज्ञानम् । ७. 'प्रथत एव' इति ख. पुस्तके पाठः । . Co u ntainikkkk स्याद्वादमञ्जरी Page #107 -------------------------------------------------------------------------- ________________ यस्तु स्वाऽऽत्मनि क्रियाविरोधो दोष उद्भावितः-सोऽयुक्तः । अनुभवसिद्धेऽर्थेविरोधासिद्धेः ।घटमहंजानामीत्यादौ कर्तृकर्मवद्ज्ञप्तेरप्यवभा-समानत्वात् । न चाप्रत्यक्षोपलम्भस्याऽर्थदृष्टिः प्रसिध्यति । न च ज्ञानान्तरात् तदुपलम्भसम्भावना, तस्याऽप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराऽभावात् । उपलम्भाऽन्तरसम्भावने चानवस्था । अर्थोपलम्भात् तस्योपलम्भे-अन्योन्याऽऽश्रयदोषः । अथार्थप्राकट्यमन्यथा नोपपद्येत-यदिज्ञानं न स्यात्, इत्यर्थाऽऽपत्त्या तदुपलम्भ इति चेत् । न । तस्या अपि ज्ञापकत्वेनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषाऽऽपत्तेः-तदवस्थ: परिभवः । . तस्मादर्थोन्मुखतयेव स्वोन्मुखतयाऽपि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम् । नन्वनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्प्रसङ्गः । प्रयोगस्तु ज्ञानमनुभवरूपमप्यनुभूतिर्न भवति, अनुभाव्यत्वाद्, घटवत्, अनुभाव्यं च भवद्भिरिष्यते . ज्ञानं, स्वसंवेद्यत्वात् । "मैवम् । ज्ञातुआतृत्वेनेवाऽनुभूतेरनुभूति४ त्वात् स्वाऽपेक्षया चाऽनुभाव्यत्वात् । स्वपितृपुत्राऽपेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाऽभावाद् । अनुमानाञ्च स्वसंवेदनसिद्धिः । तथाहि-ज्ञानं स्वयंप्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात्, प्रदीपवत् । संवेदनस्य प्रकाश्यत्वात् प्रकाशत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । ' ___ ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनै १. नहि दृष्टेऽनुपपन्नं नामेति न्यायात् । किं च-'विरोधे वाविरोधे च प्रमाणं कारणं मतम् । प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते' ।। . २. 'पुष्टो देवदत्तो दिवा न भुङ्क्ते' इति वाक्ये पुष्टत्वान्यथानुपपत्त्या यथा रात्रिभोजनं कल्प्यते तथात्र घटज्ञानं विना घटप्राकट्यं नोपलभ्यत इति घटप्राकट्यान्यथानुपपत्त्या घटज्ञानं कल्प्यते । ३. तस्याः-अर्थापत्तेः । ४. 'नैवम्' इति घ. रा. पुस्तकयोः पाठः । ५. प्रदीपस्याऽर्थाऽपेक्षया प्रकाशकत्वं स्वापेक्षया च प्रकाश्यप्रकाशकत्वम् । (स्याद्वादमञ्जरी)AAAAAAAAAAnnarshan) Page #108 -------------------------------------------------------------------------- ________________ कान्तिकति चेत् । 'न / नेत्रादिभिरनैकान्तिकता-तेषां लब्ध्यु 'पयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः । तथा संवित् स्वप्रकाशा, अर्थप्रतीतित्वात्, यः स्वप्रकाशो न भवति नासावप्रतीतिः, यथा घटः । तदेवं सिद्धेऽपि प्रत्यक्षाऽनुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे 'सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं ततोऽर्थप्राकट्यं, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलम्भ:' इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव । 1 यौगास्त्वाहुः'- ज्ञानं स्वाऽन्यप्रकाश्यम्, ईश्वरज्ञानाऽन्यत्वे सति प्रमेयत्वात्, घटवत् । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरोद्भविष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । न चैवमनवस्था । अर्थावसायिज्ञानोत्पादमात्रेणैवाऽर्थसिद्धौ प्रमातुः कृतार्थत्वात् । अर्थज्ञानजिज्ञासायां तु तत्राऽपि ज्ञानमुत्पद्यत एवेति । तदयुक्तम्-पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालाऽत्ययाऽपदिष्टत्वात् । तथाहि - विवादास्पदं ज्ञानं स्वसंविदितं ज्ञानत्वात् । ईश्वरज्ञानवत् । न चाऽयं वाद्यप्रतीतो दृष्टान्तः, पुरुषविशेषस्येश्वरतया जैनैरपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धिः । व्यर्थविशेष्यश्चाऽत्र तव हेतुः समर्थविशेषणोपादानेनैव साध्यसिद्धेः - अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवद्, ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वात् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं वा ज्ञानमस्ति यद्व्यवच्छेदाय प्रमेयत्वादिति क्रियेत, भवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात् । १. 'नात्र' इति क. ख. पुस्कयोः पाठः । २. अर्थग्रहणशक्तिर्लब्धिः । अर्थसंग्रहव्यापारस्तूपयोगः । एतयोर्लक्षणे, तत्त्वार्थसूत्रद्वितीयाध्याये श्लो. १६ १७ १८ द्रष्टव्ये । ३. जैमिनिसूत्रे प्रथमाध्याये प्रथमपादे ४।५ सूत्रार्थाऽनुगुण ४. नैयायिकाः । ५. 'अनन्तरोत्पदिष्णु' इति क. ख. घ. ह. पुस्तकेषु पाठः । ६. 'प्रसिद्धेः' इति क. ह. रा. पुस्तकेषु पाठः । ८२ (स्याद्वादमञ्जरी Page #109 -------------------------------------------------------------------------- ________________ अप्रयोजकश्चायं हेतुः-सोपाधित्वात् साधनाऽव्यापकः साध्येन समव्याप्तिश्च खलु-उपाधिरभिधीयते । तत्पुत्रत्वाऽऽदिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । उपाधिश्चाऽत्र जडत्वम् । तथाहि ईश्वरज्ञानाऽन्यत्वे प्रमेयत्वे च सत्यपि यदेव जडं स्तम्भादि तदेव स्वस्मादन्येन प्रकाश्यते । स्वप्रकाशे परमुखप्रेक्षित्वं हि जडस्य लक्षणम् । न च ज्ञानं जडस्वरूपम् । अतः साधनाव्यापकत्वं जडत्वस्य । साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाड्यं विहाय स्वप्रकाशाऽभावस्य तं च त्यक्त्वा जाड्यस्य क्वचिदप्यदर्शनाद् इति । यच्चोक्तं 'समुत्पन्नं हि ज्ञानमेकात्मसमवेतम्' इत्यादि । तदप्यसत्यम् । इत्थमर्थज्ञानतद्ज्ञानयोरुत्पद्यमानयोः क्रमाऽनुपलक्षणत्वाद्, `इति । आशूत्पादात क्रमानुपलक्षणमुत्पलपत्रैशतव्यतिभेदवद् इति चेत् । जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात् । नच. ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते । अजिज्ञासितेंष्वपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः । नचाऽर्थज्ञानमयोग्यदेशम् । आत्मसमवेतस्याऽस्य समुत्पादात् । इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । अथोत्पद्यतां नामेदं-को दोषः ? इति चेत् । नन्वेवमेव तद्ज्ञानज्ञानेऽप्यपरज्ञानो-त्पादप्रसङ्गः । तत्रापि चैवमेवायम् । इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापारात् विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज्ञानान्तरव्यापारम्, यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहि धारावाहिज्ञानप्रबन्धस्याऽन्त्यज्ञानम् । ज्ञानं च विवादाऽध्यासितं रूपादिज्ञानम्, इति न ज्ञानस्य ज्ञानाऽन्तरज्ञेयता युक्तिं सहते । इति काव्यार्थः ।।१२।। न १. 'समव्याप्तिकश्च' इति ख. घ. पुस्तकयोः पाठः । · २. यत्र यत्र जाड्यं तत्र तत्र स्वप्रकाशांऽभावः । यत्र च स्वप्रकाशाभावस्तत्र तत्र जाड्यमिति सम्यग्हेतौ त्वेकविधैव व्याप्तिः । नहि भवति यत्र यत्राग्निस्तत्र तत्र धूम इति । अङ्गाराऽवस्थायां धूमाऽनुपलम्भनातू । ३. मृदूनां कमलपत्राणां वेधः प्रतिपत्रं क्रमेण भवति तथापि तस्य शीघ्रभावित्वात्स क्रमो नोपलक्ष्यते तद्वदित्यर्थः । ४. 'तन्न' इति क. ख. घ. पुस्तकेषु अधिकम् । ५. 'नत्वेवम्' इति क पुस्तके पाठः । ६. 'न्याय' इत्यधिक घ. पुस्तके । ७. एकस्मिन्नेव घटे 'घटोऽयम्' 'घटोऽयम्' इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानानि धारावाहिकज्ञानानि । स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ४ ८३ Page #110 -------------------------------------------------------------------------- ________________ अथ ये ब्रह्माद्वैतवादिनोऽवादिनोऽविद्यापरपर्यायसमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते, तन्मतमुपहसन्नाह- .. माया सती चेद् दयतत्त्वसिद्धिरथाऽसती हन्त कुत: प्रपञ्चः | . मायैव चेदर्थसहा च तत्कि माता च वन्ध्या च भवत्परेषाम् ।।१३।। तैर्वादिभिस्तात्त्विकाऽऽत्मब्रह्माव्यतिरिक्ता या माया-अविद्या प्रपञ्चहेतुः परिकल्पिता, सा सद्रूपा असद्रूपा वा द्वयी गतिः । सतीसद्रूपा चेत् तदा द्वयतत्त्वसिद्धिः-द्वाववयवौ यस्य तद् द्वयं, तथाविधं यत् तत्त्वं परमार्थः, तस्य सिद्धिः । अयमर्थः-एकं तावत् त्वदभिमतं तात्त्विकमात्मब्रह्मा, द्वितीया च माया तत्त्वरूपा । सद्रूपतयाऽङ्गीक्रियमाणत्वात्। तथा चाद्वैतवादस्य मूले निहितः कुठारः । अथेति पक्षान्तरद्योतने । यदि असती-गगनाम्भोजवदवस्तुरुपा सा माया, ततः, हन्त इत्युपदर्शने आश्चर्य वा कुतः प्रपञ्चः ? अयं त्रिभुवनोदरविवरविवर्ति-पदार्थसार्थरूपप्रपञ्चः कुतः ? न कुतोऽपि संभवतीत्यर्थः । मायाया अवस्तुत्वेनाऽभ्युपगमात् अवस्तुनश्च तुरङ्गशृङ्गस्येव 'सर्वोपाख्याविरहितस्य साक्षाक्रियमाणेदृशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम्, अत्र तु तदुपलम्भात् कथं मायांव्यपदेशः श्रद्धीयताम् ? ____ अथ मायाऽपि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत्, तर्हि स्ववचनविरोधः । नहि भवति माता च वन्ध्या चेति । एनमेवार्थं हदि निधायोत्तरार्धमाह-मायैव चेदित्यादि । अत्रैवकारोऽप्यर्थः । अपि चसमुच्चयार्थः । १. 'अभिमतम्' इति क. पुस्तके पाठः । २. 'सर्वोपेक्षा' इति क. पुस्तके पाठः । ( itisa ritribabu स्याद्वादमञ्जरी Page #111 -------------------------------------------------------------------------- ________________ अग्रेतनचकारश्च तथा । उभयोश्च समुञ्चायार्थयोयोगपद्यद्योतकत्वं प्रतीतमेव । यथा रघुवंशे-'ते'च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः' । इति । तदयं वाक्यार्थ:माया च भविष्यति अर्थसहा च भविष्यति । अर्थसहा अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा, चेच्छब्दोऽत्र योज्यते-इति चेत् । एवं परमाशङ्कय तस्य स्ववचनविरोधमुद्भावयति-तत् किं भवत्परेषां माता च वन्ध्या च ? किमितिसंभावने । संभाव्यत एतत्-भवतो ये परे-प्रतिपक्षाः, तेषां भवत्परेषां भवद्व्यतिरिक्तानां, भवदाज्ञापृथग्भूतत्वेन तेषा वादिनां, यन्माता च भविष्यति, वन्ध्या च भविष्यतीत्युपहासः । माता हि प्रसवधर्मिणीवनितोच्यते । वन्ध्या च तद्विपरीता । ततश्च माता चेत्कथं वन्ध्या ? वन्ध्या चेत्कथं माता ? तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः । . .: व्यासार्थस्त्वयम्-ते वादिन इदं प्रणिगदन्ति-तात्त्विकमात्मब्रह्मेवाऽस्ति- . 'सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किंचन । २आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन ॥१॥ इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः, प्रतीयमानत्वात् । यदेवं तदेवम् । यथा शुक्तिशकले कलधौतम् । तथा चाऽयं, तस्मात् तथा । तदेतद्वार्तम् । तथाहि-मिथ्यारुपत्वं तैः कीदृग् विवक्षितम् ? किमत्यन्ताऽसत्त्वम्, उताऽन्यस्याऽन्याऽऽकारतया प्रतीतत्वम्, आहोस्विदनिर्वाच्यत्वम् ? प्रथमपक्षेअसख्यातिप्रसङ्गः । द्वितीये विपरीतख्यातिस्वीकृतिः । तृतीये तु किमिदमनिर्वाच्यत्वम् ? निःस्वभावत्वं चेत्, निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्य भ्युपगमप्रसङ्गः । भावप्रतिषेधे-असत्ख्यातिः, अभावप्रतिषेधे-सत्ख्यातिरिति । । १. 'अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्' । इत्युत्तरार्धम् । रघुवंशे दशमसर्गे श्लोक. ६ । २. उत्तरार्धं क. ख. घ. पुस्तकेषु नास्ति । ३. निःसारम् । ४. आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ।।१।। स्याद्वादमञ्जरीA rikRRANA C५) Page #112 -------------------------------------------------------------------------- ________________ प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोध:-'स प्रपञ्चो हि न प्रतीयते चेत् कथं धर्मितयोपात्तः । कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथाप्रतीयते न तथेति चेत, तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किञ्च इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षबाधिता । घटोऽयमित्याद्याकारं हि प्रत्यक्ष-प्रपञ्चस्य सत्यतामेव व्यवस्यति । घटादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् । इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् । अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम् । प्रत्यक्षं हि इदमिति वस्तुस्वरूपं गृह्णाति, नान्यत्स्वरूपं प्रतिषेधति । 'आहुविधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते' ।।१।। इति वचनात् । इति चेत् । न । अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याऽप्यसंपत्तेः। पीतादिव्यवच्छिन्नं हि नीलं-नीलमिति गृहीतं भवति । नाऽन्यथा । केवलवस्तुस्वरूपप्रतिपत्तेरेवाऽन्यप्रतिषेधप्रतिपत्तिरूपत्वात् । मुण्डभूतलग्रहणे . घटाऽभावग्रहणवत्। तस्माद् यथा प्रत्यक्षं विधायकं प्रतिपन्नं, तथा निषेधकमपि प्रतिपत्तव्यम् । .. अपि च, विधायकमेव प्रत्यक्षमित्यङ्गीकृते, यथा प्रत्यक्षेण विद्या विधीयते, तथा किं नाऽविद्यापीति । तथा च द्वैताऽऽपत्तिः । ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनो विद्याविवेकेन सन्मानं प्रत्यक्षात् प्रतियन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः । इति सिद्धं प्रत्यक्षबाधितः पक्ष इति । अन्मानबाधितश्च । प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात्, आत्मवत् प्रतीयमानत्वं चहेतुर्ब्रह्माऽऽत्मना व्यभिचारी । स हि प्रतीयते, नच मिथ्या । अप्रतीयमानत्वे २त्वस्य तद्विषयवचसामप्रवृत्तेर्मूकतैव तेषां श्रेयसी । साध्यविकलश्च दृष्टान्तः- . शक्तिशकलकलधौतेऽपि प्रपञ्चाऽन्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात् । किञ्च, इदमनुमानं प्रपञ्चाद् भिन्नम्, अभिन्नं वा । यदि भिन्न-तहिं सत्यमसत्यं १. 'स' इति क. ख. पुस्तकयो स्ति । २. 'तस्य' इति क. पुस्तके पाठः । (CENTRA स्याद्वादमञ्जरी Page #113 -------------------------------------------------------------------------- ________________ वा । यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्याद्, अद्वैतवादप्राकारे 'खण्डिपातात् । अथासत्यम्, तर्हि न किञ्चित् तेन साधयितुं शक्यम्, अवस्तुत्वात् । अभिन्नं चेत्, प्रपञ्चस्वभावतया तस्याऽपि मिथ्यारूपत्वाऽऽत्तिः । मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायालम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ? यतो बाह्याऽर्थाऽभावो भवेदिति । २ अथवा प्रकाराऽन्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते । ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरुपस्य विद्यमानत्वात् प्रमाणविषयत्वम् । अपरस्य द्वितीयस्य कस्यचिदप्यभावात् । तथाहि प्रत्यक्षं तदावेदकमस्ति । *प्रत्यक्षं द्विधा भिद्यते-निर्विकल्पकसविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथा चोक्तम् " अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकाऽऽदिविज्ञानसदृशं शुद्धवस्तुजम् ।।१।। न च विधिवत् परस्परव्यावृत्तिरप्यध्यक्ष एव प्रतीयते इति द्वैतसिद्धिः । तस्य निषेधाऽविषयत्वात् । 'आहुर्विधातृ प्रत्यक्षं न निषेद्धृ' इत्यादिवचनात् । यच्च सविकल्पप्रत्यक्षं घटपटाऽऽदिभेदसाधकं तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताऽद्वैतस्यैव साधकम् । सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्-‘यदद्वैतं तद् ब्रह्मणो रूपम्' इति । , अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि - विधिरेव तत्त्वं, प्रमेयत्वात् यतः प्रमाणविषयभूतोऽर्थः प्रमेयः । प्रमाणानां च प्रत्यक्षाऽनुमानाऽगमोप १. 'खङ्गपातात्' इति रा. पुस्तके पाठः । २. इदं च वादस्थलं काव्याऽर्थव्याख्याऽनुरोधेन नियन्त्रितमेवोपन्यस्तं सांप्रतमुक्तलक्षणमेवोपन्यस्यामः । ३. 'द्वितीयस्य' इति ख. पुस्तके नास्ति । ४. 'प्रत्यक्षं हि' इति क पुस्तके पाठः । ५. मीसांसालोकवार्तिकसूत्र ४ प्रत्यक्षसूत्रे श्लोक. ११२ । ६. 'अपि प्रत्यक्षात्' इति क पुस्तके पाठः । तदग्रे 'एव' इति ख. पुस्तके नास्ति । (स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ८७ Page #114 -------------------------------------------------------------------------- ________________ मानाऽर्थाऽपत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः । तथा चोक्तम् "प्रत्यक्षाद्यवतारः स्याद् भावांशो गृह्यते यदा। । व्यापारस्तदनुत्पत्तेरभावांशे 'जिघृक्षिते' ।।१।। यञ्चाऽभावाऽऽख्यं प्रमाणं । तस्य प्रामाण्याऽऽभावाद्-न तत् प्रमाणम् । तद्विषयस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स विधिरेव । तेनैव च प्रमेयत्वस्य व्याप्तत्वात् । सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम्, यत्तु न विधिरूपं, तद् न प्रमेयम्, यथा खरविषाणम्, प्रमेयं चेदं निखिलं वस्तुतत्त्वम्, तस्माद् विधिरूपमेव । __ अतो वा तत्सिद्धिःग्रामाऽऽरामाऽऽदयः पदार्थाः प्रतिभासान्तःप्रविष्टाः, प्रतिभासमानत्वात्, यत्प्रतिभासते तत्प्रतिभासान्तःप्रविष्टम्, यथा प्रतिभासस्वरुपम्, प्रतिभासन्ते च ग्रामाऽऽरामाऽऽदयः पदार्थाः, तस्मात् प्रतिभासान्तःप्रविष्टाः । आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते-'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उताऽमृतत्वस्येशानो यदन्नेनाऽतिरोहति ।' यदेजति, यत्रैजति, यद् दूरे, यदन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्याऽस्य बाह्यतः' इत्यादि । श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवेदवाक्यैरपि तत्सिद्धेः । कृत्रिमेणाऽपि आगमेन तस्यैव प्रतिपादनात् । उक्तं च'सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन' ।।१।। इति १. 'प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते' ।।१७।। ___ इति मीमांसालोकवार्तिकसूत्र ५ अभावपरिच्छेदः । २. गृहीतुमिष्टे । ३. ऋग्वेद पुरुषसूक्ते । ४. ईशावास्योपनिषदि । . ५. अत्र ‘श्रोतव्योऽयमात्मा मन्तव्यो निदिध्यासितव्योऽनुमन्तव्य' इति विकृतः पाठो बहुषु स्याद्वादमञ्जरीपुस्तकेषूपलभ्यते । परं वेदवाक्यं तथा नास्ति । इदं बृ. उपनिषदि । (CORAKARANAMANA स्याद्वादमञ्जरी Page #115 -------------------------------------------------------------------------- ________________ प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्त्वम्, सकलभेदानां तद्विवर्तत्वात्। तथा हि-सर्वे भावा ब्रह्मविवर्ताः, सत्त्वैकरूपेणाऽन्वितत्वात् । यद् यद्रूपेणाऽन्वितं तत् तदात्मकमेव । यथा-घटघटीशरावोदञ्चनादयो मृद्रूपेणैकेनाऽन्विता मृद्विवर्ताः, सत्त्वैकरूपेणाऽन्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति । तदेतत् सर्वं मदिरारसाऽऽस्वादगद्गदोद्गीतमिवाऽभासते, विचारासहत्वात् । ... सर्वं हि वस्तु प्रमाणसिद्धं, न तु वाङ्मात्रेण । अद्वैत्तमते च. प्रमाणमेव नास्ति, तत् सद्भावे द्वैतप्रसङ्गात् । अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् । अथ मतम्, लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् । तन्मते लोकस्यैवाऽसम्भवात्, एकस्यैव नित्यनिरंशस्यं परब्रह्मण एव सत्त्वात् । - अथाऽस्तु यथा कथञ्चित् प्रमाणमपि । तत्किं प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणमुररीक्रियते । न तावत् प्रत्यक्षम् । तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात् । आबालगोपालं तथैव प्रतिभासनात् । यञ्च 'निर्विल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम्। तदपि न सम्यक् । तस्य. प्रामाण्याऽनभ्युपगमात् । सर्वस्याऽपि प्रमाणतत्त्वस्य व्यवसायाऽऽत्मकस्यैवाऽविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात् । यदप्युक्तं-'आहुर्विधातृ प्रत्यक्षम्' इत्यादि । तदपि न पेशलम् । प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताऽऽकाराऽऽत्मकवस्तुन एव प्रकाशनात् । एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं प्रतिभासते । येन 'यदद्वैतं तद्ब्रह्मणो रूपम्' इत्याद्युक्तं शोभते । विशेषनिरपेक्षस्य सामान्यस्य खरविषाणवदप्रतिभासनात् । तदुक्तम् १. 'सिद्धः' इति. ख. पुस्तके पाठः । २. विचारपूर्वं खण्डितम् । ३. 'शोभेत' इति रा. क. ख. घ. ह. पुस्तकेषु पाठः । स्याद्वादमञ्जरी anandhan ) Page #116 -------------------------------------------------------------------------- ________________ निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि' ।१।। ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् । यच्च प्रमेयत्वादित्यनुमानमुक्तम्, तदप्येतेनैवाऽपास्तं बोद्धव्यम् । पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालाऽत्ययाऽपदिष्टत्वात् । यञ्च तत्सिद्धौ प्रतिभासमानत्वसाधनमुक्तम्, तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालम् । प्रतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा । न तावत् स्वतः । घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनाऽसिद्धेः । परतः प्रतिभासमानत्वं च-परं विना नोपपद्यते इति । यञ्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम् । तदप्यत्र स्थलेऽन्वीयमानद्वया- विनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव । न च घटादीनां चैतन्याऽन्वयोऽप्यस्ति । मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किञ्चिदेतदपि । अतोऽनुमानादपि न तत्सिद्धिः । .. किञ्च, पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा । भेदे द्वैतसिद्धिः । अभेदे त्वेकरूपताऽऽपत्तिः । तत् कथ-मेतेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणाऽपि साध्यसिद्धिः स्यात्, तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः । तदुक्तम् हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् ॥१॥ 'पुरुष' एवेदं सर्वम्' इत्यादेः, "सर्व वै खल्विदं ब्रह्म' १. मीमांसा श्लोकवार्तिकसूत्र ५ आकृतिवादे-'निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाञ्च विशेषास्तद्वदेव हि' ।।१०।। इति । २. आप्तमीमांसा, द्वितीयपरिच्छेदे श्लो. २६ । ३. ऋग्वेदे पुरुषसूक्ते । ४. छां. उ. ३-१४ । । (९० unit स्याद्वादमञ्जरी Page #117 -------------------------------------------------------------------------- ________________ इत्यादेश्चागमादपि न तत्सिद्धिः । तस्याऽपि द्वैताऽविनाभावित्वेन अद्वैतं प्रति प्रामाण्याऽसम्भवात् । वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्राऽपि दर्शनात् । तदुक्तम् 'कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्या विद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा' । ।१ ॥ ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाऽद्वैतलक्षणमेकमेव प्रमाणस्य विषयः । इति सुव्यवस्थितः प्रपञ्चः । इति काव्यार्थः ।। १३ ।। अथ स्वाऽभिमतसामान्यविशेषोभयाऽऽत्मकवाच्यवाचकभावसमर्थनपुरःसरं 'तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचक भावनिरासद्वारेण तेषां प्रतिभावैभवाऽभावमाह अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् 1 अतोऽन्यथा वाचकवाच्यक्र्लृप्तावतावकानां प्रतिभाप्रमादः || १४ ।। वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु एवकारस्याऽप्यर्थत्वात् सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकंम् - अनेकरूपम् । अथवाऽनेकरूपमपि एकात्मकम् । अन्योऽन्यं संवलितत्त्वादित्यमपि व्याख्याने न दोषः । तथा च वाचकम्-अभिधायकं, शब्दरुपम् । तदप्यवश्यम् - - निश्चितं । द्वयात्मकं सामान्यविशेषोभयाऽऽत्मकत्वाद्एकाऽनेकात्मकमित्यर्थः । उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकाऽनेकाऽऽत्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति । अतः - उपदर्शितप्रकारात्, अन्यथासामान्यविशेषैकान्तरूपेण प्रकारेण, वाचकवाच्यक्लृप्तौ वाच्यवाचकभावकल्पनायाम्, १. आप्तमीमांसा द्वितीयपरिच्छेदे श्लो. २५ । २. मतान्तरीयवादिप्रकल्पितम् । ३. 'व्याख्याते' इति ख. पुस्तके पाठः । स्याद्वादमञ्जरी न bh ॐ ॐ ॐ ४ ९१ Page #118 -------------------------------------------------------------------------- ________________ अतावकानाम्-अत्वदीयानाम्, अन्ययूथ्यानाम् । प्रतिभाप्रमादः-प्रज्ञास्खलितम् इत्यक्षरार्थः । अत्र 'चाऽल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्प्रायोऽर्थप्रतिपादनस्य शब्दाऽऽधीनत्वेन वाचकस्याऽर्च्यत्वज्ञापनार्थम् । तथाच शाब्दिकाः न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते' ।।१।। इति । भावार्थस्त्वेवम्-एके तीथिकाः सामान्यरूपमेव वाच्यतयाऽभ्युपगच्छन्ति । ते च द्रव्याऽस्तिकनयाऽनुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिञ्च विशेषरूपमेव वाच्यं निर्वचन्ति । ते चं पर्यायाऽस्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते । ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च । एतच्च पक्षत्रयमपि किञ्चित् 'चर्च्यते । तथाहि-संग्रहनयाऽवलम्बिनो वादिनः प्रतिपादयन्ति- सामान्यमेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् अविशेषेण सदितिज्ञानाऽभिधानाऽनुवृत्तिलिङ्गाऽनुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थाऽन्तरभूतानां धर्माधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः । किञ्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न वा । नो चेद-निःस्वभावताप्रसङ्गः । स्वरूपस्यैवाऽभावात् । अस्ति चेत्-तर्हि तदेव सामान्यम्। यतः समानानां भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव । १. 'लघ्वक्षरासखीदुत्स्वराद्यल्पस्वराज़मेकम्' ३।१।१६० । इति हैमशब्दानुशासनात् । २. 'अर्ध्यत्व' इति क. पुस्तकें पाठः । ३. श्रीभर्तृहरिकृतवाक्यपदीयस्य प्रथमकाण्डे श्लोक १२४ । ४. 'वाच्यतया शब्दार्थतया' इति क. पुस्तके पाठः । ५. विचार्यते । ६. गतिमतां गतेरुपग्रहो धर्मस्य लक्षणम् । स्थितिमतां स्थितेरुपग्रहोऽधर्मलक्षणम् । वर्तनालक्षण: कालः । द्रुमादिपुष्पोद्भेदादिनैयत्यहेतु । इति तत्त्वार्थाधिगमसूत्रस्य पञ्चमाऽध्याये । (९२ AAAAAAAAAAAA स्याद्वादमञ्जरी Page #119 -------------------------------------------------------------------------- ________________ अपिचविशेषाणांव्यावृत्तिप्रत्ययहेतुत्वंलक्षणम् । व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते । व्यावृत्तिर्हि - विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कथं पदार्थाऽन्तरप्रतिषेधे प्रगल्भते । नच स्वरूपसत्त्वादन्यत् तत्र किमपि येन तन्निषेधः प्रवर्तते । तत्र च व्यावृत्तौ क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वत्रयवर्तिनोऽतीतवर्तमानाऽनागताः पदार्थास्तस्माद् व्यवर्तर्नीयाः । ते च'नाऽज्ञातस्वरूपा व्यावर्तयितुं शक्याः । ततश्चैकस्याऽपि विशेषस्यपरिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् । न चैतत्प्रातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु-निषेधः । स चाऽभावरूपत्वात् तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् । तथा येभ्यो व्यावृत्तिः, ते सद्रूपा असद्रूपा वा । असद्रूपाश्चेत् तर्हि खरविंषाणात् किं न व्यावृत्तिः । सद्रूपाश्चेत्- सामान्यमेव । या चेयं व्यावृत्तिर्विशेषैः क्रियते-सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा अनेका चेत् तस्या अपि विशेषत्वाऽऽपत्तिः, अनेकरूपत्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्यथानुपपत्तेर्व्यावृत्त्या भाव्यम् । व्यावृत्तेरपि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरुपभूताया व्यावृतेः प्रतिषिद्धत्वात्, अनवस्थापाताच्च । एका चेत्-सामान्यमेवं संज्ञाऽन्तरेण प्रतिपन्नं स्यात्, अनुवृत्तिप्रत्ययलक्षणाऽव्यभिचारात् । किञ्च, अमी विशेषाः सामान्याद् भिन्ना अभिन्ना वा ? भिन्नाश्चेद् मण्डूकजटाभारा - नुकाराः । अभिन्नाश्चेत् तदेव, तत्स्वरूपवत् । इति “सामान्यैकान्तवादः । पर्यायनयाऽन्वयिनस्तु भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः । ततो विष्वग्भूतस्य सामान्यस्याऽप्रतीयमानत्वात् । नहि गवादिव्यक्त्यनुभवकाले 'वर्णसंस्थाना- त्मकं व्यक्तिरूपमपहाय, अन्यत्किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते । तादृशस्या- नुभवाऽभावात् । तथा च पठन्ति - १. 'अज्ञातस्वरूपा' इति क . पुस्तके पाठः । २. 'व्यावृत्तिश्च' इत क. ख. घ. पुस्तकेषु पाठः । ३. प्रतीतिगोचरं प्राप्नोति । ४. मण्डूके केशा न भवन्ति । तेन जटानामसंभवः । ५. 'सामान्यैकान्तः' इति क. ख. घ. पुस्तकेषु पाठः । ६. वर्णाकृतिरूपम् । संस्थानं आकृतिः । स्याद्वादमञ्जरी ९३ Page #120 -------------------------------------------------------------------------- ________________ "एतासु पञ्चस्ववभासनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु । साधारणं रूपमवेक्षते यः श्रृङ्गं शिरस्यात्मन ईक्षते सः' ।।१।। एकाऽऽकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यते । इति न तेन सामान्यसाधनं न्याय्यम् । किञ्च, यदिदं सामान्यं परिकल्प्यते-तदेकमनेकं वा । एकमपि सर्वगतमसर्वगतं वा । सर्वगतं चेत्- किं न व्यक्तयन्तरालेषूपलभ्यते । सर्वगतैकत्वाभ्युपगमे च तस्य-यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति', एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् । असर्वगतं चंद्-विशेषरूपाऽऽपत्तिः, अभ्युपगमबाधश्च । अथाऽनेकं गोत्वाश्वत्वघटत्वपटत्वाऽऽदिभेदभिन्नत्वात् ते तर्हि विशेषा एव स्वीकृताः। अन्योऽन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वाऽत्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् । तच्च विशेषेष्वेव स्फुटं प्रतीयते । नहि सामान्येन काचिदर्थक्रिया क्रियते । तस्य निष्क्रियत्वात् । वाहदोहादिकासु-अर्थक्रियास विशेषाणामेवोपयोगात्। तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा । भिन्नं चेद्-अवस्तु । "विशेषविश्लेषेणाऽर्थक्रियाकारित्वाऽभावात् । अभिन्नं चेद्-विशेषा एव, तत्स्वरूपवत् । इति विशेषैकान्तवादः । .. _ नैरामनयानुगामिनस्त्वाहु:स्वतन्त्रौ सामान्यविशेषौ । तथैव प्रमाणेन प्रतीतत्वात् । तथाहि- सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात्, यावेवं तावेवं, यथा पाथःपावको, तथा चेतौ, तस्मात् तथा । सामान्यं हि गोत्वाऽऽदि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयाऽऽदयो विशेषाः । ततः कथमेषामैक्यं युक्तम् । नसामान्यात् पृथग्विशेषस्योपलम्भइति चेत्, कथं तर्हि तस्योपलम्भइति वाच्यम्। सामान्यव्याप्तस्येति चेद्-न तर्हि स विशेषोपलम्भः । सामान्यस्याऽपि तेन ग्रहणात् १. अशोकविरचितसामान्यदूषणदिक्प्रसारिताग्रन्थे । २. व्याप्नोति । ३. 'ते' इति क. पुस्तके नास्ति । ४. वाहः शकटवहनम् । ५. विश्लेषः-वियोगः । ६. पाथः-उदकम् । . (१४)ANTRAAAAAAAAAAAA स्याद्वादमञ्जरी) Page #121 -------------------------------------------------------------------------- ________________ ततश्च तेन बोधेन विविक्तविशेषग्रहणाऽभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं नप्रवर्तयेत् प्रमाता । न चैतदस्ति । विशेषाऽभिधानव्यवहारयोः प्रवृत्तिदर्शनात् । तस्माद् विशेषमभिलषता, तत्र चव्यवहारंप्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । _एवं सामान्यस्थाने विशेषशब्दं, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बाधो विविक्तोऽङ्गीकर्तव्यः । तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्प्रतिभासमानत्वाद् द्वावपीतरेतरविशकलितौ । ततो न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः । तदेतत् पक्षत्रयमपि न क्षमते क्षोदम् । प्रमाणबाधितत्वात् । सामान्यविशेषोभयाऽऽत्मकस्यैव च वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्-अर्थक्रियाकारित्वम् । तञ्चाऽनेकान्तवादे एवाऽविकलं कलयन्ति परीक्षकाः । तथाहि-यथा गौरित्युक्ते खुरककुत्सास्नालालविषाणाद्यवंयवसंपन्न वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते । ___ यत्राऽपि च शबला गौरित्युच्यते, तत्राऽपि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । शबलेति केवलविशेषोच्चारणेऽपि, अर्थात् प्रकरणाद् वागोत्वमनुवर्तते ।अपिच, सबलत्वमपिनानारूपम् । तथादर्शनात् ।ततोवनाशबलेत्युक्ते . क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते । तदेवमाबालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषाऽत्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचित् कदाचित् केनचित् सामान्य विशेषविनाकृतमनुभूयते । विशेषा वा तद्विनाकृताः ।केवलंदुर्नयप्रभावितमतिव्यामोह १ 'तत्र' इति क. पुस्तके नास्ति । २ 'च' इति ख. पुस्तके नास्ति । ३ अनिन्द्यपद्धत्या । ४ अत्र ‘इति' पदमधिकं क. पुस्तके । स्याद्वादमञ्जरीkuttinkistan ९५ Page #122 -------------------------------------------------------------------------- ________________ वशादेकमपलप्याऽन्तरद् व्यवस्थापयन्ति बालिशाः । सोऽयगन्धगजन्यायः । येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गर प्रहारजर्जरित्वाद् नोच्छसितुमपि क्षमाः । - स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कथञ्चिद् भिन्नं, कथञ्चिदभिन्नं, कथञ्चित् तदात्मकत्वाद, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामाऽऽत्मकसामान्यदर्शनात् समानेति तेन समानो गौरयम्, सोऽनेन समान इति प्रतीतेः । न चाऽस्य व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः । यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः । कथञ्चिद् व्यतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याऽप्यस्त्येव । "पृथग्व्यपदेशाऽऽदिभाक्त्वात् । . . विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माऽध्यासः स्यात् । न च तस्य तत् सिद्धम् । प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथञ्चित् परस्पराऽव्यतिरे- केणैकाऽनेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण तेषामप्येकरूपता इति । . . . - एकत्वं च सामान्यस्य संग्रहनयाऽर्पणात् सर्वत्र विज्ञेयम् । प्रमाणाऽर्पणात् तस्य कथञ्चिद् विरुद्धधर्माऽध्यासितत्वम् । सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथञ्चित् प्रतिव्यक्तिभेदात् । एवं चाऽसिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माऽध्यासितत्वम् । १. जन्माऽन्थैर्दशभिर्यथाक्रमं पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा गजावयवाः स्पृष्टाः । ततः तेऽन्धाः स्वस्पृष्टरूपं स्तम्भाधाकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति • तदितरानिषेधयन्ति तद्वत् ।। २. खण्डनीयाः । . ३. 'कथंचिद्भित्रम्' इति रा. पुस्तके नास्ति । ४. 'प्रतीतिः' इत क. पुस्तके पाठः । . ५. 'व्यपदेश' इति क. पुस्तके पाठः । ६. 'तेषाम्' इति ख. पुस्तके पाठः । (९६ suntuk स्याद्वादमञ्जरी Page #123 -------------------------------------------------------------------------- ________________ कथञ्चिद् विरूद्धधर्माऽध्यासितत्वं चेद् विवक्षितम्-तदाऽस्मत्कक्षाप्रवेशः । कथञ्चिद् विरुद्धधर्माऽध्यासस्य कथञ्चिद् भेदाऽविनाभूतत्वात् । पाथः-पावकदृष्टान्तोऽपि साध्य- साधनविकलः । तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासः, भेदश्च । द्रव्यत्वादिना पुनस्तद्वैपरीत्यामिति । तथा च कथं न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते इति । ततः सुष्ठुक्तं वाच्यमेकमनेकरूपम् इति । । . एवं वाचकमपि शब्दाख्यं द्वयात्मकम्-सामान्यविशेषात्मकम् । सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकम् । 'शाङ्खशार्ङ्गतीव्रमन्दोदात्ताऽनुदात्तस्वरिताऽऽदिविशेषभेदादनेकम् । शब्दस्य हि सामान्यविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तमेव । तथाहि-पौद्गलिकः शब्दः, इन्द्रियाऽर्थत्वात् रूपादिवत् ।... यञ्चाऽस्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याऽश्रयत्वात् अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् पूर्व पश्चाञ्चाऽवयवाऽनुंपलब्धेः, सूक्ष्ममूर्तद्रव्याऽन्तराऽप्रेरकत्वाद्, गगनगुणत्वात् चेति पञ्च हेतवो योगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहिशब्दपर्यायस्याश्रयो भाषावर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयत एव । यथा शब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यपरमाणुवत्, इति-असिद्धः प्रथमः । द्वितीयस्तु-गन्धद्रव्येण व्यभिचारादनैकान्तिकः । वर्त्यमानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वाराऽपवरकस्यान्तर्विशति, बहिश्च निर्याति, न चाऽपौद्गलिकम् ।। अथ तत्र सूक्ष्मरन्ध्रसंभवाद् नाऽतिनिबिंडत्वम्, अतस्तत्र तत्प्रवेशनिष्क्रमौ । कथमन्योद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् । सर्वथा नीरन्ध्रे तु प्रदेशे न तयोः संभवः, इति चेत्-तर्हि शब्देऽप्येतत्समानम् इत्यसिद्धो हेतुः । तृतीयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि-तथैव । गन्धद्रव्यविशेषसूक्ष्मरजोधूमादि १. 'तद्विपरीतम्' इति रा. ख. घ. पुस्तकेषु पाठः । २. शङ्खः- कञ्जः-शृङ्ग-वाद्यविशेषः । उच्चैरुदात्त: । नीचैरनुदात्तः । समाहारः स्वरितः ।। ३. सजातीयवस्तुसमुदायो वर्गराशिर्वर्गणा । यां भाषार्थ जीवोऽवलम्बते यां च गृहीत्वा __चतुर्विधभाषात्वेन परिणमय्य विसृजति सा भाषावर्गणा ।। (स्याद्वादमञ्जरी ९७ ) Page #124 -------------------------------------------------------------------------- ________________ भिर्व्यभिचारात् । न हि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते । पञ्चमः पुनः-असिद्धः । तथाहि न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद्, रूपादिवत् । इति सिद्धः पौद्गलिकत्वात् सामान्यविशेषात्मकः शब्द इति । न च वाच्यम्-आत्मन्यपौद्गलिकेऽपि कथं सामान्यविशेषाऽऽत्मकत्वं निर्विवादमनुभूयत इति । यतः- संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिःसह वह्नितापिघनकुट्टित- निर्विभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथञ्चित् पौद्गलिकत्वाऽभ्यनुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगलिकमपौद्गलिकं च सर्वं वस्तु सामान्यविशेषात्मकं, तथाप्यपौद्गलिकेषु धर्माऽधर्माऽऽकाशकालेषु तदात्मत्वमर्वाग्दृशां न तथा प्रतीतिविषयमायाति । पौद्गलिकेषु पुनस्तत् साध्यमानं तेषां सुश्रद्धानम् । इत्यप्रस्तुतमपि शब्दस्य पौद्गलिकत्वमत्र सामान्यविशेषात्मकत्व-साधनायोपन्यस्तमिति । __ अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तः, अनित्यशब्दवाद्यभिमतः शब्दाऽनेकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिक्षेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्यविशेषाऽऽत्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् । शब्दार्थयोः कथञ्चित् तादात्म्याऽभ्युपगमात् । यदाहुर्भद्रबाहुस्वामिपादा: अभिहाणं अभिहेयाउ होइ भिण्णं अभिण्णं च । खुरअग्गिमोयगुयारणम्हि जम्हा उ वयणसवणाणं ।।१।। नवि छेओ नवि दाहो ण पूरणं तेण भिन्नं तु । जम्हा य मोयगुशारणम्हि तत्थेव पञ्चओ होइ ।।२।। न य होइ स अन्नत्थे तेण अभिन्नं तदत्थओ' एतेन 'विकल्पयोनयः शब्दा विकल्पा: शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि' ।।१।। १. अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । क्षुरा-ऽग्नि-मोदकोचारणे यस्मात् तु वदन श्रवणयोः ।। १ ।। नाऽपि च्छेदो नापि दाहो न पूरणम्, तेन भिन्नं तु । यस्माञ्च मोदकोच्चारेण तत्रैव प्रत्ययो भवति ।। २ ।। न च भवति अन्याऽर्थे तेनाऽभिन्नं तदर्थात् । (९८ स्याद्वादमञ्जरी Page #125 -------------------------------------------------------------------------- ________________ इति 'प्रत्युक्तम् । शब्दस्य ह्येतदेव तत्त्वं-यदभिधेयं याथात्म्येनाऽसौ प्रतिपादयति । . स च-तत् तथा प्रतिपादयन् वाच्यस्वरूपपरिणामपरिणत एव वक्तुं शक्यः, नाऽन्यथा, अतिप्रसङ्गात् । घटाऽभिधानकाले पटाऽऽद्यभिधानस्याऽपि प्राप्तेरिति । अथ वा भङ्गयन्तरेण सकलं काव्यमिदं व्याख्यायते-वाच्यं वस्तु, घटादिकम् । एकात्मकमेव-एकस्वरूपमपि सत्,अनेकम्अनेकस्वरूपम् । अयमर्थः-प्रमाता तावत् प्रमेयस्वरूपंलक्षणेन निश्चिनोति ।तञ्च सजातीयविजातीयव्यवच्छेदादात्मलाभलभते ।यथा घटस्य सजातीया मृण्मयपदार्थाः, विजातीयाश्च पटादयः । तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुनोदराद्याकार: कम्बुग्रीवोजलधारणाऽऽहरणादिक्रिया-समर्थः पदार्थविशेषोघट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्ध्या आरोग्य व्यवच्छिद्यते । अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदाऽनुपपत्तेः । सर्वभावानां हि भावाऽभावात्मकं स्वरूपम् । एकान्तभावाऽत्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् । एकान्ताऽभावाऽऽत्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सत्त्वात् पररूपेण चाऽसत्त्वाद् भावाऽभावाऽऽत्मकं वस्तु । यदाह 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । , . अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याऽप्यसंभवः' ।।१।। ... ततश्चैकस्मिन घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकाऽत्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञातें सर्वेषामर्थानां ज्ञानम् । सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधाऽऽत्मन एकस्य वस्तुनो विविक्ततया परिच्छेदाऽसंभवात् । आगमोऽप्येवमेव व्यवस्थितः 'जे एगं जाणइ से सव्वं जाणइ । जे सव् जाणइ से एगं जाणइ ' ।। १. 'अर्थाऽभिधानप्रत्ययास्तुल्यनामधेया' इति वचनात् । इति क. ह. पुस्तकयोरधिकम् । २. 'सतत्त्वं' इति ख. पुस्तके पाठः । ३. 'एकस्वरूपमेव' इति क. पुस्तके पाठः । ४. विभिन्नतया । स्याद्वादमञ्जरी Animun ९९) Page #126 -------------------------------------------------------------------------- ________________ तथा- ‘एको भावः सर्वथा येन दृष्टः । सर्वे भावाः सर्वथा तेन दृष्टाः ।। सर्वे भावाः सर्वथा येन दृष्टाः । एको भावः सर्वथा तेन दृष्टः' ।।१।। ये तु सौगताः पराऽसत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वाऽऽत्मकत्वप्रसङ्ग । तथाहि यथा घटस्य स्वरूपाऽऽदिना सत्त्वं, तथा यदि पररूपाऽऽदिनाऽपि स्यात्, तथा च सति स्वरूपाऽऽदिसत्ववत् पररूपाऽऽदिसत्प्रसक्तेः कथं न सर्वाऽऽत्मकत्वं भवेत् । पराऽसत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति पराऽसत्त्वं, किन्तु स्वसत्त्वमेव तदिति चेद्-अहो 'वैदग्धी ! न खलु यदेव सत्त्वं तदेवाऽसत्त्वं भवितुमर्हति । विधिप्रतिषेधरूपतया विरुद्धधर्माऽध्यासेनाऽनयोरेक्याऽयोगात् । . अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेद् अहो ! वाचाटता २देवानांप्रियस्य । नहि वयं येनैव प्रकारेण सत्त्वं, तेनैवाऽसत्त्वं येनैव चाऽसत्त्वं, तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम् । तदा कं विरोधाऽवकाशः । ___ यौगास्तु प्रगल्भन्ते-सर्वथा पृथग्भूतपरस्पराऽभावाऽभ्युपगममात्रेणैव पदार्थप्नतिनियमसिद्धेः, किं तेषामसत्त्वाऽत्मकत्वकल्पनया इति । तदसत्यथा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटाऽभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पटादेरपि स्यात्, घटाऽभावाद् भिन्नत्वादेव । इत्यलं विस्तरेण । • एवं वाचकमपि शब्दरूपं द्वयात्मकम्-एकात्मकमपि सदअनेकमित्यर्थः । अर्थोक्तन्यायेन शब्दस्याऽपि भावाऽभावाऽऽत्मकत्वात् । अथवा एकविषयस्याऽपि वाचकस्याऽनेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुनोदराद्या-कारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वंशादेव पदार्थान्त-रेष्वपि तथा वर्तमानः केन वार्यते ? भवन्ति हि वक्तारो १. वैदग्धी-चातुर्यम् । २. देवानांप्रियः-मूर्खः । ३. अर्थपरिपाट्यनुसारमित्यर्थः । ( १०० T ARRA स्याद्वादमञ्जरी Page #127 -------------------------------------------------------------------------- ________________ योगिनः-शरीरं प्रति घट इति संकेतानां पुरुषेच्छाऽऽधीनतयाऽनियतत्वात् । यथा चौरशब्दोऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानामोदने प्रसिद्धः । यथा चं कुमारशब्दः पूर्वदेशे अश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशाऽपेक्षया योन्यादिवाचका ज्ञेयाः । कालाऽपेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धा संहननादिमति प्राचीनकाले, षड्गुरुशब्देनशतमशीत्यधिकमुपवासानामुच्यते स्म, सांप्रतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देनउपवासत्रयमेव सङ्केत्यते, जीतकल्पव्यवहाराऽनु-सारात् । शास्त्राऽपेक्षया तु यथा पुराणेषु-द्वादशीशब्देनैकादशी । त्रिपुरार्णवे च-अलिशब्देन मदिराभिषक्तम् च मैथुनशब्देन मधुसर्पिषोर्ग्रहणम् इत्यादि । न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं, स्वाभाविकसामर्थ्यसाचिव्यादेवं तत्र १. दृढीक्रियन्ते शरीरपुद्रला: येन तत्संहननं । तञ्चास्थिनिचयः । कीलिकादिरूपाणामस्थां निचयो रचनाविशेषोऽस्थिनिचयः । शक्तिविशेष इत्यन्ये । तत्संहननं षट्प्रकारैर्भवति-१ वज्रऋषभनाराचं- द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यं वज्रनामकमस्थि यत्र भवति तऋषभनाराचम् । २ ऋषभनाराचं- कीलिकारहितं संहननं तंत् ऋषभनाराचम् । ३ नाराचं-मर्कटबन्धः केवलो भवति न पुनः कीलिका भवति ऋषभसंज्ञः पट्टश्च तनाराचम् । ४ अर्धनाराचंएकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवति तदर्धनाराचम् । ५ कीलिकाअस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननम् । ६ सेवार्त-यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च . परिशीलनां नित्यमपेक्षते तत्सेवार्तम् ।। श्रीजिनभद्रमगणिक्षमाश्रमणकृतो गाथाग्रन्थो जीतकल्पाख्यः । जीतमाचरितं तस्य कल्पो वर्णना प्ररूपणा जीतकल्पः । तत्राद्यगाथापञ्चकेन शास्त्रप्रस्तावनामभिधाय (४) चतसृभिर्गाथाभिराद्यस्य, (४) चतुसृभिर्द्वितीयस्य, (३) तिसृभिस्तृतीयस्य, (२) द्वाभ्यांचतुर्थस्य, (५) पञ्चभिःपञ्चमस्य, (५८) अष्टमपञ्चाशद्भिर्गाथाभिर्ज्ञानाचारादि (आदिशब्देन दर्शनाचारचारित्राचार-तपाचार-वीर्याचाराणां ग्रहणम्) पञ्चकातिचारगोचरस्य षष्ठस्य, (३) तिसृभिः सप्तमस्य, (४) चतसृभिरष्टमस्य, (७) सप्तभिर्नवमस्य, (९) नवभिर्दशमस्य प्रायश्चित्तस्य व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः । मूलसंख्या १०८, टीका १२०००, सेनकृतचूर्णिः (प्राकृतभाषाटीका) १०००, भाष्यम् ३१२४, सम्पूर्णसंख्या १६२३२। चूर्णिव्याख्या ११२०, अस्य लघुवृत्तिः श्रीसाधुरत्नकृता ५७०० श्रीतिलकाचार्यकृता च १५०० । ३. अयं शाक्तमार्गीयो ग्रन्थः ।। ४. 'मदिराभिषिक्ताने च' इति रा. पुस्तके पाठः । स्याद्वादमञ्जरी १०१) Page #128 -------------------------------------------------------------------------- ________________ तस्य प्रवृत्तेः, सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र तमर्थं प्रतिपादयति । तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादा:- “स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः' इति । अत्र शक्तिपदार्थसमर्थन ग्रन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्धं पूर्ववत् । प्रतिभाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य । प्रतिनियतार्थविषयत्वे च वाचकस्य उक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः । तदयं समुदायार्थः-सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभावात्मकश्च ध्वनिर्वाचक इति । अन्यथा-प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति, म तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते । . कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । 'अपोह एव शब्दार्थः' इत्येके । अपोहः, शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते' इति वचनात् । 'अपरे सामान्यमात्रमेव शब्दानां गोचरः । तस्य क्वचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतंविषयतोपपत्तेः । न पुनर्विशेषाः । तेषामानन्त्यतः कायेनोपलब्धुमशक्यतया तद्विषयताऽनुपपत्तेः । विधिवादिनस्तु विधिरेव वाक्यार्थः; अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्याचक्षते । विधिरपि-तत्तद्वादिविप्रतिपत्याऽनेकप्रकारः । तथाहि वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिरित्येके । तद्व्यापारो भावनाऽपरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे । प्रैषादय इत्येके । तिरस्कृतलदुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्माऽऽदयोऽपि वाच्याः । एतेषां निराकरणं सपूर्वोत्तरपदं न्यायकुमुदचन्द्रादसेयमिति । इति १. प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरिच्छेदे सू. ११ । २. 'इति' पदं. कं. ख. रा. ह. च. पुस्केषु नास्ति । ३. स्याद्वादरत्नाकरपरि. २ सू. १ इत्यादयः । ४. बौद्धाः । ५. 'च' इत्यधिकं क. ख. घ. ह. पुस्तकेषु । ६. अयं ग्रन्थः-भट्टाकलङ्कदेवकृतलधीयत्रयग्रन्थटीकात्मकः । इयं टीका दिगम्बराचार्यश्रीमाणिक्य नन्देरन्तेवासिना श्रीप्रभाचन्द्रेण प्रणीता । (१०२RANKaran स्याद्वादमञ्जरी Page #129 -------------------------------------------------------------------------- ________________ काव्यार्थः ।।१४।। इदानीं सांख्याऽभिमतप्रकृतिपुरुषाऽऽदितत्त्वानां विरोधाऽवरुद्धत्वं ख्यापयन्, तद्बालिशताविलसितानामपरिमितत्वं दर्शयति चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति; कियद् जडैर्न ग्रथितं विरोधि ।।१७।। चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता । अर्थशून्या-विषयपरिच्छेदबिरहिता । अर्थाऽध्यवसायस्य बुद्धिव्यापारत्वाद् - इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या । जडा अनवबोधस्वरूपा -इति द्वितीया । अम्बरादि- व्योमप्रभृतिभूतपञ्चकं शब्दादितन्मात्रजम्-शब्दादीनि यानि पञ्चतन्मात्राणि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्पन्नं, शब्दादितन्मात्रजम्-इति तृतीया । अत्र च शब्दो गम्यः । पुरुषस्य च प्रकृतिविकृत्यनात्मकस्याऽऽत्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च . कापिलाः " तस्माद् न बध्यते नापि मुच्यते, नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः' ।।१।। तत्रबन्धः-प्राकृतिकादिः । मोक्षः पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः-इति चतुर्थी । इतिशब्दस्य प्रकारार्थत्वाद्-एवंप्रकारमन्यदपि, विरोधीति विरुद्धं, पूर्वापरविरोधाऽऽदिदोषाऽऽघ्रातम् । जडैः- मूखैः, तत्त्वाऽवबोधविधुरधीभिः कापिलैः । कियन्न ग्रथितंकियद् न स्वशास्त्रेषूपनिबद्धम् । कियदित्यसूयागर्भम् । `तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संक्षेपार्थः । १. ईश्वरकृष्णोपरचितसांख्यकारिका ६२ । २. तत्कल्पितेत्यर्थः । (स्याद्वादमञ्जरी ॐ ॐ ४ १०३ Page #130 -------------------------------------------------------------------------- ________________ व्यासार्थस्त्वयम्-साङ्ख्यमते किल दुःखत्रयाऽभिहतस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम्। तत्राऽऽध्यात्मिकं द्विविधम्-शारीरं मानसं च । शारीरं-वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोधलोभ- मोहेाविषयाऽदर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं चेति । तत्राऽऽधिभौतिकं मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविक-यक्षराक्षसग्रहाद्यावेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतया, अभिसंबन्धो-अभिघातः । ___ तत्त्वानि पञ्चविंशतिः । तद्यथा-अव्यक्तम्-एकम् । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं व्यक्तम् । पुरुषश्च चिद्रूप इति । तथा च ईश्वरकृष्णः 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः' ।।१।। प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसां साम्याऽवस्था प्रकृतिः । प्रधानमव्यक्तमित्यनन्तरम् । तञ्च-अनादिमध्यान्तमनवयवं साधारणशब्दमस्पर्शमरूपमगन्धमव्ययम् । प्रधानाद्बुद्धिर्महदित्यपरपर्याया उत्पद्यते । योऽयमध्यवसायो गवादिषु प्रतिपत्तिः-एवमेतद् नान्यथा, गौरेवायं नावः, स्थाणुरेष नाऽयं पुरुष इत्येषा बुद्धिः । तस्यास्त्वष्टौ रुपाणि-धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि । अधर्माऽऽदीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि । बुद्धेः अहङ्कारः । स च-अभिमानात्मकः, अहं शब्देऽहं स्पर्शेऽहं रूपेऽहं गन्धेऽहं रसेऽहं स्वामी, अहमीश्वरः, असौ मया हतः, ससत्त्वोऽहममुं हनिष्यामी १. ईश्वरकृष्णकृतसांख्यकारिका ३ । . २. अनर्थान्तरं-पर्यायः । (१०४) didihindi स्याद्वादमञ्जरी . Page #131 -------------------------------------------------------------------------- ________________ त्यादिप्रत्ययरूपः । तस्मात्-पञ्च तन्मात्राणि शब्दतन्मात्रादीनि अविशेषरूपाणि सूक्ष्मपर्यायवाच्यानि । शब्दतन्मात्राद् हि शब्द एवोपलभ्यते, न पुनरुदात्तानुदात्तस्वरितकम्पितषड्जाऽऽदिभेदाः । षड्जादयः-शब्दविशेषादुपलभ्यन्ते । एवं स्पर्शरूपरसगन्धतन्मात्रेष्वपि योजनीयमिति। तत एव चाहङ्काराद् एकादशेन्द्रियाणि च । तत्र चक्षुः, श्रोत्रं, घ्राणं, रसनं त्वगिति पञ्च बुद्धीन्द्रियाणी । वाक्पाणिपादपायूपस्थाः पञ्च कमेन्द्रियाणि । एकादशं मन इति । . पञ्चतन्मात्रेभ्यश्च पञ्चमहाभूतान्युत्पद्यन्ते । शब्दतन्मात्रादाकाशं शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द स्पर्शगुणरूपम् । शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः। शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु'अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । .. अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने' ।।१।। इति । अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियद्वारेण सुखदु:खादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाऽऽकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलि:-'शुद्धोऽपि पुरुषः प्रत्यहं बौद्धमनुपश्यति तमनुपश्यन् अतदात्मकोऽपि तदात्मक इव प्रतिभासते' इति । मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदः । तथा च वाचस्पतिः-'सर्वो व्यवहर्ता आलोच्य नन्वहमत्राऽधिकृत-इत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यति । ततश्च प्रवर्तते, इति लोकत: सिद्धम् । तत्र कर्तव्यमिति योऽयं निश्चयचितिसन्निधाना-ऽऽपनचैतन्याया बुद्धेः सोऽध्यवसायो १. 'षड्जऋषभगान्धारा मध्यमः पंचमस्तथा । धैवतो निषधः सप्ततन्त्रीकण्ठोद्भवाः स्वराः' ।। इति अभिधानचिन्तामणौ ६-३७ ।। २. 'तद्यथा' इत्यधिकं ह. पुस्तके । ३. सांख्यतत्त्वकौमुद्याः प्रणेता वाचस्पतिः । तेन २३ तम्यां सांख्यकारिकायां निर्दिष्टमिदम् । स्याद्वादमञ्जरी ka r ii १०५) Page #132 -------------------------------------------------------------------------- ________________ बुद्धेरसाधारणो व्यापारः' इति । चिच्छक्तिसन्निधानाच्चाऽ चेतनाऽपि बुद्धिश्चेतनावतीवाऽऽभासते । 'वादमहार्णवोऽप्याह 'बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति । तदेव भोक्तृत्वमस्य, न त्वात्मनो विकाराऽऽपत्तिः' इति । तथाचासुरिः’ 'विविक्तेदृक्परिणती बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि । । १ । । विन्ध्यवासी त्वेवं भोगमाचष्टे 'पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ' । । १ । । न · च वक्तव्यम् - पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः ? मुचेर्बन्धनविश्लेषाऽर्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नाऽस्य प्रेत्यभावाऽपरनामा संसारोऽस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाऽऽश्रया सती बध्यते, संसरति, मुच्यते च, न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते, तत्फलस्य कोशलाभादेः स्वामिनि संबन्धात्, तथा भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे संबन्ध इति । १. वेदान्तग्रन्थविशेषः । किंच अयं ग्रन्थः- विक्रमीयदशमशताब्दीभाजां श्रीमदभयदेवसूरीणां श्वेताम्बरं जगच्छीयप्रद्युम्न सूरिशिष्यत्वेन प्रसिद्धानाम् । यथा प्रभावकचारित्रप्रशस्तौ'शिष्योऽस्याऽभयदेवसूरिरभवज्जाड्याऽन्धकारं हरन् । गोभिर्भास्करवत्परां विरचयन् भव्याप्तवर्गेच्छदम् ।। ग्रन्थो वादमहार्णवोऽस्य विदितः प्रौढ़ः प्रमेयोमिं (भ)त् । ' इति । दत्तेर्थ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ।। ४ ।। अत्र 'यद्यपि वाहमहार्णवस्तत्कृतित्वेन क्वचिदुल्लिखितो भाति तथापि दीर्घातिदीर्घवादमालजटिलां प्रस्तुतां (संमतितर्कस्य) टीकामेव वादमहार्णवत्वेन कल्पयन्ति केचित्' इति (संमतितर्कप्रस्तावना श्रीसुखलालबेचरदासकृता) । २. अयं सांख्याचार्य ईश्वरकृष्णगुरुपरम्परायामुपलभ्यते । ३. 'नानांश्रया' इति घ. पुस्तके पाठः । १०६४ ॐॐॐ स्याद्वादमञ्जरी Page #133 -------------------------------------------------------------------------- ________________ तदेतदखिलमालनालम् । चिच्छक्तिश्च, विषयपरिच्छेदशून्या चेति परस्परविरुद्ध वचः । चिती संज्ञाने; चेतनं, चित्यते वाऽनयेति चित् । सा चेत् स्वपरपरिच्छेदाऽऽत्मिका नेष्यते, तदा चिच्छक्तिरेव सा न स्यात्, घटवत् । न चामूर्तयाश्चिच्छक्तेर्बुद्धौ प्रतिबिम्बोदयो युक्तः तस्य मूर्तधर्मत्वात् । न च तथा परिणाममन्तरेण प्रतिसंक्रमोऽपि युक्त, कथञ्चित् सक्रियाऽऽत्मकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वाऽनुपपत्तेः, अप्रच्युतप्राचीनरूपस्य च सुखदुःखाऽदिभोगव्यपदेशाऽनर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तर- रूपाऽध्यासिततया सक्रियत्वाऽऽपत्तिः । स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनात् । अन्यथा कथमन्धोपलादौ न प्रतिबिम्बः । तथा परिणामाऽभ्युपगमे च बलादायातं चिच्छक्तेः कर्तृत्वं,साक्षाद्भोक्तृत्वं च । ... अथ अपरिणामिनी भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रलिसंक्रान्ते च तवृत्तिमनुभवति' इति पतञ्जलिवचनादौपचारिक एवायं प्रतिसंक्रम इति चेत् । तर्हि 'उपचार स्तत्त्वचिन्तायामनुपयोगी' इति प्रेक्षावतामनुपादेय एवायम् । तथा च प्रतिप्राणिप्रतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्यात् । न चेदं बुद्धरुपपन्नम् । तस्या जडत्वेनाऽभ्युपगमात् ।। अत एव जडा च बुद्धिः, इत्यपि विरुद्धम् । न हि जडस्वरूपायां बुद्धो विषयाऽध्यवसायः साध्यमानः साधीयस्तां दधाति । ननूक्तमचेतनापि बुद्धिश्चिच्छक्तिसान्निध्याचेतनावतीवाऽवभासत इति । सत्यमुक्तम् । अयुक्तं तूक्तम् । न हि चैतन्यवति पुरुषाऽऽदौ प्रतिसंक्रान्ते दर्पणस्य चैतन्याऽपत्तिः । चैतन्याचैतन्ययोरपरवर्तिस्वभावत्वेन 'शक्रेणाऽप्यन्यथाकर्तुमशक्यत्वात्। किञ्च, अचेतनापि चेतनावतीव प्रतिभासत इति इव शब्देनाऽऽरोपो ध्वन्यते । न चाऽऽरोपोऽर्थक्रियासमर्थः । न खल्वतिकोपनत्वादिना समारोपिताऽ १. अलीकभाषणसंरम्भ इत्यर्थः । २. 'चितै संज्ञाने । संज्ञानं संवित्तिः' इति हैमधातुपरायणे भ्वादिगणे धा. २७८ । ३. 'अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यथें प्रतिसंक्रान्तेव तवृतिमनुपतति' इति पातञ्जलयोगसूत्रोपरि व्यासभाष्यम् ४-२२ । ४. तत्त्वचिन्तायां लाक्षणिकोऽथों नोपयुज्यत इत्यर्थः । ५. इन्द्रेण । स्याद्वादमञ्जरी १०७ Page #134 -------------------------------------------------------------------------- ________________ ग्नित्वो माणवकः कदाचिदपि मुख्याऽग्निसाध्यां दाहपाकाद्यर्थक्रियां कर्तुमीश्वरः । इति चिच्छक्तेरेव विषयाध्यवसायो घटते न जडरूपया बुद्धेरिति । अतएव धर्माद्यष्टरूपताऽपि तस्या वाङ्मात्रमेव । धर्मादीनामात्मधर्मत्वात्। अत एव चाऽहङ्कारोऽपि न बुद्धिजन्यो युज्यते । तस्याऽभिमानात्मकत्वेनाऽत्मधर्मस्या ऽचेतनादुत्पादाऽयोगात् । अम्बरादीनां च शब्दादितन्मात्रजत्वं प्रतीतिपराहतत्वेनैव विहितोत्तरम् । ___अपि च, सर्ववादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात् तस्याऽप्याविर्भावमुद्भावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्न- संगतप्रलापीव प्रतिभाति । न च परिणामिकारणं स्वकार्यस्य गणो भवितुमर्हतीति 'शब्दगुणमाकाशम्' इत्यादि वाङ्मात्रम् । वागादीनां चेन्द्रियत्वमेव न युज्यते, इतराऽसाध्य- कार्यकारित्वाऽभावात् । परप्रतिपादनग्रहणविहरणमलोत्सर्गाऽऽदिकार्याणामितराऽवयवैरपि साध्यत्वोपलब्धेः । तथापि तत्कल्पेन इन्द्रियसंख्या न व्यवतिष्ठते, अन्याङ्गोपाङ्गा- नामपीन्द्रियत्वप्रसङ्गात् ।. यञ्चोक्तं 'नानाश्रयायाः प्रकृतेरेव बन्धमोक्षो संसारश्च । न पुरुषस्य' इति । तदप्यसारम् । अनादिभवपरम्पराऽनुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहण- लक्षणोऽविष्वाभावः स एव चेन्न बन्धः, तदा को नामान्यो बन्धः स्यात् ?. प्रकृतिः सर्वोत्पत्तिमतां निमित्तम् इति च प्रतिपद्यमानेनाऽऽयुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवस्वरूपत्वात्, अचेतनत्वाञ्च ।। __यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः । तद्यथा प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धी: पुरुषबुद्ध्योपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः । पुरुषतत्त्वाऽनभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति । '२इष्टांपूर्त मन्यमाना वरिष्ठं । नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः ।। १. तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ।।६२।। इति सांख्यकारिकायाम् । २. मुं. १।२।१० । (१०८Kakudurikar स्याद्वादमञ्जरी Page #135 -------------------------------------------------------------------------- ________________ नाकस्य पृष्ठे ते सुकृतेन भूत्वा । इमं लोकं हीनतरं वा विशन्ति' ।।१।। इति वचनात् । स त्रिविधोऽपि कल्पनामात्रम् । कथञ्चिद् मिथ्यादर्शनाऽविरतिप्रमादकषाययोगेभ्योऽभिन्नरूपत्वेन कर्मबन्धहेतुष्वेवाऽन्तर्भावात् । ___ बन्धसिद्धौ च सिद्धस्तस्यैव निर्बाधः संसारः । बन्धमोक्षयोश्चैकाधिकरणत्वाद् य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः, आबालगोपालं तथैव प्रतीतेः । __ प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणाऽवस्थानं मोक्ष इति चेत् । न, प्रवृतिस्वभावायाः प्रकृतेरौदासीन्याऽयोगात् । अथ पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः तस्यां जातायां निवर्तते, कृतकार्यत्वात् । _ 'रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ।।१।। इति वचनादितिचेद् । नैवम्,तस्या अचेतनाया विमृश्यकारित्वाऽभावात् । यथेयं कृतेऽपि शब्दाधुपलम्भे पुनस्तदर्थं प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्तिष्यते । प्रवृत्तिलक्षणस्य स्वभावस्याऽनपेतत्वात् । नर्तकीदृष्टान्तस्तु स्वेष्टविघातकारी, यथा हि नर्तकी नृत्यं 'पारिषदेभ्यो दर्शयित्वा निवृत्तापि पुनस्तत्कुतूहलात् प्रवर्तते, तथा प्रकृतिरपि पुरुषायाऽऽत्मानं दर्शयित्वा निवृत्ताऽपि पुनः कथं न प्रवर्ततामिति ? तस्मात् कृत्स्त्रकर्मक्षये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् । १. मिथ्या विपरीतं दर्शनं-मिथ्यादर्शनम् । अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः सा च द्वादशप्रकारा। मनः स्वान्तं, करणानि इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमोऽनियन्त्रणम् । तथा षण्णां । पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः । प्रमादः-प्रकर्षेण माद्यन्त्यनेनेति प्रमादः । विषयक्रीडाऽभिष्वङ्गः । कषायः-कष्यन्ते बध्यन्ते प्राणिनोऽनेनेति कषं कर्मभवो वा । तद् आयो लाभो येषां यतस्ततः कषायाः । यदि वा कलुषयन्तिं शुद्धस्वभावं सन्तं कर्ममलिन कुर्वन्ति जीवमिति कषायाः । ते चत्वारः क्रोधमानमायालोभाऽऽख्याः । । २. 'निर्वाधोऽयम्' इति क. पुस्तके पाठः । ३. सांख्यकारिका ५९ । ४. विमृश्यकारित्वं-विचारपूर्वकार्यकारित्वम् । ५. पारिषदाः-परिषद्भवाः सभ्याः । स्याद्वादमञ्जरीMARAutkukka १०९) Page #136 -------------------------------------------------------------------------- ________________ एवमन्यासामपि तत्कल्पनानां 'तमोमोहमहामोहतामिस्रान्धतामित्रभेदात् पञ्चधाऽविद्या- स्मितारागद्वेषाऽभिनिवेशरूपो विपर्ययः । ब्राह्मप्राजापत्यसौम्येन्द्रगान्धर्वयाक्षराक्षस- पैशाचभेदादष्टविधो दैवः सर्गः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधस्तैर्यग्योनः । ब्राह्मणत्वाद्यवान्तरभेदाऽविवक्षया चैकविधो मानुषः । इति चतुर्दशधा भूतसर्गः । बाधिर्यकुण्ठतान्धत्वजडताजिध्रतामूकताकोण्यपङ्गुत्वक्लैब्योदावर्तमत्ततारूपेकादर्शेन्द्रियवधतुष्टिनवक-विपर्ययसिद्ध्यष्टक-विपर्ययलक्षणसप्तदशबुद्धिवधभेदादष्टाविंशतिविधा शक्तिः । प्रकृत्युपादानकाल-भोगाऽऽख्या अम्भःसलिलौघवृष्टयपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः, शब्दादिविषयोपरतयश्चार्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयः । ताश्च पारसुपारपारापाराऽनुत्तमाम्भ- उत्तमाम्भःशब्दव्यपदेश्याः । इति नवधा तुष्टिः । त्रयो दुःखविधाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमानाऽऽख्या । तथाध्ययनं शब्द ऊहः सुहृत्प्राप्तिर्दानमिति दुःखविधातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यक- सदामुदिताऽऽख्याः । इत्येवमष्टधा सिद्धिः । धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः । इत्यादीनां ५संवरप्रतिसंवरादीनां च तत्त्वकौमुदीगौडपादभाष्यादिप्रसिद्धानां विरुद्धत्वमुद्भावनीयम् ।। इति काव्यार्थः ।।१५।। . इदानीं ये प्रमाणादेकान्तेनाऽभिन्नं प्रमाणफलमाहुः, चे य बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते तन्मतस्य विचार्यमाणत्वे 'विशरारुतामाह - न तुल्यकाल: फलहेतुभावो हेतौं विलीने न फलस्य भावः । १. सांख्यतत्वकौमुदी कारिका ४७ । २. सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४७ । ३.. सांख्यकांरिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ५३ । ४. सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४९।५०५१ ५. 'संचारप्रतिसंचारादीनाम्' इति क. पुस्तके पाठः । ६. विशरारुता-विनश्यमानता । ७. 'आहुः' इति क. ख. रा. पुस्तेकेषु पाठः । (११०) NATANAMANNARAN स्याद्वादमञ्जरी Page #137 -------------------------------------------------------------------------- ________________ न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्णं सुगतेन्द्रजालम् ||१६|| बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते । तथाच तत्सिद्धान्तः" उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्' । उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षाऽनुमानलक्षणं फलं, कार्यम् । कुतः ? अधिगमरूपत्वादिति परिच्छेदरुपत्वात् । तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृतेऽन्यद् 'ज्ञानफलम् अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । एतच्च न समीचीनम् । यतो यद्यस्मादे कान्तेनाऽभिन्नं तत्तेन सहैवोत्पद्यते । यथा घटेन घटत्वम् । तैश्च प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यते-प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताऽभेदे न घटते । नहि युगपदुत्पद्यमानयोस्तयोः सव्येतर 'गोविषाणयोरिव कार्यकारणभावो युक्तः, . नियतप्राक्कालभावित्वात् कारणस्य । नियतोत्तरकाल - भावित्वात् कार्यस्य । एतदेवाह - न तुल्यकालः । फलहेतुभावः इति । फलं कार्य; हेतुः कारणम्, तयोर्भावः स्वरूपम्, कार्यकारणभावः स तुल्यकालः समानकालो न युज्यत इत्यर्थः । । अथ क्षणाऽन्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याशङ्कयाह- हेतौ विलीने न फलस्य भावः इति हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात् । विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते । नान्यथा, अतिप्रसङ्गात् । किञ्च हेतुफलभावः सम्बन्धः, स च द्विष्ठ एव स्यात् । न चाऽनयोः क्षणक्षयैकदीक्षितो भवान् सम्बन्धं क्षमते । ततः कथम् 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याऽग्रहणे तदसंभवात् । १. धर्मकीर्तिप्रणीतन्यायबिन्दी परि. १ सू. १८ इत्यत्रैतदर्थकं शब्दजातम् । 'तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात्' । २. वामदक्षिणगोश्रृङ्गयोः । (स्याद्वादमञ्जरी ॐ के ॐ ॐ ॐ ४ १११ Page #138 -------------------------------------------------------------------------- ________________ 'द्विष्ठसंबन्धसंवित्तिर्नकरुपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम् ' ।।१।। इति वचनात् । यदपि धर्मोत्तरेण-‘'अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेः' इति न्यायबिन्दुसूत्रं विवृण्वता भणितम् ' नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः । येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम्' इत्यादि । तदप्यसारम् । एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयाऽयोगात्, व्यवस्थाप्यव्यवस्थापक भावस्यापि च संबन्धत्वेन द्विष्ठत्वादेकस्मिन्नसंभवात् । किञ्च, अर्थसारूप्यमर्थाऽऽकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत्, स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाऽऽकारता । किमर्थग्रहणपरिणामः, आहोस्विदर्थाऽऽकारधारित्वम् ? नाद्यः सिद्धसाधनात् । द्वितीयस्तु ज्ञानस्य प्रमेयाऽऽकारानुकर्णाज्जडत्वोपपत्त्यादिदोषाऽऽघ्रातः. । तन्न प्रमाणादेकान्तेन फलस्याऽभेदः साधीयान्। सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिद्ध्यति अतिप्रसङ्गात् । १. न्यायबिन्दौ प्रथमपरिच्छेदे सूत्रम् १९ पृ. २५ २६ । २. न्यायबिन्दुप्रथमपरिच्छेदे सूत्रम् २० । ३. न्यायबिन्दुप्रथमपरिच्छेदे २० सूत्रे स्वोपज्ञटीकायाम् । ४. 'अतिप्रसक्तेः' इति क पुस्तके पाठः । ११२ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐः स्याद्वादमञ्जरी Page #139 -------------------------------------------------------------------------- ________________ ननु प्रमाणस्याऽसारुप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्याऽपि प्रमाणफलव्यवस्थेति चेत् । नैवम्, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याऽनुपपत्तेः । कथं च प्रमाणस्य फलस्य चाऽप्रमाणफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत् प्रमाणाऽन्तरफलाऽन्तर-व्यावृत्त्याऽप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था न स्यात्, विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः। तस्मात् प्रमाणात् फलं कथञ्चिद्भिन्नमेवैष्टव्यं, साध्यसाधनभावेन प्रतीयमानत्वात् । . ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति। एवं योगाऽभिप्रेतः प्रमाणात् फलस्यैकान्तभेदोऽपि निराकर्तव्यः, तस्यैकप्रमातृतादात्म्येन प्रमाणात् कथञ्चिदभेदव्यवस्थितेः। प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिप्रतीतेः । य: प्रमिमीते स एवोपादत्ते, परित्यज्यति, उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् । इतरंथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लव: प्रसज्यत इत्यलम् । अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति सर्वं सत् क्षणिकम् । यतः सर्व तावद् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं गच्छद दृश्यते । तत्र येन स्वरूपेणाऽन्त्याऽवस्थायां घटादिकं विनश्यति तश्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादाऽनन्तरमेव तेन विनष्टव्यम्, इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतृतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्गराऽऽदिसंनिधानेऽपि स एष एव तस्य स्वभावः इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् । इति नैव विनश्यदिति । सोऽयम् ‘अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः' । तस्मात् क्षणद्वयस्थायित्वेनाऽऽप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति । स्यादेतत्, स्थावरमेव तत् स्वहेतोर्जातम्, परं बलेन विरोधकेन मुद्गराऽऽदिना . १. 'स्वहेतुतः' इति ह. पुस्तके पाठः ! २. कचिद् वणिक् द्रव्यमदित्सुः पत्रद्वारा प्रत्यहमुत्तमाय श्वस्तव धनं दास्य इति बोधयति तद्वत् । स्याद्वादमञ्जरी in d iauk १९३) Page #140 -------------------------------------------------------------------------- ________________ विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिष्यंते न च तद् विनश्यति स्थावरत्वात्, विनाशश्च तस्य विरोधिना बलेन क्रियते इति । न ह्येतत्सम्भवति जीवति च देवदत्तो, मरणं चाऽस्य भवतीति । अथ विनश्यति, तर्हि कथमविनश्वरं तद् वस्तु स्वहेतोर्जातमिति ? न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे कदाचिदपि नाशायोगाद्, दृष्टत्वाच्च नाशस्य, नश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पन्नमात्रमेव तद्विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तराऽनव-स्थायि, यथाऽन्त्यक्षणवर्ति घटस्य स्वरूपम्, विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति 'स्वभावहेतुः । यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् ? उच्यते-निरन्तरसदृशाऽपराऽपरोत्पादात्, अविद्यानुबन्धाच्च पूर्वक्षणत्वाभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाऽध्यवसायी प्रत्ययः प्रसूयते । अत्यन्तभिन्नेष्वपि रैलूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवायं ' स एवायम्' इति प्रत्ययः, तथेहांऽपि किं न संभाव्यते ? तस्मात् सर्वं सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम्, उत्तरक्षण उपादेयम्, इति पराऽभिप्रायमङ्गीकृत्याऽऽह-न तुल्यकालः इत्यादि । ते विशकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणात् जनयन्तः किं स्वोत्पत्तिकाले एव जनयन्ति, उत क्षणाऽन्तरे । न तावदाद्यः, समकालभाविनोर्युवतिकुचयोरिवोपादानोपादेयभावाऽभावात् । अतः साधूक्तम्न तुल्यकालः फलहेतुभावः इति । न च द्वितीयः तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तरक्षणजनने कुतः संभावनापि । न चानुपादानस्योत्पत्तिर्दृष्टा, अतिप्रसङ्गात्। इति सुष्ठु व्याहृतं हेतौ विलीने न फलस्य भावः इति । पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवलमत्र फलमुपादेयं हेतुरुपादानं तद्भाव उपादानोपादेयभाव इत्यर्थः । १. 'विनश्वरम्' 'इति क. पुस्तके पाठः । २. न्यायबिन्दौ - (पृ. ६५-७३) तथा स्वभावहेतोः प्रयोगः यत्सत्तत्सर्वमनित्यं यथा घटादिरिति । शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमत्तदनित्यमिति । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्वं कृतकत्वं वा । असंश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः । ३. पूर्व लूनाश्छिन्ना: कुशादयः पुनरुत्पद्यन्ते । ४. सूत्रविगलितमौक्तिकमालासदृशाः । ११४ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐॐॐॐॐॐ स्याद्वादमञ्जरी Page #141 -------------------------------------------------------------------------- ________________ यञ्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनाऽनन्तरमेव प्रलपितं तत् स्याद्वादवादे निरवकाशमेव, निरन्वयनाशवर्जं कथंचित्सिद्धसाधनात्, प्रतिक्षणं पर्यायनाशस्याऽनेकान्तवादिभिरभ्युपगमात् । यदप्यभिहितम्-न ह्येतत् संभवति-जीवति च देवदत्तो, मरणं चास्य भवतीति । तदपि संभवादेव न स्याद्वादिनां क्षतिमावहति । यतो जीवनं प्राणधारणं, मरणं 'चाऽऽयुर्दलिकक्षयः । ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीर्णानां क्षयादुपपन्नमेव मरणम् । न च वाच्यमन्त्याऽवस्थायामेव कृत्स्नायुऽऽर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति । तस्यामप्यवस्थायां 'न्यक्षेण तत्क्षयाऽभावात् । तत्रापि ह्यविशिष्टानामेव तेषां क्षयो न पुनस्तत्क्षण एव युगपत्सर्वेषाम्। इति सिद्धं गर्भादारभ्यं प्रतिक्षणं मरणम् । इत्यलं प्रसङ्गेन । अथवाऽपरथा व्याख्या-सौगतानां किलाऽर्थेन ज्ञानं जन्यते । तञ्च ज्ञानं तमेव स्वोत्पादकमर्थं गृह्णातीति, 'नाकारणं विषयः' इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । एतञ्च न चारु, यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि ज्ञानं नोत्पद्यते, तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे ज्ञानं समुत्पन्नं तत्राऽर्थोऽतीतः । पूर्वीपरकालभावनियतश्च कार्यकारणभावः । क्षणाऽतिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः, कारणस्य विलीनत्वात् । तद्विलये च ज्ञानस्य निर्विषयताऽनुषज्यते, कारणस्यैव युष्मन्मते तद्विषयत्वात् । निर्विषयं च ज्ञानमप्रमाणमेवाऽऽकाशकेशज्ञानवत् । ज्ञानसहभाविनश्चाऽर्थक्षणस्य न ग्राह्यत्वम्, तस्याऽकारणत्वात्। अत आह-न तुल्यकाल: इत्यादि । ज्ञानार्थयोः फलहेतुभावः कार्यकारणभावस्तुल्यकालो न घटते। ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानाऽनुत्पादकत्वात् । युगपद्भाविनोः कार्यकारणभावाऽयोगात् । अथप्राचोऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति। तन्न, यत आह-हेतौ इत्यादि । हेतावर्थरूंपे ज्ञानकारणे विलीने क्षणिकत्वानिरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभ: स्यात् । जनकस्याऽर्थक्षणस्याऽतीतत्वाद् निर्मूलमेव ज्ञानोत्थानं न स्यात् । जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि १. यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं परमाण्वात्मकम् । आयुःपरमाणुक्षय इत्यर्थः । २. न्यक्षेण-पूर्णतया । ३. 'ज्ञानकारणं विषयः' इति क्वचित्पाठः । स्याद्वादमञ्जरी initiatinian ११५) Page #142 -------------------------------------------------------------------------- ________________ ग्राह्यत्वाऽऽपत्तिः, तेषामपि ज्ञानजनकत्वात् । न चाऽन्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतृत्वं दृष्टं, मृगतृष्णाऽऽदौ जलाऽभावेऽपि जलज्ञानोत्पादात्, अन्यथा तत्प्रवृत्तेरसंभवात् । भ्रान्तं तज्ज्ञानमिति चेत् । ननु भ्रान्ताभ्रान्तविचारः स्थिरीभूय क्रियतां त्वया, सांप्रतं प्रतिपद्यस्व तावदनर्थजमपि ज्ञानम् । अन्वयेनाऽर्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेत् । न । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम्, अपि तु तद्भावेऽभावलक्षणो व्यतिरेकोऽपि । स चोक्तयुक्त्या नास्त्येव । योगिनां चातीताऽनागतार्थग्रहणे किमर्थस्य निमित्तत्वम्, तयोरसत्त्वात् । २ण णिहाणगया भग्गा पुंजो णत्थि अणागए । णिव्वुया णेव चिट्ठति आरग्गे सरिसवोवमा' ।। इति वचनात् । . निमित्तत्वे चार्थऽ क्रियाकारित्वेन सत्त्वादतीताऽ नागतत्वक्षतिः । न च प्राकाश्यादात्मलाभ एव प्रकाशकंस्य प्रकाशकत्वं; प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्याऽपि तत्प्रकाशकत्वात् । जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणस्याऽप्रामाण्यप्रसङ्गः, तस्याऽर्थाऽजन्यत्वात् । न चस्मृतिर्न प्रमाणम्, अनुमानप्रमाणप्राणभूतत्वात् । साध्यसाधनसम्बन्धस्मरणपूर्वकत्वात् तस्य । . - जनक़मेव च चेद् ग्राह्यम्, तदा स्वसंवेदनस्य कथं ग्राहकत्वम् । तस्य हि ग्राह्यं स्वरूपमेब । न च तेन तज्जन्यते, स्वाऽऽत्मनि क्रियाविरोधात् । ___तस्मात् स्वसामग्रीप्रभवयोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकभावसंभवाद् न ज्ञाननिमित्तत्वमर्थस्य । नन्वर्थाऽजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था । तदुत्पलितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्याऽतदाकारस्य च ज्ञानस्य सर्वार्थान प्रत्यविशेषात् सर्वग्रहणं प्रसज्येत । नैवम् । तदुत्पत्तिमन्तरेणाऽप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियताऽर्थप्रकाशकत्वोपपत्तेः । तदुत्पत्तावपि च योग्यताऽवश्यमेष्टव्या । अन्यथाऽशेषार्थसान्निध्ये तत्तदर्थाऽसांनिध्येऽपि १. अतःपरं 'एवमन्यतरेष्वप्यर्थेषु भावनीयम्' इत्यधिकं क. पुस्तके । २. न निधानगता भग्नाः पुंजो नास्त्यनागते । निर्वृत्ता नैव तिष्ठन्ति आराग्रे सर्षवोपमाः ।।१।। इति छाया । (१९६RANANASANSARANA स्याद्वादमञ्जरी Page #143 -------------------------------------------------------------------------- ________________ कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति 'कौतस्कुतोऽयं विभागः । - तदाकारता त्वाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गाद् ज्ञानस्य साकारत्वप्रसङ्गाञ्च । अर्थेन च मूर्तेनाऽमूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया । ततः 'अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात् प्रमेयाऽधिगतेः प्रमाणं मेयरूपता' ।।१।। इति यत् किञ्चिदेतत् । अपि च, व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् यदि व्यस्ते, तदा कपालाऽऽद्यक्षणो घटाऽन्त्यक्षणस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति । यथासंख्यं तदुत्पत्तेः तदाकारत्वाञ्च । अथ समस्ते, तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति, तयोरुभयोरपि सद्भावात् । ज्ञानरुपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वं प्रसज्येत, तयोर्जन्यजनक भावसद्भावात् । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्याम इति । . अथोत्तरार्धं व्याख्यातुमुपक्रम्यते । तत्र च बाह्यार्थनिरपेक्ष ज्ञानाद्वैतमेव ' ये बौद्धविशेषा मन्वते तेषां प्रतिक्षेपः । तन्मतं चेदम् । ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चं ज्ञानमात्रं परमार्थसत् । बाह्यार्थस्तु विचारमेव न क्षमते, तथाहिकोऽयं बाह्योऽर्थः किं परमाणुरूपः, स्थूलावयविरूपो वा । न तावत् परमाणुरूपः, प्रमाणाऽभावात् । प्रमाणं हि प्रत्यक्षमनुमानं वा । न तावत्प्रत्यक्षं तत्साधनबद्धकक्षम् । तद्धि योगिनां स्यात्, अस्मदादीनां वा । नाऽऽद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् । न द्वितीयम्, अनुभवबाधितत्वात् नहि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् । नाऽप्यनुमानेन तत्सिद्धिः । अणूनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य क्वापि लिङ्गे ग्रहीतुमशक्यत्वात् । १. कुतः कुत आगतः कौतस्कुतः । २. 'जडत्वप्रसंगाद्वा' इति क. पुस्तके पाठः । ३. प्रतिक्षेपः-खण्डनम् । स्याद्वादमञ्जरीM ARANA ११७) Page #144 -------------------------------------------------------------------------- ________________ किञ्च, अमी नित्या अनित्या वा स्युः । नित्याश्चेत्, क्रमेणार्थक्रियाकारिणो युगपद्वा ? । न क्रमेण स्वभावभेदेनाऽनित्यत्वापत्तेः । न युगपत्, एकक्षण एव कृत्स्नार्थक्रियाकरणात् क्षणाऽन्तरे तदभावादसत्त्वापत्तिः । अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा । क्षणिकाश्चेत्, सहेतुका निर्हेतुका वा । निर्हेतुकाश्चेत्, नित्यं सत्त्वमसत्त्वं वा स्यानिरपेक्ष' -त्वात् । अपेक्षातो हि कादाचित्क्रत्वम् । सहेतुकाश्चेत्, किं तेषां स्थूलं किंचित् कारणं परमाणवो वा । न स्थूलं परमाणुरूपस्यैव बाह्यार्थस्याऽङ्गीकृतत्वात् । न च परमाणवः, ते हि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणि कुर्युः । सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वा । नोत्पत्तिक्षणे, तदानीमुत्पत्तिमात्रव्यग्रत्वात् तेषाम् । अथ 'भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते' इति वचनाद् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेत्, एवं तर्हि रूपाणवो रसाणूनाम्, ते च तेषामुपादानं स्युः, उभयत्र भवनाऽविशेषात् । न च क्षणान्तरे, विनष्टत्वात् । अथाऽसन्तस्ते तदुत्पादकाः तर्हि एकं स्वसत्ताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाऽविशेषात् । सदसत्पक्षस्तु 'प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः' इति वचनाद्विरोधाघ्रात एव । तन्नाणवः क्षणिकाः । नापि कालान्तरस्थायिनः क्षणिकपक्षसदृक्षयोगक्षेमत्वात् । किञ्च, अमी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखाः तत्कारिणो वा । आद्ये खपुष्पवदसत्त्वापत्तिः । उदग्विकल्पे किमसद्रूपं सद्रूपमुभयरूपं वा ते कार्यं कुर्युः । असद्रूपं. चेत्, शशविषाणांदेरपि किं न करणम् । सद्रूपं चेत्, सतोऽपिकरणेऽनवस्था । तृतीयभेदस्तु प्राग्वद्विरोधदुर्गन्धः । तन्नाणुरूपोऽर्थः सर्वथा घटते । . नापि स्थूलावयविरूपः । एकपरमाण्वसिद्धौ कथमनेकतत्सिद्धिः तद्भावे च तत्प्रचयरूपः स्थूलावयवी वाङ्मात्रम् । किञ्च, अयमनेकाऽवयवाऽऽधार इष्यते । ते चावयवा यदि विरोधिनः, तर्हि नैकस्थूलावयवी, विरुद्धधर्माऽध्यासात् । अविरोधिनश्चेत् प्रतीतिबाधः, १. निरपेक्षत्वात्' इति ख पुस्तके नास्ति । २. 'कारणता' इति क. पुस्तके पाठः । (११८) K स्याद्वादमञ्जरी Page #145 -------------------------------------------------------------------------- ________________ एकस्मिन्नेव स्थूलावयविनि चलाऽचलरक्ताऽरक्तवृताऽनावृतादिविरुद्धाऽवयवानामुपलब्धेः ।अपिच असौतेषुवर्तमानः कात्स्न्येन एकदेशेन वा वर्तते । कात्येन वृत्तावेकस्मिन्नेवाऽवयवे परिसमाप्तत्वादनेकाऽवयववृत्तित्वं न स्यात् प्रत्यवयवं कात्स्येन वृत्तौ चावयविबहुत्वाऽऽपत्तेः । एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा तेंऽशास्ततो भिन्नाः, अभिन्ना वा । भिन्नत्वे पुनरप्यनेकांशवृत्तेरेकस्य कात्स्यैकदेशविकल्पा- ऽनतिक्रमादनवस्था । अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभाति, बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम् ‘स्वाऽऽकारबुद्धिजनका दृश्या नेन्द्रियगोचराः' । २अलङ्कारकारेणाप्युक्तम्-. .... 'यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत् संवेद्यते नीलं कथं बाह्यं तदुच्यते ? ॥'. . यदि बाह्योऽर्थो नास्ति, किंविषयस्तयं घटपटादिप्रतिभासः इति चेत् । ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितः, निर्विषयत्वात्, आकाशकेशज्ञानवत्, स्वप्नज्ञानवद् वेति । अत एवोक्तम् 'नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । गाह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।।१।। बाह्यो न विद्यते गर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाऽऽभासे प्रवर्तते' ।।२।। इति । तदेतत्सर्वमवद्यम्, ज्ञानमिति हि क्रियाशब्दः, ततो ज्ञायतेऽनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं, निर्विषयाया ज्ञप्तेरघटनात् । न चाऽकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यम् । तस्याप्येकान्तेन निर्विषयत्वाऽभावात् । न हि सर्वथाऽगृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः । १. 'बाधः' इति ख. घ. रा. पुस्तकेषु पाठः ।। २. प्रज्ञाकरगुप्तकृत; प्रमाणवार्तिकालङ्कारोख्यो बौद्धग्रन्थोऽस्ति । . स्याद्वादमञ्जरी indian १९९) Page #146 -------------------------------------------------------------------------- ________________ स्वप्नज्ञानमप्यनुभूतदृष्टाद्यर्थविषयत्वान्न निरालम्बनम् । तथा च 'महाभाष्यकार: ''अणुहूयदिठ्ठचिंतियसुयपयइवियारदेवयाणूवा । सुमिणस्य निमित्ताइं पुण्णं पावं च णाभावो' । ।१॥ यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चेत् । चिरं जीव, भ्रान्तिर्हि मुख्येऽर्थे क्वचिद् दृष्टे सति करणाऽपाटवादिनाऽन्यत्र विपर्यस्तग्रहणे प्रसिद्धा, यथा शुक्तौ रजतभ्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते, तर्हि प्रलीना भ्रान्ताऽभ्रान्तव्यवस्था । तथा च सत्यमेतद्वच: 'आशामोदकतृप्ता ये ये चाऽऽस्वादितमोदकाः । रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते ' ॥ १ ॥ । न चामून्यर्थदूषणानि स्याद्वादवादिनां बाधां विदधते । परमाणुरूपस्य, स्थूलावयविरुपस्य चार्थस्याऽङ्गीकृतत्वात् । यच्च परमाणुपक्षखण्डनेऽभिहितंप्रमाणाभावादिति । तदसत्, तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामपि कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः । यथा सन्ति परमाणवः, स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्तर्व्याप्तिः । न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः ३, स्थूलादपि सूत्रपटलादे: स्थूलस्य पटादेः प्रादुर्भावविभावनात्। आत्माकाशादेर ४पुद्गलत्वकक्षीकाराञ्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्कालादिसामग्रीस - १. इमे महाभाष्यकाराः युगप्रधानाचार्याः श्रीजिनभद्रगणिक्षमाश्रमणपादाः । एतै आवश्यकसूत्रस्य सामायिकांख्यस्य प्रथमाध्ययनस्य मूलसूत्रोपरि तदेव विशेषावश्यकसंज्ञकं गाथात्मकं भाष्यं रचितमस्ति । तत् महाभाष्यमभिधीयते तत्रेयं १७०३ परिमिता गाथा । २. छाया - अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदैविकाऽनूपाः वा । स्वप्रस्य निमित्तानि पुण्यं पापं च नाऽभावः ।।१७०३।। ३. एकान्तः - नियमः । ४. 'पुद्गलकार्यत्व' इति ह. पुस्तके पाठः । १२० ॐॐॐॐॐॐॐॐॐॐॐॐ स्याद्वादमञ्जरी Page #147 -------------------------------------------------------------------------- ________________ व्यपेक्षक्रियावशात् प्रादुर्भूतं संयोगाऽतिशयमपेक्ष्येयमवितथैव' । यदपि किञ्चाऽयमनेकाऽवयवाऽऽधार इत्यादि न्यगादि, तत्राऽपि कथञ्चिद्विरोध्यनेकाऽवयवाऽविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकाऽवयवाधारतायां विरुद्ध धर्माध्यासनमभिहितं तत्कथञ्चिदु पेयत एव । तावदवयवाऽऽत्मकस्य तस्याऽपि कथञ्चिदनेकरूपत्वात् । यचोपन्यस्तम्अपिच, असौ तेषु वर्तमानः कात्स्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् । अविष्वग्भावेनाऽवयविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च, यदि बाह्योऽर्थो नास्ति, किमिदानीं नियताऽऽकारं प्रतीयते नीलमेतत्, इति । विज्ञानाऽऽकारोऽयमिति चेत् । न, ज्ञानाद् बहिर्भूतस्य संवेदनात् । ज्ञानाऽऽकारत्वे तु 'अहं नीलम्' इति प्रतीतिः स्यान तु 'इदं नीलम्' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचिद् ‘अहम्' इति प्रतिभासः, कस्यचिद् 'नीलमेतत्' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमीति प्रतीयते तदेवाऽपरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः, सर्वैरप्येकरूपतया ग्रहणात् । भक्षितहत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभिचारः, तस्य भ्रान्तत्वात् । स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति चेत् । ननु किं परस्याऽपि संवेदनमस्ति, कथमन्यथा स्वशब्दस्य प्रयोगः, प्रतियोगिशब्दो ह्ययं परमपेक्षमाण एव प्रवर्तते । स्वरूपस्याऽपि भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त ! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः । भ्रान्तं प्रत्यक्षमिति चेत् । ननु कुत एतत् । अनुमानेन ज्ञानाऽर्थयोरभेदसिद्धेरिति चेत् । किं तदनुमानमिति पृच्छामः । यद्येन सह नियमेनोपलभ्यते तत् ततो न भिद्यते, यथा सञ्चन्द्राद सञ्चन्द्रः, नियमेनोपलभ्यते च ज्ञानेन सहाऽर्थः, इति व्यापकानुपलब्धिः प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भाऽनियमस्तस्यानुपलब्धिः भिन्नयोर्नीलपीतयोर्युगपदुपलम्भनियमाऽभावात्, इत्यनुमानेन तयोरभेदसिद्धिरिति चेत् । न, संदिग्धानकान्तिकत्वेनास्यानुमानाऽऽभासत्वात् । ज्ञानं हि स्वपरसंवेदनम्, तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसंवेदनतामात्रेणैव च नीलबुद्धिम् । तदेवमनयोर्युगपदग्रहणात्सहो१. 'अविरुद्धैव' इति क. पुस्तके पाठः ।। २. हत्पूरः पित्तरोगकरः फलविशेषस्तद्भक्षणेन पित्तपीतिम्ना सर्वे पदार्थाः पीता इव भासन्ते । स्याद्वादमञ्जरी randik i nititi १२१) Page #148 -------------------------------------------------------------------------- ________________ पलम्भनियमोऽस्ति, अभेदश्च नास्ति । इति सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धाऽनैकान्तिकत्वम् । __ असिद्धश्च सहोपलम्भनियमः 'नीलमेतत्' इति बहिर्मुखतयाऽर्थेनाऽनुभूयमाने तदानी- मेवाऽन्तरस्य नीलाऽनुभवस्याऽननुभावात् । इति कथं प्रत्यक्षस्याऽनुमानेन ज्ञानार्थयोरभेदसिद्ध्या भ्रान्तत्वम् । अपि च, प्रत्यक्षस्य भ्रान्तत्वेनाऽबाधितविषयत्वादनुमानस्याऽऽत्मलाभः, लब्धात्मके चाऽनुमाने प्रत्यक्षस्य भ्रान्तत्वम्, इत्यन्योन्याश्रयदोषोऽपि दुर्निवारः । अर्थाऽभावे च नियतदेशाऽधिकरणा प्रतीतिः कुतः । न हि तत्र विवक्षितदेशेऽयमारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । वासनानियमात्तदारोपनियम इति चेत् । न,तस्या अपि तद्देशनियम- कारणाभावात्। सति ह्यर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवः तद्देशा च तत्पूर्विका वासना । बाह्यार्थाऽभावे तु तस्याः किंकृतो देशनियमः । अथाऽस्ति तावदारोपनियमः । न च कारणविशेषमन्तरेण कार्यविशेषो घटते । बाह्यश्चाथो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत् तासनावैचित्र्यं बोधाऽऽकारादन्यत्, अनन्यद्वा । अनन्यचेत् । बोधाऽऽकारस्यैक- त्वात्कस्तासां परस्परतो विशेषः । अन्यचेत् । अर्थे कः प्रद्वेषः, येन सर्वलोकप्रतीतिरपह्वयते । तदेवं सिद्धो ज्ञानार्थयोर्भेदः। तथा च प्रयोग:-विवादाऽध्यासितं नीलादि ज्ञानाव्यतिरिक्तं, विरुद्धधर्माऽध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः । ज्ञानस्याऽपरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् । ज्ञानस्यात्मनः सकाशात्, अर्थस्य च स्वकारणेभ्य उत्पत्तेः । ज्ञानस्य प्रकाशरूपत्वात्, अर्थस्य च जडरूपत्वादिति । अतो न ज्ञानाऽद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानाऽर्थप्रतीतिः कथमपि 'सङ्गतिमङ्गति । न च दृष्टमपह्नोतुं शक्यमिति । अत एवाऽह स्तुतिकार:-न संविदद्वैतपथेऽर्थसंवित् इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तु-स्वरूपमनयेति संवित् । स्वसंवेदनपक्षेतु संवेदनं संवित् ज्ञानम्, तस्या अद्वैतम्, द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थिकेऽणि, न द्वैतमद्वैतम्, बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवैकं तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम्यत इत्यर्थः, तस्य पन्था मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याह नार्थसंवित् । येयं १. अङ्गति-प्राप्नोति । २. 'प्रज्ञादिभ्योऽण्' हैमसूत्र ७-२-१६५ । (९२२) ardhakikat स्याद्वादमञ्जरी Page #149 -------------------------------------------------------------------------- ________________ बहिर्मुखतयाऽर्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः । एतच्चाऽनन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह-विलूनशीर्णं सुगतेन्द्रजालम् इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातम इन्द्रजालमिवेन्द्रजालं, मितव्यामोहविधातृत्वात्, सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम्-पूर्व विलून पश्चात् शीर्णं विलूनशीर्णम् । यथा किञ्चित् तृणस्तम्बादि विलूनमेव शीर्यते विनश्यति, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारायुक्तिशत्रिकया छिन्नं सद् विशीर्यत इति । अथवा यथा निपुणेन्द्रजालिक-कल्पितमिन्द्रजालमवास्तव तत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धंजनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलूनशीर्णतां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्कालाभेदक्षणक्षयज्ञानार्थहेतुकत्वाऽज्ञानाद्वैताऽभ्युपगमाऽऽदि सर्वं प्रमाणानभिज्ञं लोकं व्यामोहयमानमपि युक्या विचार्यमाणं "विशरारुतामेव सेवत इति । अत्र च सुगतशब्द उपहासाऽर्थः । सौगता हि शोभनं गतं ज्ञानमस्येति सुगत इत्युशन्ति । ततश्चाऽहो ? तस्य शोभनज्ञानता, येनेत्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थः ।।१६।। .. .. . अथ तत्त्वव्यवस्थापकप्रमाप्पाऽऽदिचतुष्टव्यवहारापलापिनः शून्यवादिनः सौगत- जातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याऽङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमताऽर्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाह विना प्रमाणं परवन्न शून्या स्वपक्षसिद्धेः पदमश्नुवीत | कुप्येत्कृतान्त: स्पृशते प्रमाण महो ! सुदृष्टं त्वदसूयिदृष्टम् ।।१७।। १. 'विधायित्वात्' इति क. ह. पुस्तकयोः पाठः । २. तीक्ष्णधारायुक्तशस्त्रिका । बरच्छीति भाषायाम् । ३. 'दुर्विदग्ध' इति ह. पुस्तके पाठः । ४. विशरारुता-विशीर्णशीलता । . ५. उशन्ति-इच्छन्ति स्याद्वादमञ्जरीnindi १२३) Page #150 -------------------------------------------------------------------------- ________________ शून्यः शून्यवादी प्रमाणं प्रत्यक्षाऽऽदिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगत- शून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्रुवीत न प्राप्नुयात् । किंवत्, परवत-इतरप्रामाणिकवत् । वैधयेणाऽयं दृष्टान्तः । यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमश्रुवते, एवं नायम् । अस्य मते प्रमाणप्रमेयाऽदिव्यवहारस्याऽपारमार्थिकत्वात् 'सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्याऽऽरूढेन धर्मधर्मिभावेन न बहिःसदसत्त्वमपेक्षते' इत्यादिवचनात् । अप्रमाणकश्च शून्यवादाऽभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविष्यति । प्रेक्षावत्त्वव्याहतिप्रसंगात् । अथ चेत् स्वपक्षसंसिद्धये किमपि प्रमाणमयमङ्गीकुरुते, तत्रायमुपालम्भः-कुप्येदित्यादि, प्रमाणं प्रत्यक्षाद्यन्यतमत् स्पृशते आश्रयमाणाय, प्रकरणादस्मै शून्यवादिने, कृतान्तस्तत्सिद्धान्तः तत्कोपं कुर्यात् सिद्धान्तबाधः स्यादित्यर्थः । यथा किल सेवकस्य विरुद्धवृत्त्या कुंपितो नृपतिः सर्वस्वमपहरति, एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं प्रमाणव्यवहारमङ्गीकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वमपहरति । . . . ___किञ्च, स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते, इति स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपक्षसिद्धिः, प्रमाणाऽङ्गीकरणात् । किञ्च, प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयमपि विशीर्णम् । ततश्चाऽस्य मूकतैव युक्ता, न पुनः शून्यवादोपन्यासाय 'तुण्डताण्डवाडम्बरं, शून्यवादस्याऽपि प्रमेयत्वात् । अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुआनस्य सूरेरयमभिप्रायःयद्यसौ शून्यवादी दूरे प्रमाणस्य सर्वथाऽङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तो यमराजः कुप्येत्, तत्कोपो हि मरणफलः । ततश्च स्वसिद्धान्तविरुद्धामसौ प्रमाणयन् निग्रहस्थानाऽऽपनत्वाद् मृत एवेति । एवं सति ।अहो इत्युपहासप्रशंसायाम् । तुभ्यमसूयन्ति गणेषु दोषानाविष्कुर्वन्तीत्येवं शीलास्त्वदसूयिनस्तत्रान्तरीयास्तैदृष्टंमत्यज्ञानचक्षुषा निरीक्षितमहो । सुदृष्टं-साधु दृष्टम् । विपरीतलक्षणयोपहासान सम्यग् दृष्टमित्यर्थः । अत्राऽसूयधातोस्ताच्छीलिकणक्प्राप्तावपि बाहुलकाण्णिन् । असूयाऽस्त्येषामित्यसूयिनस्त्वय्यसूयिनस्त्वदसूयिन इति मत्वर्थीयाऽन्तं वा । त्वदसूयुदृष्टमिति पाठेऽपि न किञ्चिदचारु, असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुद्ध्यादौ मत्सरिणि प्रयोगादिति । १. तुण्डं-आननम् । ताण्डवं-नर्तनम् । आडम्बरम्-आटोपः । . (१२४) TAAR स्याद्वादमञ्जरी Page #151 -------------------------------------------------------------------------- ________________ इह शून्यवादिनामयमभिसंधिः-प्रमाता, प्रमेयं, प्रमाणं, प्रमितिरिति तत्त्वचतुष्टयं परपरिकल्पतमवस्त्वेव, विचाराऽसहत्वात्, तुरङ्गशृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः । तथाहि न प्रत्यक्षेण तत्सिद्धिः, इन्द्रियगोचरातिक्रान्तत्वात्। यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम्, तदप्यनैकान्तिकम्, तस्याऽहं गौरः, श्यामो वेत्यादौ शरीराऽऽश्रयतयाप्युपपत्तेः । किञ्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात् आत्मनः सदा सन्निहितत्वात्, कादाचित्कं हि ज्ञानं, कादाचित्ककारणपूर्वकं दृष्टम् । यथा सौदामिनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गग्रहणात्-। आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्ततरेणाऽपरेण स एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम्, इति नास्ति प्रमाता । प्रमेयं च बाह्योऽर्थः, स चाऽनन्तरमेव बाह्याऽर्थप्रतिक्षेपक्षणे निर्लोठितः । प्रमाणं च स्वपराऽवभासि ज्ञानम्, तञ्च प्रमेयाऽभावे कस्य ग्राहकमस्तु, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम्, तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत । आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्रावभासेरन् । समकालत्वाविशेषात् । "द्वितीये तु, निराकारम्, साकारम्, वा तत्स्यात् । प्रथमे, प्रतिनियतपदार्थपरिच्छेदाऽनुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा "ज्ञानात् । अव्यतिरेके, ज्ञानमेवाऽयम्, तथा च निराकारपक्षदोषः । व्यतिरेके, यद्ययं चिद्रूपस्तदानीमाकारोऽपि वेदक: स्यात्तथा. चायमपि निराकारः साकारो वा तद्वेदको भवेत् इत्यावर्त्तनेनाऽनवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापक: स्यात् । प्राचीने विकल्पे, चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्याऽपि ज्ञानं स्यात्, इत्याद्यावृत्तावनस्थैवेति । १. अभिसंधिः-समाधानम् । २. 'वेत्यादि' इति ह. पुस्तके पाठ: । । ३. सौदामिनी-विद्युत् । ४. द्वितीयेऽपि' इति क. पुस्तके पाठः । ५. 'स्यात्' इति घ. पुस्तके पाठ: । स्याद्वादमञ्जरी ruin १२५) Page #152 -------------------------------------------------------------------------- ________________ इत्थं प्रमाणाऽभावे तत्फलरूपा प्रमितिः कुतस्तनी, इति सर्वशून्यतैव परं तत्त्वमिति । तथा च पठन्ति 'यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम्' ।।१।। इति पूर्वपक्ष: । विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् । अत्र प्रतिविधीयते ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम्। तत् शून्यम्, अशून्यम् वा ? । शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नाऽनेन किञ्चित्साध्यते, निषिध्यते वा । ततश्च निष्प्रतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था । अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः । भवद्वचनेनैव सर्वशून्यताया व्यभिचारात्, तत्राऽपि निष्कण्टकैव सा भगवती । तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित् तत्साधनं दूष्यते । तत्र यत्तावदुक्तम् प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचराऽतिक्रान्तत्वादिति, तत्सिद्धसाधनम्। यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् । ‘अहं सुखी' ‘अहं दुःखी' इति - अन्तर्मुखस्य प्रत्ययस्य आत्माऽलम्बनतयैवोपपत्तेः । तथा चाऽऽहु: 'सुखादि' 'चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । मतुबंर्थाऽनुवेनुधात्तु सिद्धं ग्रहणमात्मनः । । १ । । इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ।।२ । । ' यत्पुनः ‘अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते । यथा-प्रियभृत्येऽहमितिव्यपदेशः । १. अयं ग्रन्थः केन प्रणीत इति न ज्ञायते । २. चेत्यमानम्-ज्ञायमानम् । १२६ॐॐॐॐॐॐॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #153 -------------------------------------------------------------------------- ________________ यच्च, अहंप्रत्ययस्य कादाचित्कत्वम्, तत्रेयं वासना आत्मा तावदुपयोगलक्षणः, स च साकाराऽनाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव तस्य च कर्मक्षयोपशमवैचित्र्यात् इन्द्रियानिन्द्रियाऽऽलोकविषयाऽऽदिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथाबीजं सत्यामप्यङ्क रोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसंमवहितमेवाङ्कुरं जनयति । नाऽन्यथा । न चैतावता तस्याऽङ्कुरोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरपि कादाचित्की । तस्याः कथंचिन्नित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचित्कत्वम् । यदप्युक्तम्-तस्या व्यभिचारि लिङ्गं किमपि नोपलभ्यत इति । तदप्यसारं, साध्याऽविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धेः । तथाहि रूपाद्युपलब्धिः सकर्तृका, क्रियात्वात्, छिदिक्रियावत् । यश्चाऽस्याः कर्ता स आत्मा । न चाऽत्र चक्षुरादीनां कर्तृत्वम् । तेषां कुठारादिवत् करणत्वेनाऽस्वतंत्रत्वात् । करणत्वं चैषां पौद्गलिकत्वेनाऽचेतनत्वात्, परप्रेर्यत्वात्, प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात् । यदि 'हि, इन्द्रियाणामेव कर्तृत्वं स्यात्, तदा तेषु विनष्टेषु पूर्वानुभूताऽर्थस्मृतेः, 'मया दृष्टम्, स्पृष्टम्, घ्रातम्, आस्वादितम्, श्रुतम्' इति प्रत्ययानामेककर्तृकत्वप्रतिपत्तेश्च' कुतः संभवः । किञ्च इन्द्रियाणां स्वस्वविषयनियतत्वेन रुपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रुपग्रहणाऽनन्तरं तत्सहचरितरसाऽनुस्मरणम्, दन्तोदकसंप्लवाऽन्यथाऽनुपपत्तेः । तस्मादुभयोर्गावाक्षयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दर्शी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि, यश्चैषां व्यापारयिता स आत्मा । तथा, साधनोपादानपरिवर्जनद्वारेण हिताऽहितप्राप्तिपरिहार समर्था चेष्टा प्रयत्नपूर्विका, विशिष्टक्रियात्वात्, रथक्रियावत् । शरीरं च प्रयत्नवदधिष्ठितम्, विशिष्टक्रियाऽऽ श्रयत्वात्, रथवत् । यश्चास्याऽधिष्ठाता, स आत्मा, सारथि-व -वत् । तथात्रैव पक्षे, इच्छाऽऽधीननिमेषोन्मेषोन्मेषवदवयवयोगित्वाद्, दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभग्नसंरोहणं च प्रयत्नवत्कृतम् वृद्धिक्षतभग्नसंरोहणत्वाद्, गृहवृद्धिक्षतभग्नसंरोहणवत् । वृक्षादिगतेन वृद्ध्याऽदिना व्यभिचार इति चेत् । न । तेषामपि एकेन्द्रियजन्तुत्वेन साऽऽत्मकत्वात् । १ 'हि' इति क. ख. रा. पुस्तकेषु नास्ति । २ 'प्रतीतेश्च' इति ख. पुस्तके पाठः । स्याद्वादमञ्जरीॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १२७ Page #154 -------------------------------------------------------------------------- ________________ यश्चैषां कर्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्व'माचाराङ्गादेरवसेयम्, किंचिद्वक्ष्यते च । ___ तथा प्रेर्यं मनः, अभिमतविषयसम्बन्धनिमित्तक्रियाऽऽश्रयत्वाद, दारकहस्तगतगोलकवत्। यश्चाऽस्य प्रेरकः, स आत्मा, इति । तथा, आत्मचेतनक्षेत्रज्ञजीव *पुरुषादयः पर्याया न निर्विषयाः, पर्यायत्वाद्, घटकुटकलशादिपर्यायवत, व्यतिरेके षष्ठभूतादि । यश्चैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात्, यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके खरविषाणनभोऽम्भोरुहादयः । तथा सुखाऽऽदीनि द्रव्याश्रितानि, गुणत्वाद्; रूपवत्, योऽसौ गुणी, स आत्मा । इत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः । आगमानां च येषां पूर्वापरविरुद्धार्थत्वम्, तेषामप्रामाण्यमेव । “यस्त्वाप्तप्रणीत आगमः, स प्रमाणमेव, कर्ष-च्छेद-तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं "पुरस्ताद्वक्ष्यामः । न च वाच्यमाप्तः क्षीणसर्वदोषः । तथाविधं चाऽऽप्तत्वं कस्यापि नास्तीति । यतः रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावरकजलदपटलवत् । तथा चाऽऽहु: 'देशतो नाशिनो भावा दृष्टा निखिलनश्वराः । मेघपङ्क्तयादयो यद्वत् एवं रागादयो मताः' ।।१।। इति । . १. 'आचाराङ्गात्' इति क. पुस्तकें पाठः । आचाराङ्गसूत्रश्रुतस्कंध १ अध्ययन १ उद्देश ५ । . २. श्लोक २९ । . ३.. 'पुद्गलादयः' इति क. पुस्तके पाठः । ४. 'समस्तपर्यायवाच्यत्वात्' इति क. पुस्तके पाठः । ५. आगमो ह्याप्तवचनमाप्तदोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयादेव संभवात् ।। १ ।। __इत्यधिकं क. पुस्तके । ६. तापाच्छेदानिकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात् ।। १ ।। ___ इत्यधिकं क. पुस्तके । ७. श्लोक. ३२ प्र. ४. (१२०ntr asta स्याद्वादमञ्जरी) Page #155 -------------------------------------------------------------------------- ________________ यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः ।अथ अनादित्वाद् रागादीनां कथं प्रक्षयः ? इति चेत् । न /उपायतस्तद्भेदात् । अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् । तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूत रत्नत्रयाभ्यासेन विलयोपपत्तेः । क्षीणदोषस्य च केवलज्ञानाऽव्यभिचारात् सर्वज्ञत्वम् । तत्सिद्धिस्तुज्ञानतारतम्यं क्वचिद् विश्रान्तम्, तारतम्यत्वात् । आकाशे परिणामतारतम्यवत् । तथा सूक्ष्माऽन्तरितदूराऽर्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, क्षितिधरकन्धराधिकरणधूमध्वजवत् । एवं चन्द्रसूर्योपरागादि सूचकज्योतिर्ज्ञानाविसंवादाऽन्यथानुपपत्तिप्रभृतयोऽपि हेतवो वाच्याः । तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् । 'रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । . यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ?' ।।१।। इति वचनात् । प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति सिद्ध आगमादप्यात्मा, 'एगे आया' इत्यादि वचनात्, तदेवं प्रत्यक्षानुमानाऽऽगमैः सिद्धः प्रमाता । प्रमेयं चानन्तरमेव बाह्याऽर्थसाधने साधितम् । तत्सिद्धौ च 'प्रमाणं ज्ञानम्, तञ्च प्रमेयाऽभावे कस्य ग्राहकमस्तु निर्विषयत्वात्' इति प्रलापमात्रम् । करणमन्तरेण क्रियासिद्धेरयोगाद्, 'लवनादिषु तथा दर्शनात् । यञ्च, अर्थसमकालमित्याद्युक्तम् । तत्र, विकल्पद्वयमपि स्वीक्रियत एव। अस्मदादिप्रत्यक्षं हि समकालार्थाऽऽकलनकुशलम्, स्मरणमतीताऽर्थस्य ग्राहकम्, शब्दानुमाने च त्रैकालिकस्याऽप्यर्थस्य परिच्छेदके । १ ज्ञानदर्शनचारित्राणि रत्नत्रयम् । २ उपरागः-चन्द्रसूर्ययो राहुकृतं ग्रहणम् । ३ स्थानाङ्गसूत्र १ स्थाने १ सूत्रे । ४ लवनं-छेदनम् । स्याद्वादमञ्जरीindianRRRRRRA १२९) Page #156 -------------------------------------------------------------------------- ________________ निराकारं चैतद् द्वंयमपि । न चातिप्रसङ्गः, स्वज्ञानाऽऽवरण वीर्याऽन्तरायक्षयोपशमविशेषवशादेवाऽस्य नैयत्येन प्रवृत्तेः । शेषविकल्पानामस्वीकार एव तिरस्कारः । प्रमितिस्तु, प्रमाणस्य फलं स्वसंवेदनसिद्धैव । न ह्यनुभवेऽप्युपदेशाऽपेक्षा । फलं च द्विधा, आनन्तर्यपारम्पर्यभेदात्, । तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम्, पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम्, शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम् । ततश्च'नासत्र सन्न सदसन्न चाऽप्यनुभयाऽऽत्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विदुः ॥१॥ इत्युन्मत्तभाषितम् । किञ्च, इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावदेष्टव्यम्, तचाऽसौ. प्रमाणाद् अभिमन्यते, अप्रमाणाद्वा । न तावदप्रमाणात् तस्याऽकिञ्चित्करत्वात् । अथ प्रमाणात्, तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृत्तम्, असांवृत्तं वा स्यात् । यदि 'सांवृत्तम्, कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः, तथा च वास्तव एव समस्तोऽपि प्रमात्रादिव्यवहारः प्राप्तः । अथ तम्राहकं प्रमाणं स्वयमसांवृत्तम्, तर्हि क्षीणा प्रमात्रादिव्यवहाराऽवास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धो विरोधः । इति काव्यार्थः ।।१७।। ___ अधुंनाःक्षणिकवादिन ऐहिकामुष्मिकव्यवहाराऽनुपपन्नाऽर्थसमर्थम विमृश्यकारितं दर्शयन्नाह १. वीर्यान्तरायः कर्मविशेषः-यस्योदये सति उत्साहप्रतिघातो भवति तद्रूपत्वं वीर्यान्तरायस्य लक्षणम् । क्षयोपशमः-ज्ञानादिघातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता' . इति क्षयोपशमावुच्येते, ताभ्यां निर्वृत्तोऽप्यवसायः क्षायोपशमिक इति । २. अनिरूपिततत्त्वाऽर्था प्रतीतिः संवृत्तिर्मता । ३. 'तदसिद्धौ' इत्यधिकं क. ह पुस्तकयो । ४. 'क्षणिकवादिनाम्' इति घ. पुस्तके पाठः । ५. 'अविमर्श' इति घ. पुस्तके पाठः । ‘अविमृश्यकारिताकारितम्' इति क. ख. पुस्तकयोः पाठः । (१३० NARAARRRRRRRANA स्याद्वादमञ्जरी) Page #157 -------------------------------------------------------------------------- ________________ कृतप्रणाशाऽकृतकर्मभोगभव-प्रमोक्ष-स्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन् अहो ! महासाहसिक: परस्ते ||१८|| कृतप्रणाशदोषम्, अकृतकर्मभोगदोषम्, भवभङ्गदोषम्, प्रमोक्षभङ्गदोषम्, स्मृतिभङ्गदोषमित्येतान् दोषान् । साक्षादित्यनुभवसिद्धान्, उपेक्ष्याऽनादृत्य, साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः । सर्वभावानां क्षणभङ्गम्उदयाऽनन्तरविनाशरूपां क्षणक्षयिताम्, इच्छन् प्रतिपद्यमानः, ते तव, परः प्रतिपक्षी वैनाशिकः सौगत इत्यर्थः । अहो ! महासाहसिकः-सहसा अविमर्शाऽऽत्मकेन बलेन, वर्तते साहसिकः । भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते, महांश्चासौ . साहसिकश्च महासाहसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारी । इति मुकुलिताऽर्थः । विवृताऽर्थस्त्वयम्-बौद्धा बुद्धिक्षणपरम्परामात्रमेवाऽऽत्मानमामनन्ति न पुनौक्तिक- कणनिकराऽनुस्यूतैकसूत्रवत्, तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम्, तस्य निरन्वयविनाशान तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलाऽनुपंभोगात् । उत्तरज्ञानक्षणस्य चाऽकृतकर्मभागो स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश १. 'बन्ध' इति क. पुस्तके पाठ: । २. 'दोषान्' इति पदं नास्ति क. ख. घ. रा. पुस्तकेषु । ३. गजो नेत्रे निमील्य जलपानादि करोति नेत्रनिमीलनेन न किंचित्करोमीति भावयति च, तद्वदयं वादी कृतप्रणाशादीन् दोषान् साक्षादनुभवन् सर्वभावानां क्षणभङ्गुरतां प्रतिपद्यते । ४. संक्षिप्तार्थः । ५. 'कृतकर्मणा इत्यर्थः' इति क. पुस्तके पाठः । स्याद्वादमञ्जरी stunnium १३१) Page #158 -------------------------------------------------------------------------- ________________ इत्यर्थो दृश्यः । 'बन्धानुलोम्याञ्चेत्थमुपन्यासः । __ तथा भवभङ्गदोषः-भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः क्षणिकवादे प्रसज्यते परलोकाऽभावप्रसङ्ग इत्यर्थः । परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्माऽनुसारेण भवति । तञ्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मान्तरे । यञ्च मोक्षाकरगुप्तेन 'यश्चित्तं तश्चित्ताऽन्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि'इति भवपरम्परासिद्धये प्रमाणमुक्तम्, तद् व्यर्थम् । चित्तक्षणानां निरवशेषनाशिनां चित्ताऽन्तरप्रतिसंधानाऽयोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयाऽनुगामिना केनचित् क्रियते । यश्चाऽनयोः प्रतिसंधाता, स तेन नाभ्युपगम्यते स ह्यात्मान्वयी । न च प्रतिसंधते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । नेन वादिनाऽस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात्, स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचित्ताऽन्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाऽभावापत्तिः, युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियामकम्, यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य जननमर्थः । सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याऽभावात् । भिन्नकालत्वे च, पूर्वचित्तलक्षणस्य विनष्टत्वाद् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ? इति यत्किञ्चिदेतत् । ___ तथा प्रमोक्षभङ्गदोषः-प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भंङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दु:खं स्वरसनाशित्वात् तेनैव सार्धं दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः । १. श्लोकाक्षराधिक्येन वृत्तविधातो मा भवत्वतश्छन्दः-शास्रानुरोधात् कृतकर्मप्रणाश इत्यर्थे कृतेप्रणाश ___ इति श्लोके शब्दनिवेश इत्यर्थः । २. 'विनाशिनाम्' इति क. रा. ह. पुस्तकेषु पाठः । ३. 'भङ्गमाप्नोति' इति क. पुस्तके पाठः । (१३२ स्याद्वादमञ्जरी Page #159 -------------------------------------------------------------------------- ________________ अपिच बौद्धाः' निखिलवासनोच्छेदेविगतविषयाऽऽकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः' इत्याहुस्तञ्च न घटते, कारणाऽभावादेव तदनुपपत्तेः- भावनाप्रचयो हि तस्य कारणमिष्यते, स च स्थिरैकाऽऽश्रयाऽभावाद् विशेषाऽनाधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाभ्यासक्त् अनासादितप्रकों न स्फुटाभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेवतस्य । समलचित्तक्षणानां स्वाभाविक्या: सदृशाऽऽरम्भणशक्तेर-सदृशाऽऽरम्भं प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणा: २, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाऽधिकरणौ; नविषयभेदेन वर्तते । तत्कस्येयं मुक्तिर्य एतदर्थ प्रयतते । अयं हि मोक्षशब्दो बन्धनच्छेदपर्यायः । मोक्षश्च तस्यैव घटते यो बद्धः,,क्षणक्षयवादे त्वन्यः क्षणो बद्धः । क्षणाऽन्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाऽभावः ।। तथा स्मृतिभङ्गदोषः, तथा हि-पूर्वबुद्धानुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात्, सन्तानाऽन्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्येत स्मरणाऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः । तस्याः स्मरणाऽनुभवोभयसंभवत्वात्- पदार्थप्रेक्षणप्रबुद्धप्राक्तन-संस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते। किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव च स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानाऽन्तराणां स्मृतिर्न भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम्, एवमपि अन्यत्वस्य तदवस्थत्वात्, न हि कार्यकारणभावाऽभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः अथ 'यस्मित्रेव हि सन्ताने आहिता कर्मवासना। .. फलं तत्रैव संधत्ते कासे रक्तता यथा' ।।१।। इति कर्पासे रक्ततादृष्टान्तोऽस्तीतिचेत् । तदसाधीयः, साधनदूषणयोरसम्भवात्, । १. सर्व क्षणिकं सर्वं क्षणिकमिति धारावाहिकबुद्धिरूपा भावनास्तासां प्रचयः समुदायः । २. परिनिर्वाण:-लयः । ३. कुत: कुत आगता प्रत्यभिज्ञाया: प्रसूतिः-उत्पत्तिः । ४. असंगतम् । स्याद्वादमञ्जरी AMARNAMAAAAAAAA(१३३) Page #160 -------------------------------------------------------------------------- ________________ तथाहि- अन्वयाद्यसम्भवान्न साधनम् । न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कर्पासे रक्ततावदित्यन्वयः सम्भवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाञ्च न दूषणम् । नहि, ततोऽन्यत्वात् इत्यस्य हेतोः कर्पासे रक्ततावत् इत्यनेन कश्चिद्दोष: प्रतिपाद्यते । किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याऽऽचार्यादि- बुद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् । अथ नाऽयं प्रसङ्गः, एकसंतानत्वे सतीति विशेषणादिति चेत् । तदप्ययुक्तम्, भेदाऽभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किञ्चिदतिरिक्तमुक्तं स्यात् । भेदे तु पारमार्थिकः, अपारमार्थिको वाऽसौ स्यात् ? अपारमार्थिकत्वेऽस्य तदेव दूषणम्, अकिञ्चित्करत्वात् । पारमार्थिकत्वे, स्थिरो वा स्यात्, क्षणिको वा ? | क्षणिकत्वे, 'संतानिनिर्विशेष एवायम्, इति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणानुकरणिना । स्थिरश्चेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च, अनुमानस्याऽनुत्थानमित्युक्तम् प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण-प्रत्यर्पणाऽऽदिव्यवहारा विशीर्येरन्'इत एकनवते कल्पे शक्तया मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ।। १ ।। इति वचनस्य का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, तदेवमनेकदोषाऽपातेऽपि यः क्षणभङ्गभिप्रेति, तस्य महत् साहसम् । इति काव्यार्थः । । १८ ।। अथ तांथागताः क्षणक्षयपक्षे सर्वव्यवहाराऽऽनुपपत्तिं परैरुद्भावितामाकर्ण्य, इत्थं 'प्रतिपादयन्ति यत् पदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन एहिकाऽऽमुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशाऽऽदिदोषा निरवकाशा एव, इति । तदाकूतं परिहर्तुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाऽभेदाऽनु-भयलक्ष पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाऽभिप्रेतभेदाऽभेदद- स्याद्वादमकाम-यमानानपि १. संताननिर्विशेष इत्यपि पाठः । २. 'प्रतिपादयिष्यन्ति' इति क. ख. घ. रा. पुस्तकेषु पाठः । ३. 'सर्वपदार्थानाम्' इति क पुस्तके पाठः । १३४४७४४ ॐ ॐ ॐ ॐ ॐः स्याद्वादमञ्जरी Page #161 -------------------------------------------------------------------------- ________________ तानङ्गीकारयितुमाह सा वासना सा क्षणसन्ततिश्च नाऽभेद-भेदाऽनुभयैर्घटेते । ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु ।। १९ । । सा शास्त्रपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योऽन्याऽनुस्यूतप्रत्ययजनिका, एकसूत्रस्थानीया सन्तानापरपर्याया वासना । वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः । सा च, क्षणसन्ततिस्तद्दर्शनप्रसिद्धा । प्रदीपकलिकावद् नवनवोत्पद्यमानाऽपराऽपरसदृशक्षणपरम्परा, ते द्वे अपि अभेद-भेदाऽनुभयैर्न घटेते न तावदभेदेन तादात्म्येन, ते घटेते । तयोर्हि अभेदे, वासना वा स्यात् क्षणपरम्परा वा । न द्वयम्, यद्धि यस्मादभिन्नं न तत् ततः पृथगुपलभ्यते, यथा घटाद् घटस्वरूपम् । केवलायां वासनायामन्वयिस्वीकारः, वास्याऽभावे च किं तया वासनीयमस्तु । इति तस्या अपि न स्वरूपमवतिष्ठते । क्षणपरम्परामात्राऽङ्गीकरणे च ' प्राञ्च एव दोषाः । न च भेदेन ते युज्येते । सा हि भिन्ना वासना क्षणिका वा स्यात्, अक्षणिका वा। क्षणिका चेत् । तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनावैयर्थ्यम् । अक्षणिका चेत् । अन्वयिपदार्थाऽभ्युपगमेनाऽऽगमबाधः, तथा च पदार्थाऽन्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । अनुभयपक्षेणाऽपि न घटेते । स हि कदाचित् एवं ब्रूयात्, नाहं वासनायाः क्षणश्रोणितोऽभेदं प्रतिपद्ये, न च भेदं किंत्वनुभयमिति । तदप्यनुचितम्, भेदभेदयोर्विधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्याऽवश्यं विधिभावात् अन्यतर १. पूर्वोक्ता अष्टादशश्लोकोक्ताः । २. 'पृथक् कल्पनं व्यर्थम्' इति ख. ह. घ. रा. पुस्तकेषु पाठः । ३. केवलं संकटपरम्परेत्यर्थः । . स्याद्वादमञ्जरी ४. १३५ Page #162 -------------------------------------------------------------------------- ________________ पक्षाभ्युपगमः, तत्र. च प्रागुक्त एव दोषः । अथवाऽनुभयरूपत्वेऽवस्तुत्वप्रसङ्गः, भेदाऽभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गाऽन्तरस्य नास्तित्वात् । अनार्हतानां हि वस्तुना भिन्नेन वा भाव्यम्, अभिनेन वा । तदुभयाऽतीतस्य वन्ध्यास्तनन्धयप्रायत्वात् । एवं विकल्पत्रयेऽपि क्षणपरम्परा- वासनयोरनुपपत्तौ पारिशेष्याद् भेदाऽभेदपक्ष एव कक्षीकरणीयः। न च 'प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः ।' इति वचनादत्राऽपि दोषतादवस्थ्यमिति वाच्यं 'कुक्कुटसर्पनरसिंहाऽऽदिवद् जात्यन्तरत्वादनेकान्तपक्षस्य । ननु आर्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाऽभेदचिन्ता चरितार्था इति चेत् । नैवम् । स्याद्वादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिरभिमतेव, तथा च क्षणिकत्वम् । अतीताऽनागतवर्तमानपर्यायपरम्पराऽनुसंधायकं चाऽन्वयिद्रव्यम्, तञ्च वासनेति संज्ञान्तरभाक्त्वेऽप्यभिमतमेव । न खलु नामभेदाद् वादः कोऽपि कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयिद्रव्यात् कथंचिद् भिन्ना, कथंचिदभिन्ना च । तथा तदपि तस्याः स्याद् भिन्नं स्यादभिन्नम् । इति पृथक्प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च संकलाऽऽदेशविकलाऽऽदेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः । ___ अपि च, बौद्धमते वासनाऽऽपि तावन्न घटते, इति निर्विषया तत्र भेदादिविकल्प चिन्ता। तल्लक्षणं हि- पूर्वक्षणेनोत्तरक्षणस्य वास्यता | न चाऽस्थिराणां भिन्नकालतयोऽन्योन्याऽसंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य १. 'अवश्यम्' इति क. ह. पुस्तकयोरधिकम् । २. यथा नरसिंहे नरत्वसिंहत्वोभयजातिव्यतिरिक्तं नरसिंहत्वाख्यं जात्यन्तरम् । तद्वदित्यर्थः । कुक्कुटसर्पोऽपि कश्चन कुक्कुटत्वसर्पत्वेत्युभयजातिव्यतिरिक्त: कुक्कुटसर्पत्वजातिमान् प्राणिविशेषः स्यात् । ३. कोविदाः-पण्डिताः । ४. त्रयोविंशश्लोके (१३६)NNNNNNNN A स्याद्वादमञ्जरी) Page #163 -------------------------------------------------------------------------- ________________ संबद्धस्य च वस्त्रादेर्मुगमदाऽऽदिना' वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना । तथाहि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षड्विधं । पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति । तदपि न, अस्थिरत्वाद्वासकेनाऽसंबन्धाञ्च । यश्चासौ चेतनाविशेष: पूर्वचित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति वर्तमानस्याशक्यापनेयापनेयत्वेनाऽविकार्यत्वात्, तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यनागते उपकारं करोति । तेन सहाऽसंबद्धत्वात्, असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनाऽपि न घटते । अत्र च स्तुतिकारेणाभ्युपेत्याऽपि ताम्, अन्वयिद्रव्यव्यवस्थापनाय भेदाऽभेदादिचर्चा विवरितेति भावनीयम् । __अथोत्तराऽर्धव्याख्या-तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तनि भवद्वचनानि भेदाऽभेदस्याद्वादसंवादपूतानि, परे कुतीर्थ्याः प्रकरणात् "मायातनयाः, श्रयन्तु आद्रियन्ताम्। अत्रोपमानमाह । तटादशीत्यादि-तटं न पश्यतीति तटाऽदर्शी, यः शकुन्तपोतः पक्षिशावकः, तस्य न्याय उदाहरणम्, तस्मात् । यथा किल कथमप्यपारावारान्तः पतितः काकादिशकुनिशावको बहिर्निर्जगमिषया प्रवहणकूपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डीनः, समन्ताज्जलैकार्णवमेवावलोकयंस्तटमदृष्ट्वैव निर्वेदाद व्यावृत्त्य तदेव कूपस्तम्भादिस्थानमाश्रयते । गत्यन्तराऽभावात् । एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थं भेदाऽभेदपक्षमनिच्छयाऽपि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । नहि स्वस्य बलिविकलतामाकलय्य बलीयसः प्रभोः शरणाऽऽश्रयणं दोषपोषाय नीतिशालिनाम् । त्वदुक्तानीति बहुवचनं सर्वेषामपि तन्त्रान्तरीयाणां पदे पदेऽनेकान्तवाद १. मृगमदः-कस्तूरिका । २. 'भेदाऽभेदचर्चा' इति क. पुस्तके पाठः । ३. 'विरचितेति' ह. क. पुस्तकयोः पाठः । ४. 'विभावनीयम्' इति ख. पुस्तके पाठः । ५. 'मायासूनवीयाः' इति क. ह. पुस्तकयोः पाठः । ६. उद्वेगात् । स्याद्वादमञ्जरी M a uritish १३७) Page #164 -------------------------------------------------------------------------- ________________ प्रतिपत्तिरे व यथावस्थितपदार्थप्रतिपादनौपयिकं नान्यदिति ज्ञापनार्थम् । अनन्तऽऽधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयाऽऽत्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात् । इतरथाऽन्धगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित्पठन्ति, तत्राप्यदोषः । अत्र च समुद्रस्थानीयः संसारः, "पोतसमानं त्वच्छासनम्, कूपस्तम्भसंनिभः स्याद्वादः, पक्षिपोतोपमा वादिनः, ते च स्वाभिमतपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटप्राप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धिमपश्यन्तो व्यावृत्त्य स्याद्वादरूपकूपस्तम्भाऽलङ्कृत- तावकीनशासनप्रवहणोपसर्पणमेव यदि शरणीकुर्वते, तदा तेषां भवार्णवाद् बहिनिष्क्रमणमनोरथः सफलतां कलयति, नाऽपरथा इति काव्यार्थः ।।१९।।. . एवं क्रियावादिनां "प्रावादुकानां कतिपयकुग्रहनिग्रहं विधाय सांप्रतमक्रियावादिनां लोकायतिकानां मतं 'सर्वाधमत्वादन्त उपन्यस्यन्, तन्मतमूलस्य प्रत्यक्षप्रमाणस्याऽनुमानाऽऽदिप्रमाणाऽन्तराऽनङ्गीकारेऽकिंचित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति विनाऽनुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । १. 'अनेकधर्मात्मनः सर्वस्यापि' इति क. पुस्तके पाठः । २. अन्धगजन्याय: (९६). पत्रे द्रष्टव्यः । ३. लक्षणं-१ किंचिन्मात्रग्राहिण: २ पल्लवग्राहिण: ३ त्वरितग्राहिणः एवमेषा दुर्विदग्धपर्षत् त्रिविधा भणिता । तेषु पल्लवग्राहिणीमाह 'नय कत्थइ निम्मातो ण य पुच्छइ परिभवस्स दोसेणं । वत्थीव वायपुण्णो फुट्टइ गामिल्ल गवियड्ढो ।। ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धो न च कुत्रचिनिर्मातः सर्वत्र पल्लवमात्रग्राहित्वात् । न च परं पृच्छति परिभवो मे भविष्यतीति । परिभवस्य दोषेण केवलं वस्तिरिव वातपूर्णः पण्डितोऽयमिति लोकप्रवादगर्वितः स्फुटति स्फुटनिव तिष्ठति' । इति सभाष्या बृहत्कल्पवृत्तिः उ. ए. प्र. १ । ४. 'पोतसमम्' इति क. पुस्तके पाठः । . ५. प्रावादुका:-वाग्मिनः । ६. लौकायतिकाः-चार्वाकाः । (१३८ स्याद्वादमञ्जरी) Page #165 -------------------------------------------------------------------------- ________________ न साम्प्रतं वक्तुमपि क्व चेष्टा क्व दृष्टमात्रं च हहा ! प्रमाद: ।।२०।। प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः । तत्र 'सन्नह्यते । अनु पश्चाद् लिङ्गसंबन्धग्रहणस्मरणाऽनन्तरम्, मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमान प्रस्तावात् 'स्वार्थाऽनुमानम् । तेनानुमानेन लैङ्गिकप्रमाणेन विना पराऽभिसंधिपराभिप्रायम्, असंविदानस्य-सम्यग् अजानानस्य । तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः- पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह क्षोदः? इति तुशब्दार्थः । नास्ति परलोकः, पुण्यम्, पापम् इति वा मतिरस्य 'नास्तिकास्ति-कदैष्टिकम् इति निपातनात् नास्तिकः । तस्य नास्तिकस्य लौकायतिकस्य, वक्तुमपि न सांप्रतं वचनमप्युञ्चारयितुं नोचितम्, ततस्तूष्णीभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी। वचनं हि परप्रत्ययनाय प्रतिपाद्यते । परेण चाऽप्रतिपित्सितमर्थं "प्रतिपादयन् नासौ सतामवधेयवचनो भवति, उन्मत्तवत् । ननु कथमिव तूष्णीकतैवास्य श्रेयसी, यावता चेष्टाविशेषादिना प्रतिपाद्यस्याऽभिप्रायमनुमाय सुकरमेवाऽनेन वचनोञ्चारणम् । इत्याऽऽशङ्कयाह क्व चेष्टा क्व दृष्टमात्रं च इति । क्वेति बृहदन्तरे, चेष्टा इङ्गितं पराभिप्रायस्याऽनुमेयस्य लिङ्गम् । क्व च दृष्टमात्रम् । दर्शनं दृष्टं, भावे क्त: । दृष्टमेव दृष्टमात्रम् प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात् । अत एव दूरमन्तरमेतयोः । न हि प्रत्यक्षेणाऽतीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं १. खण्डनार्थ प्रयत्यते । २. अनुमानं द्विविध-स्वाऽर्थं पराऽर्थं च-तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविधानं स्वार्थम् । • पक्षहेतुवचनाऽऽत्मकं परार्थमनुमानमुपचारात्' इति प्रमाणनयतत्त्वाऽऽलोकाऽलङ्कारे तृतीयपरिच्छेदे सूत्र १०, २३ । ३. क्षोदः-विचारः । ४. हैमसूत्रम् ६-४-६६ ।। ५. 'प्रतिपादयन्नसौ' इति क. ख. घ. रा. पुस्तकेषु पाठ: । ६. 'तक्तवतू' इति हैमसूत्रम् ४।१।१७४ हैमसूत्रम् ।। स्याद्वादमञ्जरी Akshradunia १३९) Page #166 -------------------------------------------------------------------------- ________________ शक्याः, तस्यैन्द्रिकत्वात्। मुखप्रसादाऽऽदिचेष्टया तु लिङ्गभूतया पराऽभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथाहिमद्वचनश्रवणाऽभिप्रायवानयं पुरुषः तादृग् मुखप्रसादादिचेष्टाऽन्यथानुपपत्तेरिति । अतश्च हा ! प्रमादः - हहा इति खेदे अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणाऽपह्नुते । अत्र संपूर्वस्य वेत्तेरकर्मकत्व 'एवात्मनेपदम्, अत्र तु कर्माऽस्ति, तत्कथमत्रानश् । अत्रोच्यते-अत्र संवेदितुं शक्तः संविदान इति कार्यम्, 'वयः 'शक्तिशीले' इति शक्तौ ज्ञानविधानात् । ततश्चाऽयमर्थः- अनुमानेन विना पराऽभिसंहितं सम्यग्वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानाऽन्यथानुपपत्त्याऽयमनुमानं हठादङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यः । तथाहि चार्वाकः काश्चित् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालाऽन्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सन्निहिताऽर्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं ३ निमित्तमुपलक्षयितुं क्षमते । न च अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीना प्रामाण्याऽप्रामाण्यव्यवस्थापकम् परप्रतिपादकं च प्रामाणान्तरमनुमानरूप मुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेणं शक्यः कर्तुम्, संनिहितमात्रविषयत्वात् तस्य । परलोकादिकं चाप्रतिषिध्य नाऽयं सुखमास्ते, प्रमाणाऽन्तरं च नेच्छतीति डिम्भवाकः ४ । किञ्च, प्रत्यक्षस्याप्यर्थाऽव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नानपानाऽवगाहनाद्यर्थक्रियासमर्थे "मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम् । तच अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मज्जतोरनुमानाऽऽगमयोरप्यर्थाऽव्यभिचारादेव १. समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः । ३-३-८४ संपूर्वेभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात्' । २. हैमसूत्रे, ४ । २ । २४ । ३. 'परप्रतिपादकं' इत्यधिकं क पुस्तके । ४. बालहठः । ५. मरुंमरीचिका मृगजलम् । १४० स्याद्वादमञ्जरी Page #167 -------------------------------------------------------------------------- ________________ किं नेष्यते ?। व्यभिचारिणोरप्यनयोर्दर्शनाद् अप्रामाण्यमिति चेत् । प्रत्यक्षस्याऽपि तिमिराऽऽदिदोषाद् निशीथिनीनाथयुगलाऽवलम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राऽप्रामाण्यप्रसङ्गः । प्रत्यक्षाऽभासं तदिति चेत् । इतरत्राऽपि तुल्यमेतत् । अन्यत्र पक्षपातात् । एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थाऽनुपपत्तेः, तन्मूला जीवपुण्यापुण्यपरलोकनिषेधादिवादा अप्रमाणमेव । एवं नास्तिकाभिमतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकार उपयोगवर्णने-'न चाऽयं भूतधर्मः सत्त्वकठिनत्वाऽऽदिवद्, मद्याऽङ्गेषु भ्रम्याऽऽदिशक्तिवद् वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणातेभ्यस्तेभ्यः स उत्पद्यते इति चेत् । कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः, अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताधुपाधिः सुप्तादावप्यस्ति, न च सतस्तस्योत्पत्तिः भूयो भूयः प्रसङ्गात्, अलब्धाऽऽत्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पतौ कर्तृत्वम् अन्यस्याऽपि प्रसङ्गात् । तत्र भूतकार्यमुपयोगः । कुतस्तर्हि सुप्तोत्थितस्य तदुदयः ? असंवेदनेन चैतन्यस्याऽभावांत् । न, जाग्रदवस्थाऽनुभूतस्य स्मरणाद् असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः । नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धः, अविकारे च भावनाविशेषः प्रीत्यादिभेददर्शनात्, शोकाऽदिना बुद्धिविकृतौ कायविकाराऽदर्शनाच । परिणामिनो विना च न कार्योत्पत्तिः । न च भूतान्येव तथा परिणमन्ति । विजातीयत्वात्, काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते, तजात्यादि चोपलभ्यते । तन्न भूतानां धर्मः, फलं वा उपयोगः । तथा भवांश्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथाभावे बहिर्मुखं स्याद् गौरोऽहमित्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् । अनभ्युपगताऽनुमानप्रामाण्यस्य चात्मऽऽनिषेधोऽपि दुर्लभ: १. 'न' इत्यधिकं क. पुस्तके । २. श्वित्रं-कुष्ठम् । ३. 'अपि' इति क. पुस्तके नास्ति । स्याद्वादमञ्जरी A nivakar १४१) Page #168 -------------------------------------------------------------------------- ________________ धर्मः फलं च भूतानाम् उपयोगो भवेद् यदि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ।।१।। इति काव्यार्थः ।।२०।। एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय साम्प्रतमनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्ततामाविर्भावयन्नाह प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते य: स वातकी नाथ. पिशाचकी वा' ||२१।। प्रतिक्षणं प्रतिसमयम् उत्पादेनोत्तराकारस्वीकाररूपेण, विनाशेन च पूर्वाकारपरिहारलक्षणेन, युज्यत इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि। किं तत्, स्थिरैकं कर्मताऽऽपन्नं- स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम्। एकशब्दोऽत्र साधारणवाची । उत्पादे विनाशे च तत्साधारणम्, अन्वयिद्रव्यत्वात् । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः । इत्थमेव हि तयोरेकाऽधिकरणता । पर्यायाणां कथञ्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयाऽऽत्मकं वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन् अपि, हे जिन ! रागादिजैत्र ! त्वदाज्ञाम्आ सामस्त्येनाऽनन्तधर्मविशिष्टतया ज्ञायन्तेऽवबुध्यन्ते जीवाऽऽदयः पदार्था यया सा आज्ञा आगमः शासन, तवाज्ञा त्वदाज्ञा तां त्वदाज्ञां-भवत्प्रणीतस्याद्वादमुद्राम्, यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वा । स पुरुषपशुर्वातकी पिशाचकी वा-वातो रोगविशेषोऽस्तीति वातकी वातकीव, वातूल १. 'च' इति क. पुस्तके पाठः । २. 'जीवाऽजीवादयः' इति क. ह. पुस्ककयोः पाठः । (१४२ स्याद्वादमञ्जरी) Page #169 -------------------------------------------------------------------------- ________________ इत्यर्थः । एवं पिशाचकव पिशाचकी, भूताऽविष्ट इत्यर्थः । अत्र 'वाशब्दः समुच्चयार्थः, उपमानाऽर्थो वा । स पुरुषापसदो वातकि - पिशाचकिभ्यामधिरोहति तुलामित्यर्थः’ 'वातातीसारपिशाचात्कश्चान्तः" इत्यनेन मत्वर्थीयः कश्चान्तः । एवं पिशाचकीत्यपि । यथा किल वातेन पिशाचेन वाऽऽक्रान्तवपुर्वस्तुतत्त्वं साक्षात्कुर्वन्नपि तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयप्येकान्तवादाऽपस्मारपरवश इति । अत्र च जिनेति साभिप्रायम् । रागादिजेतृत्वाद् हि जिनः । ततश्च यः किल विगलितदोषकालुष्यतयाऽवधेयवचनस्याऽपि तत्रभवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन्, अलब्धस्य सम्यग्दर्शनादेर्लम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेर्नाथः, तस्यामन्त्रणम् 1 वस्तुतत्त्वं चोत्पादव्ययध्रौव्याऽऽत्मकम् । तथाहि सर्वं वस्तु द्रव्याऽऽत्मना नोत्पद्यते विपद्यते वा । परिस्फुटमन्वयदर्शनात् । लूनंपुनर्जातंनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्याऽन्वयस्यापरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् 'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।१।। इति वचनात् । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः पर्यायात्मना तु सर्वं वस्तुत्पद्यते विपद्यते च । अस्खलितपर्यायाऽनुभवसद्भावात् । न चैवं शुक्ले शङ्खे पीताऽऽदिपर्यायाऽनुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात्, न खलु सोऽस्खलद्रूपो येन पूर्वाऽऽकारविनाशाऽजहद्- धृतोत्तराऽऽकारोत्पादाऽविनाभावि भवेत्, न च जीवादौ वस्तुनि हर्षोऽमर्षोदासीन्याऽऽदि - पर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्यचिद् बाधकस्याऽभावात् । १. ' च शब्दाः' इति क पुस्तके पाठः । २. हैमसूत्रम् ७ । २ । ६१ ३. यत्र विरुद्धं प्रलपति रोगी तादृशो ज्वरविशेषोऽपस्मारशब्दवाच्यः । ४. नखकेशादि लूनं छिन्नमपि पुनर्जायते ५. 'खल्वसौ' इति क पुस्तके पाठः । स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १४३ Page #170 -------------------------------------------------------------------------- ________________ ननूत्पादादयः परस्परं भिद्यन्ते न वा ? । यदि भिद्यन्ते, कथमेकं वस्तु त्रयात्मकम्? न भिद्यन्ते चेत् । तथापि कथमेकं त्रयात्मकम् ? तथाच यद्युत्पादाऽऽदयो भिनाः कथमेकं त्रयाऽऽत्मकम । अथोत्पादाऽऽदयोऽभित्राः कथमेकं त्रयाऽऽत्मकम् ।।१।। इति चेत् । तदयुक्तं, कथंचिद्भिवलक्षणत्वेन तेषां कथञ्चिद्भेदाऽभ्युपगमात् । तथाहि- उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि, भिनलक्षणत्वात्, रूपादिवदिति । न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । . न चाऽमी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वाऽऽपत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् । एवं स्थितिः के वला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योऽन्याऽपे- . क्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम् घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ।।१।। पयोवृत्तो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयाऽऽत्मकम् ।।२।।' इति काव्यार्थः ।।२१।। ___ अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वाद् आस्तां तावत्साक्षाद् भवान्, भवदीयप्रवचनाऽवयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वाद- व्यस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह १ श्रीसमन्तभद्रस्वामिकृता आप्तमीमांसा श्लो. ५९।६० । २ अयं श्लोकः क. पुस्तके नास्ति । (१४४ स्याद्वादमञ्जरी) Page #171 -------------------------------------------------------------------------- ________________ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । .. इति प्रमाणान्यपि ते कुवादि- . कुरङ्गसंत्रासनसिंहनादा: ||२२| तत्त्वं परमार्थभूतं वस्तु-जीवाऽजीवलक्षणम्, अनन्तधर्मात्मकमेवअनन्तात्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविमः क्रमभाविनश्च पर्यायाः । त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम्, एवकारः प्रकाराऽन्तरव्यवच्छेदाऽर्थः । अत एवाह-अतोऽन्यथा इत्यादि । अतोऽन्यथा उक्तप्रकारवैपरीत्येन. सत्त्वं, वस्तुतत्त्वमसूपपाद-सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति :सूपपादं न तथा असूपपादं दुर्घटमित्यर्थः। अनेन साधनं दर्शितम् । तथाहि-तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः; सत्त्वाऽन्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्त्येक लक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं न भवति तत् सदपि न भवति, यथा 'वियदिन्दीवरम्, इति केवलव्यतिरेकी हेतुः । साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनाऽन्वयाऽयोगात् । अनन्तधर्मात्मकत्वं च-आत्मनि तावद् साकाराऽनाकारोपयोगिता, कर्तृत्वं पभोक्तृत्वं, प्रदेशाऽष्टकनिश्चलता, अमूर्तत्वम्, असंख्यातप्रदेशात्मकता, "जीवत्वमित्यादयः सहभाविनो धर्माः । हर्ष-विषाद-शोक-सुख-दुःख-देव १. 'लक्षणात्' इति क. पुस्तके पाठः । २. आकाशकमलम् । ३. पक्षान्तर्गतवेनेत्यर्थः । ४. श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां ५४६ गाथामारभ्य पंचत्रिंशद्भिर्गाथाभिः: समुपपादितम् । ५. धर्मसंग्रहण्यां ५८१ गाथामारभ्य पञ्चविंशतिभिर्गाथाभिः प्रसाधितम् । ६. धर्मसंग्रहणीगाथा १९२।१९३ ७. धर्मसंग्रहण्यां ३६ गाथामारभ्य त्रयोविंशत्यधिकेन गाथाशतकेन जीवसत्ता प्रसाधिता । स्याद्वादमञ्जरी Mukun kusuk१४५) Page #172 -------------------------------------------------------------------------- ________________ नर-नारक-तिर्यक्त्वाऽऽदयस्तु क्रमभाविनः । 'धर्माऽस्तिकायादिष्वपि असंख्येयप्रदेशात्मकत्वम्, गत्याधुपग्रहकारित्वम्, मत्यादिज्ञानविषयत्वम्, तत्तदवच्छेद्रकाऽवच्छेद्यत्वम्, अवस्थितत्वम्, अरूपित्वम्, एकद्रव्यत्वम्, निष्क्रियत्वमित्यादयः । घटे पुनरामत्वम्, 'पाकजरूपादिमत्त्वम्, पृथुबुनोदरत्वम्, कम्बुग्रीवत्वम्, जलादिधारणाऽऽ*हरणादिसामर्थ्यम्, मत्यादिज्ञानज्ञेयत्वम्, नवत्वम्, पुराणत्वमित्यादयः । एवं सर्वपदार्थेष्वपि नानानयमताऽभिज्ञेन शाब्दानार्थांश्च पर्यायान् प्रतीत्य वाच्यम् । १. अस्तीत्ययं त्रिकालवचनो निपातः । अभूवन् भवन्ति भविष्यन्ति चेति भावना। अतोऽस्ति च ते प्रदेशानां (तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूप:-प्रदेशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति, जीवेन सह च षड्द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवपुद्गलानां गमनागमनादिचेष्टासु भाषामनोवचःकाययोगादिषु मीनानां पानीयमिव यदपेक्षितकारणं तद्रूपत्वम्, गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदपेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपद्गलानां, पान्थानां छायास्थलमिव शयननिषदनस्थाना- लम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वम्, स्थितिरूपेण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तत्वं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावयोर्दुग्धायोगोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम् । ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम्, रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य लक्षणम् ।.५ वर्तन्ते भवन्ति भावास्तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालंः द्रुमादिपुष्पोद्भेदादिनैयत्यहेतुः । ६ उपयोगवत्त्वं जीवस्य लक्षणम् । ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्घनेन धारणरूपवत्त्वम्, बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्याऽनुकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् । पुद्गलं विना सर्वद्रव्याण्यरूपाणि नित्याऽवस्थितानि च । तत्र नित्यत्वं नाम परिणामान्तरोत्पत्ती सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थं न व्यभिचरतीत्येवंरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धचेष्टाविशेषरूपत्वम्, निमित्तद्वयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतु भूतपर्यायविशेषरूपत्वं वा । तदभाववत्त्वं निष्क्रियत्वम् । २. 'पक्वत्वम्' इति क. पुस्तके पाठः । ३. 'धारणाहरणसामर्थ्यम्' इति क. ह. पुस्तकयोः पाठः । ( १४६ A RANA स्याद्वादमञ्जरी Page #173 -------------------------------------------------------------------------- ________________ अत्र चाऽऽत्मशब्देनाऽनन्तेष्वपि धर्मेष्वनुवृत्तिरूपमन्वयिद्रव्यं ध्वनितम् । ततश्च उत्पाद'-व्यय ध्रौव्ययुक्तं सत्' इति व्यवस्थितम्, एवं तावदर्थेषु । शब्देष्वपि उदात्ताऽनुदात्त-स्वरित-विवृत्त-संवृत्त-घोषवदघोषताऽल्पप्राणमहाप्राणतादयः, तत्तदर्थप्रत्यायनशक्तयाऽऽदयश्चाऽवसेयाः । अस्य हेतोरसिद्धविरुद्धाऽऽनैकान्तिकत्वादिकण्टकोद्धारः स्वयमभ्यूह्यः । इति एवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपनसाधनवाक्यान्यपि-आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्यपि, कुवादिकुरङ्ग-सन्त्रसनसिंहनादाः कुवादिनः . कुत्सितवादिन एकांशग्राहकनयाऽनया- ऽनुयायिनो- ऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमप्याकर्ण्य कुरङ्गास्रासमासूत्रयन्ति, तथा भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्र नुतामनुवते- प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत् । एकैकं त्वदुपज्ञं प्रमाणमन्ययोग- व्यवच्छेदकमित्यर्थः । अत्र प्रमाणानि इति बहुवचनमेंवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम्। एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽन्तगुणार्थत्वात् । तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति' इति न्यायाद् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्द्ध एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ।।२२।। अनन्तरमनन्तधर्माऽऽत्मकत्वं वस्तुनि साध्यं "मुकुलितमुक्तम्, तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह १. तत्त्वार्थसूत्रे अ. ५ सू. २९ उत्पादव्ययध्रौव्ययुक्तत्वं पदार्थसामान्यस्य लक्षणम् । तत्र स्वजातित्वाऽ परित्यागपूर्वकपरिणामाऽन्तरप्राप्तिरूपत्वमुत्पादस्य लक्षणम् । स्वजातित्वाऽपरित्याग- पूर्वकपूर्वपरिणामविगमरूपत्वं व्ययस्य लक्षणम् । स्वजातिस्वरूपेण व्ययोत्पादाऽभावरूपत्वं, स्वजातित्वरूपेणानुगतरूपत्वं वा ध्रौव्यस्य लक्षणम् । . २. कण्टकोद्धारः-दूषणोद्धारः । ३. 'त्रासताम्' इति क. ख. पुस्तकयोः पाठः । ४. त्वत्त एव प्रथमत उद्गमो यस्येत्यर्थः । ५. मुकुलितं-संक्षिप्तम् । स्याद्वादमञ्जरीhindianR१४७) Page #174 -------------------------------------------------------------------------- ________________ अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्ग मदीदृशस्त्वं बुधरूपवेद्यम् ||२३|| समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायं वसन्ति गुणपर्याया अस्मिन्निति वस्तुधर्माऽऽ- धर्माऽऽ - काश- पुद्गल-काल- जीवलक्षणं द्रव्यषट्कम्'। अयमभिप्रायः-यदैकमेव वस्तु आत्मघटाऽऽदिकं चेतनाऽचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यंरूपमेव वस्तु वक्तुमिष्यते । तदा संक्षेपेणाऽभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाऽभिधीयमानत्वाद् अपर्ययमित्युपदिश्यतेकेवलद्रव्यरूपमेव इत्यर्थः । यथाऽऽत्माऽयं घटोऽयमित्यादि पर्यायाणां द्रव्यानतिरेकात्, अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहाऽऽदयो द्रव्यमात्रमेवेच्छन्ति पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः पर्यवः पर्याय इत्यनर्थान्तरम् । अद्रव्यमित्यादि-चः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्चविविच्यमानं चेति, विवेकेन पृथग्रूपतयोच्यमानं पुनरेतद् वस्तु अद्रव्यमेव- अविवक्षिताऽन्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः । , , यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते, तदा पर्याया एव प्रतिभासन्ते, न पुनरात्माऽऽख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलौष्ठपृथुबुध्धोदरपूर्वा- परादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव । न पुनर्घटाऽऽख्यं तदतिरिक्तं वस्तु । अत एव पर्यायाऽस्तिकनयाऽनुपातिनः पठन्ति - 'भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तद्वान् नैव पुनः कश्चिनिर्भागः संप्रतीयते' ।। १ ।। इति । ततश्च द्रव्यपर्यायोभयोऽऽत्मकत्वेऽपि वस्तुनो द्रव्यनयाऽर्पणया १. एतल्लक्षणानि ( १५२) पृष्ठ उक्तानि । २. 'एव' इति रा. पुस्तके नास्ति । ३. प्रतिशब्दा इत्यर्थः । १४८ ॐॐॐॐॐ स्याद्वादमञ्जरी Page #175 -------------------------------------------------------------------------- ________________ पर्यायनयाऽनर्पणया च द्रव्यरूपता, पर्यायनयाऽर्पणया द्रव्यनयाऽनर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाह वाचकमुख्यः‘'अर्पिताऽनर्पितसिध्देः' इति । एवं विधं द्रव्यपर्यायाऽऽत्मकं वस्तु त्वमेवाऽदीदृशस्त्वमेव दर्शितवान्, नान्य इति काक्वाऽवधारणाऽवगतिः । ननु अन्याऽभिधानप्रत्यययोग्यं द्रव्यम्, अन्याऽभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथमेकमेव वस्तूभयात्मकम्, इत्याशङ्कां विशेषणद्वारेण परिहरतिआदेशभेदेत्यादि- आदेशभेदेन सकलाऽऽदेशविकलाऽऽदेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वमुपदर्शितम्, तर्हि किमर्थं तीर्थान्तरीयाः तत्र विपद्यन्ते इत्याहाबुधरूपवेद्यम् इति । बुध्यन्ते यथाऽवस्थितं वस्तुतत्त्वं ४ सारेतरविषयविभागविचारणया इति. बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाऽऽधिगमिकाऽन्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः, तेनैव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाक"शाणानिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासना- दूषितमतितया 'यथाऽवस्थितवस्तुतत्त्वाऽनवबोधेन • बोधरूपत्वाऽभावात् । तथा चाऽऽगमः ‘"सदसदऽविसेसणाउ भवहेउजदिच्छिओवलंभाउ । णाणफलाभावाड़ मिच्छादिट्ठिस्स अण्णाणं' ।। १ ।। अत एव तत्परिगृहीतं 'द्वादशाङ्गमपि मिध्याश्रुतमामनन्ति । तेषामुपपत्तिनिरपेक्ष यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि १. तत्त्वार्थसूत्रे ५। ३१ । उमास्वातिः - वाचकमुख्यः । २. काक्वर्थेन निचयताबोधनम् । ३. 'इत्याशङ्कय' इति ख. घ. ह. रा. पुस्तकेषु पाठः । ४. इदं सारमुत्कृष्टम् इदमसारं निकृष्टमिति विषयविभागः । ५. शाणा- रत्नादिनिघर्षणशिला सा चात्र स्वशास्त्रतत्त्वाभ्यासपरिपाकस्तत्र निशाता तीक्ष्णीकृता बुद्धिर्येषां तैरित्यर्थः । ६. 'यथास्थित' इति क. ख. रा. पुस्तकेषु पाठः । ७. विशेषावश्यक गाथा ११५ । सदसदविशेषणोद्भवहेतुयदृच्छोपलम्भात् । ज्ञानफलाभावा- मिथ्यादृष्टेरज्ञानम् ।। १ ।। इति छाया । ८. द्वादस्याऽङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः । यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्राप्तिमनुभवन्ति । सर्वज्ञवचनानि संप्रधार्य स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ * १४९ Page #176 -------------------------------------------------------------------------- ________________ सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशाऽनुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्याऽप्यर्थस्य यथाऽवस्थित- विधिनिषेधविषयतयोनयनात् । तथा हि किल वेदे' अजैर्यष्टव्यम्' इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाचकतया व्याचक्षते, सम्यग्दृशस्तु जन्माऽप्रायोग्यं त्रिवार्षिकं यवव्रीह्यादि, पञ्चवार्षिकं तिलमसूरादि, सप्तवार्षिकं कङ्गसर्षपादि । धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता महाऽऽचायैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ।।१५७।। ७ उपासका ८ न्तकृद ९ नुत्तरोपपातिकादशाः। १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ।।१५८ ।। १२ द्वादशं पुनदृष्टिवादः ।।१५९।। अत्रान्तिमस्य दृष्टिवादस्य व्यच्छेदात् एकादशैवाऽङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि । (आचरणमाचारः । आचर्यते इति वा शिष्टाऽऽचरितो ज्ञानादि 'आदिशब्दाद्दर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ. । तत्र प्रथमो नवाध्ययनात्मकः (तत्र सप्तमाध्ययनं व्युच्छिन्नम्) । द्वितीयः षोडशाऽध्ययनाऽऽत्मकः । एवं पंचविंशतेरध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० लोकपरिमिता ।। (२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णसंख्या २५२०० परिमिता । १५८३ संवत्सरे श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता । (३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको ग्रन्थोऽपि स्थानं तञ्च तदङ्गं च स्थानाङ्गम् । अस्य दशाध्ययनानि (स्थानानि) । मूलश्लोकसंख्या ३७७० श्री अभयदेवंसूरिकृतटीका १५२५० संपूर्णसंख्या १९०२० । (४) समवायनं समवायः एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां सङ्ग्रहः । तद्धेतुश्च ग्रन्थोऽपि समवायः । मूलश्लो. १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ पूर्वाचार्यकृता चूर्णिः ४०० संपूर्णसंख्या ५८४६ लोकपरिमिता । (५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञप्तेः पंचमांङ्गस्य सा चासौ अङ्ग च भगवत्यङ्गम् । तस्याः ४१ शतकानि । मूलश्लो. १५७५२ श्रीअभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ लोकपरिमिता । संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता । (६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा । एकोनविंशतिरध्ययनानाम: । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता । (१५०NASAAMANA स्याद्वादमञ्जरी) Page #177 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमानस्वामिना,''विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञास्ति' इत्यादिॠचः श्रीमदिन्द्रभूत्या 'दीनां द्रव्यगणधर देवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तद्व्यवस्थापकतया व्याख्याताः । तथा स्मार्ता अपि (७) उपासकाः श्रावकाः तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासकदशाः बहुवचनान्तमेतद्ग्रन्थनाम । दशाध्ययनात्मकः मूलश्लो. ८१२ श्रीअभयसूरदेवसूरिकृतटीका ९०० संपूर्णसंख्या १७१२ लोकपरिमिता । (८) अंतो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थकरांदयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात् तत्संख्यया अंतकृद्दशाः । अध्ययनानि नवतिः (९०) । मूलश्लो. ९०० श्रीमदभयदेवसूरिकृतटीका ३०० संपूर्णसंख्या १२०० लोकपरिमिता । (९) न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रधानः संसारेऽन्यस्य तथाविधस्याऽभावत् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्तजयंतापराजितसर्वार्थसिद्धविमानपंचकजन्मानो देवाः तद्वक्तव्यता प्रतिबद्धदशाः दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । अध्ययनानि त्रयोविंशतिः मूल श्लो. २९२ श्री अभयदेवसूरिकृतटीका १०० संपूर्णसंख्या ३९२ लोकपरिमिता । (१०) प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । दशाध्ययनात्मकम् । मूलश्लो. १२५० श्री अभयदेवसूरिकृतटीका १६० संपूर्णसंख्या ५८५० श्लोकपरिमिता । (११) विपचनं विपाकः शुभाशुभकर्मपरिणामः तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । विंशत्यध्ययनात्मकम् । भूल श्लो. १२१६ श्री अभयदेवसूरिकृतटीका ९०० संपूर्णसंख्या २११६ श्लोकपरिमिता । (१२) दृष्टयो दर्शनानि तासां वदनं दृष्टिवादः दृष्टीनां पातो यत्रासौ दृष्टिपातोऽपि सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः । सर्वमिदं प्रायो व्यवच्छिन्नम् । एकादशाङ्गानां मूलसंख्या ३५६५१ श्लोकपरिमिता । टीका च ७३५४४ (श्रीअभयदेवसूरिणा ( नवांगीवृत्तिकारेण ) तृतीयादेकादशांङ्गापर्यन्त कृता ४८६९४ प्रथमद्वितीयाङ्गस्य श्रीशीलांकाचार्येण कृता च टीका २४८५० श्लोकपरिमिता ) चूर्णि: २३७०० निर्युक्तिः ७०० संपूर्णसंख्या १३२६०३ लोकपरिमिता । १. बृ. २।४ ।१२ २. १ इंद्रभूति २ रग्निभूति ३ र्वायुभूतिः सहोद्भवाः । ४ व्यक्तः ५ सुधर्मा ६ मण्डित ७ मौर्यपुत्रौ सहोदरौ ।। ८ अकम्पितो ९ ऽचलभ्राता १० मेतार्यश्च ११ प्रभासकः । इत्येकादश गणधराः । ३. अनुत्तरज्ञानदर्शनादिधर्मगणं धरतीति-गणधरः । ४. यदा भगवान्महावीरः केवलज्ञानदर्शनोत्पत्तिसमनंतरं विहरन् अपापापुर्यां (प्राक्किल तस्या नगर्या (स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ १५१ Page #178 -------------------------------------------------------------------------- ________________ अपापेति नामासीत् भगवतस्तत्र कालगतवात् देवैः पापेति उक्तं) (अपापायां मध्यमायां) महसेनवने जगाम तदा तत्र सोमिलार्यो नाम ब्राह्मणः स यज्ञं यष्टुमुद्यतः । तत्र चैकादशोपाध्यायाः खल्वागताः । तेषां संदेहाः क्रमेण १ जीवः २ कर्म ३ तज्जीवतच्छरीरे ४ पंचभूतानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बंधः ७ देवः ८ नैरयिकः (नारक) ९ पुण्यं १० परलोकः ११ मोक्षः इति । ते चैकादेशापि द्विजा एकैकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति । अत्रान्तरे वने च भगवन्नमस्यार्थमागच्छतः सुरासुरान्विलोक्य ते चिन्तयन्ति अहो यज्ञस्य महिमा. यदेते सुराः साक्षात्समागताः । अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः ततोऽमी सर्वज्ञं वंदितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् । अहो मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति । दुःश्रवम् एतत्कर्णकटु कथं नाम श्रूयते । किं च कदाचित्कोऽपि मूर्खः केनचिद्भूर्तेन वच्यते । अनेन तु सुरा अपि वंचिताः । यदेवं यज्ञमण्डपं मा सर्वज्ञं च विहाय तत्समीपं गच्छन्ति । 'अहो सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकरवद्रेकाः मक्षिका चन्दनं यथा ।।१।। करभा इव सवृक्षान् क्षीरान्नं शूकरा इव । अर्कस्यालोकवत् घूकास्त्यक्त्वा यागं प्रयांति यत् ।।२।।' अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते । अनुरूप एव संयोगः । तथापि नाहं एतस्य सर्वज्ञाटोपं सहे । यतः 'व्योन्मि सूर्यद्वयं किं स्यात् गुहायां केसरिद्वयम् । प्रत्याकारे च । खड्गौ द्वौ किं सर्वज्ञावहं स च ।।१।। ततो भगवन्तं वंदित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ । भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृशरूप: ? किंस्वरूप: ? इति जनैस्तु 'यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरार्ध्य गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात्।।१।।' इत्याद्युक्ते सति स दध्यौ । 'नूनमेष महाधूर्ता मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ।।२।। मया हि येन वादीन्द्रास्तूष्णी संस्थापिताः समे । गेहे शूरतरः कोऽसौ सर्वज्ञो मत्पुरोभवेत् ? ।।३।।' देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्रजालैर्हतप्रतापं कृत्वा क्षणमात्रेण तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इत्युक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुत्रिंशदतिशयनिधिं सशंकितः पुरतोऽवस्थितः । आभाषितो सर्वज्ञेन जिनेन हे इंद्रभूते ! गोतम स्वागतमिति जिनेनोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वज्ञप्रसिद्धोऽहं को सां न जानाति यदि मे हृद्गतं संशयं जानीयात् अथवाऽपनयेत् ततो मे विस्मयो भवेद् इति चिंतयन् पुनरपि भगवता भणित:- . : 'किमने अस्थि जीवो, उयाहु नत्थित्ति संसओ तुज्जा । बेयपयाण य अत्थं न याणसी तेसिमो अत्थो ।' हे गौतम किं मन्यसे अस्ति जीव उत नास्तीति । नन्वयमनुचित एव संशयो यतोऽयं संशयस्तव . विरुद्धवेदपदश्रुतिनिबन्धन इति । तान्यमूनि वेदपदानि 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यादि.' तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च । एतेषां च वेदपदानामयमों भवतश्चेतसि विपरिवर्तते । विज्ञानमेव घनानदन्दादिरूपत्वात् विज्ञानघनः स एव एतेभ्योऽध्यक्षतः परिच्छिद्यमानस्वरूपेभ्योः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय उत्पद्य पुनस्तान्येवानुविश्यति तान्येव भूतानि अनुसृत्य विनश्यति तत्रैवाव्यक्तरूपयता ( २५२i n k स्याद्वादमञ्जरी Page #179 -------------------------------------------------------------------------- ________________ संलीनो भवतीति भावः । न प्रेत्य संज्ञास्ति । मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञास्ति न परलोकसंज्ञास्तीति भावः । ततः कुतो जीवः युक्त्योपपत्रश्चायमर्थ इति ते मतिः । यतो नासौ प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुमानेन यतस्तल्लिङ्गलिङ्गिपूर्वकञ्च । न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गिनोऽतीन्द्रियत्वात् । नाप्यनुमानगम्योऽनवस्थाप्रसक्तेस्तदपि हि लिंङ्गलिंङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः । माप्यागमगम्यः परस्परविरुद्धार्थतया तथागमानां प्रमाणत्वाभावात् । तथाहि केचिदेवमाहुः ‘एतावानेन लोकोऽयं यावदिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ' ।।१।। इत्यादि । अपरे प्राहुर्न रूपमीक्षवः पुद्गला इत्यादि पुद्गले रूपं निषेधयन्ति । अन्तर्भूत आत्मेत्यर्थः । अन्ये पुनरेवम् "अकर्ता निर्गुणो भोक्ता" इत्यादि । अपरे एवम् “स वै अयमात्मा ज्ञानमय' इत्यादि । न चैते सर्व एव प्रमाणम् । परस्परविरोधात् । व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् । आत्मानं विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः । तत्र वेदपदानां चार्थं न जानासि । चशब्दाधुक्तिद्वयं च । तथाहि वेदपदानां अयमर्थः । विज्ञानघन एवेति ज्ञानोपयोगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्याय: संपातात्मक़त्वात् वा विज्ञानघन एवशब्दोऽवधारणे विज्ञानघनादनन्यघनत्वात् विज्ञानघन एव । एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येति । घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम् । तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनुविनश्यति । ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानधनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते । यदि वा सामान्यचैतन्यरूपतयाऽवतिष्ठत इति न प्रेत्य संज्ञास्ति न प्रावृतिकघटादिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोगनिनितत्वात् अथवा एवं व्याख्या विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन यत: प्रेत्य संज्ञास्ति परलोकसंज्ञास्ति । यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धात्तर्नुणस्य ज्ञानस्य स्वसंवेदनप्रमाण सिद्धत्वात्तथाहि स्वसंविदिता एवावग्रहेहापायादय उदयन्ते लीयन्ते वा । ततस्तद्गुणस्य स्वसंविदितत्वात् सिद्धमात्मनः प्रत्यक्षत्वम् । अथ ब्रवीष्व भूतगुणाश्चैतन्यं । तथा वेदेप्युक्तम् 'एतेभ्यो भूतेभ्यस्समुत्थायेत्यादि' । ततः कथं ज्ञानस्य स्वसंविदितत्वे ते आत्मनः प्रत्यक्षत्वं, ज्ञानस्यात्मत्राणत्वाभावात् । तदयुक्तम् । भूतगुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र चोपलम्भप्रसङ्गात् । न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं लोष्ठादौ मृतावस्थायां चानुपलम्भात् । अथ तत्रापि चैतन्यमस्ति । केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग् । विकल्पद्वयानतिक्रमात् । साहि शक्तिचैतन्याद्विलक्षणा उत चैतन्यमेव । यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति । न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं तथा चाहान्योऽपि 'रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् ।।१।।' अथ द्वितीय: पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलम्भः । आवृतत्वादनुपलम्भ इति चेत्, तत्त्वावृत्तिरावरणं तञ्चावरणं किं, भूतानां विवक्षितपरिणामानामुत परिणामान्तर माहोस्विदन्यदेव भूतातिरिक्तं किंचित् । तत्र न तावद्विवक्षितपरिणामाभाव: एकान्ततुच्छरूपतया स्याद्वादमञ्जरी Muktak १५३) Page #180 -------------------------------------------------------------------------- ________________ तस्यावारकत्वायोगात् । अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिर्भावत्वे पृथिव्यादीनामन्यतमो भावो भवेत् 'पृथिव्यादीन्येव भूतानि तत्त्वमिति वचनात्' पृथिव्यादीनि च भूतानि चैतन्यस्य व्यंजकानि । नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् । अथ परिणामान्तरं, तदयुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवव्यंजकत्वस्योपपत्ते वारकत्वस्य । अथान्यदेव भूतातिरिक्तं किंचित् । तदतीवासमीचीनम् । भूतातिरिक्ताभ्युपगमे चत्वार्येव पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसंख्याव्याघातप्रसंगात् । अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा । न तावत्प्रत्येकमनुपलम्भात् । न हि प्रतिपरमाणुसंवेदनमुपलभ्यते । अपि च यदि प्रतिपरमाणुसंवेदनं भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं भित्रस्वभावमिति नैकरूपं भवेत् । अथ चैकरूपमुपलभ्यते, अहं पश्याम्यहं करोमीत्येवं सकलशरीराधिष्टितानेकस्वरूपतयानुभवात्, अथ समुदायस्य धर्मस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति । यथा रेणुषु तैलं स्यादेतन्मद्याङ्गेषु प्रत्येक मदशक्तिरदृष्टापि समुदायेऽपि भवन्ती दृश्यते । तद्वच्चैतन्यमपि भविष्यति को दोषः । तदसम्यक् । प्रत्येकमपि मद्याङ्गेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् । तथाहि । दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पे च मनाक् विकलितोत्पादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते । ततः कथं समुदाये तद्भवितुमर्हति । मा प्रापत्सर्वस्य सर्वत्राभावप्रसक्तातिप्रसंगात् । किं च यदि चैतन्यं भूतधर्मत्वेन प्रतिपन्नं तन्नोऽवश्यमस्यानुरूपो धर्मः प्रतिपत्तव्यः । आनुरूप्याभावे जलकाठिन्ययोरिव परस्परधर्मधर्मभावोऽनुपात्तः । न च भूतानामनुरूपो धर्मी वैलक्षण्यात्तथाहि । चैतन्यं बोधस्वरूपममूर्तं च भूतानि तद्विलक्षणानि ततः कथमेषां परस्परं धर्मधर्मिभावः । नापि चैतन्यमिदं भूतानां कार्यमत्यंतविलक्षणतया कारणभावस्याप्ययोगात् । तथा चोक्तम् 'काठिन्यबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतनामगतद्रूपा सा कथं तत्फलं भवेत् ।।१।।' अपि च यदि भूताकार्य चैतन्यं तर्हि किं न सकलमपि जगत्प्राणिमयं भवति । परिणलिविशेषसद्भावाभावात् इति चेद्, ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान भवति । सोऽपि हि भूतमात्रनिमित्तक एव । ततः कथं तस्यापि क्वचित्कदाचिद्भावः । अन्यञ्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठादिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति । तदप्यसत् । व्यभिचारदर्शनात्, तथाहि-अविशिष्टेऽपि कठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचिञ्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च. मूर्छिता जायन्ते । किं च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते । तथाहि-गोमयाद्येकयोनिसंभविनोऽपि केचिनीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवर्णाः । संस्थानमप्येतेषां परस्परं विभिन्नम् । तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवणेसंस्थाना भवेयुः, न भवन्ति । तस्मादात्मान एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति । स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते केवलं देहे सति संवेदनमुपलभामहे, देहाभावे च तस्यामेवावस्थायां न, तस्मात्रात्मा किन्तु संवेदनमात्रमेवैकं, तञ्च देहकार्य, देहे एव च समाश्रितं कुड्यचित्रवत् । नहि चित्रं कुड्यविरहितमवतिष्ठते नापि कुड्यान्तरं संक्रामति । आगमनं वा कुड्यान्तरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते । एवं संवेदनमपि । तदप्यसत् आत्मा हि स्वरूपेणामूर्तः । आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयस्तदुक्तमन्यैरपि १५४/ AAAAAAAAAAAA स्याद्वादमञ्जरी Page #181 -------------------------------------------------------------------------- ________________ 'अन्तरा नवदेहेऽपि सूक्ष्मत्वानोपलभ्यते । निष्क्रामन् प्रविशन्वात्मा नाभावोऽनीक्षणादपि' । तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतस्तूपलभ्यते । तथाहि कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्ध उपघातमुपलभ्य पलायनदर्शनात् । यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् । न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते । ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमजम् । तथा च केचित्पठन्ति 'शरीरग्रहरूपस्य नभसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः किं न जन्मान्तरागतिः ।।' अथ गतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते । नैष दोषः । अनुमेयविषये प्रत्यक्षवृत्तेरभ्युपगमात् । परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरिष्यते । ततः कथं स एव दोषः । आह च 'अनुमयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो नहि ।।' अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते । न खलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत्तस्य यत्र क्षितिधरादौ धूमाद्भूमध्वजानुमानं भवति । तदप्यसम्यक् । अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् । तथा ह्याग्रहोऽन्यत्र परिशीलनाभ्यासप्रवृत्तः प्रत्यक्षत एवोपलब्धस्ततस्तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते । उक्तं च 'आग्रहस्तावदभ्यासात् प्रवृत्तमुलपभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ।।' योऽपि च दृष्टान्तः प्रागुपन्यस्तः । सोऽप्ययुक्तो वैषम्यात् । तथाहि चित्रमचेतनं गमनस्वभावरहितञ्च । आत्मा च चेतनः कर्मवशाद्गत्यागती च कुरुते ततः कथं दृष्टान्तदान्तिकयोः साम्यं ततो यथा कश्चिद्देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहारंभं कृत्वा ग्रामान्तरे गृहान्तरे गृहान्तरमास्थायावतिष्ठतें तद्वदात्मापि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते । यञ्चोक्तं तञ्च संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसंभवात् यत्तु मानसं तत्कथं, न हि तद्देहकार्यमुपपत्तिमत् युक्तययोगात् । तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुद्घातानीन्द्रियरूपाद्वा केशनखादिलक्षणात्तत्र न तावदाद्यः पक्ष इन्द्रियरूपादुत्पत्ताविन्द्रियबुद्धिवर्तमानार्थग्रहणप्रसक्ते: । इंद्रियं हि वार्तमानिक एवार्थे व्याप्रियते । तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानं इन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत्। अथ यदा चक्षू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं, ततस्तदपि विज्ञानं वर्तमानार्थविषयं वर्तमाने एवार्थे चक्षुषो व्यापारात् । रूपविषयव्यापाराभावे च मनोज्ञानं ततो न तत्प्रतिनियतकालविषयं एवं शेषेष्वपीन्द्रियेषु वाच्यम् । ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः । तदसाधीया । यत इन्द्रियाश्रितं तदुच्यते यदीन्द्रियव्यापारमनुसृत्योपजायते । इन्द्रियाणां च व्यापारः प्रतिनियते । एवं वार्तमानिके स्वस्वविषये मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत इन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्द्रियाश्रितमेव तन्न स्याद् । तथा च केचित्पठन्ति 'अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते तद्व्यापारो न तोति कथमक्षभवं भवेत् ।।' अथानीन्द्रियरूपादिति पक्षस्तदप्ययुक्तस्तस्याचेतनत्वात् नन्वचेतनत्वादिति कोऽर्थः । यदीन्द्रियविज्ञानरहितत्वादिति । तदिष्यते एव । यदि नामेन्द्रियविज्ञानं ततो न भवति मनो, विज्ञानं तु कस्मात्र भवति । अथ स्याद्वादमञ्जरी १५५) Page #182 -------------------------------------------------------------------------- ________________ मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञाथैकदेशासिद्धो हेतुः । तदप्यसत् । अचेतनत्वादिति । किमुक्तं भवति । स्वनिमित्तविज्ञानैः स्फुरञ्चिद्रूपतयानुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरञ्चिद्रूपानुपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यत इति । युक्तं केशनखादयस्तु न मनोज्ञानेन तथा स्फुरञ्चिद्रूपा उपलभ्यन्ते कथं तेभ्यो मनोज्ञानं भवतीति प्रतिध्यायन्तु सुधियः आह च 'चेतयन्तो न दृश्यन्ते केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम्' अपि च यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् तदुपघाते चोपहतं भवेन च भवति तस्मानायं पक्षः क्षोदक्षमः । किं च मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यां व्यत्यासपूर्वका दृष्टाः । तथाहि तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोधे उल्लसति, स्मृतिपाटवं चापूर्वमुजुम्भते । एवं चैकशास्त्रेऽभ्यासतः सूक्ष्मार्थनेतृत्वशक्तौ पाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति । तदेवमभ्यासहेतुकाः सूक्ष्मार्थनेतृत्वादयो मनोज्ञानस्य विशेषदृष्टाः । अथ च कस्यचिदिह जन्माभ्यासव्यतिरेकेणापि दृश्यन्ते । ततोऽवश्यं पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यं कारणेन सह कार्यस्यान्यथानुपपन्नत्वप्रतिबन्धेन दृष्टलत्कारणस्यापि तत्कार्यत्वविनिश्चितेः । ततः सिद्धः परलोकयायी जीव: । सिद्धे च तस्मिन् परलोकयायिनि यदि कथंचिदुपकारी चाक्षुषादेविज्ञानस्य देहो भवेत् न कचिद्दोषः क्षयोपशमहेतुतया देहस्यापि कथंचिदुपकारित्वाभ्युपगमात् । न चैतावता तनिवृत्तौ सर्वथा तन्निवृतिः । नहि वह्निरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्तते । केवलं विशेष एव कश्चनापि यथा सुवर्णस्य द्रवता । एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्तते । न पुनः समूलं ज्ञानमपि । यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्यते देहनिवृत्तौ च निवृत्तिमत्तर्हि देहस्य तस्य भस्मावस्थायां मा भूदेहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान भवति । प्राणापानयोरपि हेतुत्वात्तदभावे न भवतीति चेन्न प्राणापानयोर्ज्ञानहेतुत्वायोगात्। ज्ञानादेव च तयोरपि प्रवृत्तिस्तथाहि यदि मंदो प्राणापानौ विसृष्टमिष्यते ततो मन्दौ भवतः दीघौ चेत्तर्हि दीर्घाविति यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राप्पापाननिमित्तं च विज्ञानं तर्हि नेत्यमिच्छावशात् प्राणापानप्रवर्तमानदृष्टप्राणापाननिमित्ते च विज्ञानं । ततः प्राणापानानिहर्हासातिशयसंभविज्ञानस्यापि निर्हासातिशयौ स्याताम् । अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् । अन्यथा कारणमेव तत्र स्यात् । भवतः प्राणापाननि-हाँसातिशयसंभवे विज्ञानस्यापि विनि-हासाविशयो । विपर्ययस्यापि भावात् । मरणावस्थायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य हासदर्शनात् । स्यादेतत्तत्तदानीं वातपित्तादिभिदोषैर्देहस्य विगुणीकृतत्वात् । तदसमीचीनतरमेवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः । तथाहि मृतस्य दोषाः समीभवन्ति । समीभवनं च दोषाणामवसीयते । ज्वरादिविकारादर्शनात् । समत्वं चारोग्यं तथा चाहुर्वृद्धाः 'तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय' इति । आरोग्यलाभत्वाद्देहस्य पुनरुज्जीवनं भवेत् । अन्यथा चेह कारणमेव चेतसो न स्यात् । तद्विकाराभावाभावानतु विधानादेवं हि देहकारणता विकारस्याश्रद्धया स्यात् । यदि पुनरुज्जीवनं भवेत् स्यादेतदयुक्तमिदं पुनरुज्जीवनप्रसंगोपादानं यतो यद्यपि दोषा देहस्यावैगुण्यमाधाय निवृत्तास्तथापि न तत्कृतस्य (१५६) shanta स्याद्वादमञ्जरी) Page #183 -------------------------------------------------------------------------- ________________ वैगुण्यस्य निवृत्तिः । न हि दहनकृतो विकारः काष्ठे दहननिर्वृत्तो निवर्तमानो दृष्टाः । तदयुक्तमिह हि क्वचित्किंचिदनिवर्त्य विकारारम्भकम् । यथा वह्निः काष्ठे श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्तते । किंचित्पुनः भवति अग्निनिवृत्तौ निवर्तते तत्र वातादयो दोषा निवर्त्य विकारारम्भकाश्चिकित्सा प्रयोगदर्शनात् । यदि पुनरनिवर्त्य विकारारम्भका भवेयुस्तर्हि न तद्विकारनिवर्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगात् । न च वाच्यं मरणात् प्राग्दोषा अनिवर्त्यविकारारम्भका मरणकाले च निवर्त्य विकारा इति । 1 एकस्य एकत्रैव निवर्त्यानिवर्त्याविकारम्भकत्वायोगात् नह्येकमेव तत्रैव निवर्त्यविकारारम्भकं चानुभवितुमर्हति तथा दर्शनात् । ननु द्विविधोऽपि व्याधिः साध्योऽसाध्यश्च । तत्र साध्य निवर्त्यस्वभावस्तमेव चाधिकृत्य चिकित्सा फलवती । असाध्योऽनिवर्तनीयः । न च साध्यासाध्यभेदो नवा व्याधिद्वैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् । व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवर्त्यनिवर्त्याविकारम्भकत्वमनुपन्नमिति । तदप्यसत् । भवन्मते साध्यासाध्य- व्याध्यनुपपतेः । तथाहि । असाध्यता व्याधेः क्वचिदायुः क्षया । तथाहि तस्मिन्नैव व्याधौ समानेऽप्यौषधवैद्यकसंपर्क कश्चिन्प्रियते कश्चिन्न । क्वचित्पुनः प्रतिकूलकर्मोदयात् । प्रतिकूलकर्मोदयजनितो हि श्वित्रादिव्याधिरौषधसहस्रैरपि क्वचिदसाध्यो भवति । एतच द्विविधमपि व्याधेरसाध्यत्वमर्हतामेव मते संगच्छते । न भवतो भूतमात्रतत्त्ववादिनः । क्वचित्पुनरसाध्यो व्याधिर्दोषकृतविकारानिवर्तनसमर्थो निषेधस्याभावात् वैद्यस्य वा वैद्यौषधसंपर्काभावे हि व्याधिः प्रसर्पन् सकलमप्यायुरुपक्रमते । नतु वैद्यौषधसंपर्काभावादेवास्माकमपि पुनरुज्जीवनं भविष्यति । नहि तदस्ति किंचिद्रौषधं वैद्यो वा यत्पुनरुज्जीवयति । तदप्ययुक्तं वैद्यैषधौ हि दोषविकारनिवर्तनार्थमिष्येते । न पुनरत्यन्तासतश्चैतन्यस्योत्पादनार्था तथाभ्युपगमात् । दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ता ज्वरादेरदर्शनात्ततः किं वैद्योषधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसंग: । प कचिद्दोषाणामुपशमेऽप्येकस्मान्प्रियते कश्चिचातिदोषदुष्टत्वेऽपि जीवति । तदेतद्भवन्मते कथमुपपत्तिमर्हति तथा च केचिद् ब्रुवते 'दोषस्योपशमेऽप्यस्ति मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद्भवन्मते ।।' अर्हतां तु शासने यावदायुः कर्म विजृम्भते तावद्दोषैरतिपीडितोऽपि जीवति आयुः कर्मक्षये च दोषाणामधिकृतावपि म्रियते । तन देहमात्रकारणं संवेदनम् । अन्यच्च देहः कारणं संवेदनस्य सहकारिभूतं वा भवेदुपादानभूतं वा । यदि सहकारिभूतं तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथञ्चिदधिज्ञानहेतुत्वाभ्युपगमात् । अथोपादानभूतं तदयुक्तम्, उपादानं हि तत्तस्य यद्विकारेणैव तस्य विकारो यथा मृद्घटस्य । न च देहविकारेणैव विकारः संवेदनस्य देहविकार भावेऽपि भयशोकादिना तद्विकारदर्शनात् । तत्र देहोपादानं संवेदनस्य । तथा च पठत्युपादानलक्षणमपरे अधिकृत्य हि यद्वस्तुना यः पदार्थों विकार्यते उपादानं तत्तस्य युक्तं गोगवयादिवत् एतेन यदुच्यते मातापितृचैतन्यमेतचेतनस्योपादानमिति तदपि प्रतिक्षिप्तं तत्रापि तद्विकारे विकारित्वं तदविकारे वाविकारित्वमिति नियमादर्शनात् । अन्यच्च यद् यस्योपादानं तत् तस्माद् भेदेन व्यवस्थितम् । यदा मृदोघटः । मातापितृचैतन्यं सुत चैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत । न व्यवतिष्ठते, तस्माद् यत्किंचिदेतत् । तत्र भूतधर्मो भूतकार्यं वा चैतन्यं किंचात्मनो गुण इति तद्गुणस्य (स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १५७ Page #184 -------------------------------------------------------------------------- ________________ प्रत्यक्षसिद्ध आत्मा । अनुमानसिद्धश्च । तच्चानुमानमिदं, रूपादीन्द्रियाणि विद्यमानप्रयोजकानि । कर्मकरणत्वे सति ग्राह्यग्राहकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राहकरूपस्स विद्यमानप्रयोजको यथा सदंशोऽयःपिण्डे । कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि । ततो विद्यमानप्रयोजकानीति । न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् । तथा चात्र प्रयोगः । यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि । न चायमसिद्धो हेतुः । यतः खलु द्रव्येन्द्रियाणि निवृत्युपकरणरूपाणि निर्वृत्युपकरणे च पुद्गलमयं च सर्वमचेतनं पुद्रलानां काठिन्यावबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् । धर्मानुरूपो हि सर्वत्रापि धर्मी । यथा काठिन्यं प्रति पृथिवी । यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मभावो भवेत् ततः काठिन्यजलयोरपि सम्भवेत्तन भवति तस्मादचेतनाः पुंद्रलाः । तथा चोक्तं 'वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणिय वूयाणि जगप्पसिद्धाणि ।।१।। ता धम्मधम्मिभावो कहमेएसिं अणुब्भवगामेय । अणुरूपत्ताभावे काठिन्नजलाण किं न भवे ।।२।।' ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्थितम् । अथ चेदनुमानं, सभोक्तृकमिदं शरीरं भोग्यत्वात् स्थालिस्थितौदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात् । द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टांते प्रत्यक्षप्रमाणसिद्धेति नोक्तलिंङ्गलिंङ्गिसंबंधाग्रहरूपदोषावकाशः । आगमगम्योऽप्येष जीवः । तथा चागमः ‘अणिंदियगुणं जीवं दुन्नेयं मंसचक्खुणा । सिद्धं पस्संति सव्वन्नू, नाणसिद्धा य साहुणो ।।१।।' अत्र ज्ञानसिद्धाः साधवो भवस्थकेवलिनः शेषं सुगमम् । न चागमानां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्यमभ्युपेयं, सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद् । अथाऽप्यसम्यक् प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षावतां क्षितिप्रसंगात् । अथ कथमेतत् प्रत्येयं यथायमागमः सर्वज्ञमूल इत्युच्यते-यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वा न बाध्यते नापि पूर्वापरव्याहतः सोऽदसीयसर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासंभवात् । ततस्तस्माद्यत्सिद्धं तत्सर्वं सुसिद्धं उक्तं च 'दिटेणं इठेवणय जम्मि विरोहो न हुज्जइ कहिं वि । सो आगमतत्तो जं नाणं तं सम्मनाणं ति ।।१।।' ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठितत्वाञ्च सौम्य ! अस्ति जीव इति प्रतिपत्तव्यम् । आवश्यकमलयगिरिद्वितीयखंडे । (इह वेदपदोपन्यासस्तेनवेदानां प्रमाणत्वेनाङ्गीकृतत्वात्) । आहच 'छित्रमि समयंमि जाइजरामरणविष्पमुक्केणं । सो समंणो पव्वइओ पंचहि सह खंडियसएहिं ।।' उक्तप्रमाणेन जिनेन भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः । तेन छिन्ने निराकृते संशये स इन्द्रभूति: पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संवृत्त इत्यर्थः ।। आवश्यकमलयगिरिद्वितीयखंडे ।। एवमन्येऽपि पराजिताः प्रव्राजिताश्च । एतञ्च विस्तरेण विशेषावश्यकभाष्ये गणधरवक्तव्यतायामावश्यकचूर्णी कल्पसूत्रषष्टक्षणे श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां निरूपितं तत्तत एवावसेयम् । (१५८Runkhak स्याद्वादमञ्जरी Page #185 -------------------------------------------------------------------------- ________________ ''न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला '।।१।। इति श्लोकं पठन्ति । अस्य च यथाश्रुताऽर्थव्याख्यानेऽसम्बद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव । तस्मानिवृत्तिः कथमिव महाफला भविष्यति । इज्याऽध्ययनदानादेरपि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य । तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु दोष एव, एवं मद्यमैथुनयोरपि । कथं नाऽदोषः ? इत्याह-यतः प्रवृत्तिरेषा भूतानाम्-प्रवर्तन्त उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानम्, भूतानां जीवानाम्, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमांगमे ४आमासु य पक्कासु य विपञ्चमाणासु मांसपेसीसु । आयंतियमुववाओ भणियो दु णिगोयजीवाणं ।।१।। मजे महुह्मि मंसंम्हि णवणीवम्हि चउत्थए । उप्पजंति अणंता तव्वण्णा तत्थ जंतूणो ।।२।। मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सद्दहियवा सयाकालं ।।३।।' तथाहि १. मनुस्मृतिः ५।५६. २. ऐदंपर्य-तात्पर्यम्. ३. रत्नशेखसूरिकृतसम्बोधिसप्ततिका गाथा ६६।६५।६३. ४. 'आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु निगोदजीवानाम् ।।१।। मद्ये मधुनि मांसे नवनीते चतुर्थके । उत्पद्यन्तेऽनन्ताः तद्वर्णास्तत्र जन्तवः ।।२।। मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिता: श्रद्धातव्याः सदाकालम् ।।३।। इति छाया, स्याद्वादमञ्जरी s airintinutsii१५९) Page #186 -------------------------------------------------------------------------- ________________ "इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिण्णि व सक्खपुहुत्तं उ उक्कस्सं ।।४।। पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिटुंतेणं तत्तायसिलागणाएणं ।।५।।' संसक्तायां योनौ द्वीन्द्रिया एते । शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे 'पंचिदिया मणुस्सा एगणरभुत्तणारिगब्भम्हि । उक्तस्सं णवलक्खा जायंति एगवेलाए ।।६।। णवलक्खाणं मझे जायइ एक्क दुण्हेय सम्मत्ती । सेसा पुण एमेव य विलयं वचंति तत्थेव ।।७।। तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः-त एवात्र मांसभक्षणादौ प्रवर्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह- 'निवृत्तिस्तु महाफला'-तुरेवकारार्थः । 'तुः स्याद् भेदेऽवधारणे' इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदा । न पुनः प्रवृत्तिरपीत्यर्थः । अत एव स्थानान्तरे पठितम्.. 'वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । .. मांसानि च न खादेद् यस्तयोस्तुल्यं भवेत् फलम् ।।१।। .. ___ एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । ___ न सां ऋतुसहस्त्रेण प्राप्तुं शक्या युधिष्ठिर !' ।।२।। १. स्त्रीयोनौ, सम्भवन्ति द्वीन्द्रियादिस्तु ये जीवा: । एको वा द्वौ वा त्रयो वा लक्षपृथुत्वं चोत्कृष्टम् ।।४।। पुरुषेण सहं गतायां तेषां जीवानां भवति उद्रवणम् । वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञांतेन ।।५।। पंचेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्ट नवलक्षा जायन्ते एकवेलायाम् ।।६।। नवलक्षाणां मध्ये जायते एकस्य द्वयोर्वा समाप्तिः । शेषाः पुनरेवमेव च विलयं व्रजन्ति तत्रैव ।।७।। इति छाया ।।। २. अमरकोशे तृतीयकाण्डे २३९ श्लोकः । ३. मनुस्मृतिः ५।५३. (१६०/AAAA स्याद्वादमञ्जरी Page #187 -------------------------------------------------------------------------- ________________ मद्यपाने तु कृतं सूत्रानुवादैः । तस्य सर्वविगर्हितत्वात् । तानेवं प्रकारानर्थान् कथमिव बुधाभासास्तीर्थिका वेदितुमर्हन्तीति कृतं अथ केऽमी सप्तभङ्गाः, कश्चायमादेशभेद इति । उच्यते - एकत्र जीवादी वस्तुनि, एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षाऽऽदिबाधापरिहारेण, पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा - १ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३ स्यादस्त्येव स्यान्नास्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । ५ स्यादस्त्येव 'स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । ६ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि - निषेधकल्पनया च षष्ठः । ७ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया, युगपद्विधिनिषेधकल्पनया च सप्तमः । तत्र - स्यात्कथंचित् स्वद्रव्यक्षेत्रकालभाव - रूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तथाहि - कुम्भो द्रव्यतः पार्थिवत्वेनास्ति । नाऽऽप्याऽऽदिख्मत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन । न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन । न वासन्तिकादिऽऽत्वेन । भावतः श्यामत्वेन । न रक्ताऽऽदिवत्वेन । अन्यथेतररूंपाऽऽपत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमताऽर्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत। प्रतिनियतस्वार्थाऽनभिधानात् । तदुक्तम्'४ वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्' ।।१।। तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाऽऽद्यस्तित्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्तेः प्रतिनियतस्वरूपाऽनुपपत्तिः स्यात् । तत्प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते । स्यात् कथंचिद् स्वद्रव्यादिभिरेवाऽयमस्ति । न परद्रव्यादिभिरपीत्यर्थः । यत्राऽपि चाऽसौ न प्रयुज्यते तत्राऽपि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम् १. 'अतिप्रसङ्गेन' इति क. ह. पुस्तकयोः पाठः । २. पाटलिपुत्रं नाम नगरं 'पटणा' ख्यातम् । ३. कान्यकुब्जो देश: 'कनौज' इति ख्यातः । औत्तराहेषु प्रसिद्धः । ४. तत्त्वार्थश्लोकवार्तिक १ अध्याय सू. ६ श्लो. ५३ । स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐ ४ १६१ Page #188 -------------------------------------------------------------------------- ________________ ''सोऽप्रयुक्तोऽपि वा तज्जैः सर्वज्ञार्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः' ।।१।। इति प्रथमो भङ्गः । स्यात्कथंचिद् नाऽस्त्येव कुम्भादिः । स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वाऽनिष्टौ हि प्रतिनियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् । कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात्, साधनवत् । न हि क्वचिद् अनित्यत्वाऽऽदौ साध्ये सत्त्वाऽऽदिसाधनस्याऽस्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वेनाऽविनाभूतम्, नास्तित्वं च तेनेति । विवक्षावशाञ्चाऽनयोः प्रधानोपसर्जनभावः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्-'अर्पितानर्पितासिद्धेः' इति वाचकवचनात् । इति द्वितीयः । तृतीयः स्पष्ट एव । ____ द्वाभ्यामस्तित्व-नास्तित्वधर्माभ्यां युगत्प्रधानतयाऽर्पिताभ्याम् एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्याऽसम्भवाद् अवक्तव्यं जीवादिवस्तु । तथाहि-सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् । तस्याऽसत्त्वप्रतिपादना-ऽसमर्थत्वात् । तथा सदित्यनेनापि, तस्य सत्त्वप्रत्यायनसामर्थ्यभावात् । न च पुष्पदन्ताऽऽदिवत् साङ्गेतिकमेकं पदं तद् वक्तुं समर्थम् । तस्यापि क्रमेणाऽर्थद्वयप्रत्यायने सामोपपत्तेः । शतृशानयोः "संकेतितसच्छब्दवत् । अतएव द्वन्द्व-कर्मधारय-वृत्त्योर्वाक्यस्य च न तद्वाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सत्त्वाऽसत्त्वाभ्यां प्रधानभावाऽर्पिताभ्यामाक्रान्तं व्यवतिष्ठते । नच सर्वथा वक्तव्यम् अवक्तव्यशब्देनाऽप्यनभिधेयत्वप्रसङ्गाद् इति चतुर्थः । शेषास्त्रयः सुगमाऽभिप्रायाः । . न च वाच्यमेकत्र वस्तुनि विधीयमाननिषिध्यमानाऽनन्तधर्माऽभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तंभङ्गीति । विधिनिषेधप्रकाराऽपेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभङ्गीनामेव संभवात् । १. तत्त्वार्थलोकवार्तिके १ अध्याय सू. ६ श्लो. ५६ । २. 'प्रत्यायने' इति क. पुस्तके पाठः । ३. पुष्पदन्ताख्यो गंधर्वविशेषः । तेन शिवमहिमस्तोत्रं व्यरचि । तत्र गन्धर्वविशेषे पुष्पदन्तशब्द एकपदात्मको रुढस्तत्संज्ञासंकेतेन । न तु तत्र पुष्याणीव दन्ता अस्येति विग्रहयुक्तसमासघटित पदद्वयेनाऽर्थो बोध्यते । तद्वदत्र । . ४. 'तौ सत्' इति पाणिनिसूत्र ३।२।१२७. ५. वृत्तिः-समासः । (१६२RAMANA स्याद्वादमञ्जरी Page #189 -------------------------------------------------------------------------- ________________ यथा हि सदसत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्गयेव स्यात् । तथाहि स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्याऽवक्तव्यम्, स्याद् विशेषाऽवक्तव्यम्, स्यात्सामान्यविशेषाऽवक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यम् । सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधाऽत्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता । यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेधरूपता । एवं सर्वत्र योज्यम् । अतः सुष्ठुक्तम् अनन्ता अपि सप्तभङ्गय एव 'संभवेयुरितिप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् । तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् । तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् । तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्रसकलादेशः प्रमाणवाक्यम् । तल्लक्षणं चेदम् । प्रमाणप्रतिपन्नाऽनन्तधर्माऽऽत्मकवस्तुनः कालाऽऽदिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा । यौगपद्येन प्रतिपादकं वचः सकलादेशः । अस्यार्थः- कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाऽध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः । तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशय: - यौगपद्येनाऽशेषधर्माऽऽत्मकं वस्तु कालाऽऽदिभिरभेद' प्राधान्यवृत्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद्वा तदभिधत्ते तस्य नयाऽऽत्मकत्वात् । कः पुनः क्रमः, किं च यौगपद्यम् । यदास्तित्वादिधर्माणां कालाऽऽदिभिर्भेदविवक्षा, तदैकशब्दस्याऽनेकाऽर्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदाऽऽत्मकतामापन्नस्याऽनेकाऽशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । के पुनः कालादयः ? कालः, आत्मरूपम्, अर्थ:, संबन्धः, उपकारः, गुणिदेशः, संसर्ग, शब्दः, । तत्र- (१) स्याद् जीवादिवस्तु अस्त्येव इत्यत्र यत्कालमस्तित्वं तत्कालाः शेषाऽनन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः । (२) यदेव चाऽस्तित्वस्य १. 'भवेयुः' इति क. ख. घ. रा. ह. पुस्तकेषु पाठः । २. 'प्राधान्य' इति ख. घ. पुस्तकयोर्नास्ति । (स्याद्वादमञ्जरी बैंक ४. १६३ Page #190 -------------------------------------------------------------------------- ________________ तद्गुणत्वमात्मरूपं तदेव अन्यानन्तगुणानामपीति आत्मरूपेणाऽभेद- वृत्तिः । (३) य एव चाधारोऽथों-द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । (४) य एव चाऽविष्वग्भावः कथंचित् तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाऽभेदवृत्तिः (५) य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाऽभेदवृत्तिः । (६) य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्यगुणानामिति गुणिदेशेनाऽभेदवृत्तिः । (७) य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाऽभेदवृत्तिः, अविष्वग्भावेऽभेदः प्रधानम्, भेदो गौणः, संसर्गे तु भेदः प्रधानम्, अभेदो गौण इति विशेषः । (८) य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषाऽनन्तधर्मात्मकस्याऽपीति शब्देऽनाभेदवृत्तिः पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्याद् उपपद्यते । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति । समकालमेकत्र नानागुणानामसम्भवात् । सम्भवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात्। नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाऽभेदे तेषां भेदस्य विरोधात् । स्वाश्रयस्याऽर्थस्यापि नानात्वाद, अन्यथा नानागुणाऽश्रयत्वस्य विरोधात्। सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद् नानासम्बन्धिभिरेकत्रसम्बन्धाऽघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात् अनेकैरूपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात्। गणिदेशस्य प्रतिगणं भेदात् तदभेदे भिन्नार्थगुणानामपि गुणिदेशाऽभेद-प्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गिभेदात् तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात् सर्वगुणानामेकशब्दबाच्यतायां सर्वार्थानामेकशब्दवाच्यताऽऽपत्तेः शब्दान्तरवैफल्याऽऽपत्तेः । तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्ये-वमभेदवृत्तेरसंभवे कालादिभिभिन्नात्मनाम भेदोपचारः क्रियते । तदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नाऽनन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्यायः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण यदभिधायकं वाक्यं स विकलादेशो नयवाक्यापरपर्याय इति स्थितम् । ततः साधूक्तम् आदेशभेदोदितसप्तभङ्गम् । इति काव्यार्थः ।।२३।। १. 'भावेनं इति क. ह. पुस्तकयोः पाठः । २. 'एकस्य' इति के. ख. घ. रा. ह. पुस्तकेषु नास्ति । ३. 'वैकल्पापत्तेश्च' इति रा. पुस्तके पाठः । ४. 'अभेदप्रधान' इति क. पुस्तके पाठः । ५. 'अतः' इति क. पुस्तके पाठः । - (१६४Manakam स्याद्वादमञ्जरी) Page #191 -------------------------------------------------------------------------- ________________ अनन्तरं भगवद्दर्शितस्याऽनेकान्ताऽऽत्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम् । अनेकान्ताऽऽत्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति साऽपि निरूपिता । तस्यां च विरुद्धधर्माऽध्यासितं वस्तु पश्यन्त एकान्तवादिनोऽबुधरूपा विरोधमुद्भावयन्ति । तेषां प्रमाणमार्गात् च्यवनमाह उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ।। २४ ।। अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधा वरुद्धम्अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम्, किं तु सदवाच्यते च-सच्चाऽवाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते-अस्तित्वाऽवक्तव्यत्वे इत्यर्थः । ते अपि न विरुद्धे । तथाहि - अस्तित्वं नास्तित्वेन सह न विरुध्यते । अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति । अनेन च नास्तित्वाऽस्तित्वाऽवक्तव्यत्वलक्षणभङ्गत्रयेण सकलसप्तभङ्गया निर्विरोधता उपलक्षिता । अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनामीष्वेवाऽन्तर्भावादिति । नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति, इति विशेषणद्वारेण हेतुमाह- उपाधिभेदोपहितम् इति - उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वम्, तेनोपहितमर्पितम् - असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहित सदर्थेष्वसत्त्वं न विरुद्धम्, सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् । उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे । अयमभिप्रायः-परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानऽवस्थान १. 'विरुध्येते' इति क. पुस्तके पाठः । स्याद्वादमञ्जरी १६५ Page #192 -------------------------------------------------------------------------- ________________ लक्षणो विरोधः । न चाऽत्रैवम् । सत्त्वाऽसत्त्वयोरितरेतरमविष्वग्भावेन वर्तनात् । न हि घटादौ सत्वमसत्त्वं परिहत्य वर्तते । पररूपेणाऽपि सत्त्वाऽप्रसङ्गात् । तथा च तद्व्यतिरिक्ताऽर्थान्तराणां नैरर्थक्यम् । तेनैव त्रिभुवनाऽर्थसाध्याऽर्थक्रियाणां सिद्धेः । न चाऽसत्त्वं सत्त्वं परिहत्य वर्तते, स्वरूपेणाऽप्यसत्वाऽप्राप्तेः । तथा च निरुपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद्, यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात्। न चैवम् । यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम्, अन्योपाधिकं पुनरसत्त्वम् । स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् । दृष्टं ह्येकस्मिन्नेव चित्रपटाऽवयविनि अन्योपाधिकं तु नीलत्वम्, अन्योपाधिकारश्चेतरे वर्णा:नीलत्वं हि नीलीरागाधुपाधिकम्, वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं 'मेचकरत्नेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिदृष्टान्तैः सत्त्वाऽसत्त्वयोभिन्नदेशत्वप्राप्तिः चित्रपटाद्यवयविन एकत्वात्, तत्राऽपि भिन्नदेशत्वाऽसिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दार्टान्तिके च स्याद्वादिनां न दुर्लभः । एवमप्यपरितोषश्चेद् आयुष्मतः, तये॒कस्यैव पुंसस्तदुपाधिभेदात् पितृत्व-पुत्रत्वमातुलत्व-भागिनेयत्व-पितृव्यत्व-भ्रातृव्यत्वाऽऽदिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाऽभावमप्रबुध्यैवाज्ञात्वैव । एवकारोऽवधारणे । स च तेषां सम्यग्ज्ञमनस्याऽभावएव, न पुनर्लेशतोऽपि भाव इति व्यक्ति । ततस्तेविरोधभीताःसत्त्वाऽसत्त्वादिधर्माणां बर्हिमुखशेमुष्या संभावितो वा विरोधः सहाऽनवस्थानादिः, तस्माद् भीतास्रस्तमानसाः अत एव जडाः । तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खा: परवादिनः, तदेकान्तहता:-तेषां सत्त्वादिधर्माणां १. 'तथापि' इति क. पुस्तके पाठः । २. मेचकरत्नं रत्नजातिविशेषः अत्र विचित्रवर्णाः स्युः । 'मेचकरक्ते' इति रा. ख. पुस्ककयोः पाठ: । मेचकपदेन मयूरपिच्छगतनानावर्णविशिष्टवर्तुलाकृतिविशेषो बोध्यः । ३. 'एकस्येव' इति क. ह. पुस्तकयोः पाठः । ४. 'अपि' इति क. पुस्तके नास्ति । ५. शेमुषी-बुद्धिः । (१६६) Assistan स्याद्वादमञ्जरी Page #193 -------------------------------------------------------------------------- ________________ य एकान्त इतरधर्मनिषेधेन स्वाऽभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता इव हताः पतन्ति स्खलन्ति - पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे न समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः । , 1 यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते । लोके हि सन्मार्गच्युतः पतितं इति परिभाष्यते। अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्च्छामतुच्छामासाद्य ३विरुद्धवाक्- प्रसरो भवति । एवं तेऽपि वादिनः स्वाऽभिमतैकान्तवादेन युक्तिसरणिमनुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतोऽकिञ्चित्करा वाङ्मात्रमपि नोचारयितुमीशत इति । 1 , अत्र च विरोधस्योपलक्षणत्वात् वैयधिकरण्यम्, अनवस्था, संकरः, व्यतिकरः, संशयः अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येते ऽपि परोद्भाविता दोषा अभ्यूह्याः । तथाहि सामान्य-विशेषात्मकं वस्तु इत्युपन्यस्ते परे " उपालब्धारो भवन्ति, यथा सामान्य-विशेषयोर्विधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राऽभिन्ने वस्तुनि असंभवात् शीतोष्णवदिति विरोधः । न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याऽधिकरणं भवितुमर्हति, एकरूपतापत्तेः, ततो वैयधिकरण्यमपि भवति । अपरं च येनाऽऽल्सना सामान्यस्याऽधिकरणं, येन च विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् । एकेनैव चेत् । तत्र पूर्ववद् विरोधः । द्वाभ्यां वा स्वभावाभ्यां सामान्यविशेषाख्यं स्वभावद्वयमधिकरोति, तदाऽनवस्था । तावपि स्वभावान्तराभ्याम्, तावपि स्वभावाऽन्तराभ्यामिति । येनाऽऽत्मना सामान्यस्याऽधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याऽधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः । ततश्चाऽप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव । अतः स्याद्वादमर्मवेदिभिरुद्धरणीयास्तत्तदुपपत्तिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य-विशेषयोर्विधि-प्रतिषेधरूपयोस्तेषामवकाशात् । १. 'क्रमणेनासमर्थाः' इति क. ख. घ. रा. पुस्तकेषु पाठः । २. अतुच्छा न स्वल्पा । महतीत्यर्थः । ३. मूक इत्यर्थ: 1 ४. 'परोद्भावनीयाः' इति घ. पुस्तके पाठः । ५. उपालब्धारः - निन्दका उपलम्भवादिनः । (स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ १६७ Page #194 -------------------------------------------------------------------------- ________________ -अथवा विरोधशब्दोऽत्र दोषवाची, यथा विरुद्धमाचरतीति दुष्टमित्यर्थः । ततश्च विरोधेभ्यो विरोधः वैयधिकरण्याऽऽदिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति । इति काव्यार्थः ।।२८।। अथाऽनेकान्तवादस्य सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदाऽपेक्षया चातुर्विध्याऽभिधानद्वारेण भगवतस्तत्त्वाऽमृतरसाऽऽस्वादसौहित्यमुपवर्णयनाह स्याद् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ।।१७।। स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम्, तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद् नाशि-विनशनशीलमनित्यमित्यर्थः । स्याद् नित्यम् अविनाशिधर्मीत्यर्थः । एतावता नित्याऽनित्यलक्षणमेकं विधानम् । तथा स्यात् सदृशमनुवृत्तिहेतुसामान्यरूपम्, स्याद् विरूपं विविधरूपम्-विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः । - तथा: स्याद् वाच्यं वक्तव्यम्, स्याद् न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तम् । तथाप्यवाच्यपदं योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः । एतेनाऽभिलाप्याऽनभिलाप्यस्वरूपस्तृतीयो भेदः । तथा स्याद् विद्यमानमस्तिरूपमित्यर्थः । स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा ।। १. अथवेत्यादिश्लोकसमाप्तिपर्यन्तं क. पुस्तके नास्ति । २. 'सर्वपर्याय' इति क. ख. ह. पुस्तकेषु पाठः ।। ३. अत्रेत्यारभ्य स्तुतिकार इत्यन्तं क. पुस्तके नास्ति । (१६AASARMINARMAn s स्याद्वादमञ्जरी Page #195 -------------------------------------------------------------------------- ________________ हे विपश्चितां नाथ ! सङ्ख्यावतां मुख्य ! इयमनन्तरोक्ता नीपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणात् सामर्थ्याद्वा गम्यतेतत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणाऽपहारित्वाद्, विबुधोपभोग्यत्वाद्, मिथ्यात्वविषोर्मिनिराकरिष्णुत्वाद्, आन्तराह्लादकारित्वाञ्च पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया प्रीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उदारपरम्परा उद्गारश्रेणिरिवेत्यर्थः । यथा हि कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुताऽनेकान्तवादभेद- चतुष्टयीलक्षणामुद्गारपरम्परां देशाऽनुमुखेनोद्गीर्णवानित्याशयः । अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्तिं भक्षितं, तेषां तत्तद्वचनरूपा उद्गारप्रकाराः प्राक्प्रदर्शिताः । यस्तु पचेलिमप्राचीनपुण्यप्राग्भारऽनु गृहीतैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतम्, तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् । .. । एते च चत्वारोऽपि वादास्तेषु तेषु स्थानेषु प्रागेव चर्चिताः । तथाहि "आदीपमाव्योम समस्वभावम्' इति वृत्ते नित्यानित्यवादः प्रदर्शितः । "अनेकमेकात्मकमेव वाच्यम्' इति काव्ये सामान्यविशेषवाद: संसूचितः' सप्तभङ्गयामभिलाप्याऽनभिलाप्यवादः, सदसद्वादश्च चर्चितः । इति न भूयः प्रयासः । इति काव्यार्थः ।।२५।। इदानीं नित्याऽनित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेति संनिपातसंजातविंनिपातयोरयत्नसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह१. 'भेद' इति ख. पुस्तके नास्ति । २. पचेलिम-फलावस्थाप्राप्तम् । ३. मनोहत्य-श्रद्धाप्रतिघातेन । रुच्यपेक्षयाप्यधिकम् । ४. पंचमश्लोकः । ५. चतुर्दशश्लोकः । ६. संसूचित इत्यारभ्य चर्चित इत्यन्तं क. पुस्तके नास्ति । ७. हेतिः-शस्त्रम् । स्याद्वादमञ्जरी AR RANA १६९) Page #196 -------------------------------------------------------------------------- ________________ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिनशासनं ते ||२६|| किलेति निश्चये य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्येकान्तवादिभिः प्रसञ्जिताः क्रम योगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि,समास्तुल्याः; नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः । तथाहि नित्यवादी प्रमाणयतिसर्व नित्यं सत्त्वात् । क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नाऽवस्थां बध्नातीति । ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहिक्षणिकोऽर्थः सन्वा कार्यं कुर्याद्, असन् वा । गत्यन्तराऽभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापाराऽयोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाञ्च । नाऽपि द्वितीयः पक्षः क्षोदं क्षमते असतः कार्यकारणशक्तिविकलत्वात् । अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन्, विशेषाऽभावात् इति । - अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति सर्वं क्षणिकं सत्त्वात्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधाद अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् । ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयेदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः । अन्यथा पूर्वक्रियाकरणाऽविरामप्रसङ्गात्, तत्स्वभावप्रच्यवे च नित्यता प्रयाति । अतादवस्थ्यस्याऽनित्यतालक्षणत्वात् । अथ नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात् तमासाद्य क्रमेण कार्यं कुर्यादितिचेत् । न, सहकारिकारणस्य नित्येऽकिञ्चित्करत्वात्.. १. अष्टादशे श्लोके । २. 'समकालं' भावानाम् इति क. पुस्तके पाठः । ३. 'क्रमेण' इति क. पुस्तके नास्ति । ४. 'अर्थे' इत्यधिक इ. पुस्तके । (१७०) N A NDANANA स्याद्वादमञ्जरी) Page #197 -------------------------------------------------------------------------- ________________ अकिञ्चित्करस्याऽपि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि योगपद्येन नित्योऽर्थोऽर्थक्रिया कुरुते, अध्यक्षविरोधात्न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा तथाप्याद्यक्षण एव सकलक्रियापरिसमाप्तेद्वितीयाऽऽदिक्षणेषु अकुर्वाणस्याऽनित्यता बलाद् आढौकते । करणाऽकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्या विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य'ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्याऽनित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाञ्च सामान्यविशेषाद्येकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव' हेतूनुपस्पृशन्तीति परिभावनीयम् । ___ अथोत्तरार्द्ध व्याख्यायतेपरस्परेत्यादि एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्तीत्येवंशीला: "सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु । हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराऽभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाऽभावाद् अधृष्यमपराभवनीयम् । ‘शक्तार्हे "कृत्याश्च' । इति कृत्यंविधानाद् धर्षितुमशक्यम्, धर्षितुमनर्ह वा-जयति सर्वोत्कर्षेण वर्तते । यथा कश्चिन्महाराजः पीवरपुण्यपरिपाक: परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विषत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्ध राज्यमुपभुञ्जानः सर्वोत्कृष्टो भवति एवं त्वच्छासनमपि । इति काव्यार्थः ।।२६।। अनन्तरकाव्ये नित्याऽनित्याद्येकान्तवादे दोषसामान्यमभिहितम् । इदानीं १. आढौकते-प्राप्नोति । २. ध्यान्ध्यं धियः बुद्धेरान्ध्यं-मान्द्यम् । ३. 'उपलक्षणत्वात्तु' इति क. पुस्तके पाठः । ४. सुन्दोपसुन्दनामानौ राक्षसौ द्वौ भ्रातरौ ब्रह्मणः सकाशात् वरं लब्धवन्तौ यत् आवयोर्मृत्युः परस्परादस्तु नान्यस्मात् । तथेत्युक्ते ब्रह्मणा मतौ तौ त्रिलोकी पीडयामासतुः । अथ देवप्रेषितां तिलोत्तमामुपलभ्य तदर्थ मिथो युध्यमानावम्रियेताम् । एवमेकान्तवादिनः स्वतत्त्वसिद्ध्यर्थ परस्परं विवदमाना विनश्यन्ति । ततऽश्चानेकान्तवादो जयति । ५. हैमसूत्रम् ५।४।३५। ६. कृत्यः-कृत्यप्रत्ययः । स्याद्वादमञ्जरीsanoranANASANKA १७१) Page #198 -------------------------------------------------------------------------- ________________ कतिपयतद्विशेषान् . 'नामग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोवृत्त' तथाविधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोति नैकान्तवादे सुख-दु:खभोगौ न पुण्य-पापे न च बन्ध-मोक्षौ । दुर्नीतिवादव्यसनाऽसिनैवं परैर्विलुप्तं जगदप्यशेषम् ।।१७।। एकान्तवादे नित्याऽनित्यैकान्तपक्षाऽभ्युपगमे,न सुखदुःखभोगौ घटेते ।न च पुण्यपापे घटेते,न च बन्धमोक्षौ घटेते । पुनःपुनर्नञः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथाहि-एकान्तनित्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्यते-नित्यस्य हि लक्षणम् अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम् । ततो यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वाऽऽपत्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् । - अथ अवस्थाभेदाद् अयं व्यवहारः, न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः । सर्पस्येव कुण्डलाऽऽर्जवाद्यवस्थासु इतिचेत् न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा। व्यतिरेके, तास्तस्येति संबन्धाऽभावः, अतिप्रसङ्गात् । अव्यतिरेके तु, तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेऽवस्था- भेदोऽपि भवेदिति । . किंच, सुखदुःखभोगौ पुण्यपापनिर्वयौ । तनिर्वर्तनं चाऽर्थक्रिया । सा च कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं न पुण्यपापे १. नामग्रहणपूर्वकम् । २. 'उत्त' इति क. पुस्तके नास्ति । . ३. आर्जवं-सारल्यम् । (१७२iddharthak स्याद्वादमञ्जरी) Page #199 -------------------------------------------------------------------------- ________________ इति पुण्यं दानाऽऽदिक्रियोपार्जनीयं शुभं कर्म । पापं हिंसाऽऽदिक्रियासाध्यमशुभं कर्म, ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्धमोक्षो बन्धः कर्मपुद्गलैः सह प्रतिप्रदेशमात्मनो 'वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः । मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः स च 'अप्राप्तानां प्राप्तिः' इतिलक्षणः । प्राक्कालभाविनी अप्राप्तिरन्याऽवस्था, उत्तरकालभाविनी प्राप्तिश्चाऽन्या । तदनयोरप्यवस्थाभेददोषो दुस्तरः । कथं चैकरूपत्वे सति तस्याऽऽकस्मिको बन्धसंयोगः । बन्धनसंयोगाञ्च प्राक् किं नाऽयं मुक्तोऽभवत् । किञ्च तेन बन्धनेनाऽसौ विकृतिमनुभवति न वा । अनुभवति चेत्, चर्माऽऽदिवद् अनित्यः । नानुभवति चेत्, निर्विकारत्वेसता असता व तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था । तथा च पठन्ति 'वर्षातपाभ्यां किं व्योमश्चर्मण्यस्ति तयोः फलम् ? । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः' ।।१।। बन्धाऽनुपपत्तौ मोक्षस्याऽप्यनुपपत्तिर्षन्धविच्छेदपर्यायत्वाद् मुक्तिशब्दस्येति । एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिःअनित्यं हि अत्यन्तोच्छेदधर्मकम् । तथाभूते चात्मनि, पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत् फलभूतसुखानुभवः । एवं पापोपादानक्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु। एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ 'यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कासें रक्तता यथा' ।।१।। इति वचनाद् । नासमञ्जसमित्यपि वाङ्मात्रम्, सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लोठितत्वात्। तथा पुण्यपापे अपि न घटेते-तयोहि अर्थक्रिया सुखदुःखोपभोगः तदनुपपत्तिश्चाऽनन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाऽभावात् तयोरप्यघटमानत्वम् । १. अग्नेरयोगोलकस्य च संयोगः । स्याद्वादमञ्जरी ANANAANAANANA९७३) Page #200 -------------------------------------------------------------------------- ________________ किञ्चाऽनित्यः क्षणमात्रस्थायी । तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियाऽर्जनम् द्वितीयाऽऽदिक्षणेषु चाऽवस्थातुमेव न लभते । पुण्यपापोपादानक्रियाऽभावे च पुण्यपापे कुतः । निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः । आस्तां वा कथंचिदेतत्, तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् । उपादानाऽनुरूपत्वाद् उपादेयस्य। ततः पूर्वक्षणाद् दुःखिताद् उत्तरक्षणः कथं सुखित उत्पद्येत । कथं च सुखितात् ततः स दुःखितः स्यात्, विसदृशभागताऽऽपत्तेः । एवं पुण्यपापादावपि, तस्माद् यत्-किञ्चिदेतत् । एवं बन्धमोक्षयोरप्यसंभवः । लोकेऽपि हि य एव बद्धः स एव मुच्यते । निरन्वयनाशाऽभ्युपगमे चैकाधिकरणत्वाभावात् सन्तानस्य चाऽवास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि चात्मनि स्वीक्रियमाणे सर्वं निर्बाधमुपपद्यते 'परिणामोऽवस्थाऽन्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः' ।।१।। इति वचनात् । पातञ्जलटीकाकारोऽप्याह १अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः' इति । एवं सामान्यविशेषसदसदभिलाप्याऽनभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः । - अथोत्तसर्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिनानीयते एकदेशविंशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनाऽसिः, १. पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुक्तं तञ्चिन्त्यम् । यत इदं पातञ्जलसूत्रम् । मन्मतं तु कस्याऽपि लिपिकारस्य भ्रान्तिरियम् । (१७४KARNA स्याद्वादमञ्जरी Page #201 -------------------------------------------------------------------------- ________________ तेन दुर्नीतिवादव्यसनाऽसिना करणभूतेन दुर्नयप्ररूपणहेवाकखड्गेन, एवमित्यनु- . भवसिद्धं प्रकारमाह- अपिशब्दस्य भिन्नक्रमत्वाद् अशेषमपि जगद् निखिलमपि त्रैलोक्यम् । "तात्स्थ्यात् तद्वयपदेशः' इति त्रैलोक्यगतजन्तुजातम् । विलुप्तं सम्यग्ज्ञानाऽऽदिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानाऽऽदयो हि भावप्राणाः प्रावचनिकैर्गीयन्ते । अत एव सिद्धेष्वपि जीवव्यपदेशः । अन्यथा हि जीवधातुः प्राणधारणार्थेऽभिधीयते, तेषां च . दशविधप्राणधारणाऽभावाद् अजीवत्वप्राप्तिः । सा च विरुद्धा, तस्मात् संसारिणो "दशविधद्रव्यप्राणधारणाद् जीवाः, सिद्धाश्च ज्ञानाऽऽदिभावप्राणधारणाद् इति सिद्धम्। दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्यामः । इति काव्यार्थः ।।२७।। साम्प्रतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण 'प्रमाणनयैरधिगमः' इति वचनाद् जीवाजीवादितत्त्वाऽधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यं वचनातिशयं स्तुवन्नाह सदेव सत् स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाण- . . पथेन दुर्नीतिपथं त्वमास्थः ||२८|| अर्यते परिच्छिद्यत इति अर्थः, पदार्थः त्रिधा त्रिभिः प्रकारैः मीयेत १. 'मञ्चाः क्रोशन्ति' इतिवत् । यथात्र मञ्चपदेन मञ्चस्था गृह्यन्ते लक्षणया तद्वदत्र त्रैलोक्यपदेन त्रैलोक्यस्थं जन्तुजातं गृह्यन्ते । व्यपदेशः-संज्ञा । २. सम्यक्ज्ञानसम्यग्दर्शनसम्यक्चारित्रेत्यादयो ये जीवस्य गुणास्ते. भावप्राणाः । इदं प्रज्ञापनासूत्रे प्रथमपदे । ३. प्रवचनकारिभिः पूर्वाचार्यः । ४. जीव् प्राणधारणे । हैमधातुपारायणे भ्वादिगणे धा. ४५६ । ... पञ्चेन्द्रियाणि ६ श्वासोच्छ्वास ७ आयुष्य ८ मनोबल ९ वचनबल १० शारीरबलानीति दश द्रव्यप्राणाः । शान्तिसूरिकृतजीवविचारः गाथा ४२ । ६. तत्वार्थसूत्रप्रथमाध्यायसूः ६ । ७. अतःपरं 'तेषाम्' इत्यधिक ह. पुस्तके । स्याद्वादमञ्जरी A nnarshini१७५) Page #202 -------------------------------------------------------------------------- ________________ परिच्छेद्येत । विधौ 'सप्तमी । कैत्रिभिः प्रकारैः, इत्याह । दुर्नीतिनय-प्रमाणे:नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः । दुष्टा नीतयो दुर्नीतयो दुर्नया इत्यर्थः । नया नैगमादयः, प्रमीयते परिच्छेद्यते ऽर्थोऽनेकान्तविशिष्टोऽनेन इति प्रमाणम् । स्याद्वादाऽऽत्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे च दुर्नीतिनयप्रमाणानि तैः । केनोल्लेखेन मीयेत, इत्याह-सदेव सत् स्यात्सद् इति । सदिति अवक्तव्यत्वाद् नपुंसकत्वम् । यथा किं तस्या गर्भ जातमिति । सदेवेति दुर्नयः सदिति नयः, स्यात्सदिति प्रमाणम् । तथाहिदुर्नयस्तावत्सदेव इति ब्रवीति-'अस्त्येव घटः' इति । अयं वस्तुनि एकान्ताऽस्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाऽभिप्रेतमेव धर्मं व्यवस्थापयति । दुर्नयत्वं चाऽस्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्माऽन्तराणां सतामपि निहवात् । १.. इयं च हैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा । . २. 'अपलापस्तु निह्नवः इति अभिधानचिन्तामणौ द्वितीयकाण्डे १९० श्लोकः । निहवाः सप्त-१ बहुरता: २ जीवप्रादेशिकाः ३ अव्यक्तिकाः ४ सामुच्छेदिकाः ५ द्वैक्रियाः ६ त्रैराशिका: ७ अबद्धिकाः । १ एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः सक्ता बहुरताः दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः ।.ते च श्रीवीरकेवलात् १४ वर्षर्जमालिप्रभृतयः श्रीवस्तीनगरे समुत्पन्नाः । २ जीवः प्रदेश एष येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः । अथवा- जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते । तथा चरमप्रदेशजीवप्ररूपिण इति हृदयम् । ते च श्रीवीरकेवलात् १६ वर्षस्तिष्यगुप्तप्रभृतयः ऋषभपुरे समुत्पन्नाः । ३ अव्यक्तमस्फुटं वस्तु अभ्युपगमतो.विद्यते येषां ते अव्यक्तिकाः । संयताद्यवगमे सन्दिग्धबुद्धय इति भावना । अव्यक्तवादी । ते श्रीवीरनिर्वाणात् २१४ वराषाढप्रभृतयः श्वेतविकानगरे समुत्पत्राः ४ समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाशः । समुच्छेदं ब्रुवत इति सामुच्छेदिकाः क्षणक्षयिकभावप्ररूपकाः- शून्यवादीत्यर्थः । ते श्रीवीरनिर्वाणात् २२० वर्षेः अश्वमित्रादयः मिथिलानगर्यां समुत्पन्नाः । ५ द्वै क्रिये समुदिते द्विक्रियं, तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाऽभेदेन क्रियाद्वयाऽनुभवप्ररूपिणः-एकस्मिन् समये द्विक्रियावेदकाः । ते श्रीवीरनिर्वाणात् २२८ वर्षेः गङ्गादयः उल्लुकातीरे समुत्पन्नाः । ६ जीवाजीवनोजीवभेदात् त्रयो राशयः समादृताः त्रिराशिः, तत्प्रयोजनं येषां ते त्रैराशिकाः राशित्रयाख्यापकाः नोजीवस्थापका इत्यर्थः । ते श्रीवीरनिर्वाणत् ५४४ वर्षः रोहगुप्तप्रभृतयः पुरमन्तरंजिकायां समुत्पन्नाः । ७ स्पृष्टं जीवेन कर्म न स्कन्धबन्धबद्धद्रुमबद्धं, तदेषामस्तीत्यबद्धिकाः, स्पष्टकर्मविपाकप्ररूपका इति हृदयम् । ते श्रीवीरनिर्वाणात् ५८४ वर्षेः गोष्टामाहिलाः दशपुरे समुत्पन्नाः । (१७६AR RRRRRR स्याद्वादमञ्जरी Page #203 -------------------------------------------------------------------------- ________________ तथा सद्' इति उल्लेखनात्नयः, सहि अस्ति घटः' इति घटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिकामालम्बते । न चाऽस्य दुर्नयत्वं, धर्मान्तराऽतिरस्कारात् । न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् । स्यात्सदिति- स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चाऽस्य दृष्टेष्टाऽबाधितत्वाद् विपक्षे बाधकसद्भावाच्च । सर्वं हि वस्तु स्वरूपेण सत्, पररूपेण चासद् इति असकृदुक्तम् । सदिति दिङ्मात्रदर्शनार्थम् । अनया दिशा असत्त्वनित्यत्वाऽनित्यत्व-वक्तव्यत्वाऽवक्तव्यत्व-सामान्य-विशेषादि अपि बोद्धव्यम् । . इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह-यथार्थदर्शी इत्यादि । दुर्नीतिपथं दुर्नयमार्गम् । तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थाः । त्वमेव निराकृतवान्, न तीर्थाऽन्तरदेवतानि । केनं कृत्वा, नय-प्रमाणपथेन, नयप्रमाणे उक्तस्वरूपे तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदर्शी । यथार्थोऽस्ति तथैव पश्यतीत्येवंशीलो यथार्थदर्शी । विमलकेवलज्योतिषां यथावस्थितवस्तुदर्शी । तीर्थाऽन्तरशास्तारस्तु रागादिदोषकालुष्यकलङ्कितत्वेन यथाविधज्ञानाऽभावाद् न यथार्थदर्शिनः । ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः । न हि स्वयमनयप्रवृत्तः परेषामनयं निषे मुद्धरतां धत्ते । इदमुक्तं भवति- यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश्चौरश्वापद-कण्टकाद्याकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभयविकलं दोषाऽस्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति । १. गजनिमीलका ऽष्टादशवृत्ते द्रष्टव्या । २. लांच्छितं-चिह्नितम् । ३. तपस्विनः-वराकाः । ४. तद्धरता-प्रागल्भ्यम् । ५. भवति परमपदयोग्यतामासादयतीति भव्यः सिद्धिगमनयोग्यः । स्याद्वादमञ्जरी Kakkakakakak १७७ Page #204 -------------------------------------------------------------------------- ________________ आस्थ इति अस्यतेर द्यतन्यां शास्त्यसूवक्तिख्यातेरङ्' इत्याङि '४श्वयत्यसूवचपत: श्वास्थवोचपप्तम्' इति अस्थादेशे "स्वरादेस्तासु' इति वृद्धौ रूपम्.। मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाऽङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनयोगमहानगरस्य द्वाराणि । उपक्रमः, निपेक्षः अनुगमः, नयश्चेति । एतेषां च स्वरूप मावश्यकभाष्या देनिरूपणीयम्, इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिन्शब्दः अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति । .. अथ दुर्नय-नय-प्रमाणस्वरूपं किञ्चिनिरूप्यते । तत्राऽपि प्रथमं नयस्वरूपं; तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्याऽवबोधनार्थः कृतः । तत्र प्रमाण-प्रतिपन्नाथैकदेशपरामर्शो नयः । अनन्तधर्माध्यासितं वस्तु स्वाऽभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयति इति नय:प्रमाणप्रवृत्तेरूत्तरकालभावी परामर्श इत्यर्थः । नयाश्चानन्ता अनन्तधर्मत्वात् वस्तुनः । तदेकधर्मपर्यवसितानां १. हैमधातुपारायणे दिवादिगणे ७८ धातुः । २. अद्यतनीति हैमव्याकरणे लङ्लकारस्य संज्ञा । ३. हैमसूत्रम् ३।४।६० ४. हैमसूत्रम् ४।३।१०३ ५. हैमसूत्रम् ४।४।३१ ६. विशेषावश्यकभाष्य गाथा.९११।९१२ ।९१३।९१४ तथा गाथा १५०५ तः परम् । (चतुर्षु मूलसूत्रेष्विदं प्रथममावश्यकसूत्र-तन्मूलसंख्या १२५ । तत्राध्ययनषटकं, तत्र प्रथमाध्ययनं सामायिकाख्यं तद्भाष्यं विशेषावश्यकभाष्यं श्रीजिनभद्रगणिक्षमाश्रमणकृतं, श्लोकसंख्या ५००० । तत्र मलधारिश्रीहेमचन्द्रसूरिकृता बृहद्वृतिः । ग्रन्थसंख्या १८००० । तत्र वृत्तौ जैनस्थापनाचार्यकृता टीका । तथा भाष्योपरि द्रोणाचार्यकृता लघुवृत्तिः । ग्रन्थसंख्या १४०००) ७. 'अवसेयम्' इति क. पुस्तके पाठः । (१७८RATRAILER स्याद्वादमञ्जरी Page #205 -------------------------------------------------------------------------- ________________ वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धा: - " जावइआ वयणपहा तावइआ चेव हुंति नयवाया' इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा - नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत्, उच्यते । अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराऽभावात् । तत्र ये केचनाऽर्थनिरुपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽपि आद्ये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यंत्वगुणत्व- कर्मत्वाऽऽदीनि । तथाऽन्त्यान् विशेषान् सकलाऽसाधारणरूपलक्षणान्, अवान्तरविशेषांश्चाऽपेक्षया पररूपव्यावर्त्तनक्षमान् सामान्यात् अत्यन्तविनिर्लुठितस्वरूपानभिप्रैति । इदं च 'स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः । ४प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश्चायम् । संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एत सामान्यैकान्तवादे “प्राक् प्रपञ्चितम् ।' व्यवहारस्त्वेवमाह यथा 'लोकग्राहमेव वस्तु अस्तु । किमनया अदृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया । यदेव च लोकव्यवहारपथमवतरति तस्यैवाऽनुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य । न हि सामान्यमनादिनिधनमेकं संग्रहाऽभिमतं प्रमाणभूमिः । तथाऽनुभवाऽभावात् । सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । नाऽपि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तेरभावात् । तस्माद् इदमेव निखिललोका बाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाबिभ्राणमुदकाद्याहरणाद्यर्था क्रियानिर्वर्तनक्षमं घटादिकं वस्तुरूपं १. यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । इति छाया । २. चतुर्थश्लोकः । ३. 'जल्पितम्' इति क पुस्तके पाठः । ४. अनुयोगद्वारसूत्रं १४५ व्याख्या श्रीमलयगिरिकृता ५. चतुर्थपञ्चमश्लोकयोः । ६. लोके यथा प्रसिद्धं तथा । स्याद्वादमञ्जरी ४. १७९ Page #206 -------------------------------------------------------------------------- ________________ पारमार्थिकम् । पूर्वोत्तरकालभावितपर्यायपर्यालोचना 'पुनरज्यायसी । तत्र प्रमाणप्रसराऽभावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाञ्च तेषां किं तद्गोचरपर्यालोचनेन । तथाहि पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमामुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् । अत एव ‘पन्था गच्छति, गुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च 'वाचकमुख्यः-'लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः' इति । ऋजुसूत्रः पुनरिदंमन्यते वर्तमानक्षणविवत्येव वस्तुरूपम् । नातीतमनागतं च । अतीतस्य विनष्टत्वाद्, अनागतस्याऽलब्धाऽऽत्मलाभत्वात् खरविषाणाऽऽदिभ्योऽविशिष्यमाणत्या सकलशक्तिविरहरूपत्वाद् नार्थक्रियानिर्वर्तनक्षमत्वम् । तदभावाञ्च न वस्तुत्वं 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्' इति वचनात् । वर्तमानक्षणाऽऽलिङ्गितं पुनर्वस्तुरूपं समस्ताऽर्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशंमभ्युपगन्तव्यम् । अंशव्याप्तेर्युक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्यावयवव्यापनाऽयोगात् अनेकस्वभावता एवास्तु इति चेद् । न, विरोधव्याघ्राघ्रातत्वात् । तथाहि-यदि एकः स्वभावः कथमनेकः । अनेकश्चेत्कथमेकः । एकाऽनेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव.एव परस्परोपसर्पणद्वारेण कथंनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं,न स्थूलतां धारयत्. पारमार्थिकमिति । एवमस्याऽभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम्, अनुपयोगित्वादिति । शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दराऽऽदयः सुरपती, तेषां सर्वेषामप्येकमर्थमभिप्रेति किल प्रतीतिवशाद् । यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते । तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नाऽर्थवाचितया कदाचन प्रतीयन्ते । तेभ्यः सर्वदा एकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दानामर्थ इति । शब्द्यते १. अश्रेयसी । २. तत्त्वार्थधिगमसूत्र १।३५ भाष्ये । (१८OAAAAAAAAAAAAA स्याद्वादमञ्जरी) Page #207 -------------------------------------------------------------------------- ________________ आहूयतेऽनेनाऽभिप्रायेणाऽर्थ:, इति निरुक्तात् एकार्थप्रतिपादनाऽभिप्रायेणैव पर्यायध्वनीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति, तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षण-धर्माऽभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्माऽयोगो युक्तः । एवं सङ्ख्याकालकारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः । तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारकं कर्त्रादि, पुरुषः, प्रथमपुरुषादिः । समभिरूढस्तु-पर्यायशब्दानां प्रविभक्तमेवाऽर्थमभिमन्यन्ते । तद्यथा-इन्दनात् इन्द्रः । परमैश्वर्यम्- इन्द्रशब्दवाच्यं परमार्थस्तद्वत्यर्थे । अतद्वत्यर्थे पुनरुपचारतो `वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्ताऽर्थप्रतिपादितया आश्रयाऽऽश्रयिभावेन प्रवृत्त्यसिद्धेः । एवं शकनात् शक्रः पूर्वारणात् पुरन्दर इत्यादि भिन्नाऽर्थत्वं सर्वशब्दानां दर्शयति । प्रमाणयति च पर्यायशब्दा अपि 'भिन्नाऽर्थाः प्रविभक्तव्युत्पत्तिनिमित्तकत्वात् । इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नाऽर्थकाः । यथा इन्द्र - पशु - पुरुषशब्दा: । विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नाऽर्था इति । I एवंभूतः पुनरेवं भाषते-यस्मिन् अर्श्वे, शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थों यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् एवं घटोऽभिधीयते । न शेषः । घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति । अतीतां भाविनीं वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेद् / न, तयोर्विनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्द्वारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाऽभावात् । किञ्च यदि अतीत-वर्त्स्यचेष्टाऽपेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुज्येत तदा कपालमृत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्, विशेषाऽभावात् । तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव 'सोऽर्थस्तच्छब्दवाच्य इति । अत्र संग्रह श्लोका: 'अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं संगृह्णन् संग्रहो मतः ।।२।।' १. 'चेष्टावत्यपि प्रयुज्यते' इति क पुस्तके पाठः । स्याद्वादमञ्जरी ॐ ॐ ॐ ४ १८१ Page #208 -------------------------------------------------------------------------- ________________ व्यवहारस्तु तामेव प्रतिवस्तु 'व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ।। ३ ।। तत्रर्जुसूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः । ॥४॥ विरोधलिङ्ग - संख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ।।६।। एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ।।७।। एत एव च परामर्शा अभिप्रेतधर्माऽवधारणात्मकतया शेषधर्मतिस्कारेण प्रवर्तमाना 'दुर्नयसंज्ञामनुवते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहिनैगमनयदर्शनाऽनुसारिणौ नैयायिकवैशेषिकौ । संग्रहाऽभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, साङ्ख्यदर्शनं च । व्यवहारनयाऽनुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राऽऽकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दाऽऽदिनयाऽवलम्बिनो वैयाकरणादयः । उक्तं च सोदाहरणं नय-दुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रन्थः " '४ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायंविशेषो नयः' ।। १ ।। इति । १. 'व्यवस्थितिम्' इति क. ख. रा. पुस्तकेषु पाठः । २. प्राप्नुवन्ति । ३. अतः परं "सप्तभङ्गीमनुव्रजति' इत्यन्तं त्रयः पञ्चाशत्सूत्राणि प्रमाणनयतत्त्वालोकालङ्कारे सप्तम परिच्छेदे। एभिरेव त्रयःपञ्चाशद्भिः सूत्रः सूत्रकारः श्रीवादिदेवसूरिपादस्तत्र नयलक्षणसङ्ख्याविषयान् व्यवस्थापितवान् । ४. सूत्रोपरि ग्रन्थकारेण स्वयमेव स्याद्वादरत्नाकराऽऽख्या ८४००० श्लोकपरिमिता बृहट्टीका कृत सा सप्तमाध्यायपर्यन्ताऽधुना उपलब्धास्ति । किन्तु विस्तृत्वात्किञ्चित् त्रुटितत्वाञ्च अत्र न निर्देशीकृता । श्रीरत्नप्रभाचार्यकृता रत्नाकरावतारिकाख्या द्वितीया संक्षिप्ता टीका १८२ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ स्याद्वादमञ्जरी, Page #209 -------------------------------------------------------------------------- ________________ विषयवैशद्यार्थ प्रस्तुता । 'एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्तिनीयते येन श्रुताख्यप्रमाणविषयीकृतस्याऽर्थस्यांशस्तदिरांशी दासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ।।१।। अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्याऽपेक्षया स नयोऽभिधीयते । तदितरांशाऽप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपत्ते ! . स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षाऽपेक्षाणां कथयसि नयानां सुनयतां .. विपक्षक्षेतृणां पुनरिह विभो ! दुष्टनयताम् ।।१।। पञ्चाशति च निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां __ वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । . .. औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया श्चेदेकान्तकलङ्कपङ्ककलुषास्त स्युस्तदा दुर्नयाः ।।१।। ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायात्मकत्वेन तस्य प्रेमाणस्वरूपत्वात्। तथाहि-नयः प्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् स्वार्थव्यवसायकस्याप्यस्य प्रमाणाऽत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थकदेशनिर्णातिलक्षणत्वेन स्वार्थव्यवसायकत्वाऽसिद्धेः । ननु नयविषयतया संमतोऽथैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात्, तस्याऽवस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम् । अथैकदेशस्य वस्तुत्वाऽवस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ।।१।। । तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । .. समुद्रबहुता वा स्यात् तत्त्वे क्वाऽस्तु समुद्रवित् ? ।।२।। यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात् समुद्रबहुत्वापत्तेर्वा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् । समुद्रांशः समुद्रांश एवोच्यते, तथा स्वार्थकदेशो नयस्य न वस्तु स्वार्थकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वाः । नाप्यवस्तु, शेषांशानामप्यवस्तुत्वे क्वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाऽभावात् ? ततो वस्त्वंशे प्रवर्तमानो नयः स्वार्थेकदेशव्यवसायलक्षणो न प्रमाणं नापि मिथ्याज्ञानमिति ।।१।। स्याद्वादमञ्जरी i ndiaditik १८३) Page #210 -------------------------------------------------------------------------- ________________ ''स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः ॥२॥ स व्याससमासाभ्यां द्विप्रकारः ।।३।। • व्यासतोऽनेकविकल्पः ।।४।। समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।।५।। १. नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुः स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ।।२।। पुनःशब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः यथा तीथिकानां नित्यानित्याद्येकान्तप्रदर्शकं सकलं वाक्यमिति ।।२।। नयप्रकारसूचनायाहुः- .. . स व्याससमासाभ्यां द्विप्रकारः ॥३॥ स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः; व्यासनयः समासनयश्चेति ।।३।। व्यासनयप्रकारान् प्रकाशयन्ति- . . . व्यासतोऽनेकविकल्पः ॥४॥ . एकांशगोचरस्य हि प्रतिपतुरभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्तांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तृणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ।।४।। समासनयं भेदतो दर्शयन्तिसमासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।।५।। नय इत्यनुवर्तते । द्रवति द्रोष्यति अदुद्रुवत् तांस्तान् पर्यायानिति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः । पर्येत्युत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थ, सोऽस्ति यस्यासौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायार्थाविति च प्रोच्येते । ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत्, गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो हि द्विविधः । क्रमभावी सहभावी च । तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान दोषः । ननु द्रव्यपर्यासव्यतिरिक्तो सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् । नैतदनुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धः । तथाहि, द्विप्रकारं सामान्यमुक्तम्-उर्ध्वतासामान्यं तिर्यक्सामान्यं च । तत्रोच॑तासामान्यं द्रव्यमेव । तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यञ्जनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धेः । विशेषोऽपि वैसदृश्यविवर्तलक्षण: पर्याय एवान्तर्भवतीति नैताभ्यामधिकनयावकाशः ।।५।। द्रव्यार्थिकभेदांनाहुः(१८४Nnnnnnnnn स्याद्वादमञ्जरी) Page #211 -------------------------------------------------------------------------- ________________ आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ।।६।। धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ।।७।। सत् चैतन्यमात्मनीति धर्मयोः ।।८॥ वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ।।९।। क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।।१०।। आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ।।६।। आद्यो द्रव्यार्थिकः ।।६।। तत्र नैगमं प्ररूपयन्ति धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ।।७।। पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासी नैगमो नाम नयो ज्ञेयः ।।७।। अथास्योदाहरणाय सूत्रत्रयीमाहुः- .. . सबैतन्यमात्मनीति धर्मयोः ।।८।। प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् । विशेष्यत्वाद् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन । तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ।।८।। वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ।।९॥ - अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । किं वस्तु पर्यायवद्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम्, पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ।।९।। क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।।१०।। अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसंभवात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवाद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान स्याद्वादमञ्जरी AddakarAAAAAAAAR८५) Page #212 -------------------------------------------------------------------------- ________________ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ।।११।। तथा आत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ।।१२।। सामान्यमात्रग्राही परामर्शः संग्रहः ।।१३।। अयमुभयविकल्पः परोऽपरश्च ।।१४।। अशेषविशेषेषु औदासीन्यं भजमान: शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ।।१५।। विश्वमेकं सदविशेषादिति यथा ।।१६।। अथ नैगमाभासमाहुःधर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धिर्नेगमाभासः ।।११।। आदिशब्दाद् धर्मिद्वयधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुर्नय इत्यर्थः ।।११।। . अत्रोदाहरन्तियथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ।।१२।। आदिशब्दाद्वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ।।१२।। अथ संग्रहस्वरूपमुपवर्णयन्ति- . . . . सामान्यमात्रग्राही परामर्शः संग्रहः ।।१३।। ' ___सामान्यमात्रशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः ।। अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इतिं ।।१३।। अमुं भेदतों दर्शयन्तिअयमुभयविकल्पः परोऽपरश्च ।।१४।। तत्र परसंग्रहमाहुःअशेषविशेषेष्वोदासीन्यं भज़मानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ।।१५।। परामर्श इत्यग्रेतनेऽपि योजनीयम् ।।१५।। उदाहरन्तिविश्वमेकं सदविशेषादिति यथा ।।१६।। अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ।।१६।। . (१८६ स्याद्वादमञ्जरी Page #213 -------------------------------------------------------------------------- ________________ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः ।।१७।। यथा सत्तैव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् ।।१८।। द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वानस्तद्भेदेषु . गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ।।१९॥ . धर्माऽधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदात् इत्यादिर्यथा ।।२०।। एतदाभासमाहुःसत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ।।१७।। अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, न चायं तथेति तदाभासः ।।१७।। उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ।।१८॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ।।१८।।। अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्धेदेषु गजनिमीलिकामवलम्बमानः । पुनरपरसंग्रहः ।।१९।। द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अंवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपेक्षाम् ।।१९।। उदाहरन्ति- . धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामेक्यं द्रव्यत्वाभेदादित्यादिर्यथा ।।२०।। अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाचेतनाचेतनपर्यायाणां सर्वेषामेकत्वम्। पर्यायत्वाविशेषादित्यादि दृश्यम् ।।२०।। एतदाभासमाः स्याद्वादमञ्जरी iritualitarian ९८७) Page #214 -------------------------------------------------------------------------- ________________ - तद्रव्यत्वाऽऽदिकं । प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः ।।२१।। • यथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां . द्रव्याणामनुपलब्धेरित्यादि ।।२२।। संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं - येनाऽभिसन्धिना क्रियते स व्यवहारः ।।२३।। यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः ।।२४।। द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिहृवानस्तदाभासः ।।२१।। तदाभासोऽपरसंग्रहाभासः ।।२१।। उदाहरन्ति.. यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः ।।२२।। अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपहृत इत्यपरसंग्रहाभासनिदर्शनम् । सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एव, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ।।२२।। अथ व्यवहारनयं व्यवहरन्ति संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥२३।। संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ।।२३।। . . उदाहरन्ति यथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ।।२४।। आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षड्विधं, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ।।२४।। १ सद्' इति क. पुस्तके पाठः । . २ 'प्रतिपद्यमानः' इति क. पुस्तके पाठः । (१chAAAAAAAAAAAAAP स्याद्वादमञ्जरी Page #215 -------------------------------------------------------------------------- ________________ यः पुनरपारमार्थिकद्रव्य-पर्यायविभागमभिप्रेति स व्यवहाराऽऽभासः ।।२५।। यथा चार्वाकदर्शनम् ।।२६।। पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः शब्दः समभिरूढः एवंभूतश्च ।।२७।। ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्त्रभिप्राय ऋजुसूत्रः ।।२८।। यथा सुखविवर्तः सम्प्रति अस्तीत्यादिः ।।२९॥ .. एतदाभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ।।२५॥ यः पुनः परामर्शविशेषः कल्पनारोपितद्रव्यपर्यायप्रविवेकं मन्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ।।२५।। उदाहरन्तियथा चार्वाकदर्शनम् ।।२६।। . चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापहृते, अविचारितरमणीयं भूतचतुष्टप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ।।२६।। द्रव्यार्थिकं त्रेधाभिधाय पर्यायार्थिकं प्रपञ्चयन्ति- .. पर्यायर्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ।।२७॥ एषु ऋजुत्रं तावद्वितन्वन्ति- - ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयत्रभिप्राय ऋजुसूत्रः ।।२८॥ ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपिगुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।।२८।। उदाहरन्ति यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ।।२९।। अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्र प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्प्यते । आदिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ।।२९।। स्याद्वादमञ्जरी ARRRRRRRRRRRRRAR९) Page #216 -------------------------------------------------------------------------- ________________ सर्वथा द्रव्याऽपलापी तदाभासः ।।३०।। तथागतमतम् ।।३१॥ कालाऽदिभेदेन ध्वनेर्थभेदं प्रतिपद्यमानः शब्दः ।।३२।। यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।।३३। तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ।।३४।। ऋजुसूत्राभासं बघतेसर्वथा द्रव्यापलापी तदाभासः ।।३०।। सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः ।।३०।। उदाहरन्ति यथा तथागतमतम् ।।३१॥ - तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहतम् ।।३१।। शब्दनयं शब्दयन्तिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ।।३२।। कालादिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ।।३२।। उदाहरन्ति- . . . यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।।३३।। अत्रातीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतञ्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे ।।३३।। एतदाभासं ब्रुवते- . . . तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ।।३४ ।। तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । तदाभासः शब्दाभासः ।।३४ ।। १. 'तदाभास' इति क. ह. पुस्तकयोः पाठः । (१९०NA K ARAAAA स्याद्वादमञ्जरी) Page #217 -------------------------------------------------------------------------- ________________ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भित्रकाला: शब्दा भिन्नमेव अर्थमभिदधति भित्रकालशब्दत्वात् __ तादृक्सिद्धाऽन्यशब्दवद् इत्यादिः ।।३५।। पर्यायशब्देषु निरुक्तभेदेन भिन्नमर्थं समभिरोहन समभिरूढः ।।३६।। इन्दनाद् इन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८।। यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाऽभिधेया एवं भिन्नशब्दत्वात् करि-कुरङ्ग-तुरङ्गशब्दवद् इत्यादिः ।।३९॥ उदाहरन्ति यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः . . शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ।।३५।। । अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदादिनस्यैवार्थस्याभिधायकत्वं शब्दानांव्यञ्जितम्। एतञ्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ।।३५।। समभिरुढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः ।।६।। शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति समभिरूढस्तु पर्यायभेदे भिन्नानर्थानमिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।।३६।। . .. उदाहरन्ति इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहनभिप्रायविशेषः समभिरूढस्तथान्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ।।३७।। एतदाभासमाभाषन्ते पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८॥ . तदाभासः समभिरूढाभासः ।।३८।। उदाहरन्ति यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भित्रशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥ स्याद्वादमञ्जरी Maharashtrian १९१) Page #218 -------------------------------------------------------------------------- ________________ शब्दानां स्वप्रवृत्तिनिमित्तभूत क्रियाविशिष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन् एवंभूतः ।।४०।। यथेन्दनमनुभवन् इन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ।।४१।। .. क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया . प्रतिक्षिपंस्तु तदाभासः ।।४२।। एवंभूतनयं प्रकाशयन्ति शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ. वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ।।४०॥ . समभिरूढनयो इन्दनादिक्रियायां सत्यामसत्यांच वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थं तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव- दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वीकुरुते ।।४०॥ . उदाहरन्ति-: . यथेन्दनमनुभवनिन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ . एवंभूताभासमाचक्षते- .. . क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः ।।४।। क्रियाविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ।।४२।। १. 'क्रियाविष्ट' इति क. ख. पुस्तकयोः पाठः । (१९२) dihadkarinaukuni स्याद्वादमञ्जरी Page #219 -------------------------------------------------------------------------- ________________ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् । घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादि ।।४३।। एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वाद् अर्थनयाः ।।४४।। शेषास्तु त्रयः शब्दवाच्याऽर्थगोचरतया शब्दनयाः ।।४५।। पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६॥ . सन्मात्रगोचरात् संग्रहाद् नैगमो भावाऽभावभूतिकत्वाद् भूमविषयः ।।४७॥ सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहो ___ पदर्शकत्वाद् बहुविषयः ।।४८।। उदाहरन्ति यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तितिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥४३॥ , अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च । प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् ।।४३।। के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ।।४४ ।। शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ।।४५।। कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिपूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६।। . तत्र नैगमसंग्रहयोस्तावन्न संग्रहों बहुविषयो नैगमात्परः किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहु: सन्मात्रगोचरात्संग्रहात्रैगमो भावाभावभूमिकत्वाद् भूमविषयः ।।४७।। भावभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुविषयः ।।४७।। संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद्व्यवहारतः संग्रहः समस्तसमूहोपदर्शकत्वात् । बहुविषयः ।।४८॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ।।४८ ।। स्याद्वादमञ्जरी A n iruddhi १९३) Page #220 -------------------------------------------------------------------------- ________________ वर्तमानविषयाद् ऋजुसूत्राद् व्यवहारस्त्रिकालविषयाऽवलम्बित्वाद् अनल्पार्थः ।।४९॥ कालाऽदिभेदेन भिन्नाऽर्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीत . वेदकत्वाद् महाऽर्थः ।।५०॥ . प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्त द्विपर्ययाऽनुयायित्वात् प्रभूतविषयः ।।५१।। प्रतिक्रियं विभिन्नमर्थं प्रतिजानानाद् एवंभूतात् समभिरूढस्तद न्यथाऽर्थस्थापकत्वाद् महागोचरः ।।५२।। व्यवहाराद् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्तिवर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ।।४९।। वर्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रियतवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति ।।४९।। ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्तिकालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ।।५०।। शब्दनयो हि कालादिभेदाद्भिनमर्थमुपदर्शयतीति स्सोकविषयः, ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थं सूचयतीति बहुविषय इति ।।५०।। .. शब्दात्समधिरूढो महार्थ इत्यारेका पराकुर्वन्ति___प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ।।५।। . समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तद्भेदेनाप्येकार्थतां समर्थयत इति समधिकविषयः ।।५।। समभिरूढादेवंभूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५२॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थं प्रतिजानीत इति तुच्छविषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः ।।५२।। (१९४)NNNNNNNNAINA स्याद्वादमञ्जरी Page #221 -------------------------------------------------------------------------- ________________ नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥५३।। इति । विशेषाऽर्थिना नयानां नामाऽन्वर्थविशेषलक्षणाऽऽक्षेप- परिहारादिचर्चस्तु भाष्यमहोदधि-गन्धहस्तिटीका- न्यायावताराऽऽदि-ग्रन्थेभ्यो निरीक्षणीयः । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्, स्याच्छब्दलाञ्छितानां नयानामेव प्रमाण- व्यपदेशभाक्त्वात् । तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ।।५३।। नयवाक्यं प्राकलक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपि शब्दार्थः । स्वविषये । स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनय-युग्म'समुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति । प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गस्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्गया विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूप-प्ररूपकत्वादिति ।।५३ ।। १. 'विशेषार्थिनयानाम्' इति क. पुस्तके पाठः । . , २. तत्त्वार्थाधिगमभाष्यम् । तदेव गन्धहस्तिटीका । ग्रन्थसंख्या ८४००० । इयं श्रीसमन्तभद्राचार्यकृता । एतन्मङ्गलं सपादशतश्लोकात्मकं तदेव केवलमधुनोपलभ्यते न संपूर्णो ग्रन्थः । अयमेव मङ्गलग्रंथ आप्तमीमांसा देवागमस्तोत्रं वेत्यभिधीयते । अत्र श्रीमदकलंकदेवविरचिता अष्टशती । श्रीमद्विद्यानन्दस्वामिविरचिता-अष्टसहस्री चास्ति । न्यायावतारः-श्रीसिद्धसेनदिवाकरकृतः । अनेन द्वात्रिंशद्वात्रिंशिकारूपः स्तुतिसंग्रह कृतः । तत्र प्रत्येकं द्वात्रिंशत्श्लोकाः । तत्रैव न्यायावतारनाम्नयेका द्वात्रिंशिका । अत्र श्रीसिद्धर्षिगणिकृत व्याख्या श्रीराजशेखरसूरिविरचिता टिप्पनी चास्ति । ३. बृहत्स्वयंभुस्तोत्रावल्यां श्रीसमन्तभद्रकृतायां श्रीविमलनाथस्तवे श्लो. ६५ । स्याद्वादमञ्जरी in s istindi १९५) Page #222 -------------------------------------------------------------------------- ________________ . 'नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । २भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः' ।।१।। इति तञ्च द्विविधम्-प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षं द्विधा-सांव्यावहारिकं पारमार्थिकं च । सांव्यावहारिकं द्विविधम्-इन्द्रियाऽनिन्द्रियनिमित्तभेदात् । 'तद् द्वितयम्-अवग्रहहाऽवायधारणाभेदाद् एकशश्चतुर्विकल्पम् ।।६।।' अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् नं प्रतन्यते । "पारमार्थिकं पुनरुत्पत्तौ आत्ममात्राऽपेक्षम् ।।१८।।' तद् द्विविधम्-क्षायोपशमिकं क्षायिकं च । आद्यम्-अवधिमनःपर्यायभेदाद् द्विधा । क्षायिकं तु केवलज्ञानमिति । ___परोक्षं च स्मृति-प्रत्यभिज्ञानो-हाऽनुमानाऽऽ-गमभेदात् पञ्चप्रकारम् । "तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मृतिः ।।३।। 'तत् तीर्थकरबिम्बमिति यथा ॥४॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्याऽऽदिगोचरं संकलनाऽऽत्मकं ज्ञानं प्रत्यभिज्ञानम् ।।५।। यथा तज्जातीय एवाऽयं गोपिण्डः, गोसदृशो गवयः, स एवाऽयं जिनदत्त इत्यादि ।।६।। उपलम्भाऽनुपलम्भसंम्भवं त्रिकालीकलितसाध्यसाधन -सम्बन्धाद्याऽऽलम्बनं-इदमस्मिन् १. 'सत्यलाञ्छना' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । २. 'गुणा' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । ३. प्र. न. लो. परि. २ सू. १, २, ३, ४, ५.. ४. एतत्स्वरूपं प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयपरिच्छेदे सू. ५।६ इत्यत्र द्रष्टव्यम् । ५. प्र. न. लो. परि. २ सू. १८.. ६. - क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमे विष्कम्भितोदयत्वं क्षयोपशमः । ७. एतल्लक्षणं भेदानि च प्र. न. लो. परि. ३ सू. १।२ ८. प्र. न. लो. परि. ३ सू. ३ ९. प्र. न. लो. परि. ३ सू. ४। (१९६) kakakakakirakshakti स्याद्वादमञ्जरी) Page #223 -------------------------------------------------------------------------- ________________ सत्येव भवतीत्याद्याकारं 'संवेदनमूहस्तर्कापरपर्यायः ।। ७।। यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति वा ।।८।। अनुमानं द्विधा स्वार्थ परार्थं च ।। ९ ।। तत्रान्यथानुपपत्त्येकलक्षणहेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । । १० ।। ३पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ।।२३ ।। आप्तवचनाद् आविर्भूतमर्थसंवेदनमागमः ।।१।। उपचाराद् आप्तवचनं च । । २ । । इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति । प्रमाणान्तराणां पुनरर्थाऽऽपत्त्युपमानसंभवप्रातिभैतिह्यादीनामत्रैव अन्तर्भावः । सन्निकर्षादीऽऽनां तु जडत्वाद् एव न प्रामाण्यमिति । तदेवंविधेन नयप्रमाणोपन्यासेन दुर्नयमार्गस्त्वया "खिलीकृतः । इति काव्यार्थः ।। २८ । इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावदूकानां तन्मात्रलोके परिमिप्तानामेव सत्त्वानां संभवात् । परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवाऽऽनन्त्यवादं निर्दोषतयाऽभिष्टुवन्नाह मुक्तोऽपि वाऽभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मिताऽऽत्मवादे | षड्जीवकायं त्वमनन्तसंख्य माख्यस्तथा नाथ ! यथा न दोषः ||२९|| १. 'ऊहापरनामा तर्क' इति ह पुस्तके पाठः । २. ' तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविज्ञानं स्वार्थम्' इति प्र. न. लो. परि. ३ सू. १० ३. प्र. न. श्लो. परि. ३ सू. २३. ४. प्र. न. श्लो. परि. ४ सू. १।२ ५. रुद्धः । ६. वावदूक:- अतिवक्ता । (स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ४ १९७ Page #224 -------------------------------------------------------------------------- ________________ मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति-मुक्तोऽपि वाभ्येतु भवमिति मुक्तो निवृतिमाप्तः, सोऽपि वा अर्पिविस्मये, वाशब्द उत्तरदोषाऽपेक्षया समुच्चयाऽर्थः यथा देवो वा दानवो वेति भवमभ्येतु संसारमभ्यांगच्छतु, इत्येको दोषप्रसङ्गः । भवो वा भवस्थशून्योऽस्तु-भवः संसारः, सं वा भवस्थशून्यः संसारिभिर्जीवैर्विरहितोऽस्तु भवतु । इति द्वितीयो दोषप्रसङ्गः । इदमत्र आकूतम् । यदि परिमिता एव आत्मानो मन्यन्ते तदा तत्त्वज्ञानाऽभ्यासप्रकर्षादिक्रमेणाऽपवर्गं गच्छत्सु तेषु संभाव्यते खलु स कश्चित्कालो यत्र तेषां सर्वेषां निर्वृतिः । कालस्याऽनादिनिधनत्वाद् आत्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम् । समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनाऽतपनजनोदञ्चनादिना कालान्तरे रिक्ता । न चायमर्थः प्रामाणिकस्य कस्यचिद् प्रसिद्धः, संसारस्य स्वरूपहानिप्रसङ्गात् । तत्स्वरूपं हि एतद्-यत्र कर्मवशवर्तिनः, प्राणिनः संसरन्ति, समासार्षुः, संसरिष्यन्ति चेति । सर्वेषां च निर्वृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यम् । मुक्तैर्वा पुनर्भवे आगन्तव्यम् । न च क्षीणकर्मणां भवाधिकारः 'दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः । । ' इति वच । आह च पतञ्जलिः ''सति मूले तद्विपाको जात्याऽऽयुर्भोगाः' इति । एतट्टीका. च - 'सत्सु क्लेशेषु कर्माऽऽशयो विपाकारम्भीभवति नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धा शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नाऽपनीतलुषा दग्धबीजभावा वा । तथा क्लेशाऽवनद्धः कर्माऽऽशयो विपाकप्ररोही भवति । नाऽपनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो १. जनोदञ्चनं-लोकैर्जलाहरणम् । २. पातञ्जलसूत्रम् २।१३ ३. वात्स्यायनभाष्यम् ।२।१३ १९८ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐॐॐॐॐॐ स्याद्वादमञ्जरी Page #225 -------------------------------------------------------------------------- ________________ जातिरायुर्भोगः' इति । अक्षपादोऽप्याह-'न 'प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' इति । एवं विभङ्गज्ञानिशिवराजर्षिमताऽनुसारिणो दूषयित्वा उत्तरार्द्धन भगवदुपज्ञमपरिमिताऽऽत्मवादं निर्दोषतया स्तौति-षड्जीवेत्यादि । त्वं तु हे नाथ ! तथा तेन प्रकारेण, अनन्तसङ्ख्यमनन्ताख्यसङ्ख्याविशेषयुक्तं षड्जीवकायम् । अजीवन्, जीवन्ति, जीविष्यन्ति चेति जीवा इन्द्रियाऽऽदिज्ञानाऽऽदिद्रव्यभावप्राणधारणयुक्ताः, तेषां सोऽनूचे' इति चिनोतेपनि आदेश्च कत्वे कायः समूहः जीवकायः पृथिव्यादिः । षण्णां जीवकायानां समाहारः षड्जीवकायम्, पात्रादिदर्शनाद् नपुंसकत्वम् । अथवा षण्णां जीवानां कायः प्रत्येक सङ्घात: षड्जीवकायस्तं षड्जीवकायम्, पृथिव्यप्-तेजो-वायु-वनस्पति- त्रसलंक्षणषड्जीवनिकायम् । तथा तेन प्रकारेण, आख्यः मर्यादया प्ररूपितवान्, यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्-प्रागुक्तदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवाऽऽनन्त्यमुपदिष्टवानित्यर्थः । आख्यः इति आपूर्वस्य ख्यातेरेङि सिद्धिः । त्वमित्येकवचनं चेदं ज्ञापयति-यद् जगद्गुरोरेव एकस्य ईदृक्प्ररूपणसामर्थ्य, न तीर्थाऽन्तरशास्तृणामिति । पृथिव्यादीनां पुनर्जीवत्वमिथं साधनीयम्-यथा, साऽऽत्मिका विद्रुमशिलाऽऽदिरूपा पृथिवी । छेदे समानधातूत्थानाद्, 'अर्शोऽङ्कुरवत् । भौममम्भोऽपि साऽऽत्मकम्, क्षतभूसजातीयस्य स्वभावस्य सम्भवात्, शालूरवत् । आन्तरिक्षमपि साऽऽत्मकम्, अभ्रादिविकारे स्वतः सम्भूय पातात्, मत्स्याऽऽदिवत् । तेजोऽपि साऽऽत्मकम्, आहारोपादानेन वृद्धयाऽऽदिविकारोपलम्भात्, पुरुषाङ्गवत् । वायुरपि साऽऽत्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्वाद् गोवत् । वनस्पतिरपि १. गौतमसूत्रे ४।१।६४ २. हैमसूत्रे ५।३।८० ३. 'पात्राद्यन्तस्य न' का. वा. ४. 'शास्त्यसूवक्तिख्यातेरङ्' इति हैमसूत्रे ३।४।६० ५. अर्शः-दुर्नामपर्यायो रोगविशेषः । तदङ्करे छिन्नेऽपि पुनः स प्ररोहति । अत्र 'दर्भाङ्करवत्' इति रा. घ. पुस्तकयोः पाठः । ६. भौम-भूमिगतम् । ७. शालूरः-मण्डूकः । स्याद्वादमञ्जरीnabatikari १९९) Page #226 -------------------------------------------------------------------------- ________________ साऽऽत्मकः, छेदादिभिर्लान्यादिदर्शनात्, पुरुषाङ्गवत् । केषाञ्चित् स्वापाङ्गेनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां साऽऽत्मकत्वसिद्धिः आप्तवचनाच्च । त्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्याऽऽदिषु न केषाञ्चित् साऽऽत्मकत्वे विगानमिति । यथा च भगवदुपक्रमे जीवानन्त्ये न दोषस्तथा दिग्मात्रं भाव्यते-भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्पबहुत्वम्सर्वस्तोकास्त्रसकायिकाः । तेभ्यः सङ्ख्यातगुणाः तेजस्कायिकाः । तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः । तेभ्यो विशेषाधिका अप्कायिकाः । तेभ्योऽपि विशेषाधिका वायुकायिकाः । तेभ्योऽनन्तगुणा वनस्पतिकायिकाः । ते च व्यावहारिका अव्यावहारिकाश्च 'गोला य असंखिज्जा असंखणिग्गोय गोलओ भणिओ । इक्किक्कणिगोयम्हि अणन्तजीवा मुणेयव्वा ।।१।। सिज्झन्ति जत्तिया खलु इह संववहारजीवरासीदो । एंति अणाइवणस्सइ रासीदो तत्तिआ तम्हि ।।२।।' इति वचनाद् यावन्तश्च यतो मुक्तिं गच्छन्ति जीवास्तावन्तोऽनादिनिगोद वनस्पतिराशेस्तत्राऽऽगच्छन्ति । न च तावता तस्य काचित् परिहाणिर्निगोदजीवानन्त्यस्याऽक्षयत्वात् । निगोदस्वरूपं च’समयंसागरांद् अवगन्तव्यम् । अनाद्यनन्तेऽपि काले ये केचिन्निर्वृत्ताः, निर्वान्ति, निर्वास्यन्ति च ते निगोदानामनन्तभागेऽपि न वर्त्तन्ते । नावर्तिषत, न वर्त्स्यन्ति । ततश्च कथं मुक्तानां भवाऽऽगमनप्रसङ्गः, कथं च संसारस्य रिक्तताप्रसक्तिरिति, अभिप्रेतं चैतद् अन्ययूथ्यानामपि । यथा चोक्तं वार्तिककारेण १. गोलाश्च असंख्येयाः असंख्यनिगोदोगोलको भणितः । एकैकस्मिन् निगोदे अनन्तजीवा ज्ञातव्याः ।। १ ।। सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ।।२ ।। इति छाया २. अयं ग्रन्थो न विज्ञायते । २०० ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी Page #227 -------------------------------------------------------------------------- ________________ 'अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ।।१॥ . अत्यन्यूनातिरिक्तत्वैर्युज्यते परिणामवत् । वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः ।।२।।' इति काव्यार्थः ।।२९।। अधुना परदर्शनानां परस्परविरुद्धाऽर्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योऽन्याऽनुगतसर्वनय' मयतया मात्सर्याऽभावमाविर्भावयति अन्योऽन्यपक्षप्रतिपक्षभावाद् । यथा परे मत्सरिण: प्रवादाः । नयानशेषानविशेषमिच्छन् । न पक्षपाती समयस्तथा ते ।।३०।। प्रकर्षेण उद्यते प्रतिपाद्यते स्वाऽभ्युपगतोऽर्थो यैरिति प्रवादाः । यथा येन प्रकारेण, परे भवच्छासनाद् अन्ये, प्रवादा दर्शनानि, मत्सरिणः-३अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषिताऽन्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः, इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूल: पक्षः प्रतिपक्षः-पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः । अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्ष १. सर्वनयस्वरूपयुक्ततयेत्यर्थः । २. 'परदर्शनानि' इति क. ख. पुस्तकयोः पाठः । ३. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इत्युक्तेः । स्याद्वादमञ्जरी) NARASANNARARRANA २०९) Page #228 -------------------------------------------------------------------------- ________________ त्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् । तथा हि-य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्याऽनित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एवमीमांसकानां प्रतिपक्षः । एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण,ते तव सम्यक् एति गच्छति शब्दोऽर्थमनेन इति 'पुनाम्नि घः ।' समयः संकेतः, यद्वा सम्यग् अवैपरीत्येन अय्यन्ते ज्ञायन्ते जीवाऽ-ज़ीवादयोऽर्था अनेन, इति समयः, सिद्धान्तः । अथवा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय आगमःन पक्षपाती नैकपक्षाऽनुरागी । पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम् । त्वत्समयस्य च मत्सरित्वाऽभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, 'व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति' इति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तत इति भावः । तव समय इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । सूत्राऽपेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थाऽपेक्षया भगवत्कर्तृकत्वाद् वाच्यवाचकभावो न विरुध्यते अत्थंभासइअरहा सुत्तं गंथंति गणहरा णिउणं' इति वचनात्, अथवा उत्पाद-व्यय-ध्रौव्यप्रपञ्चः समयः । तेषां च भगवता साक्षान्मातृकापदरूपतयाऽभिधानात् । तथा चार्षम्- "उपनेइ वा, विगमेइ वा धुवेइ वा' इत्यदोषः । मत्सरित्वाऽभावमेव विशेषणद्वारेण समर्थयति-नयानशेषानविशेषमिच्छन् इति । अशेषान् समस्तान् नंयान् नैगमादीन् अविशेषं निर्विशेषं यथा भवति एवम् इच्छन् आकाङ्क्षन्, सर्वनयात्मकत्वाद् अनेकान्तवादस्य । यथा विशकलितानां मुक्तार्मणी- नामेकसूत्राऽनुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणेकसूत्रप्रोतानां श्रुताऽऽख्यप्रमाणव्यपदेश इति । ननु प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता । उच्यते । यथा हि समीचीनं मध्यस्थं न्यायंनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादाद् विरमन्ति, १. हैमसूत्रम् ५।३।१३०. २. विशेषावश्यकभाष्य गाथा १११९। अर्थ भाषतेऽर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम् । इति छाया । . ३. मातृका-लिपिमूलाक्षराणि ।। ४. उत्पद्यते वा विगच्छति (नश्यति) वा ध्रुवयति वा । इति छाया । (२०२ initiaidikissss स्याद्वादमञ्जरी Page #229 -------------------------------------------------------------------------- ________________ एवं नया अन्योऽन्यं वैरायमाणा-अपि 'सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तं 'सुहब्रूयाऽवतिष्ठन्ते । एवं च सर्वनयाऽत्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनादिवाकरपादाः. '३उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः' ॥१॥ अन्ये त्वेवं व्याचक्षते-तथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवाहा मत्सरिणस्तथा तव समयः सर्वनयानू मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः, पक्षपातीपक्षमेकपक्षाऽभिनिवेशम्, पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम्, पूर्वस्मिंश्च पक्षपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ।।३०॥ इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनाऽतिशयव्यावर्णने स्वस्याऽसामर्थ्यं दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं “स्वाऽभिधानं च प्रकाशयन् निगमनमाह १. 'सार्वज्यं शासनम्' इति क. ख. पं. रा. पुस्तकेषु पाठः । २. 'सुहृद्रूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. द्वात्रिंशद्वात्रिंशिकास्तोत्रे चतुर्थद्वात्रिंशिकायां १५ श्लोकः । ४. जीवनाश-संपूर्णतयेत्यर्थः । रागस्येत्यारभ्य नष्टत्वादित्यन्तं ख. पुस्तके नास्ति । ५. 'स्वाभिधानं च प्रकाशयन्' इति प्रक्षिप्तमिव भाति । यत: 'वहेम' इति शब्दान्तर्गतहेमशब्दग्रहणं न सुसंगतम् । किंच स्याद्वादमञ्जरीकृद्भिः स्वयं तथा व्याख्यानं न कृतम् । स्याद्वादमञ्जरी M A A २०३) Page #230 -------------------------------------------------------------------------- ________________ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !| लोम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानतृष्णाम् ।।३१।। विभव एव वैभवं 'प्रज्ञादित्वात् स्वार्थेऽण, विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्वैभवं वचनसंपत्प्रकर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् । विभुशब्दस्य 'व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः । हे महनीयमुख्य ! महनीयाः पूज्याः पञ्चपरमेष्ठिनस्तेषु मुख्यः प्रधानभूतः, आद्यत्वात्, तस्य संबोधनम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वम्, न च हीनगुणत्वमसिद्धम्। प्रव्रज्याउंवसरे सिद्धेभ्यस्तेषां नमस्कारकरणश्रवणात्*काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे' इति श्रुतकेवलिवचनात् । मैवम्-अर्हदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्-'"अरहन्तुवएसेणं सिद्धा नजंति तेण अरहाऽऽई' इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तव वाग्वैभवं निखिलं विवेक्तुमाशास्महे ततः किमित्याह-लङ्घम इत्यादि । तदा इत्यध्याहार्यम् । तदा जङ्घालतया जाङ्घिकतया वेगवत्तया, समुद्रं लवेम किल समुद्रमिव अतिक्रमामः । तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपांनम्, तंत्र तृष्णा तर्षोऽभिलाष इति यावत् । चन्द्रद्युतिपानंतृष्णा, ताम् । उभयत्राऽपि सम्भावने. सप्तमी । यथा कश्चिञ्चरणचंक्रम- वेगवत्तया यानपात्रादि अन्तरेणापि समुद्रं लवितुमीहते, यथा च कश्चिश्चन्द्रमरीचीरमृतमयी: श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम्। तथा 'न्यक्षेण १. 'प्रज्ञादिभ्योऽण्' इति हैमसूत्रम् ७।२।१६५. २. 'पर्यायरूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । इति छाया ।। ४. अर्हदुपदेशेन सिद्धा ज्ञायन्ते तेनार्हदादिः ।। इति छाया विशेषावश्यकमभाष्यगाथा ३२१३ ।। ५. पूर्णतयां । (२०४६ niskrit स्याद्वादमञ्जरी Page #231 -------------------------------------------------------------------------- ________________ भवदीयवाग्वैभववर्णनाऽऽकाङ्क्षापि अशक्याऽऽरम्भप्रवृत्तितुल्या । आस्तां तावत् तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् । तद्विषयाऽऽकाङ्क्षापि महत् साहसमिति भावार्थः । अथवा "लघु शोषणे, इति धातोर्लङ्गेम शोषयेम, समुद्रं जङ्घालतया अतिरंहसा, अतिक्रमणार्थलङ्घस्तु प्रयोगे दुर्लभं परस्मैपदमनित्यं वा आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् ' आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवांस्तदिति सूचयति यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसः स्तोतारः, इति बहुवचनमात्रेण न खलु ' अहङ्कारः स्तोतरि प्रभौ शङ्कनीयः । प्रत्युत निरभिमानताप्रसादोपरि पताकारोप एवाऽवधारणीयः । इति काव्यार्थः ।।३१।। एषु एकत्रिंशति वृत्तेषु उपजातिच्छन्दः । एवं विप्रतारकैः परतीर्थिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्यं दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयतिइदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिच हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवाऽतस्त्रातस्त्वयि कृतसपर्या : कृतधियः ||३२|| इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम् - उपचाराद् जगद्वर्ती जनः । हतपरै:हता अधमा ये परे तीर्थाऽन्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिवशाम्बरीयप्रयोगनिपुणैरिव इति यावत् । अन्धतमसे निबिडाऽन्धकारे, हा इति १. हैमधातुषारायणे भ्वादिगणे धा. ९८. २. 'अहंकारविकारः प्रढौकनीयः' इति क पुस्तके पाठः । ३. इन्द्रवज्रोपेन्द्रवज्रयोः संकरोऽन्योऽन्यपादमीलनमुपजातिः । स्याद्वादमञ्जरी ॐ ॐ ४ २०५ Page #232 -------------------------------------------------------------------------- ________________ खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धं तञ्च तत्तमश्चेत्यन्धतमसम् 'समवान्धात् 'तमस' इत्यत्प्रत्ययः, तस्मिन् अन्धतमसे । कथंभूतेऽन्धतमसे इति द्रव्याऽन्धकारव्यवच्छेदाऽर्थमाहतत्त्वातत्त्वव्यतिकरकराले । तत्त्वंऽ चाऽतत्त्वं च तत्त्वाऽतत्त्वे तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वाऽतत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्राऽन्धतमसे तत्त्वेऽतत्त्वाभिनिवेशः । अतत्त्वे च तत्त्वाऽभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम्, तस्यैव ईदृक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः'अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्' ।।१।। ततोऽयमर्थः । यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चाः तथाविधमौषधीमन्त्रहस्तलाघवाऽऽदिप्रायं किञ्चित्प्रयुज्य परिषज्जनं मायामये तमसि मज्जयन्ति । तथा. परतीथिकैरपि तादृक्प्रकारदुरधीतकुतर्कयुक्ती रुपदिश्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति । तद्- जगत्, उद्धर्तुं मोहमहान्धकारोप्लवात् क्रष्टुम् । नियतं निश्चितम्, त्वमेव, नान्यः शक्तः समर्थः । किमर्थमित्यमेकस्यैव भगवतः सामर्थ्यमुपवर्ण्यते, इति विशेषणद्वारेण कारणमाह । अविसंवादिवचनः । कष-च्छेद-तापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग् न विसंवादमासादयति यथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषाऽऽदिस्वरूपं चेत्थमाचक्षते प्रावचनिकाः१. हैमसूत्रम् ७।३।८० २. हेमचन्द्रकृतयोगशास्त्रे द्वितीयप्रकाशे तृतीयः श्लोकः । ३. 'उपदर्श्य' इति ह. पुस्तके पाठः । (२०६ स्याद्वादमञ्जरी Page #233 -------------------------------------------------------------------------- ________________ 'पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो य विहि एस धम्मकसो ।।१।। बज्झाणुट्ठाणेणं जेण ण वाहिजए तयं णियमा । संभवइ य परिशुद्धं सो पुण धम्मम्हि छेउत्ति ।।२।। जीवाइ भाववाओ बंधाइ पसागहो इहं तावो । एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ।।३।।' तीर्थान्तरीयाऽऽप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवांदिन इति तें महामोहान्धतमस एव जगत् पातयितुं समर्थाः, न पुनस्तदुद्धर्तुम्, अतःकारणात् । कुतः कारणात् । कुमतध्वान्ताऽर्णवाऽन्तःपतितभुवनाऽभ्युद्धारणाऽसाधारणसामर्थ्यलक्षणात्, हे त्रातत्रिभुवनपरित्राणप्रवीण ! त्वयि काक्वाऽवधारणस्य गम्यमानत्वात् त्वय्येव विषये न देवान्तरे, कृतधियः-करोतिरत्र परिकर्मणि वर्तते । यथा हस्तौ कुरु पादौ कुरु इति, कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राऽभ्यासप्रकर्षण संस्कृता धीर्बुद्धिर्येषां ते कृतधियश्चिद्पाः पुरुषाः, कृतसपर्याः-प्रादिकं विनाऽप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधियैस्ते कृतसपर्या आराध्याऽन्तरपरित्यागेन त्वय्येव सेवाहेवाकितां परिशीलन्ति । इति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ।।३२।। ॥ समाप्ता चेयमन्ययोगव्यवच्छेदंद्वात्रिंशिकास्तवनटीका ।।.. १. हरिभद्रसूरिकृतपञ्चवस्तुकचतुर्थद्वारे ... प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ध्ययनादीनां यश्च विधिरेष धर्मकषः ।।१।। बाह्यानुष्ठानेन येन च बाध्यते तन्नियमात् ।। संभवति च परिशुद्धः स पुनर्धर्मे छेद इति ।।२।। जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ।।३।। इति छाया । २. अत्यष्टौ यनसभल्गाः शिखरिणो चैः ।। यमनसभलगा चैरिति षड्भिर्यतिः । हैमच्छन्दोऽनुशासने अ. २ सू. २८७. स्याद्वादमञ्जरी) k akakakistani २०७) Page #234 -------------------------------------------------------------------------- ________________ . टीकाकारस्य प्रशस्तिः । येषामुज्वलहेतुहेतिरुचिरः प्रामाणिकाऽध्वस्पृशां हेमाऽचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसम्भवभयाऽस्पृष्टात्मनां सम्भवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ।।१।। चातुर्विद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां गम्भीराऽर्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयाऽऽदराऽऽग्रहपराभूतप्रभूतावमं तन्नूनं गुरुपांदरेणुकणिकासिद्धाऽञ्जनस्योर्जितम् ।।२।। अन्यान्यशास्त्रतरुसंगतचित्तहारिपुष्पोपमेयकतिचिनिचितप्रमेयैः । दृब्यां मयाऽन्तिमजिनस्तुतिवृत्तिमेनां मालामिवाऽमलहृदो हृदये वहन्तु ।।३।। प्रमाणसिद्धान्तविरुद्धमत्र यत्किंचिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।।४।। उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणे यत्रेयं प्रतिभाभरादनुमितिनिर्दम्भमुज्जृम्भते । किं चाऽमी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदस्विनीम् ।।५।। नागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः ।। ते विश्ववन्द्या 'नन्द्यासुरुदयप्रभसूरयः ।।६।। युग्मम् ।। श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरविमित शाकाऽब्दे दीपमहसि शनौ ।।७।। . श्रीजिनप्रभसूरीणां साहाय्योद्भिवसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः "स्याद्वादमञ्जरी ।।८।। १. 'ये ह्युदयप्रभजीवदेवसूरिसन्तानीया वस्तुपालमन्त्रीश्वरवन्दिताध्यः' इति घ. पुस्तकटिप्पन्याम् । २. अङ्गानां वामतो गतिः । १२१४ मिते शाके । ३. 'जिनप्रभः सन्देहविषौषधीसंज्ञितकल्पवृत्तिकारकः यतो लभ्यते 'सूरीन्द्रस्यान्वये जातो नवाङ्गीवृत्तिवेधसः । श्रीजिनेश्वरसूरीणां पौत्रःपात्रमवेधसः ।।१।। पुत्रः श्रीमज्जिनसिंहसूरीणां रीणरेफसां । जग्रन्थ ग्रन्थमेतं श्रीजिनप्रभमुनिप्रभुः ।।२।। वैक्रमेऽस्ति कलाविश्वदेवसङ्खयेऽनुवत्सरे । इत्यादि । अत एव इहापि विक्रमतः सं. १३४९ इति मन्तव्यम् ।।' इति घ. पुस्तकटिप्पन्याम् । ४. दीपावल्याम् । ५. 'श्रेयोऽस्तु पाख्यिपरमेश्वरप्रसादात् । इत्यनादिमिथ्यामततापापोहच्छायारुचिरस्याद्वाद सहकारतरुमंजरीसंपूर्तिमंजुलतामध्यारोहत् ।। ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्व(२००indi utta स्याद्वादमञ्जरी Page #235 -------------------------------------------------------------------------- ________________ बिभ्राणे कलि३ निर्ज्जयाज्जिनतुलां श्रीहेमचन्द्रप्रभीतद्ब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया ४ विस्तृता । निर्णेतुं गुण- दूषणे निजगिरां तन्नाऽर्थये सज्जनान् तस्यास्तत्त्वमकृत्रिमं बहुमतिः साऽस्त्यत्र सम्यग् यतः ।।९।। समाप्तम् त्वात्वकाशत्विषा । ये जैनागमतत्त्वलाभललिताः संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्ते द्वादशांगीद्विषां । पापोल्लापजुषामशेषमसतां मूकत्वजीवातवः । १ । दिशतु दयितधर्मध्यानसंतानशर्म । त्रिभुवनमुकुटार्हत्पादपूजापरीतं । समयनयगमार्थज्ञानगाथाभिरुः । कुमतमथनमल्लो मलिषेणो मुनींद्रः ।। २ ।। नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं, सम्यक्त्वामृतसागरोज्वलकलाकल्लोलकोलाहलः । साम्यानंदपदप्रवेशनपटुः सर्वत्र नः सर्वदा । भूयादक्षयचन्द्रवाचकपदांभोजप्रसादोदयः ।। ३ ।। श्रीवीरमुक्तिकल्याणात् सं. १२६३ वत्सरे विक्रमनृपतः संवत् १७९३ कार्त्तिकप्रथमपंचम्यां बुधे । श्रीचिंतामणिपार्श्वदेवालयविराजितकृष्णादुर्गापुरे । रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थ । लिखितेयं । ॐ नमो वामेयाय ।। ' इत्यधिकं घ. पुस्तके । १. ख. पुस्तके प्रथमपञ्च श्लोकाः नवमश्च नास्ति । २. 'राजिष्णौ कलिनिर्जयाज्जिन इव श्रीहेमचन्द्रप्रभौ ।' इति क पुस्तकपाठः । ३. 'किल' इति रा. ह. पुस्तकयोः पाठः । ४. 'मयाविष्कृता' इति ख. पुस्तके पाठः । * विक्रमतः सं. ११३८ हेमाचार्याणां जन्म । सं. ११९९ कुमारपालभूपालतः प्रकाशः । सं. १२१३ देहांतरम् । ये हि देवचंद्राचार्यगुरुकाः सार्द्धत्रिकोटिग्रन्थकर्तारः ।। -सप्तत्युत्तरमुल्लंध्य शरच्छतचतुष्टयं । श्रीवीरजिननिर्वाणाद्विक्रमो राज्यमासदत् ।।१।। इति । (स्याद्वादमञ्जरी ४४२०९ Page #236 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१ पूर्वपक्षप्रबंध: अथाऽधुना तीर्थान्तरीयमतानि स्याद्वादमञ्जर्यां येन क्रमेण खण्डितानि तत्क्रमाऽनुसारं तानि प्रदर्श्यन्ते । यतः तत्प्रदर्शनमन्तरा खण्डनं न बुद्धिपथमारोहेद्यथायथम् । तत्र प्रथममौलूक्यमतं वैशेषिकाऽपरपर्यायमङ्गीकृतम् । तत्र चतुर्थश्लोके सामान्यविशेषयोः खण्डनं तदर्थं सामान्यविशेषयोः स्वरूपं वैशेषिकसूत्रभाष्याऽनुसारं दर्शयामः वैशेषिकसूत्रभाष्ये सामान्यनिरूपणम् । 'सामान्यं द्विविधं परमपरं चाऽनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात्, सा चाऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् तञ्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाऽऽख्यामपि लभते ।।' ___ 'सामान्यं द्विविधं परमपरं च स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति। । एकद्विबहुष्वात्मस्वरूपाऽनुगमप्रत्ययकारि स्वरूपाऽभेदेनाऽऽधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्याऽपेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताञ्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणात् यदनुगतमस्ति तत्सामान्यमिति' ।। । वैशेषिकसूत्रभाष्ये-विशेषनिरूपणम् । 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ।।' 'अन्तेषु भवा अन्त्याः स्वाऽऽश्रयविशेषकत्वाद्विशेषाः । विनाशाऽऽम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिष्वश्वादिभ्य- स्तुल्याऽऽकृतिगुणक्रियाऽवयंवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । गौः शुक्लः शीघ्रगतिः पीनककुद्मान् महाघण्ट इति । तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृतिगुणक्रियेषु ( २१० i rituid स्याद्वादमञ्जरी Page #237 -------------------------------------------------------------------------- ________________ परमाणुषु मुक्ताऽऽत्ममनस्सु च अन्यनिमित्तसम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः । देशकालविप्रकर्षे च परमाणौ स एवाऽयमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः ।।' तत्र पञ्चमश्लोके सामान्यस्यैकान्तनित्यत्वम् । वैशेषिकसूत्रभाष्ये'लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थाऽन्तरत्वं सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच परस्परतश्चाऽन्यत्वम् । प्रत्येक स्वाऽऽश्रयेषु लक्षणाऽविशेषाद्विशेषलक्षणाऽभावाच्चैकत्वम् । यद्यप्यपरिमिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाञ्च स्वविषयसर्वगतानि अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति ।।' तत्रैव स्याद्वादमञ्जर्यां तमसश्चाक्षुषत्वमुक्तं तद्विषये वैशेषिकमतम् । वैशेषिकसूत्रोपस्कारेकार . . 'ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात्, तत्र न प्रयत्नो न वा नोदनाऽभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्ताऽन्तरं वक्तव्यं तच नाऽनुभूयमानमित्यत आह द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।।५-२-१९ ।। एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम् । द्रव्यनिष्पत्तिस्तावत् स्पर्शवव्याधीना। न च तमसि स्पर्शोऽनुभूयते । न चाऽनुद्भूत एव स्पर्शः रूपोद्भवे स्पर्शोद्भवस्याऽऽवश्कत्वात्। पृथिव्यामयं नियमः । तमस्तु दशमं द्रव्यमिति चेन्न । द्रव्यान्तरस्य नीलरूपाऽनधिकरणत्वात्। नीलरूपस्य च गुरुत्वनान्तरीयक स्याद्वादमञ्जरी AnsaniKARNA २११) Page #238 -------------------------------------------------------------------------- ________________ त्वात्, रसगन्धाऽनान्तरीकत्वाच्च । यथाऽऽकाशं शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न । चाक्षुषत्वविरोधात् । यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यलोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ।।१९।। ' तत्रैव स्याद्वादमञ्जर्यां- व्योमाऽपि नित्यानित्यमेव । तदर्थं व्योमस्वरूपं वैशेषिकगृहीतं प्रदर्श्यते वैशेषिकसूत्रोपस्कारे । 'यदर्थमयं परिशेषस्तदाह- परिशेषाल्लिङ्गमाकाशस्य ।। २-१-२७ ।। शब्द इति शेषः । अत्राऽपिशब्दः क्वचिदाश्रितोगुणत्वाद्रूपादिवदिति सामान्यतो दृष्टाऽदृष्टद्रव्याऽतिरिक्तद्रव्यसिद्धिः । गुणश्चाऽयं बाह्यैकैन्द्रियग्राह्यजातीयत्वात् रूपादिवद् । अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत् । अनित्यत्वं च साधयिष्यते (अग्रिमसूत्रे) । परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणभावाऽन्नित्यत्वं सर्वत्र शब्दोपलब्धेर्विभुत्वम् ।।२७।। शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। २-१-२८ ।। अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाऽऽकाशस्याऽपि, गुणवत्त्वात् । यथा वायोर्द्रव्यत्वं तथाऽऽकाशस्याऽपीत्यर्थः ।।२८। तत् किं बहून्याकाशानि एकमेव वेत्यत आह तत्त्वम्भावेन ।। २-१ - २९ ।। व्याख्यातमिति विपरीतेनाऽन्वयः । भावः सत्ता सा यथैका तथाऽऽकाशमप्ये कमेवेत्यर्थः ।।२९।। नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् । आकाशे कथमेकत्वं २१२ कि ॐॐॐ स्याद्वादमञ्जरी Page #239 -------------------------------------------------------------------------- ________________ तदृष्टान्तेन सेत्स्यतीत्यत आह शब्दलिङ्गविशेषाद्विशेषलिङ्गाऽभावाच ।। २-१-३० ॥ . तत्त्वमाकाशस्य सिद्धमित्यर्थः । वैभवे सति सर्वेषां शब्दानां तदेकांश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः । अन्यदपि यदाकाशं कल्पनीयम् । तत्राऽपि शब्द एव लिङ्गम् । तञ्चाऽविशिष्टम् । न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति । आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्ग तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते (३-२-१९) ।।३०।। नन्वाकाशस्य एकत्वं तावदस्तु, वैभवात्परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह तदनुविधानादेकपृथक्त्वं चेति ।। २-१-३१ ॥ नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः । इतिराहिकपरिसमाप्तौ । मानसप्रत्यक्षाविषयविशेषगुणवद्रव्यलक्षणमाह्निकार्थः । तेन पृथिव्यप्तेजोवाय्वाकाशानां प्रसङ्गत ईश्वरात्मनश्च लक्षणमस्मिन्नाह्निके । तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्रवत्वसंस्काराः । तावन्त एव गन्धमपास्य स्नेहेन सहाऽपाम् । एत एव रसगन्धस्नेहगुरुत्वान्यापास्य तेजसः। गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः । शब्देन सह सङ्ख्यादिपञ्चगुण- वत्त्वमाकाशस्य। सङ्ख्याऽऽदिपञ्चकमात्रं दिक्कालयोः । परत्वाऽपरत्ववेगसहितं सङ्ख्याऽऽदिपञ्चकं मनसः । सङ्ख्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्चेश्वरस्य ।।३।। ___ तत्रैव स्याद्वादमञ्जर्यां 'स्वायंभुवा अपि हि' इत्यनेन पातञ्जलमतखण्डनं तदर्थं तद्विषयकस्य पातञ्जलमतस्य निर्देशः । पातञ्जलयोगसूत्रभाष्येस्याद्वादमञ्जरी AAAAAAAAAMANANA २३) Page #240 -------------------------------------------------------------------------- ________________ एतेन भूतेन्द्रियेषु धर्मलक्षणाऽवस्थापरिणामा व्याख्याताः' ॥३-१३।। 'एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणाऽवस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयो- र्धमयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । यत्राऽस्य स्वरूपेणाऽभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा । न चाऽतीताऽनागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्य द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्युत्थानमुपसम्पाद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्राऽस्य स्वरूपाऽभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा। न चातीताऽनागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्युत्थानमिति । तथाऽवस्थापरिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति ।। .. दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणाऽवस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति । एतेन भूतेन्द्रियेषु 'धर्मधर्मिभेदात्रिविधः परिणामो वेदितव्यः । . .. परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाऽध्वस्वतीताऽनागतवर्तमानेषु भावाऽन्यथात्वं भवति न तु द्रव्याऽन्यथात्वम् । यथा सुवर्णभाजनस्य (२१४idshindustankh स्याद्वादमञ्जरी Page #241 -------------------------------------------------------------------------- ________________ भित्त्वान्यथा क्रियमाणस्य भावाऽन्यथात्वं भवति न सुवर्णाऽन्यथात्वमिति । . अपर (एकान्तवादी बौद्धः) आह-धर्माऽनभ्यधिको धर्मी पूर्वतत्त्वाऽनतिक्रमात् पूर्वाऽपराऽवस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति । अयमदोषः । कस्मात् । एकान्तताऽनभ्युपगमात् । तदेतत्त्रैलोक्यं व्यक्तेरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् । संसर्गाचाऽस्य सौक्ष्म्यं सौक्ष्म्याचाऽनुपलब्धिरिति । .. लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानाऽतीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणोयुक्तोऽतीताऽनागताभ्यां लक्षणभ्यामवियुक्त इति । तथा पुरुष एकस्यां स्त्रियं रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति । तस्य परिहारः-धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवाऽस्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्याऽसमुदाचारादिति । किं च, त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाऽञ्जनस्य भावे भवेदिति । उक्तं च रूपाऽतिशया वृत्त्यातिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसङ्करः । यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राऽभावः । किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा लक्षणस्येति । ___न धर्मी त्र्यध्वा । धर्मास्तु त्र्यध्वानः ते लक्षिता अलक्षिताः । तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थाऽन्तरतो न द्रव्याऽन्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । स्याद्वादमञ्जरी Kumaniumika २१५) Page #242 -------------------------------------------------------------------------- ________________ अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् । अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते । नाऽसौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाऽऽकाराद्धर्माद्धर्माऽन्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाऽऽकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्माऽन्तरमवस्था धर्मस्याऽपि लक्षणाऽन्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणाऽवस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः । सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्माऽन्तरोत्पत्तिः परिणाम इति' ।। १३ ।। तत्रैव स्याद्वादमञ्जर्याम् नापि समवायं इत्याद्विखण्डनं तदर्थं समवायस्वरूपम्। वैशेषिकसूत्रप्रशस्तपादभाष्ये 'अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वाऽयुतसिद्धानामाधार्याधार भावेनाऽवस्थितानामिहेदमितिबुद्धिर्यतो भवति यतश्चाऽसर्वगतानामधिगताऽन्यत्वानामविष्वग्भावः स समवायाऽऽख्यः सम्बन्धः । कथम् ? यथेह कुण्डे दधीतिप्रत्यय: सम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ।। २१६ स्याद्वादमञ्जरी Page #243 -------------------------------------------------------------------------- ________________ न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्माऽऽदिनिमित्ताऽसम्भावाद् विभागाऽन्तत्वाऽदर्शनादधिकरणाऽधिकर्तव्ययोरेव भावादिति ।। स च द्रव्यादिभ्यः पदार्थाऽन्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वाऽऽदीनां स्वाऽऽधारेषु आत्माऽनुरूपप्रत्ययकर्तृत्वात्, स्वाश्रयाऽऽदिभ्यः परस्परतश्चाऽऽर्थान्तरभावः तथा समवायस्याऽपि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थाऽन्तरत्वमिति । न च संयोगवनानात्वं भाववल्लिङ्गविशेषाद् विशेषलिङ्गाभावाञ्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ।। ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न आधाराऽऽधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराऽऽधेयनियमोऽस्ति कथम् ? द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्शनात् । इहेति समवायनिमित्तस्य ज्ञानस्याऽन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वाऽऽदिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायतें । यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाऽऽश्रयिभावनियमः। तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराऽऽधेयनियम इति ।। . सम्बन्धनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणाऽनुपलब्धेनित्यो भाव इत्युक्तम् । तथा समवायोऽपीति । न ह्यस्य किञ्चित्कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्याऽऽदिषु समवायो वर्तते । न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याऽऽश्रितत्वात् । नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति । न तादात्म्यात् ! यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नाऽन्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नाऽन्या वृत्तिरस्ति तस्मात् स्वाऽऽत्मवृत्तिः, अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वाऽऽत्मगतसंवेदनाऽभावाञ्च । तस्मादिहबुद्ध्यनुमेयः समवाय इति' ।। श्लोः ६ स्याद्वादमञ्जर्या च ईश्वरकर्तृत्वादि खण्ड्यते । तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यतेस्याद्वादमञ्जरी) AAAAAAAAAAAAAAA२९७ Page #244 -------------------------------------------------------------------------- ________________ कणादसूत्रे (अ. २-१, १८, १९.) उपकारसहिते । 'संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् ।।२-१-१८ ।। तुशब्दः स्पर्शाऽऽदिलिङ्गव्यवच्छेदाऽर्थः । संज्ञा-नाम । कर्म-कार्यं क्षित्यादि । तदुभयमस्मद्विशिष्टानाम् ईश्वर- महर्षीणां सत्त्वेऽपि लिङ्गम् ।।१८।। कथमेतदित्यत आह प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ।। २-१-१९ ।। अत्राऽपि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाऽभेदसूचनार्थः । तथाहि यस्य स्वर्गाऽपूर्वादयः प्रत्यक्षा स एव तत्र स्वर्गापूर्वाऽऽदिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्राऽऽदिपिण्डे पित्रादेश्चैत्रमैत्राऽऽदिसंज्ञानिवेशनवत् । एवञ्च घटपटाऽऽदिसंज्ञानिवेशनमपि ईश्वरसङ्केताऽऽधीनमेव । यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः । यथा या काचिदौषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा । अस्मदादिविशिष्टानां लिङ्गमनुमापकं, याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात्' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्माऽपि । कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं संकर्तृकं कार्यत्वात् घटवदिति। अत्र यद्यपि शरीराऽजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाऽध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् । अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् । विवादसन्देहयोश्चाऽतिप्रसक्तत्वेन पक्षताऽनवच्छेदकत्वात् । किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदाऽस्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात्, उपादानगोचरकृतिमज्जन्यत्वेऽपि तथाऽस्मदादिकृतेरपि किञ्चिदुपादानगोचरत्वात्, कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति । तथापि क्षिति: सकर्तृका कार्यत्वात् । अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वं च प्रागभावाऽवच्छिन्नसत्ताप्रतियोगित्वम् । न चाङ्कुराऽऽदौ सन्दिग्धाऽनैकान्ति(२१८ स्याद्वादमञ्जरी Page #245 -------------------------------------------------------------------------- ________________ कत्वम् । साध्याऽभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धाऽनैकान्तिकत्वस्य दोषत्वात्, अन्यथा सकलाऽनुमानोच्छेदप्रसङ्गात् । न च पक्षाऽतिरिक्ते दोषोऽयमिति वाच्यं राजाऽऽज्ञापत्तेः । नहि दोषस्याऽयं महिमा यत् पक्षं नाकामति । तस्मादङ्कुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् । क्व सन्दिग्धाऽनैकान्तिकता तदस्फुरणदशायां तु सुतरामिति संक्षेपः' ।।१९।। एवमेव नैयायिकमतम्-गौतमसूत्रवात्स्यायनभाष्ये न्यायवार्तिके अ. ४-१-१९, ४-१-२०, ४-१-२१ । . . 'अपर इदानीमाह''ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ।।४-१-१९।। .. 'ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । पुरुषोऽयं समीहमानो नाऽवश्यं समीहाफलमाप्नोति तेनाऽवगम्यते 'पराधीनं पुरुषस्य कर्मफलाऽऽराधनमिति । निरपेक्षश्चेत् पुरुषः कर्मफलभोगे समर्थः स्यात् न कस्यचिदफला क्रिया भवेत् । न कश्चिदुःखं कुर्यादिति । उभयं च दृष्टं तस्मादीश्वर: कारणमिति ।।१९।। न पुरुषकर्माऽभावे फलाऽनिष्पत्तेः ।।४-१-२०॥ न पुरुषकर्माभावे फलानिष्पत्तेरिति’ । ईश्वरश्चेत् कारणं स्यात् पुरुषकर्माऽन्तरेणापि सुखदुःखोपभोगौ स्याताम् । ततश्च कर्मलोपोऽनिर्मोक्षश्च । ईश्वरस्यैकरूपत्वादेकरूपा क्रियेति । अथेश्वरः कारणभेदाऽनुविधानेन कार्य निवर्तयति यदपेक्षते तन्न करोतीति प्राप्तम् । नहि कुलालो दण्डाऽऽदि करोति । एवं कर्मसापेक्षश्चेदीश्वरो जगदुत्पत्तिकारणं स्यात् कर्मणीश्वरोऽनीश्वरः स्यात् ।।२०।। तत्कारितत्वादहेतुः ।।४-१-२१।। तत्कारितत्वादहेतुः । न ब्रूमः कर्माद्यनपेक्ष ईश्वरः कारणमिति । अपि तु स्याद्वादमञ्जरी Amirik a ari २९९) Page #246 -------------------------------------------------------------------------- ________________ पुरुषकर्म ईश्वरोऽनुगृह्णाति । कोऽनुग्रहाऽर्थः ? यद्यथाभूतं यस्य च यदा विपाककाल: तत्तथा तदा विनियुक्त इति । यः पुनरीश्वरं कर्माऽनपेक्षं कारणत्वेन प्रतिपद्यते तस्याऽनिर्मोक्षत्वादिदोषः । सापेक्षे त्वीश्वरे यथोक्तो न दोषः । शेष भाष्ये । (वात्स्यायनभाष्यम्- 'पुरुषकारमीश्वरोऽनुगृह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्माऽफलं भवतीति । तस्मादीश्वरकारितत्वादहेतुः पुरुषकर्माऽभावे फलाऽनिष्पत्तेरिति । गुणविशिष्टमात्मान्तरमीश्वरः। तस्याऽऽत्मकल्पात्कल्पाऽन्तराऽनुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्माऽन्तरमीश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पाऽविधायी चाऽस्य धर्मः प्रत्यात्मवृत्तीन्धर्माऽधर्मसञ्चयान्पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताऽभ्यागमस्याऽलोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् । आत्मकल्पश्चाऽयं यथा पिताऽपत्यांनां तथा पितृभूत ईश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः सम्भवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम्। आगमाञ्च द्रष्टा, बोद्धा, सर्वज्ञाता, ईश्वर इति । बुद्ध्याऽऽदिभिश्चाऽऽत्मलिङ्गैर्निरूपाऽऽख्यामीश्वरं प्रत्यक्षाऽनुमानाऽऽगमविषयाऽतीतं कः शक्त उपपादयितुम् । स्वकृताऽभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातकर्मनिमित्ते शरीरसगै तत्सर्वं प्रसज्यत इति ।।२१।।) (वार्तिकं पूर्वतोऽनुवृत्तम्) तत्कारित्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं भवति । यञ्च निर्मिततदितरयोःसमवायिकारणाऽसमवायिकारणयोरनुग्राहकम्, यथा तुर्यादितन्तूनां तत्संयोगानां चेति । ईश्वरश्चेज्जगतो निमित्तं जगतःसाक्षादुपादानकारणं किम् । उक्तं पृथिव्यादि । परमसूक्ष्म परमाणुसज्ज्ञितं द्रव्य (व्यक्त) मिति । व्यक्तकारणोऽभ्युपगमे तु सति निमित्तविशेषविप्रतिपत्तौ ईश्वरप्रक्रियायस्मानिमित्तकारणे विप्रतिपद्यन्ते । केचित् कालं केचिदीश्वरं केचित्प्रकृतिमिति तदेवं निमित्तविशेषविप्रतिपत्तौ किं न्याय्यमिति । ईश्वर इति न्याय्यं, तत्र हि प्रमाणानि अविघातेन प्रवर्तन्त इति । अस्तित्वासिद्धिरिति चेत् ? अथ मन्यसे सिद्ध ईश्वरस्याऽस्तित्वे कारणान्तरनिराकरणं निमित्तकारणाऽभावश्च साध्येत, (२२० i rintsassistianisha स्याद्वादमञ्जरी Page #247 -------------------------------------------------------------------------- ________________ तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवाऽस्तित्वमिति, न ह्यविद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाऽधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्याऽऽदिवदिति यथा वास्याऽऽदि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते । तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते । तस्मात् तान्यपि बुद्धिमत्कारणाऽधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्तिपुरुषार्थेन प्रयुक्तं प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा भवति शब्दायपलब्धिर्गुणपुरुषाऽन्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना. न भवतीति ? न, प्राक्प्रवृत्तेस्तदभावाद्यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाधुपलब्धिरस्ति न गुणपुरुषाऽन्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तियुक्ता । अथाऽस्ति, नाऽसदात्मानं लभते न सन्निरुध्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था (य) प्रधानस्य प्रवृत्तिः न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नीति कारणस्य सन्निहितत्वादिति- पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति? न तर्हि पुरुषार्थः कारणमिति यस्याऽभावात् प्रधानं प्रवर्तते यस्य न च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याऽशक्यत्वात् सततमप्रवृत्तिः यत्तत्र प्रतिबन्धकारणं पुरुषाऽर्थस्य तस्यापगमः कर्तुं शक्यः । न सदाऽऽत्मानं जहातीति प्रतिबन्धकस्य नित्यत्वानित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्याऽवस्था प्रकृतिं वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् । न चाऽनिवृत्तायां साम्याऽवस्थायां वैषम्येण शक्यं भवितुम् । अथाऽङ्गाङ्गिभावस्या- ऽनियमाद्वैषम्यं भवतीति ? अत्राऽपि भवन्तं पर्यनुयुक्ष्महे । कथं साम्येनाऽवस्थितमधिकं हीनं च भवति ? नाऽपूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उताऽनुपजातविशेषा इति ? यधुपजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नाऽसदात्मनं लभत इति । अथाऽनुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचार्यते तावत्तावत्प्रमाणवृत्तं बाधत इति । स्याद्वादमञ्जरी २२१) Page #248 -------------------------------------------------------------------------- ________________ ये परमाणून् पुरुषकर्माऽधिष्ठितान् जगतः कारणत्वेन वर्णयन्ति तान् प्रतीदमुच्यते परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भवितव्यम् । अथ कालविशेषाऽपेक्षाः प्रवर्तन्ते ? परमाणुभिः कालो व्याख्यातः यथा परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति । न हि तत्राऽचेतनत्वं निवर्तत इति । क्षीराऽऽदिवद्धेतनस्याऽपि प्रवृत्तिरिति चेद् ? यथा अपत्यभरणार्थं क्षीरादेरचेतनस्यापि प्रवृत्तिरेवं परमाणवोऽप्यचेतनाः पुरुषार्थ प्रवर्तिष्यन्त इति ? । तत्तु युक्तम्, साध्यसमत्वात्यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीराऽऽद्यचेतनं स्वतन्त्रं प्रवर्तत इति । यदि क्षीराऽऽदि स्वतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतोऽवगम्यते बुद्धिमत्कारणाऽधिष्ठितं तदपि । न चायं हेतुः तस्मान्निवर्तते एवं यावद्यावदचेतनं प्रवर्तते (तत्) सर्वं तत् चेतनाऽधिष्ठितमिति । अयमपरो हेतुः बुद्धिमत्कारणाऽधिष्ठितं महाभूताऽऽदि व्यक्तं (मिति) सुखदुःखाऽऽदिनिमित्तं भवति रूपाऽऽदिमत्वात् तुर्याऽऽदिवदिति । धर्माधर्मौ बुद्धिमत्कारणाऽधिष्ठतौ पुरुषस्योपभोगं कुरुतः करणत्वाद्वास्यादिवदिति । आत्मैवाऽधिष्ठाता धर्माधर्मयोर्भविष्यतीति चेत् ? यस्य तौ धर्माधर्मौ स एवाऽधिष्ठाता भविष्यतीति न युक्तम् ? प्राक् कार्यकरणोत्पत्तेः तदसम्भवात्यावत् कार्यकारणसंघातो नोपजायते पुरुषस्य तावदयमज्ञः उपसन्धाताऽपि उपलभ्यानपि तावद्रूपादीनोपलभते कुतोऽनुपलभ्य धर्माधर्मावुपलप्स्यत इति । यदि पुरुषः स्वतन्त्रः प्रवर्तत्ते न दुःखं कुर्यात् । न हि कश्चिदात्मनो दुःखमिच्छतीति । यश्चाऽऽत्मनो (ऽङ्गो). पघातं शिरश्छेदादि वा करोति तद्वैकल्ये प्रायणे वा हितबुद्धिः प्रवर्तते इति । यदि पुनर्धर्माऽधर्माभ्यामेवाऽधिष्ठिताः परमाणवः प्रवर्तेरन् ? न युक्तमेतदचेतनत्वात् न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माऽधर्मयोः परमाणुप्रवृत्तिसामर्थ्यं ? न करणस्य क्रियानिर्वृत्ताबसामर्थ्यात्-न नहि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते ? तदपि न युक्तमदृष्टत्वात् । नहि कर्मकारणाभ्यां क्रियां जन्यमानां क्वचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति ? उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति ? न युक्तमदृष्टत्वादिति । न चाऽन्या गतिरस्ति, तस्माद् बुद्धिमत्कारणाऽधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति । २२२ स्याद्वादमञ्जरी Page #249 -------------------------------------------------------------------------- ________________ क्रियाऽनावेशादकारणमिति चेत् ? अथ मन्यसे ये खलु कर्तारो भवन्ति ते क्रियाविशिष्टाः कुलालाऽऽदय इति । क्रियारहितश्चेश्वरस्तस्मादकारणमिति ? न विकल्पाऽनुपपत्तेः । ईश्वरो निष्क्रिय इति कां क्रियां अधिकृत्योच्यते ? द्वयी हि नः क्रियाः उत्क्षेपणादिका चाऽऽख्यातशब्दवाच्या च । यद्याख्यातशब्दवाच्यामधिकृत्योच्यते ? तदाऽसिद्धो हेतुः स्वातन्त्र्याऽभ्युपगमात् । स्वातन्त्र्यं हि भगवति नित्यमस्ति किं पुनः स्वातन्त्र्यम् ? अन्यकारकाऽप्रयोज्यत्वमितरकारकप्रयोक्तृत्वं च तदुक्तं कारकाणि वर्णयद्भिरिति । अथोत्क्षेपणादिकामधिकृत्योच्यते निष्क्रिय इति ? तदाऽनेकान्तः क्रियावच्च कारणं दृष्टं निष्क्रियं चेतिकदाचिद्द्रव्याणि उपरतक्रियाणि द्रव्यमारभन्ते, संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । यदा च युगपद्बहूनि द्रव्याणि संहन्यन्ते तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य एकमेव द्रव्यमुत्पद्यते । एकावयविभागे तु द्रव्यनिवृत्तौ शेषाणि द्रव्याऽन्तराणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः। कानिचित्पुनः क्रियावन्त्यारभन्ते यदाऽन्यतरकर्मजात् संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते । तदा क्रियावता द्रव्येणाऽऽरम्भात् क्रियावंतामारम्भः विरोधश्चोत्क्षेपणादिकायाः क्रियाया अनभ्युपगमादिति । न कारणमीश्वरः विकल्पोऽनुपपत्तेः - कर्ता चेद् ईश्वरः किं सापेक्षः करोति उत निरपेक्ष इति ? किं चातः ? यदि सापेक्षः ? येन करोति तस्याऽकर्ता, एवमन्यत्राऽपि प्रसङ्गः । तदपि साधनं येनं करोति तस्याऽकर्तेति । अथाऽयं किञ्चिदनपेक्ष्य करोति ? तद्वदन्यत्राऽपि प्रसङ्गः । अथाऽयं सर्वमनपेक्ष्य करोति एवमपि पुरुषकर्माऽफलं भवेत्, अनिर्मोक्षश्च प्रसज्येत । यश्चाकर्मनिमित्ते सर्गे दोषः । स इहापि प्रसज्यत इति ? निरपेक्षकर्तृत्वस्याऽनभ्युपगमात् धर्माऽधर्मविफलत्वाऽऽदिदोषो नास्ति । न चाऽकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत् ? नाऽनेकान्तात् नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति । यथाऽनेकशिल्पपर्यवदातः पुरुषः करणाऽन्तरोपादानो वास्यादि · करोति । वास्याद्युपादानो दण्डादि करोति, तदुपादानो घटादि, न च पर्यायकर्तृत्वे सति अकर्तृत्वं, तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखाऽऽदि, आत्ममन:संयोग- शुद्धाऽशुद्धाऽभिसन्धिसाधनश्च धर्माधर्मो, सुखदुःखस्मृत्यपेक्षः स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ २२३ Page #250 -------------------------------------------------------------------------- ________________ तत्साधनाद्यपेक्षश्च शुद्ध मशुद्धं चाऽभिसन्धिमिति । यदा करोति तदा साधनस्याऽकर्तेति चेत् ? -अथ मन्यसे यदायं साध्यं (यत) किंचिद् दृष्टं निर्वर्तयति तदा येन साधयति तस्याऽकर्ता प्रसज्यत इति । नैतदेवम् । न ब्रूमः सर्वाननयमेकस्मिन् काले करोतीति । अपि तु पर्यायेण । पर्यायकर्तृत्वे चायमदोषः यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् । अथ मन्यसे यदि शरीराऽऽदिकर्तृत्वं धर्माऽधर्माद्यपेक्षस्य । अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत् । अनादिः संसार इति प्रतिपादितमेतत्, धर्माऽधर्मसाफल्यं चैवम् । यदि चाऽनादिः संसारः सापेक्षश्च कर्ता, एवं प्राण्यन्तरसमवायिनां धर्माऽधर्माणां साफल्यम् । अथायमीश्वरः कुर्वाणः किमर्थं करोति ?-लोके हि ये.कर्तारो भवन्ति ते किञ्चिदुद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति । न पुनरीश्वरस्य हेयमस्ति दुःखाऽभावात् नोपादेयं वशित्वात् ? । क्रीडार्थमित्येके । एके तावद् ब्रुवतें क्रीडार्थमीश्वरः सृजतीति ? नन्वेतदयुक्तम् । क्रीडा हि नाम रत्यर्थं भवति विना क्रीडया रतिमविन्दताम्, न च रत्यर्थी भगवान् दुःखाऽभावादिति । दुःखिनश्च सुखोपगमार्थं क्रीडन्ति । विभूतिख्यापनार्थमित्यपरेजगतो वैश्वरूप्यं ख्यापनीयं इत्यपरे मन्यन्ते । एतदपि तागेव । नहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चाऽस्याऽख्यापनेन किञ्चिद्धीयत. इति । किमर्थं तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टम् । यथा भूम्यादीनि धारणादिक्रियां तत्स्वाभाव्यात्कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात्प्रवर्तत इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति। - तत्स्वाभाव्यात् सततप्रवृत्तिः इति चेत् ?-अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तियुज्यत इति, क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्त्वात् । इदमिदानीं भवत्विदमिदानी न भवत्विति न युक्तम्-नं ह्येकरूपात् कारणात्कार्यभेदं पश्याम इति ? । नैष दोषः । बुद्धिमत्वेन विशेषणात् बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च विशिष्यमाणां । सापेक्षं च न सर्वदा प्रवर्तते । न सर्वमेकस्मिन्काले उत्पादयति यस्य कारणसान्निध्यं तद्भवति, यदसन्निहितकारणं तन्न भवति । न च सर्वस्य युगपत्कारणसानिध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः । स खलु प्रवर्तमानो धर्माऽधर्मयोः परिपाककालमपेक्षते कारणाऽन्तरोत्पादं तद्भागिनां च (२२४/AAAAAAAAAAAA स्याद्वादमञ्जरी Page #251 -------------------------------------------------------------------------- ________________ सत्त्वानां तत्र सन्निधानं तद्भागिसत्त्वधर्माऽधर्मपरिपाकं च तदप्रतिबन्धश्चेति । यत् तदीश्वरस्यैश्वर्यं कि तन्नित्यमनित्यमिति ? । यद्यनित्यं तस्य कारणं वाच्यं यस्य चाऽनित्यमेश्वर्यं तस्य कारणं भेदो भवति अणिमादेः एवमन्येषामपीत्यनेक ईश्वरः प्रसज्यत इति ? । अथाऽनेकत्वे किं बाध्यत इति ? एकस्मिन् वस्तुनि व्याहतकामयोरीश्वरयो प्रवृत्तिर्न प्राप्नोति । अथैकमितरोऽतिशेते ? योऽतिशेते स ईश्वरः नेतरः इति । अथ नित्यमैश्वर्यम् ? धर्मवैयर्थ्यं न तद्धर्माद्भवति इति नित्यमिति ब्रूमः । न च धर्मवैयर्थ्यं दोषः तस्य यो धर्म ईश्वरे नाऽसौ तत्रैश्वर्यं करोति, किन्तु प्रत्यात्मवृत्तीन् धर्माऽधर्मसन्निचयाननुगृह्णाति । न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् । तत्स्वभावाऽनवधारणात् सन्देहः ईश्वरः किं द्रव्यमाहोस्विद् गुणादीनामन्यतम इति ? द्रव्यं बुद्धिगुणत्वात् द्रव्याऽन्तस्वत् । बुद्धिमत्वात्तर्हि आत्माऽन्तरमिति ? नाऽऽत्मान्तरं गुणभेदात्-तद्यथा गुणभेदे सति पृथिव्यादयो नाऽऽत्मानः तथा गुणभिन्न ईश्वरस्तस्मादसावपि नाऽऽत्मान्तरमिति । कः पुनरेतस्य भेदः ? । एके तावत् ब्रुवते धर्मज्ञानवैराग्यैश्वर्याण्य- तिशयवन्ति तस्मिन्निति नित्यत्वमतिशयः । एतत्तु न बुद्ध्यामहे यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसद्भावो न चैवं धर्मादिनित्यत्वे प्रमाणमस्ति । न चाप्रामाणिकं प्रतिपत्तुमशक्यं, अतिशयस्तु बुद्धिनित्यत्वं गुणभेदः तत्र हि नित्या बुद्धिः सङ्ख्यादयश्च सामान्यगुणाः षड्गुण आकाशवदीश्वर इति। अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? । नन्विदमेव- बुद्धिमत्कारणाविधिष्ठिताः परमाणवः प्रवर्तन्त इति ? । बुद्धिमत्तायामेतत् साधनं सा पुनर्नित्येति कुतः ?। प्रत्यर्थनियमाऽसम्भवात्-ये खलु प्रत्यर्थनियता युगपदनेककार्योत्पत्ति- दर्शनात् । यथा स्थावरभेदस्याऽनेकस्य युगपदुत्पाद इति स च प्रत्यर्थनियतबुद्धिभेदेष्वीश्वरस्य न युक्तः । सङ्खयापरिमाणपृथक्त्वसंयोग- विभागबुद्ध्य एव तस्य गुणाः । अथ बुद्धिमत्तयेश्वरस्य शरीरयोगमपि प्रतिपद्यते ? तेनाऽपि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः । यद्यनित्या धर्माऽधर्मसद्भावोऽभ्युपेयः । स्याद्वादमञ्जरी) AARAAAAAAAAAAA२२५) Page #252 -------------------------------------------------------------------------- ________________ तदभ्युपगमे च तत्तन्त्रत्वादीश्वरो नेश्वरः स्यात् । अथ नित्यान् शरीरादीन् कल्पयसि ? एवमपि दृष्टविपरीतं कल्पितं भवति दृष्टविपर्ययं प्रतिपद्यमानेन बुद्धनित्यत्वं प्रतिपत्तव्यम् । अथ सन्तानवर्तिनीमनेकां बुद्धिमीश्वरे प्रतिपद्यसे ? एवमपि न युगपदुत्पादः स्थावरादीनां प्राप्नोति । अथ (ताः) सन्तानवर्तिन्यः सर्वार्थाः बुद्धयो भवन्ति ? एवमपि दृष्टविपरीतं कल्पितं भवति । एवं च कल्पयता बुद्धिनित्यत्वमेव प्रतिपत्तव्यम् । एतावचैतत्स्यात् नित्या वा सन्तानवर्तिनी (वा सन्तावर्तिनी) न युक्ता । यदि गुणभेदानेदः यदभिन्नगुणं तदेकं प्राप्नोति यथा दिक्कालाविति ? नानेकान्तात्-गुणभेदानानात्वं ब्रूमः न पुनर्गुणाऽभेदादेकत्वमितितथाहि अभिन्नगुणानां घटादीनां नानात्वमिति, दिक्कालयोर्गुणा- ऽभेदेऽपि कार्यभेदानानात्वमिति । न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थाऽतीताऽनागतवर्तमानविषया प्रत्यक्षा नाऽऽनुमानिकीन तत्राऽनुमानं नागम इति । ज्ञाननित्यत्वाञ्च न संस्कार:-नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति संस्काराभावाद् बुद्धिनित्यत्वाञ्च न स्मृतिः, स्मृत्यभावाञ्च नाऽनुमानं, न दुःखधर्मस्याऽभावात्, अत एव न वैराग्यमिति दुःखाऽभावान विरज्यत इति । अत एव न द्वेषो दुःखाऽभावादिति । इच्छा तु विद्यतेऽक्लिष्टाव्याहता सर्वार्थेषु यथा बुद्धिरिति । अथ किमयं बद्धो मुक्त इति ? । न बद्धो दुःखाऽभावादेव । अबद्धत्वान्न मुक्त इतिबन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । आत्माऽन्तराणामसम्बन्धादधिष्टातृत्वमनुपपन्नमिति चेत् ? अथ मन्यसेऽर्थान्तरसमवायिनो ये धर्माऽधर्मास्तें न साक्षादीश्वरेण सम्बद्ध्यन्ते, न पारम्पर्येण, न चाऽसम्बद्धमधिष्ठातुं शक्यते । न चाऽनधिष्ठितयोर्धर्माधर्मयोः प्रवृत्तिर्युक्तेति ? । तञ्च न, अजसम्बन्धोपपत्तेः- अजः सम्बन्धः आत्माऽन्तराणामित्येक इच्छन्ति न चैतदिह प्रतिषिध्यत इति अप्रतिषेधादुपात्तः स इति । ते त्वजं सम्बन्धं प्रमाणतः प्रतिपादयन्ति व्यापकैराकाशादिभिः सम्बद्ध ईश्वरः मूर्तिद्रव्यसम्बन्धित्वात् घटवदितियथा घटाऽऽदि मूर्तिमता घटादिना सम्बन्धित्वेन व्यापकैराकाशाऽऽदिभिः (२२६)SAAMANA himirsinha स्याद्वादमञ्जरी) Page #253 -------------------------------------------------------------------------- ________________ । सम्बद्ध्यते तथेश्वरोऽपि मूर्तिमत्सम्बन्धीति तस्मादयमपि व्यापकैराकाशाऽदिभिः सम्बद्ध्यत इति । स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति । अर्थाऽभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । स पुनरीश्वराऽऽत्मानौ व्याप्नोति न व्याप्नोतीति न व्याक्रियते । येऽप्यजं संयोगोपपत्तेरस्ति सम्बन्धः यानि प्रत्यात्ममनांसि सर्वाणीश्वरसंबद्धानीत्यतः सम्बद्धसम्बन्धोपपत्ते- रात्मान्तराण्यधितिष्ठिति यथाऽत्महस्तसंयोगप्रयत्नाभ्यां हस्ते कर्म भवति उत्पन्नकर्मको हस्तः सन्दंशादिना सम्बद्ध्यते तत्सम्बन्धादयःपिण्डाद्यधितिष्टति । यदि तर्हि सर्गादावीश्वरस्य कारणत्वेऽयं न्यायोऽभिहितः इदानीमीश्वरो न कारणमिति प्राप्तम् ? इदानीमपि स एव न्यायः- मृतशरीरिणां यो धर्माऽधर्मो तौ बुद्धिमत्कारणाऽधिष्ठिताविति समानों न्यायः । बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्यन्तानि प्रवर्तन्ते अचेतनत्वाद्वास्यादिवत्। एवं कार्यत्वात् तृणादीनि पक्षीकृत्य दर्शनस्पर्शनविषयत्वादितिं वक्तव्यम् । एवं यत्र विप्रतिपत्तिः कार्यत्वं च तत्तदनेनैव न्यायेनानेन दृष्टान्तेन वास्यादिना पक्षयित्वा साधयितव्यम् । आगमा- आगमादपि श्रूयते ईश्वरः कारणम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ।। इति ईश्वरप्रकरणम् ।' श्लो. ८ स्याद्वादमञ्जर्यां सत्तायाः खण्डनं तदर्थं सत्ताप्रतिपादकानि कणादसूत्राणि ( १-२-७ मारभ्य ११ पर्यन्तम् १-२ - १७ च) प्रशस्तपादभाष्यं च । 'सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाहसदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।। १-२-७। इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथा च द्रव्याऽऽदिषु त्रिषु सत्सदिति - प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारकः शब्दप्रयोगो वा यदधीनः सा सत्ता ।।७।। स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ४ २२७ Page #254 -------------------------------------------------------------------------- ________________ ननु द्रव्यगुणकर्मभ्यः पृथक् भावेन सत्ता नाऽनुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता । यतो हि यद् भिन्नं भवति तत्ततो भेदेनाऽनुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदाऽत्मिकैवेत्यत आह द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ।। १-२-८ ।। द्रव्याऽऽदयोऽननुगताः सत्ता चानुगता । तथा च अनुगतत्वाननुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् । घटपटयोस्तु युतिसिद्धिः । न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अनुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वाऽदिभिरपि गतम् । अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्व्यवहारोपपत्तौ किं सत्तयेत्यपास्तम् । अत एवाऽर्थक्रियाकारित्वं प्रामाणिकत्वं वा सत्त्वमित्ययुक्तं तदनंनुसन्धानेऽपि सत् इति प्रत्ययात् ॥ ८ ।। भेदकाऽन्तरमाह गुणकर्मसु च भावान कर्म न गुणः ।। १-२-९ ।। न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाऽभिधानं न द्रव्यमित्यपि सूचयति । न हि कर्मसु वर्तते । न वा गुणो गुणेषु । न वा द्रव्यं गुणे कर्मणि वा । सत्ता तु गुणे कर्मणि च वर्तते । न द्रव्यगुणकर्मवैधर्म्यात्तेभ्यो भिन्नैव सत्ता ।।९।। भेदकाऽन्तरमाह सामान्यविशेषाऽभावेन च ।। १-२-१० ।। . यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वाऽऽदय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाञ्चिदनुभवः ।। १० ।। ननु सत्ता द्रव्यगुणकर्मसु वर्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्याद्वादमञ्जरी २२८४४४४ Page #255 -------------------------------------------------------------------------- ________________ स्यादत आह सदितिलिङ्गाऽविशेषात् विशेषलिङ्गाऽभावाचैको भावः ।।१-२-१७ ।। सदित्याऽऽकारकज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम् । तञ्च द्रव्यगुणकर्मसु समानमविशिष्टम् । तेन भावः सत्ता एकैव तेषु वर्तते अन्यथा द्रव्यत्वाऽऽदिभिस्तुष्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः । विशेषलिङ्गाऽभावाञ्चेति । विशेषो भेदस्तत्र यल्लिङ्गमनुमानं तदभावाञ्च न भेद इत्यर्थः । भवति हि स एवाऽयं दीप इत्यनुगमस्तत्र यथा विशेषलिङ्गं दीर्घह्रस्वत्वादिपरिमाणभेदस्तथाऽत्र विशेषलिङ्गं नास्तीति भावः ।।१७।।' प्रशस्तपादभाष्यं च-तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलाऽऽदिष्वेकस्मान्नीलद्रव्याऽभिसम्बन्धात् नीलं नीलमिति प्रत्ययाऽनुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययाऽनुवृत्तिः सा चाऽर्थान्तराद्भवितुमर्हतीति यत्तदऽर्थान्तरं सा सत्तेति सिंद्धा । सत्ताऽनुसम्बन्धात् सत्सदिति प्रत्ययाऽनुवृत्तिः तस्मात् सा सामान्यमेव ।' .. ___अत्रैव श्लोके मुक्ति: 'न संविदानन्दमयी' इत्यादिना खण्डिता तदर्थं मुक्तिस्वरूपं वैशेषिकसूत्रोपस्कारे १-१-४. . 'निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः । दुःखनिवृत्तेश्चाऽऽत्यन्तिकत्वं समानाऽधिकरणदुःखप्रागभावसमानकालीनत्वम्, युगपदुत्पन्नसमानाऽधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा । अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः । न चाऽसाध्यत्वान्नाऽयं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्याऽपि साध्यत्वात् । न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाऽभावत्वेन तथात्वात् । जनकत्वञ्च स्वरूपयोग्यतामात्रम् । नहि प्रागभावश्चरमसामग्री येन तस्मिन् सति कार्यमवश्यं भवेत् । तथा सति कार्यस्याऽप्यनादित्वप्रसङ्गात् । तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान जनयिष्यति, ‘हेतूच्छेदे स्याद्वादमञ्जरी naukarinaukri २२९) Page #256 -------------------------------------------------------------------------- ________________ पुरुषव्यापारात्' इत्यस्याऽपि प्रागभावपरिपालन एव तात्पर्यात्। अत एव गौतमीयद्वितीय सूत्रे 'दुःखजन्मप्रवृत्तिदोषमिथ्या-ज्ञानानामुत्तरोत्तराऽपाये तदनन्तरापायादपवर्ग:' इत्यत्र कारणाऽभावात् कार्याऽभावाऽभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति । नहि दोषाऽपाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्माऽपायः, जन्माऽपाये दुःखाऽपायः इत्यपायो ध्वंसः । किन्त्वनुत्पत्तिः । सा प्रागभाव एव । न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत्, तत्राऽपि प्रत्यवायध्वंसद्वारा दुःखाऽनुत्पत्तेरेवापेक्षितत्वात् । लोकेऽप्यहिकण्टकाऽदिनिवृत्तेर्तुःखाऽनुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः । केचित्तु दुःखाऽत्यन्ताभाव एव मुक्तिः । स च यद्यपि नाऽऽत्मनिष्ठस्तथापि लोष्ठाऽऽदिनिष्ठ एवात्मनि साध्यते । सिद्धिश्च तस्य दुःखप्रागभावाऽसहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तंत्र दुःखाऽत्यन्ताभावप्रतीतेः । एवञ्च सति 'दुःखेनाऽत्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिरप्युपपादिता भवतीत्याहुः । तन्न । दुःखात्यन्ताऽभावस्याऽसाध्यत्वेनाऽपुरुषार्थत्वात् । दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतेर्तुःखप्रागभावस्यैव कारणविघटनमुखेनाऽत्यन्ताऽभावसमानरूपत्वतात्पर्यकत्वात् । नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाऽभावात् दुःखकाले सुखं तावनोत्पद्यते इति सुखार्थिनामेव दुःखाऽभावार्थं प्रवृत्तेरिति चेन्न ।वैपरीत्यस्याऽपि सुवचत्वात् सुखेच्छाऽपि दुःखाऽभावोपाधिकीत्येव किं न स्यात् । शोकाऽकुलानां सुखविमुखानामपि दुःखाऽभावमात्रमभिसन्धाय विषभक्षणोद्वन्धनादौ प्रवृत्तिदर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञानमय एव । मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति । अन्यथा मूर्छाद्यवस्थाऽर्थमपि प्रवर्तेतेति चेन्न । श्रुत्यनुमानाभ्यां ज्ञानमानस्याऽवेद्यत्वाऽनुपपत्तेः। अस्ति हि श्रुतिः ‘दुःखेनाऽत्यन्तं विमुक्तश्चरति' तमेव विदित्वाऽतिमृत्युमेति' इत्यादिका । अनुमानमप्यस्तिदुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि । चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयीकरणात् (२३०dankrantikari स्याद्वादमञ्जरी) Page #257 -------------------------------------------------------------------------- ________________ प्रत्यक्षवेद्यताऽपि । योगिनां योगजधर्मबलेनाऽऽगामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाञ्च । तथाऽपि तुल्याऽऽयव्ययया नाऽयं पुरुषार्थो, दुःखवत्सुखस्याऽपि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेद्, उत्सर्गतो वीतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः । ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् । अतीतदुःखस्याऽतीतत्वात् वर्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न । हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत् । तथाहि सवासेन मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थ प्रवृत्त्युपपत्तेः । ननु नित्यसुखाऽभिव्यक्तिरेव मुक्तिन्तु दुःखाभाव इति चेन्न नित्यसुखे प्रमाणाऽभावात् । भावे वा नित्यं तदभिव्यक्तेर्मुक्तसंसारिणोरविशेषापाताद् अभिव्यक्तरुत्पाद्यत्वेन तनिवृतौ पुनः संसाराऽऽपत्तेश्च । ... - ब्रह्माऽऽत्मनि जीवाऽऽत्मलयो मुक्तिरिति चेन्न । लयो यद्येकीभावस्तदा बाधात् नहि द्वयमेकं भवति । लिङ्गशरीराऽपगमो. लयो लिङ्गश्चैकादशेन्द्रियाणि । तेषां शरीरस्य च विगमो लय इति चेन । एतावता दुःखसामग्रीविरहस्योक्तत्वात् । तथा च दुःखाऽभाव एव मुक्तिरिति पर्यवसानात्। एतेनाऽविद्यानिवृत्तौ केवलाऽऽत्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखाऽऽत्मकः इत्येकदण्डिमतमपास्तम्। आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाऽभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिर्मानम् । तस्या ज्ञानवत्त्वा- ऽऽनन्दवत्त्वप्रतिपादकत्वात् । भवति हि अहं जाने अहं सुखीति प्रतीतिः नत्वहं ज्ञानं अहं सुखमिति । किञ्च ब्रह्मणो इदानीमपि सत्त्वाद् मुक्तसंसारिणोरविशेषाऽऽपत्तिः अविद्यानिवृत्तेश्चाऽपुरुषार्थत्वाद् ब्रह्मणश्च नित्यत्वेनाऽसाध्यत्वात्, तत्साक्षात्कारस्य तदात्मकत्वेनाऽसाध्यत्वात्, एवमानन्दस्याऽपि तदात्मकत्वेनाऽसाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव । निरुपप्लवा चित्सन्ततिर्मुक्तिरिति चेन । दुःखादिरूपस्य उपप्लवस्य विगमो यदि निरुपप्लवत्वं तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्तौ प्रमाणाऽभावः तदनुवृत्तेरपि शरीराऽऽदिसाध्यत्वेन संसारानुवृत्तेरावश्यकत्वादिति सिद्धं स्याद्वादमञ्जरी AAAAAAAAAMANNA २३१ Page #258 -------------------------------------------------------------------------- ________________ दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति। श्लो. ९ स्याद्वादमञ्जर्यामात्मनो विभुत्वस्य खण्डनं तदर्थमात्मनो विभुत्वं प्रशस्तपादभाष्ये आत्मप्रकरणे-'तथा चात्मेतिवचनात्परममहत्परिमाणम्' । किं च गौतमसूत्रेषु वात्स्यायनभाष्ये-(३-२-२०, २१) . 'योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीराऽन्तराणि तेषु तेषु युगपज्ज्ञेयानुपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते नाऽणौ मनसीति । विभुत्वे वा मनसो ज्ञानस्य नाऽऽत्मगुणत्वप्रतिषेधः । विभु मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्संयोगाद्युगपज्ज्ञानान्युत्पद्येरनिति ।।२०।। तदात्मगुणत्वेऽपि तुल्यम् ।।३-२-२१॥ विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ।।२१।। तत्रैव स्याद्वादमञ्जयां 'त्वयाऽऽत्मनां बहुत्वमिष्यते' इत्यादिनाऽऽत्मनानात्वं खण्ड्यते । तदर्थ आत्मनानात्वं प्रशस्तपादभाष्ये-आत्मनिरूपणे'व्यवस्थावचनात्संख्यापृथक्त्वमप्यत एव' । वैशेषिकसूत्रोपस्कारे (३-२-२०) सिद्धान्तमाह व्यवस्थातो नाना ।।३-२-२०।। - नाना आत्मानः कुतः व्यवस्थातः । व्यवस्थाः प्रतिनियमः यथा कश्चिदाढ्यः कश्चिद् रङ्कः, कश्चित्सुखी, कश्चिदुःखी कश्चिदुञ्चाभिजनः, कश्चिनीचाभिजनः, कश्चिद्विद्वान्, कश्चिज्जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणाऽनुपपद्यमाना साधयत्यात्मना भेदम् । न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याऽप्यात्मना यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् । कालभेदेन विरुद्धधर्माऽध्याससम्भवात्' ।।२०।। श्लो. १० स्याद्वादमञ्जर्यां छलादिविषये यदुक्तं तज्ज्ञानार्थं छलादिप्रतिपादकानि न्यायसूत्राणि १०-२० (अ. १।२।१०-२०) (२३२NNNNNNNNNhainin.in स्याद्वादमञ्जरी) Page #259 -------------------------------------------------------------------------- ________________ 'वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।।१-२-१०।। . . तत्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ।।१-२-११।। अविशेषाऽभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ।।१-२-१२ । । सम्भवतोऽर्थस्याऽतिसामान्ययोगादसम्भूताऽर्थकल्पना सामान्यछलम् ।।१-२-१३।। - धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।।१-२-१४।। वाक्छलमेवोपचारछलं तदविशेषात् ।।१-२-१५।। .. न तदर्थान्तरभावात् ।।१-२-१६।। अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः ।।१-२-१७ ।। साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ।।१-२-१८ ।। विप्रतिपत्तिरप्रतिप्रत्तिश्च निग्रहस्थानम् ।।१-२-१९ ।। . तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ।।१-२-२०।।. तत्रैव प्रमाणप्रमेयलक्षणविषये यदुच्यते तदर्थं न्यायसूत्रे भाष्ये उपलब्धिहेतुश्च प्रमाणम् । प्रमेयं तूपलब्धिविषयः तथा च प्रमेयविषयेऽन्यत्र १।१।९ गौतमसूत्रंसभाष्यम् । 'किं पुनरनेन प्रमाणेनाऽर्थजातं प्रमातव्यमिति तदुच्यते- आत्मशरीरेन्द्रियाऽर्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाउँपवर्गास्तु प्रमेयम् ।।१-१-९।। तत्राऽऽत्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वाऽनुभावी । तस्य भोगाऽऽयतनं शरीरम्। भोगसाधनानीन्द्रियाणी । भोक्तव्या इन्द्रियार्थाः । भोगो बुद्धिः । सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः । शरीरेन्द्रियाऽर्थबुद्धिसुखदुःखवेदनानां निवृत्तिकारणं प्रवृत्तिदोषाश्च । नास्येदं शरीरमपूर्वमनुत्तरं च । पूर्वशरीराणामादिर्नास्ति, उत्तरेषामवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुःखोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानं किं तर्हि जन्मन एवेदं ससुखसाधनस्य दुःखाऽनुषङ्गाद्दुःखे-नाऽविप्रयोगः, स्याद्वादमञ्जरी instantlnANANA २३३) Page #260 -------------------------------------------------------------------------- ________________ द्विविधबाधनायोगादुःखमिति । समाधिभावनमुपदिश्यते । समाहितो भावयति भावयनिविद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रवहणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुण-कर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन चाऽपरिसङ्घयेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यतः एतदुपदिष्टं विशेषेणेति ।।९।।' तत्रैव जातिश्चतुर्विंशतिविधा निग्रहस्थानं द्वाविंशतिविधं हेत्वाभासाश्च पञ्च खण्डितास्तदर्थं तेषां सर्वेषां स्वरूपं प्रदर्श्यते (गौ. सू. अ. ५ संपूर्णः अ. १।२।४।-९) 'साधर्म्यवैधयोत्कर्षांपकर्षवर्याऽवििवकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणहेत्वाऽपत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्याऽनित्यकार्यसमाः ।।४-१-१।। साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ।।५-१-२।। गौत्वाद्गोसिद्धिवत्तत्सिद्धिः ।।५-१-३।। साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाञ्चोत्कर्षाऽपकर्षवर्णोऽवर्ण्यविकल्पसाध्यसमाः ।।५-१-४।। किञ्चित्साधादुपसंहारसिद्धेवैधाऽप्रतिषेधः ।।५-१-५।। साध्याऽतिदेशाच दृष्टान्तोपपत्तेः ।।५-१-६।। प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्यासाधकत्वाञ्च प्राप्त्यप्राप्तिसमौ ।।५-१-७।। घटादिनिष्पत्तिदर्शनात्पीडने चाऽभिचारादप्रतीषेधः ।।५-१-८।। दृष्टान्तस्य कारणाऽनपदेशात्प्रत्यवस्थानाञ्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ।।५-१-९।। प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ।।५-१-१०।। (२३४RAAAAAAAAAAA स्याद्वादमञ्जरी Page #261 -------------------------------------------------------------------------- ________________ प्रतिदृष्टान्तहेतुत्वे च नाऽहेतुर्दृष्टान्तः ।।५-१-११।। प्रागुत्पत्तेः कारणाऽभावादनुत्पत्तिसमः ।।५-१-१२।। तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ।।५-१-१३।। सामान्यदृष्टान्तयोरै न्द्रि यक त्यो समाने नित्याऽनित्यसाधर्म्यात्संशयसमः ।।५-१-१५।। . साधर्म्यात्संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वाऽनभ्युपगमाञ्च सामान्यस्याऽप्रतिषेधः ।।५-१-१५।। उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ।।५-१-१५।।... प्रतिपक्षज्ञात्प्रकरणसिद्धेः प्रतिषेधाऽनुपपत्तिः प्रतिपक्षोपपत्तेः ।।५-११७ ।। त्रैकाल्यसिद्धहेतोरहेतुसमः ।।५-१-१८।। न हेतुतः साध्यसिद्धेस्रकाल्याऽसिद्धिः ।।५-१-१९।। प्रतिषेधाऽनुपपत्तेः प्रतिषेद्धव्याऽप्रतिषेधः ।।५-१-२०।। अर्थाऽपत्तितः प्रतिपक्षसिद्धरापत्तिसमः ।।५-१-२१।। अनुक्तस्याऽर्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाञ्चार्थापत्तेः ।।५-१-२२।। ' एकधर्मोपपत्तेरविशेषे सर्वाऽविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ।।५-१-२३।। क्वचित्तद्धर्मोपपत्तेः क्वचिञ्चाऽनुपपत्तेः प्रतिषेधाऽभावः ।।५-१-२४ ।। उभयकारणोपपत्तेरुपपत्तिसमः ।।५-१-२५।। उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ।।५-१-२६।। निर्दिष्टंकारणाऽभावेऽप्युपलम्भादुपलब्धिसमः ।।५-१-२७ ।। कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ।।५-१-२८ ।। स्याद्वादमञ्जरी rhinindianhinbit२३५) Page #262 -------------------------------------------------------------------------- ________________ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ।।५-१-२९ ।। अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ।।५-१-३०।। ज्ञानविकल्पानां च भावाऽभावसंवेदनादध्यात्मम् ।।५-१-३१।। साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वाऽनित्यत्वप्रसङ्गादनित्यसमः ।।५-१-३२।। साधादसिद्धेः प्रतिषेधाऽसिद्धिः प्रतिषेध्यसाधाञ्च ।।५-१-३३।। दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावानाऽविशेषः ।।५-१-३४।। नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ।।५-१-३५ ।। प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाऽभावः ।।५१-३६।। प्रयत्नकार्याऽनेकत्वात्कार्यसमः ।।५-१-३७ ।। कार्याऽन्यत्वे प्रयत्नाऽहेतुत्वमनुपलब्धिकारणोपपत्तेः ।।५-१-३८।। प्रतिषेधेऽपि समानो दोषः ।।५-१-३९ ।। सर्वत्रैवम् ।।५-१-४०।। प्रतिषेधविप्रतिषेधे. प्रतिषेधदोषवद्दोषः ।।५-१-४१।। प्रतिषेधं . सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मताऽनुज्ञा ।।५-१-४२।। स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाऽभ्युपगमात्समानो दोष इति ।।५-१-४३।। (२३६ARAARA स्याद्वादमञ्जरी Page #263 -------------------------------------------------------------------------- ________________ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञसंन्यासो हेत्वन्तरमर्थाऽन्तरं निरर्थकमविज्ञताऽर्थमपार्थकमकलं न्यूनमधिकं पुर्नरुक्तमननुर्भीषणमज्ञानमप्रतिभी विक्षेपो मताऽनुज्ञा पर्यनुयोज्योपेक्षणंनिरनुयोज्याऽनुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ।।५-२-१।। १८ १ प्रतिदृष्टान्तधर्माऽभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।।५-२-२ ।। २ प्रतिज्ञाताऽर्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशे प्रतिज्ञाऽन्तरम् ।।५-२-३ ।। ३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।।५-२-४।। ४ पक्षप्रतिषेधे प्रतिज्ञाताऽर्थाऽपनयनं प्रतिज्ञासंन्यासः ।।५-२-५।। ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।।५-२-६।। ६ प्रकृतादर्थादप्रतिसम्बद्धाऽर्थमर्थान्तरम् ।।५-२-७।। ७ वर्णक्रमनिर्देशवन्निरर्थकम् ।।५-२-७।। ८ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ।।५-२-९ ।। ९ पौर्वाऽपर्याऽयोगादप्रतिसम्बद्धाऽर्थमपार्थकम् ।।५-२-१०।। १० अवयवविपर्यासवचनमप्राप्तकालम् ।।५- २ - ११ । । ११ हीनमन्यतमेनाप्यवयवेन न्यूनम् ।।५-२-१२ ।। १२ हेतूदाहरणाऽधिकमधिकम् ।।५-२-१३।। १३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्राऽनुवादात् ।।५-२-१४।। अनुवादे त्वपुनरुक्तं शब्दाऽभ्यासादर्थविशेषोपपत्तेः 'अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ।।५-२-१५।। १४ विज्ञातस्य परिषदा त्रिरभिहितस्याऽप्यप्रत्युच्चारणमननुभाषणम् ।।५-२-१६।। १५ अविज्ञातं चाऽज्ञानम् ।।५-२-१७।। १६ उत्तरस्याऽप्रतिपत्तिरप्रतिभा ।।५-२-१८। स्याद्वादमञ्जरी औ आज ॐ ॐ ॐ २३७ Page #264 -------------------------------------------------------------------------- ________________ १७ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ।।५-२-१९।। १८ स्वपक्षदोषाऽभ्युपगमात्परपक्षे दोषप्रसङ्गो मताऽनुज्ञा ।।५-२-२०।। १९ निग्रहस्थानप्राप्तस्याऽनिग्रहः पर्यनुयोज्योपेक्षणम् ।।५-२-२१।। २० अनिग्रहस्थाने निग्रहस्थानाऽभियोगे निरनुयोज्याऽनुयोगः ।।५-२-२२।। २१ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः ।।५-२-२३।। २२ सयभिचारविरुद्धप्रकरणसमसाध्यसमकालाऽतीता हेत्वाभासाः ।।१२-४।। १ अनैकान्तिकः सव्यभिचारः ।।१-२-५।। २ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ।।१-२-६।। ३ यस्मात्प्रकरणचिन्ता स.निर्णयार्थमपदिष्टः प्रकरणसमः ।।१-२-७ ।। ४ साध्याऽविशिष्टः साधत्वात्साध्यसमः ।।१-२-८।। ५ कालाऽत्ययाऽपदिष्ट: कालाऽतीतः ।।१-२-९।। श्लोक ११ स्याद्वादमञ्ज- वेदविहितहिंसाविषये यत्खण्डनं तदर्थ मीमांसाग्रन्थनिर्देशः अ. १।१।२ . . . .. श्लोकवार्तिके २२८-२७६ हिंसा हीति च यञ्चाऽपि ब्रूते नाऽभिचरेदिति । श्येनाऽऽदीनां स्वरूपे तु नोत्तरग्रन्थसङ्गतिः ।।२१८।। . विहितत्वानिषेधस्य प्रवृत्तिस्तेषु दुर्लभा । यदा तु. चोदनाशब्दो विधावेव व्यवस्थितः ।।२१९ ।। तदोभयाऽऽदिको ग्रन्थः साध्यसाधनसंश्रितः । 'साध्यसाधनसम्बन्धे विधिना प्रतिपादिते ।।२२० ।। लक्ष्यमाणत्वमुभयो विविधं च फलं क्रतोः । 'स्वर्गाऽऽदि प्राप्यते तत्र प्रतिषेधाऽऽनतिक्रमात् ।।२२१ ।। ( २३८R AMA स्याद्वादमञ्जरी % D Page #265 -------------------------------------------------------------------------- ________________ अतिक्रमेण हिंसाऽऽदिं' शास्त्राऽन्तरनिरीक्षया । । फलांऽशे भावनायाश्च प्रत्ययो न विधायकः ।।२२२।। वक्ष्यते जैमिनिश्चाऽऽह तस्य लिप्साऽर्थलक्षणा । तेन सामान्यतः प्राप्तो विधिना च निवारितः ।।२२३।। फलांशोपनिपातिन्या हिंसायाः प्रतिषेधकः । . अनर्थप्राप्तिहेतुत्वं बोध्यते तत्र यद्यपि ।।२२४ ।। श्येनस्वरूपं नाऽनर्थस्तत्फलस्य त्वनर्थता । .... परस्तूभयमित्यादेः फलस्याऽपि विधेयताम् ।।२२५ ।। भावनाऽन्तर्गतत्वाद्वा मत्वाऽनर्थत्वमाक्षिपत् । नैवेत्येतावता चाऽस्य विधेयत्वनिराक्रिया ।।२२६।। .. किं विधेयमिदानी स्यादाह श्येनाऽऽदयस्त्विति । 'प्रश्नाऽपाकरणे चात्र तव्यो विधिविवक्षया ।।२२७ ।। प्रयुक्तो न तु साध्येऽर्थे द्वयेऽप्यनुप्रयोगतः । अनर्थस्याऽपि साध्यत्वमविधेयस्य हीष्यते ।।२२८ ।। साध्यत्वरहिते चेष्टा विधेये नित्यमर्थता । शतुश्च लक्षणाऽर्थत्वं तेषां चाऽप्युपदेशनम् ।।२२९ ।। ब्रुवन् स्फुटीकरोतीष्टमुपदेशो हि नाऽन्यथा । विधित्वमादिशब्दात्स्यादितिकर्तव्यतास्वपि ।।२३०।। तस्मात्फलांऽशे या हिंसा वैदिकी सा निषिध्यते । अंशद्वये तु या नाम तनिषेधाऽभिधायिनाम् ।।२३१।। अविशेषेण यच्छात्रं शिरोवदिति चोत्तरम् । . निषेधेनाऽनवष्टब्धे विषये न ह्यनर्थता ।।२३२।। प्रत्यक्षादेरशक्यत्वात्कल्प्यते निष्प्रमाणिका । न हि हिंसाधनुष्ठाने तदानीं दोषदर्शनम् ।।२३३।। स्थाद्वादमञ्जरीAA M ANA २३९ Page #266 -------------------------------------------------------------------------- ________________ बाह्येऽपि विचिकित्सा तु शास्त्रादेवोपजायते । 'हिंसमानस्य दुःखित्वं दृश्यते यन तावता ।।२३४।। कर्तृर्दुःखानुऽमानं स्या'त्तदानीं तद्विपर्ययः । विषयोऽस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ।।२३५।। हिंसा क्रियाविशेषत्वात्सूते शास्त्रोक्तदानवत् । य एवमाह तस्याऽपि गुरुस्त्रीगमनाऽऽदिभिः ।।२३६ ।। सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता । विरुद्धता च यादृग्धि दानैस्तादृक् फलं भवेत् ।।२३७ ।। विधिगम्यफलाऽवाप्तिरदुःखात्मकता तथा । न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ।।२३८ ।। . दातुस्तेन हि दृष्टान्तः सांध्यहीनः प्रतीयते । । 'सम्प्रदानं च दाने ते विषयः कर्म हिंसने ।।२३९ ।। वैषम्यं' सम्प्रदाने त पक्षस्त्वेतद्विरुद्धता । प्रीयते सम्प्रदानं हि देवतेति मतं तव ।।२४०।। ... दृष्टान्ते कर्म दानं चेत्तस्य कीदृक् फलं भवेत् । जपहोमाऽऽदिदृष्टान्तात्परपीडाऽऽदिवर्जनात् ।।२४१।। चोदितत्वस्य हेतुत्वाद्विरुद्धाव्यभिचारिता । विहितंप्रतिषद्धत्वे मुक्त्वान्यन्न च कारणम् ।।२४२।। धर्माऽधर्मावबोधस्य तेनायुक्तानुमानगीः । अनुग्रहाचाधर्मत्वं पीडातश्चाप्यधर्मता ।।२४३।। वदतो जपसीध्वादिपानादौ नोभयं भवेत् । कोशता हृदयेनाऽपि गुरुदाराऽभिगामिनाम् ।।२४४।। भूयान् धर्म:प्रसज्येत भूयसी ह्युपकारिता । अनुमानप्रधानस्य प्रतिषेधाऽनपेक्षिणः ।।२४५।। (२४० स्याद्वादमञ्जरी Page #267 -------------------------------------------------------------------------- ________________ हदयक्रोशनं कस्मादृष्टां पीडामपश्यतः । . पीडतश्चाप्यधर्मत्वं तथा पीडामधर्मतः ।।२४६।। अन्योऽन्याऽऽश्रयमाप्नोति विना शास्त्रेण साधयन् । ' एवमादावशास्त्रज्ञो म्लेच्छो नोद्विजते क्वचित् ।।२४७।। तस्य नाऽधर्मयोगः स्यात्पूर्वोक्ता यदि कल्पना । तस्मादनुग्रहं पीडां तदभावमपास्य च ।।२४८ ।। धर्माऽधर्मार्थिभिनित्यं मृग्यौ विधिनिषेधको। . क्वचिदस्या निषिद्धत्वाच्छक्तिः शास्त्रेण बोधिता ।।२४९ ।। प्रत्यवायनिमित्तत्वे विधिना नाऽपगच्छति । . . . . . . शास्त्रेण न हि शक्तीनामावापोद्वापनक्रियाः ।।२५०।। विद्यमाना हि कथ्यन्ते शक्तयो द्रव्यकर्मणाम् । तदेव चेदं कर्मेति शास्त्रमेवाऽनुधावता ।।२५१।। हिंसादीनामधर्मत्वं कथ्यते नाऽनुमानतः' । .. ‘एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् ।।२५२।। सुरापानाऽऽदिभिः शुद्रः किं याति नरकं कृतैः । वैश्यस्तोमेन वा किं स्याद्विप्रराजन्ययोः फलम् ।।२५३।। पञ्चम्यामिष्टिकरणान्मध्याह्ने चाऽग्निहोत्रतः' । तस्माद्यद्यादृशं कर्म यत्फलोत्पत्तिशक्तिकम् ।।२५४।। . शास्त्रेण गम्यते तस्य तादृशस्यैव तत् फलम् । 'हिंसा चांशद्वयादन्या या तस्याः प्रतिषेधजम् ।।२५५ ।। प्रत्यवायार्थताज्ञानं विधिनाऽन्यत्र वार्यते । ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ।।२५६।। ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः । व्यवस्थाः शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ।।२५७।। स्याद्वादमञ्जरीkakkha २४१) Page #268 -------------------------------------------------------------------------- ________________ अभिन्नत्वेऽपि दृश्यन्ते भुजः स्वस्थातुरेष्वपि । रूपाऽभेदेपि हिंसादेर्भेदोऽङ्गाऽनङ्गकारितः ।। २५८ ।। तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः । यजित्वाद्यविशेषाञ्च चित्रादिफलतुल्यता ।। २५९ ।। भेदात्तत्र व्यवस्था चेदिहाऽप्येवं भविष्यति । विधीनां वाऽपि सर्वेषां साक्षाद् व्यवहितोऽपि वा । ।२६०।। पुरुषार्थः फलं तेन नानर्थोऽतः प्रतीयते । न चैषु श्रूयतेऽनर्थो निषेधान्न च कल्प्यते । । २६१ ।। न च प्रकरणस्थत्त्वात्पुरुषार्थः फलं भवेत् । कर्मोपकारः कल्प्यस्तु दृष्टोऽदृष्टोऽथ वा पुनः ।।२६२ ।। कल्पनाऽवसरस्तत्र नाऽनर्थस्यानपेक्षणात् । क्रत्वर्थश्चाऽपि संस्कारः पशोर्नारादुपक्रिया । । २६३ ।। दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपेक्षिता । अभिचारेऽप्युपायस्था हिंसा नाऽधर्म उच्यते । । २६४ ।। तस्मादनङ्गभूतायां हिंसायामेतदुच्यते । उद्देशाच्च फलत्वेन श्येनाऽऽदौ न विधीयते । । २६५ ।। भावनाविधिरप्येवं फलांशाद्विनिवर्तते । अतः स्वतो न धर्मत्वं श्येनाऽऽदेर्नाऽप्यधर्मता ।। २६६।। फलाऽनर्थानुबन्धित्वात्तद्द्वारेणोपचर्यते । निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ।।२६७।। तस्मात् क्रियाऽन्तरादेर्वा हिंसातो नाऽर्थ उच्यते । फलतोऽपि च यत्कर्म नाऽनर्थेनाऽनुबध्यते । । २६८ ॥ केवलप्रीतीहेतुत्वात्तद्धर्मत्वेन हीष्यते । ननु चेष्टाऽभ्युपायत्वात् श्येनाऽऽदेर्धर्मता भवेत् ।। २६९ ।। २४२४ स्याद्वादमञ्जरी Page #269 -------------------------------------------------------------------------- ________________ फलं तावदधर्मोऽस्य श्येनाऽऽदेः सम्प्रधार्यते । 'यदि येनेष्टसिद्धिः स्यादनुष्ठानाऽनुबन्धिनी ।।२७०।। तस्य धर्मत्वमुच्येत ततः श्येनाऽऽदिवर्जनम् । यदा तु चोदनागम्यः कार्याऽकार्याऽनपेक्षया ।।२७१।। धर्मः प्रतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता । यदि त्वप्रीतिहेतुर्यः साक्षाद् व्यवहितोऽपि वा' ।।२७२।। सोऽधर्मश्चोदनार्थः स्यात्तदा श्येनेऽप्यधर्मता । यस्तु हिंसात्वसाधाद्वाह्यवञ्चोदनास्वपि ।।२७३।। वदेदनर्थहेतुत्वं तस्याऽप्यागमबाधनम् । तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ।।२७४ ।। स्वर्गाऽऽदिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् । गीतामन्त्रार्थवादेर्या कल्प्यतेऽनर्थहेतुता ।।२७५ ।। प्रत्यक्षश्रुतिबाध्यत्वात्साऽन्याऽर्थत्वेन नीयते ।। शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ।।२७६।। तत्रैव स्याद्वादमञ्चर्यां स हि पौरुषेयो वा स्यादपौरुषेयो वा इत्यादि विकल्प्य खण्डितं तदर्थं मीमांसकंमतम् (जैमिनिसूत्राणि २७-३२ शाबरभाष्यसहितानि). वेदांश्चैके सत्रिकर्षं पुरुषाऽऽख्या ।।१-१-२७॥ . उक्तं चोदनालक्षणाऽर्थो धर्म इति । यतो न पुरुषकृतः शब्दस्याऽर्थेन सम्बन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहतः । इदानीं अन्यथाऽऽक्षेप्स्यामः । पौरुषेयाश्चोदना इति वदामः । सन्निकृष्टकालाः कृतका वेदा इदानीन्तनाः । ते च चोदनानां समूहाः । तत्र पौरुषेयाश्चेद्वेदा असंशयं पौरुषेयाश्चोदनाः कथं पुनः, कृतका वेदा इति केंचिन्मन्यन्ते । यतः, पुरुषाऽऽख्याः । पुरुषेण हि समाख्यायन्ते वेदाः काठकं, कलापकं, पैप्पलादकं, मौहुलमिति । न हि सम्बन्धादृते समाख्यानम् । स्याद्वादमञ्जरी MAAAAAAAAAnnasal२४३) Page #270 -------------------------------------------------------------------------- ________________ न च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । नेति ब्रूमः । असाधारणं हि विशेषणं भवति । एक एव हि कर्ता, बहवोऽपि ब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान प्रमाणं चोदनालक्षणोऽर्थो धर्म इति ।।२७।। अनित्यदर्शनाग्छ ।।१-१-२८॥ जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बवरः प्रावाहणिरकामयत, कुसुरुविन्द औदालकिरकामयतेत्येवमादयः । उद्दालकस्याऽपत्यं, गम्यते औद्दालकिः । यद्येवं, प्राक् औद्दालकिजन्मनो नाऽयं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता ।।२८ ।। पूर्वपक्षः ।। उक्तं तु शब्दपूर्वत्वम् ।।१-१-२९।। उक्तं तु शब्दपूर्वत्वम् अस्माभिः शब्दपूर्वत्वमध्येतॄणां केवलं आक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते ।।२९।। सिद्धान्तः ।। आख्या प्रवचनात् ।।१-१-३०।। यदुक्तं कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते । नेयमर्थाऽपत्तिः । अकर्तृभिरपि ह्येनामाचक्षीरन् । प्रकर्षण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् । तथापि हि समांख्यातांरो भवन्ति । स्मर्यते च, वैशम्पायनः सर्वशाखाऽध्यायी, कठ: पुनरिमां केवलांशाखामध्यापयाम्बभूवेति । सबहुशाखाऽध्यायिनां सन्निधावेकशाखाऽध्यायी अन्यां शाखामनधीयानः । तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् ।।३० ।। परन्तुं. श्रुतिसामान्यमात्रम् ।।१-१-३१।। यञ्च, प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्याऽसिद्धत्वान्न प्रवाहणस्याऽपत्यं, प्रावाहणिः । प्रशब्दः प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित्सिद्धः । इकारस्तु यथैवाऽपत्ये सिद्धस्तथा । क्रियायामपि कर्तरि । तस्माद्यः २४४HARA N A स्याद्वादमञ्जरी Page #271 -------------------------------------------------------------------------- ________________ प्रवाहयति , स प्रावाहणिः । बवर इति शब्दाऽनुकृतिः । तेन यो नित्योऽर्थस्तमेवैतौ शब्दौ वदिष्यतः । अत उक्तं, परन्तु श्रुतिसामान्यमात्रमिति ।।३१।। उत्तरम् ।। कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् ।।१-१-३२।। .. .... अथ कथमवगम्यते-नाऽयमुन्मत्तबालवाक्यसदृश इति । तथाहि पश्यामःवनस्पतयः सत्रमासत, सर्पाः सत्रमासतेति । यथा, जरद्गवो गायति मत्तकानि । कथं नाम जरद्रवो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरनिति । उच्यते । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धाऽर्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय, कर्तव्य इत्युच्यते । केनेत्याकाङ्किते,सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति इत्थमनया इति कर्तव्यतयेति । एवमवगच्छन्तः; पदाथैरेभिः संस्कृतं पिण्डितं वाक्याऽर्थं कथमुन्मत्तबालवाक्यसदृशमित्ति वक्ष्यामः ? ।। नन्वनुपपन्नमिदं दृश्यते, वनस्पतयः सत्रमासतेत्येवमादि । नाऽनुपपन्नम् । नाऽनेन, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नाऽनुपपन्नाः। स्तुतयो ह्येताः सत्रस्य । वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, किं पुनर्विद्वांसो ब्राह्मणास्तद्यथा लोके संध्यायां मृगा अपि न चरन्ति किं पुनर्विद्वांसो ब्राह्यणा इति । अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाऽऽशङ्कयेत उन्मत्तबालवाक्यसदृश इति । तस्माञ्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् ।।३।। श्लो. १३ ब्रह्माऽद्वैतमतं खण्डितम् । तदर्थं द्वैतमूलस्याऽध्यासस्य वर्णन श्रीशंङ्कराऽऽचार्यकृतम्। अथाऽतो ब्रह्मजिज्ञासा ।१।११। इति सूत्रे. 'युष्मदस्मत्प्रत्ययगोचरयोविषयविषयिणोस्तम:प्रकाशवविरुद्धस्वभावयोरितरेतरभावानुपपत्तो सिद्धायां तद्धर्माणामपि सुतरामितररेतरभावाऽनुपपत्तिः इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाऽध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणाञ्च विषयेऽध्यासो मिथ्येति भवितुं .युक्तम् । स्याद्वादमञ्जरी AMARN MAA२४५) Page #272 -------------------------------------------------------------------------- ________________ तथाप्यन्योऽन्यस्मिन्नन्योऽन्याऽऽत्मकतामन्योन्यधर्मांश्चाऽध्यस्येतरेतरविवेकेनाऽत्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्याऽनृते मिथुनीकृत्य 'अहमिदं' 'ममेदमिति' नैसर्गिकोऽयं लोकव्यवहारः । आह-कोऽयमध्यासो नामेति । उच्यतेस्मृतिरूप: परत्र पूर्वदृष्टाऽवभासः । तं केचित्-अन्यत्राऽन्यधर्माऽध्यासइति वदन्ति । केचन यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम-इति ।। अन्ये तु यत्र यदध्यासस्तत्रैव विपरीतधर्मत्वकल्पनामाचक्षते; इति ।। सर्वथाऽपि त्वन्यस्याऽन्यधर्माऽवभासतां न व्यभिचरति । तथा च लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति । कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थिते विषये विषयाऽन्तरमध्यस्यति, युष्मत्प्रत्ययाऽपेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि । उच्यते । न तावदयमेकान्तेनाऽविषयः अस्मत्प्रत्ययविषयत्वात्, अपरोक्षत्वाञ्च प्रत्यगात्मप्रसिद्धेः । न चाऽयमस्ति नियमः पुरोऽवस्थित एव विषये विषयाऽन्तरमध्यसितव्यमिति; अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यनात्माऽध्यासः । तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते; तद्विवेकेन च वस्तुस्वरूपाऽवधारणं विद्यामाहुः । तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणाऽपि स न सम्बध्यते । तमेतमविद्याख्यमात्माऽनात्मनोरितरेतरांऽध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयानि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । उच्यते । देहेन्द्रियाऽऽदिष्वहंममाऽभिमानरहितस्य प्रमातृत्वाऽनुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः। नहीन्द्रियाण्यनुपादाय प्रत्यक्षाऽऽदिव्यवहारः सम्भवति । नचाऽधिष्ठानमन्तरेणेन्द्रियाणां व्यवहारः सम्भवति । नचाऽनध्यस्ताऽऽत्मभावेन देहेन कश्चिद्व्याप्रियते । नचैतस्मिन्सर्वस्मिन्नसति असङ्गस्याऽऽत्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च । पश्वादिभिश्चाऽविशेषात् ।। यथा हि पश्वादयः शब्दादिभिः श्रोत्रादिनां सम्बन्धे सति, शब्दाऽऽदिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायितुमारभन्ते, (२४६ANTRAdhikakkar स्याद्वादमञ्जरी) Page #273 -------------------------------------------------------------------------- ________________ हरिततृणपूर्णपाणिमुपलभ्य तं प्रत्यभिमुखीभवन्तिः एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकारान्बलवद् उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते, अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धोऽविवेकपुरस्सरः प्रत्यक्षाऽऽदिव्यवहारः तत्सामान्यदर्शनादव्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षा- ऽऽदिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाऽविदित्वाऽऽत्मनः परलोकसम्बन्धमधिक्रियते; तथापि न वेदान्तवेद्यमशनाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते; अनुपयोगादधिकारविरोधाच । प्राक्च तथाभूताऽऽत्मविज्ञानात्प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नाऽतिवर्तते । तथाहि - 'ब्राह्मणो यजेत' इत्यादीनि शास्त्राण्यात्मनि वर्णाऽऽश्रमवयोऽवस्थादिविशेषाऽध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथा पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति । तथा देहधर्मान् स्थूलोऽहं, कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि, लङ्घयामि चेति । तथेन्द्रियधर्मान् मूकः, काण:, क्लीब, बधिर, अन्धोऽहमिति । तथाऽन्तःकरणधर्मान् कामसङ्कल्पविचिकित्साऽध्यवसायादीन् । एवमहं प्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं चं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणन्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्याऽनर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।।' " 1 श्लो. १४ स्याद्वादमञ्जर्यां मीमांसकैर्जातिरङ्गीक्रियते तद्वदेव सांख्यैरद्वैतिभिश्चेत्यर्थकमुक्तं तदर्थं मीमांसा श्लोकवार्तिके १-१-५ आकृतिवादः । अथाऽऽकृतिवादः । आकृतिव्यतिरिक्तेऽर्थे सम्बन्धो नित्यताऽस्य च । न सिध्येतामिति ज्ञात्वा तद्वाच्यत्वमिहोच्यते ॥ | १ || - तत्सद्भावप्रसिद्ध्यर्थमत्र तावत्प्रयत्यते । वाच्यत्वे वक्ष्यते युक्तिर्व्यक्त्या सह बलाऽबले ॥२॥ IXITATEA ££££ & & & & &£ £ £ £ £27 Page #274 -------------------------------------------------------------------------- ________________ जातिमेवाऽऽकृति प्राहुर्व्यक्तिराक्रियते यया । सामान्यं तच पिण्डानामेकबुद्धिनिबन्धनम् ।।३।। तन्निमित्तं च यत्किञ्चित्सामान्यं शब्दगोचरम् । सर्व एवेच्छतीत्येवमविरोधोऽत्र वादिनाम् ।।४।। सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमाऽऽत्मिका । जायते ह्यात्मकत्वेन विना सा च न सिद्ध्यति ।।५।। विशेषमात्र इष्टे च न सामान्यमतिर्भवेत् । सामान्यमात्रबोधे तु निर्निमित्ता विशेषधीः ।।६।। न चाऽप्यन्यतरा भ्रान्तिरुपचारेण चेष्यते ।। दृढत्वात्सर्वदा बुद्धेर्धान्तिस्तद्भ्रान्तिवादिनाम् ।।७।। मुख्ययोश्चाप्यदृष्टत्वान्नोपचारेण कल्पना । बाह्याऽर्थविषयत्वं च बुद्धीनां प्रतिपादितम् ।।८।। अन्योऽन्यापेक्षिता नित्यं स्यात्सामान्यविशेषयोः । विशेषाणां च सामान्यं ते च तस्य भवन्ति हि ।।९।। निर्विशेषं न सामान्यं भवेच्छशविषाणवत्। सामान्यरहितत्वाञ्च विशेषास्तद्वदेव हि ।।१०।। तदनात्मकरूपेण हेतूं वाच्याविमौ पुनः । तेन नाऽत्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ।।११।। सामान्यबुद्धिशक्तत्वं विशेषेष्वेव यो वदेत् । विना वस्त्वन्तरात्तेन वाच्यशक्तिस्तु कीदृशी ।।१२।। ग्राह्या किं वाऽप्यसंबोधा भिन्नैका वा तथैव च । . गृह्यते यदि सैका चे जातिरेवाऽन्यशब्दिका ।।१३।। भवेनिर्विषया बुद्धिर्यदि शक्तिर्न गृह्यते । . न हि सद्भावमात्रेण विषयः कश्चिदिष्यते ।।१४।। (२४MANNARAAAAAAAAA स्याद्वादमञ्जरी) Page #275 -------------------------------------------------------------------------- ________________ परस्परविभिन्नत्वाद्विशेषा नैकबुद्धिभिः । गृह्यन्ते विषयाऽसत्त्वाच्छक्तिश्चैषां न विद्यते ।।१५।। भिन्नत्वे वाऽपि शक्तीनामेकबुद्धिर्न लभ्यते । विशेषशक्त्यभेदे च तावन्मात्रमतिर्भवेत् ।।१६।। भिन्ना विशेषशक्तिभ्यः सर्वत्राऽनुगताऽपि च । ... प्रत्येकं समवेता च तस्माज्जातिरपीष्यताम् ।।१७।। . तेनाऽऽत्मधर्मो भेदानामेकधीविषयोऽस्ति नः । सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् ।।१८।। ननु भिन्नेऽपि सत्तादौ सामान्यमिति जायते । . बुद्धिविनाऽपि सामान्यादन्यस्मात्सा कथं भवेत् ।।१९।। वनोपन्यासतुल्योऽयमुपन्यासः कृतस्त्वया । भ्रान्तित्वेन हि नैतस्या भ्रान्ति!त्वाऽऽदिधीरपि ।।२०।। ... शब्दात्पूर्वं हि सर्वेषु गवादाविव नैकधीः । वस्तुत्वं चाऽत्र सामान्यं धर्म केचित्प्रचक्षते ।।२१।। एवं तु कल्प्यमाने स्यात्सामान्यानामनन्तता । पुनस्तेन सहाऽन्येषु सामान्यमतिरस्ति हि ।।२२।। विशेषेष्वपि वस्तुत्वात्सामान्यमिति धीर्भवेत् । सत्तादिष्विव तेनैतत्सामान्यं नोपपद्यते ।।२३।। .. तस्मादेकस्य भिन्नेषु या वृत्तिस्तनिबन्धनः । . सामान्यशब्दः सत्तादावेकधीकरणेन वा ।।२४।। . पिण्डेष्वेव च सामान्यं नाऽन्तरा गृह्यते यतः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किंचन ।।२५।। यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्तयनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ।।२६।। स्याद्वादमञ्जरी hindiARANAMANA२४९ Page #276 -------------------------------------------------------------------------- ________________ तेन यत्रैव दृश्येत व्यक्तिः शक्तं तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत्प्रतीयते ।।२७।। भिन्नत्वेऽपि हि कासांचिच्छक्तिः काश्चिदशक्तिकाः । न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ।।२८।। वह्निर्दहति नाऽऽकाशं कोऽत्र पर्यनुयुज्यताम् । न चाऽन्या मृग्यत युक्तिर्यथा संदृश्यते तथा ।।२९।। न हि युक्तयन्तरं नास्तीत्येतज्ज्ञानमनर्थकम् । धर्मश्चाऽव्यभिचार्यस्य न मृग्य उपलक्षणे ।।३०।। । नाऽनुमानाऽवगम्यं तत्, प्रत्यक्ष लक्षणेन किम् । स्वाभाविकश्च सम्बन्धो जातिव्यक्तयोर्न हेतुमान् ।।३१।। तेनैतस्य प्रसिद्ध्यर्थं नाऽन्यत्सामान्यमिष्यते । शक्तिसिद्धिवदेतस्य स्वभावोऽत्र न वार्यते ।।३२।। .. यद्वा नैमित्तिकत्वेऽपि तावन्मात्रप्रतीक्षणात् । विशेषेष्वेव लब्धेषु केषुचिन्नाऽन्यवाञ्चनम् ।।३३।। न व्यञ्जन्त्यपरे कस्माद्यतस्तेषु न दृश्यते । तेभ्योऽपि न निवृत्त्यर्थं मृग्यो हेतुः स्वभावतः ।।३४।। ' सामान्यं नान्यदिष्टं चेत्तस्य वृत्तेर्नियामकम् । गोत्वेनाऽपि विना कस्माद्गोबुद्धिर्न नियम्यते ।।३५।। यथा तुल्येऽपि भिन्नत्वे केषुचिद्वृत्त्यपेक्षिता । गोत्वाऽदेरनिमित्तेऽपि तथा बुद्धिर्भविष्यति ।।३६।। विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ।।३७ ।। (२५०NARRARAMANA स्याद्वादमञ्जरी Page #277 -------------------------------------------------------------------------- ________________ ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयादृते । न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ।।३८।।। अनिष्यमाणे सामान्ये वृत्तिः शब्दाऽनुमानयोः । नैव स्यान्न हि सम्बन्धो भेदैरानन्त्यतो भवेत् ।।३९।। अनुभूततया चाऽसौ पुरुषस्योपज्यते । जातिव्यक्त्योस्तु सम्बन्धे नाऽनुभूत्या प्रयोजनम् ।।४०।। 'सिद्धे विषयरूपे च गोत्वादाविन्द्रियैः पुनः । । अर्थाऽऽपत्त्युपलब्धा स्याच्छक्तिरेका नियामिका ।।४।। न चाऽऽत्महेतुमेवाऽसौ सिद्धं बाधितुमर्हति' । . शक्तिश्च नैतया बुद्ध्या नेन्द्रियैः सा हि गृह्यते ।।४।। सामान्याऽन्तरयोगानामनिष्टा या च वर्ण्यते । तया सामान्यनाशः स्यात्स च दृष्टेन बाध्यते ।।४३।। सम्बन्धस्तस्य हेतुर्वा तद्ग्रहे न च कारणम् । " स्वरूपतो गृहीतेऽर्थे पश्चादेतद्विकल्प्यते ।।४४।। सास्नाऽऽद्येकार्थसम्बन्धि गोत्वमित्युपलक्षणम् । न च स्वसमवाय्येव केवलं चिह्नमिष्यते ।।४५।। सास्नाऽऽदिभ्यस्तु पिण्डस्य भेदो नाऽत्यन्ततो यदा । सामान्यस्य च पिण्डेभ्यस्तदा स्यादेतदुत्तरम् ।।४६।। कस्मात् सास्नाऽऽदिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माञ्चेत् स्वभावादिति गम्यताम् ।।४७।। उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । ... स्वतो गोत्वाऽऽदिभेदस्तु न तु व्यञ्जकभेदतः ।।४८।। मा भूद् द्रुताऽऽदिवन्मिथ्या व्यञ्जकस्य तु किंकृतः । भेदो हस्त्यादिपिण्डेभ्यः स्वतश्चेदिह तत्समम् ।।४९।। . स्याद्वादमञ्जरी २५१) Page #278 -------------------------------------------------------------------------- ________________ व्यङ्ग्यजातिविशेषाञ्चेत् प्राप्तमन्योऽन्यसंश्रयम् । तस्मात् स्वाभाविको भेदो जातिव्यक्तयोः प्रतीयते ।।५० ।। अनेकाऽनन्यवृत्तित्त्वान्न सामान्यविशेषयोः । एकवस्त्वात्मता युक्ता किं चित्तेनौपचारिकम् ।।५१।। भिन्नेभ्यश्चाऽप्यभिन्नत्वाद्भेदस्तत्स्वात्मवद्भवेत् । एकस्माद्वाऽप्यभिन्नत्वाद्व्यक्तयेकत्वं प्रतीयते ।।५२ ।। एकाऽनेकत्वमेकस्य तथाऽन्याऽनन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ।।५३।। । विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्याऽनन्यविज्ञाते विशेषे नैकवृत्तिता ।।५४ ।। सामान्याऽनन्यवृत्तित्वं विशेषाऽऽत्मैकभावतः । एवञ्च परिहर्तव्या भिन्नाऽभिन्नत्वकल्पनाः ।।५५।। . केनचिद्ध्यात्मनैकत्वं नानात्वं चाऽस्य केनचित् । सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतः ।।५६।। दर्शयित्वाऽभ्युपेतव्यं विशेषैक्यं च जातितः । यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ।।५७ ।। चित्रत्वाद्वस्तुनोऽप्येवं भेदाऽभेदाऽवधारणम् ।। सामान्यांऽशे तु निष्कृष्य भेदो येन प्रसाध्यते ।।५८ ।। तस्य हेतोरसिद्धत्वं सिद्धश्चेत् सिद्धसाधनम् । भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा ।।५९।। तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावाऽनुगुणं स्थितम् ।।६० ।। (२५२itinuirinkuntinuintuk स्याद्वादमञ्जरी Page #279 -------------------------------------------------------------------------- ________________ सदप्यग्राह्यरूपत्वादसद्वत् प्रतिभाति नः । विशेषानपि सामान्याद्यदा भेदेन बुद्ध्यते । । ६१ ।। तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ।। ६२ ।। तदाऽन्याऽनन्यभेदादि सर्वमेव प्रलीयते । नच तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् ||६३ ।। सामान्यांशानपोद्धृत्य पदं सर्व प्रवर्त्तते । समस्तवस्त्वपेक्षां च पदार्थानामपोद्धृतिम् ।। ६४ ।। केचिदाहुरसद्रूपमंशत्वं तु न वार्यते । सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ।।६५ ।। तेन सारुप्यशब्देन किं पुनः प्रतिपद्यते । समानरूपभावश्चेज्जातिः साऽस्माभिरिष्यते । । ६६ ।। • सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयाऽऽदयः समाः । । ६७।। विशेषरूपतो, येऽपि तत्संस्थानादिभिः समाः । शाबलेय इवेति स्यात्तत्र बुद्धिर्न गौरिव ।। ६८ ।। शाबलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति धीः । शाबलेयस्वरूपं च न गौरित्यवतिष्ठते । ६९ ।। तदन्येषु हि गोबुद्धिर्न स्यात् सुसदृशेष्वपि । दृश्यते सा न चाऽन्यत्र गोरूपं तत्र विद्यते ।। ७० ।। न चाऽन्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन धीर्भवेत् । न चाऽपि स इति ज्ञानं सदृशेष्वस्ति सर्वदा ।। ७१ ।। (स्याद्वादमञ्जरी में ॐ ॐ ॐ ॐ ४ २५३ Page #280 -------------------------------------------------------------------------- ________________ सर्वपुंसामतो . भ्रान्तिनॆषा बाधकवर्जनात् । सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ।।७२।। विशेषग्रहणाऽभावादेव गौः कश्च कथ्यताम् । बभूव यद्यसौ पूर्वमस्मदादेस्तदग्रहात् ।।७३ ।। सादृश्यावधृतिर्नास्तीत्यतो गोधीन लभ्यते । न चाऽवयवसामान्यैर्विना सादृश्यकल्पना ।।७४।। सामान्यप्रत्ययोत्पादो न. विशेषेषु जायते । व्यक्तितश्चाऽतिरेकोऽस्य स्यान्न वेति विचारिते ।।७५।। सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमात्रकम् । तेन नाऽत्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् ।।७६।। ..ग्रन्थे विन्ध्यनिवासैन भ्रान्ते सादृश्यमुच्यते ।। श्लो. १५ स्याद्वादमञ्जर्यां च सांख्यमतस्य खण्डनं तदर्थं स्वयं मञ्जरीकृता .. 'ईश्वरकृष्णकारिका' निर्दिष्टास्तेन पुनस्तत्कारिका न निर्दिश्यन्ते । , ___ श्लो. १६ प्रमाणतत्फलांभेदरूपोऽभ्युपगमो बौद्धानां खण्ड्यते तदर्थं न्यायबिन्दुसूनं धर्मकीर्तिप्रणीतं निर्दिश्यते । 'विषयप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- . तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।।१-१८॥ - यदेवाऽनन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफलमित्याह । अर्थस्य प्रेतीतिरवगमः । सैव रूपं तस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम् । तस्य भावः। तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवलादाविनाभावित्वाद्भवति। बीजाद्यविनाभाविनोऽप्यंकुरादेरप्रापकत्वात् । तस्मादर्थादुत्पत्तावप्यस्य ज्ञानस्याऽस्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारः । येन (२५४R ussia स्याद्वादमञ्जरी) . Page #281 -------------------------------------------------------------------------- ________________ कृतेनाऽर्थः प्रापितो भवति । स एव च प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्तिविषयकदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् । अतस्तदेव प्रमाणफलम् । । १८ । । यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह अर्थसारूप्यमस्य प्रमाणम् ।।१-१९।। अर्थेन सह यत्सारूप्यं साद्दश्यमस्य ज्ञानस्य तत्प्रमाणमिह । यस्माद्विषयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते । । १९ ।। ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते तत्कथं सारुप्यप्रमाणमित्याहतद्वशादर्थप्रतीतिसिद्धेरिति । । १ - २० । । 1 तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिस्तस्या बोधः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात्सिध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासे हि विज्ञानं यतस्तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम्। नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः, येनैकस्मिन्वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत् एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुद्ध्यते । व्यवस्थापनहेतुर्हि सारुंप्यम् । तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्येति चेदुच्यते । सदृशमनुभूयमानं तद्विज्ञानम् । यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन । तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नोः द्रष्टव्यः । स्याद्वाद्रमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ २५५ Page #282 -------------------------------------------------------------------------- ________________ . ननु निर्विकल्पकत्वात्प्रत्यक्षमेव नीलबोधरूपत्वेनाऽऽत्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाऽव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मानिश्चयेन नीलबोधात्मना सद्भवति । तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । जनिते त्वध्यवसाये नीलबोधरूपत्वेनाऽव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्थाधिगरूपत्वमनिष्पन्नम् । अतः साधकतमत्वाभावात्प्रमाणमेव न स्याज्ज्ञानम्। जनितेन त्वध्यसायेन सारूप्यवशानीलबोधरूपे ज्ञानेऽव्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं भवति । यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान केवलमिति चेद् । नैतदेवम् । यस्मात्प्रत्यक्षबलोत्पवेनाऽध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनं चाऽर्थसाक्षाकरणाऽऽख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः। तथाहि परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्युत्प्रेक्षाऽऽत्मकं विकल्पव्यापारमनुभवादवस्यन्ति । तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति। यत्राऽर्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र प्रत्यक्षं केवलमेव प्रमाणम् ।।२०।। लक्षणविप्रतिप्रत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- ... प्रमाणफलव्यवस्थाऽत्राऽपि प्रत्यक्षवत् ।।२-४।। प्रमाणस्य यत्फलं तस्य या व्यवस्थाऽत्राऽनुमानेऽपि प्रत्यक्ष इव वेदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् । नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् । तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिनिराकृता ।।४।।' तत्रैव-संर्वं सत् क्षणिकमिति बौद्धमतं खण्डितं तत्र तन्मतं मोक्षाकरगुप्तोक्तं ग्रन्थकृता प्रदर्श्यते । मोक्षाकरगुप्तग्रन्थस्तु नेदानीमुपलभ्यतेऽतस्तत्प्रदर्शयितुं न शक्यते । (२५६) M arrikar स्याद्वादमञ्जरी Page #283 -------------------------------------------------------------------------- ________________ श्लो. १९ बौद्धानां वासना खण्डिता तदर्थं बोधिचर्याऽवतारपञ्जिकाया नवमे प्रज्ञापारमिताऽऽख्ये परिच्छेदे श्लो. ३२-३३ (सटीको) निर्दिश्यते । 'एतत्परिजिहीर्षनाह । अप्रहीणा हि तदित्यादि । अप्रहीणा हि तत्कर्तुज्ञेयसंक्लेशवासना । तदृष्टिकाले तस्याऽतो दुर्बला शून्यवासना ।।३२।। हिर्यस्मादर्थे । नैतदूषणमस्माकमासज्जते । यस्मादप्रहीणा निवृत्ता । तत्कर्तुर्मायास्त्रीनिर्मातुः । किमप्रहीणा ज्ञेयसंक्लेशवासना । ज्ञेयसंक्लेशः सस्वभावतासमारोपादासङ्गादिः वस्तुतासमारोपो वा । ज्ञेयावरणं यावत् । तस्य वासना। अनादिसंसारजन्मपरम्पराऽभ्यस्तमिथ्याविकल्पजनिततद्वीजभूतचित्तसन्ततिसंस्काराऽऽधानम्। तस्य अप्रहीणत्वात् । नन्वेतत्समानं विज्ञानवादिनोऽपि प्रतिविधानम् । तस्याप्यद्वयतत्त्वस्य सत्त्वेऽपि । आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् । न सर्वे तथागता भवन्ति ।। नैतत्समानं । यस्मादभावाऽऽत्मनो मला: कार्यकलाविकला नाऽऽव्ररणं भवितुमर्हन्ति । इत्युक्तमेव । अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम् । सा यस्माद्ग्रहीणा । अतोऽस्माद्कारणात् । तदृष्टिकाले । तस्या ज्ञेयस्वभावताया दृष्टिरूपलब्धिः तस्याः काले । तस्या वा मायास्त्रिया दृष्टिकाल उपलम्भकाले । तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः । दुर्बला शून्यवासनेति । शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः । छन्दोनुऽरोधाद्भवप्रत्यस्य लोपं कृत्वा शून्येतिनिर्देशः । वासना संस्काराऽऽधानम्। सा दुर्बला सामर्थ्यविकला । आरोपितस्य दर्शनात ।। अतस्तदा भाववासना बलवती। कथं तर्हि सा निवर्तत इत्याह । शून्यतेत्यादि । शून्यतावासनाऽऽधानाद्धीयते भाववासना । शून्यताया मायास्वभावनिःस्वभावताया वासना । तस्या आधानम् आवेधः । अभ्यासेन दृढीकरणमिति यावत् । तस्माद्विरुद्धप्रत्ययात् । हीयते निवर्तते । स्याद्वादमञ्जरी २५७) Page #284 -------------------------------------------------------------------------- ________________ वह्निसन्निधानाच्छीतस्पर्शवत्। किं भाववासना । अनवरताऽग्रसंसाराऽभ्यस्तवस्तुसद्ग्राहाऽध्यवसानवासना । तस्या भूताऽर्थत्वात्। वस्तुनिजस्वभावत्वाञ्च ।। इतरथा अलीकत्वादागन्तुकत्वाञ्च । ननु भावाऽभिनिवेशो वा शून्यताऽभिनिवेशो वा । इति नाऽभिनिवेशं प्रति कश्चिद्विशेषः। तस्याऽपि कल्पनास्वभावाऽनतिक्रमात् । यदाह शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः । येषां तू शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ।।' इति एतत्परिहर्तुमाह । किंचिन्नास्तीत्यादि । किंचिन्नास्तीति चाभ्यासात्साऽपि पश्चात्प्रहीयते ।।३।। . किंचिदितिभावो वा शून्यता वा. । नास्ति न विद्यते । च शब्दः पूर्वाऽपेक्षया । समुच्चये । इत्येवं चाऽभ्यासात् । भाववासनाप्रहाणस्य पश्चात् सापि शून्यतावासनापि प्रहीयते निवर्तते ।। अयमभिप्रायः । शून्यता आवेधो हि भावाऽभिनिवेशस्य । प्रतिपक्षत्वात्। प्रहाणोपायभूतो । अधिगते चोपेये पश्चात्कालोपमत्वात् । उपायस्याऽपि प्रहाणमनुष्ठीयते। एतदेवाह ।' 'सर्वसंकल्पहानाय शून्यताऽमृतदेशना । ___ यश्च तस्यामपि ग्राहस्त्वयाऽसाववसादितः ।। इति ।। . २० श्लोके चार्वाकमतं खण्डितं चार्वाकग्रन्थास्तु नोपलभ्यन्तेऽधुना । तथापि तन्मतं सर्वजनप्रसिद्धमतस्तद्विषये न प्रयत्यते । _____एतदने स्वमतं साधितं तेन खण्डनीयानामंशानां प्रदर्शनस्य प्रसङ्ग एव । नास्तीति विरम्यते । संकलितश्चाऽयं पूर्वपक्षप्रबन्धः श्रीलाधाजीतनुजनुषा विदुषा मोतीलालेन । इति शम् । (२५०/AAAAAAAAAAMANA स्याद्वादमञ्जरी) Page #285 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२ - उपलब्धवाक्यानि । अग्निमुखा वै ७२ आ. गृ. सू. अ. ४ अग्निहोत्रं जुहूयात् ७५ तै. सं. अग्नीषोमीयं पशु- ३० ए. ब्रा. अ. ६-३ . अणुहूयदिठ्ठचिन्तिय- १२० विशे. गा. १७०३ अत्थं भासइ अ २०८ विशे. गा. १९२९ अदसस्तु विप्रकृष्टे । १० है. व्या. संग्रहश्लोके । अन्त्येषु भवा अ- ३८ वै. द. प्र. भा. पृ. १६८ अदेवे देवबुद्धि २१२ यो. सा. प्र. २ श्लो. ३ अपगतमले हि २४ कादम्बरी पृ. १०३ पं. १० अपरिणामिनी भोक्तृशक्ति- १०७ पातं. सू. वा. भा. ४-२२. अभ्युपेत्य पक्षं ५९ न्या. वा. पृ. १४. पं. १ अरहन्तुवएसेणं २१० विशे. गा. ३२१३ अर्थसारूप्यमस्य प्र- ११२ न्या. बिं. १-१९,२० अर्पिताऽनर्पितसिद्धेः १४९ । १९० तत्त्वार्थ. ५-३१ अवकाशदमाकाशम् । १६ उत्त. सू. भावदेवीया. टीका. अ. २८ गा. ९ अवस्थितस्य द्रव्यस्य- १८० पातं, सू. ३-१३ अस्ति ह्यालोचनाज्ञानं- ८७ मी. श्लो. वा.सू.४ प्रत्यक्षसूत्रे श्लो. ११२ आप्तवचनात्-(सूत्रद्वयम्) . २०३ प्र. न. लो. परि. ४. सू. १, २ आमासु य पक्कासु-(गाथा ३) १५९ सं. सप्ततिका गाथा ६३, ६५, ६६ . आरुग्गबोहिलाभं- ७० आव. सू. चातुर्वि. अ. गा. ६ आवर्जिता किञ्चिदिव- ३३ कु. सं. काव्ये ३ स. ५४ श्लो. इष्टाऽपूर्त मन्यमाना- १०८ मुं. उ. १-२-१० ईय कारके । ५८ है. सू. ३-२-१२१ । ईहाऽऽद्याः प्रत्ययभेदतः । ३६ हैमलिङ्गानु. पुंस्त्रीलिंगप्र. श्लो.५ स्याद्वादमञ्जरी) AIRinnRNA २५९) Page #286 -------------------------------------------------------------------------- ________________ उत्पादव्ययधौव्ययुक्तं सत् । १४, १४७ तत्त्वार्थ सू. ५-२९ उदधाविव सर्वसिन्धवः- २०९ द्वा. द्वा. चतुर्थद्वान्निं. श्लो. १५ ।। उद्वृत्तः क इह सु- ३३ शि. व. काव्ये एगे आया १२९ स्था. सू. १-१ एतासु पञ्चस्ववभा- ९४ अशोकविरचिता सामान्यदूषणदिक् प्रसारिता ग्रन्थे कर्मद्वैतं फलद्वैतं- . ९१ आ. मीमांसा परि. २ श्लो. २५.. किरणा गुणा न-(गाथा ४) २८ धर्मसंग्रहणी गा. ३७०, ३७१, ३७२, ३७३ गम्यपयः कर्माधारे । १३ है. सू. २-२-७४ गुणादस्त्रियां न वा । ६८ है. सू. २-२-७७ घटमौलिसुवर्णार्थी-(श्लोकयुगलम्) १४४ आ. मी. श्लो. ५९, ६० जे एगं जाणइ से- . . ५, ९९ आचा. सू. श्रु. १ अ. ३ उ. ४ सू. १२२ तत्र संस्कारप्रबोध- २०२ प्र. न. लो. तृतीय परिच्छेदे । । तद्वितयं अवग्रहेहा-(सूत्रद्वयम्)२०२ प्र. न. लो. परि. २ सूत्र. ५, ६ तद्भावाऽव्ययं नित्यम् । १६ तत्त्वार्थ सू. ५-३ तद्वशादर्थप्रतीतिसिद्धेः । ११२ न्या. बि. १-२० तस्मान बध्यते नापि- १०३ सां: कारिका ६२ . तादर्थ्य चतुर्थी । ९ है: सू. २-२-५४ तुः स्यादेऽवधारणे । १६० अमरकोशे कां. ३ श्लो. २३९ । ते च प्रापुरुदन्वन्तं । . ८५ रघु. का. स. १० श्लो. ६ . द्वौ मासी मत्स्यमांसेन- ६५ म. स्मृ. अ. ३ श्लो. २६८ नट्ठम्मिय छाउमत्थिए नाणे । ५० आव. पूर्वविभागे गाथा ५३९ ।। न प्रवृत्तिः प्रति- .. २०९ गौ. सू. ४-१-६४ न भवति धर्मः श्रोतुः- ११ तत्त्वार्थसूत्रसम्बन्धकारिका २९ न मांसभक्षणे दोषो- . १६६ म. स्मृ. ५-५६ नयास्तव स्यात् २०२ बृ. स्व. स्तो. श्लो. ६५ न सोऽस्ति प्रत्ययो लोके- ९२ वाक्यपदीये कां. १ श्लो. १२४ (२६०NARKARA N स्याद्वादमञ्जरी ४ . Page #287 -------------------------------------------------------------------------- ________________ न हिंस्यात्सर्वभूतानि - नास्तिकास्तिकदैष्टिकम् । न हि वै सशरीरस्य नीयते येन - (सूत्राणि ५३) नीलनिर्भासं हि विज्ञानं पक्षहेतुवचना प्रत्यक्षाद्यवतारः स्यात् प्रमाणनयैरधिगमः । प्रमाणप्रमेयसंशय यजति यन्नेजति रङ्गस्य दर्शयित्वा पारमार्थिकं पुनरुत्पत्तौपुढवाइयाण जइवि - (गाथात्रयम्) पुन्नाम्नि घः । पुरुष एवेदं सर्व पृथिव्यापस्तेजो महोक्षं वा महाजं वामूलप्रकृतिरविकृति रूपसगन्धस्पर्श लब्धिख्यात्यर्थिना तु स्यात्लौकिकसम उपचारप्रायो वयः शक्तिशीले । व्यक्तेरभेदस्तुल्यत्वं वर्षे वर्षेऽश्वमेधेन वाक्येऽवधारणं तावत् । वातातीसारपिशाचा विज्ञानधन एवैतेभ्यो - स्याद्वादमञ्जरी ७५,८७,८९ छां. उ. अ. ८ १३९ है. सू. ६-४-६६ ४१, ४७ छां. उ. अ. ८-१२ १८८ प्र. न. लो. सप्तमपरिच्छेदे । ११२ न्या. बि. टीका १- २० २०३ प्र. न. लो. ३-२३ ८८ मी. श्लो. सू. ५ अ. प. श्लो. १७ १८१ तत्त्वार्थसू. १-६ ६० गौ. सू. १-१-१ २०२ प्र. न. लो. २- १८ ६८ पं. लिं. गा. ५८, ५९, ६० २०८ है. सू. ५-३-१३० ८८, ९० ऋग्वेदे पुरुषसूक्ते ३७ वै. द. १-१-५ ६५ याज्ञवल्क्यस्मृ. आ. अ. श्लो. १०९ १०४ सां. का. ३. ८८ ई. उ. १०९ सां. का. ५९ ३७ वै. द. १-१-६ ५९ ह. सू. अ. १२ श्लो. ४ १८६ तत्त्वार्थभाष्ये १-३५ १४० है. सू. ५-२-२४ ४० कि. द्र. प्र. पृ. १६१ . १६६ म. स्मृ. ५-५३ १६७ त. श्लो. वा. अ. १ सू. ६ श्लो ५३ १४३ है. सू. ७-२-६१ १५१ बृ. उ. २-४-१२ ॐ ॐ ॐ ४ २६१ Page #288 -------------------------------------------------------------------------- ________________ विश्वतश्चक्षुरुत विश्वतो- २७ शु. य. मां. सं. अ. १७ मं. १९ शब्दकारणत्ववचनात्- १८ प्र. पा.भा. आकाशनिरूपणे शाखादेर्यः ।, ७ है. सू. ७-१-११४ शास्त्यसूवक्तिख्याते- १८४ है.सू.३-४-६० श्रीवर्धमानाऽभिधमात्मरूपम् । ९ अयोगव्य. द्वा. श्लो. १ श्रूयतां धर्मसर्वस्वं- ६६ चाणक्य. शा. अ. १ श्लो. ७ श्वयत्यसूवचपत:- १८४ है. सू. ४-३-१०३ सङ्केऽनूचे । . २०४ है. सू. ५-३-८० सत्सु क्लेशेषु २०४ पा. यो. सू. २-१३ वा. भाष्ये सति मूले तद्विपाको.. . २०४ पा. यो. सूं. २-१३ सद्धर्मबीजपवनानघकौश- २५ द्वा. द्वा. द्वि. श्लो. १३ सप्तदश प्राजापत्यान् पशू- ·३० तै. सं. अ. १ अ. ४ स्पृहेप्प्यं वा । ९ है. सू. २-२-२६ सम्बद्धं वर्तमानं च- ६७ मी. श्लो. सू. ४ श्लो. ८४ सम्यगनुभवसाधनं प्रमाणम् ६१ न्यायसारे परि. १ सू. १ समवान्धात्तमसः- २१२ हे. सू. ७-३-८० सर्वो व्यवहर्ता आलोच्य- १०५ सां. •त. कौ. का. २३ सर्वं वै खल्विदं ब्रह्म- ८५, ९० छां उ.-१४ स्वपरव्यवसायिज्ञानं प्रमाणम् । ६१ प्र. न. लो. परि. १ सू. २ स्वरादेस्तासु । ___ १८४ है. सू. ४-४-३१ .. स्वाभाविकसामर्थ्य- . .. १०२ प्र. न. लो. प. ४ सू, ११ सा तु द्विविधा नित्या- १८ वै. द. प्र. पा. भा. पृथिवीप्रकरणे । साधर्म्यवैधयोत्कर्ष- . . . ६२ गौ. सू. ५-१-१ सूत्रं तु सूचनाकारिग्रन्थे- ४२ अने. सं. कां. २ श्लो. ४५८ सोऽप्रयुक्तोऽपि वा तज्ज्ञैः- १६८ तत्त्वार्थश्लोकवा. अ. १ सू.६ श्लो. ५६ हेतोरद्वैतसिद्धिश्चेत्- ९० आ. मी. प. २ श्लो. २६ ना (२६२iiiiiiiiiii स्याद्वादमञ्जरी Page #289 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३ अग्निर्मामेतस्माद्धिंसाकृता अजैर्यष्टव्यम् । अत एव च विद्व - ( श्लोकद्वयम्) अन्धे तमसि मज्जामः अनेकानि सहस्त्राणि - अन्यदेव हि सामान्यं - ( श्लो. ७) अपुत्रस्य गति अप्रच्युताऽनुत्पन्नअपोहः शब्दलिङ्गा अभिहाणं अभिहे० (गाथाद्वयम्) अमूर्तश्चेतनो भोगी अयमेव हि भेदो अर्थेन घटयत्येनां अव्यभिचारी मुख्यो आकाशोऽपि सदेश: ३१ १६ -१०२. ९८ १०४ ९६ ११७ ३५ ५४ १२० ८३, ८७, ८९ '१३४ १६६ २३. ७७ उपकृतं बहु तत्र ४२. २०८ उप्पन्ने इ वा विगमे इ वाएकरात्रोषितस्यापि १६६ स्याद्वादमञ्जरी में ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ २६३ आशामोदकतृप्ता ये आहुर्विधातृप्रत्यक्षंइत एकनवते कल्पे इत्थी जोणीए - (गा. ४) अनुपलब्धवाक्यानि । ईश्वरप्रेरितो गच्छेत् उत्पद्यते हि सावस्था ७१ १५० २०७ ७२ . ३१ १८७ Page #290 -------------------------------------------------------------------------- ________________ एको भावः सर्वथा औषध्यः पशवो वृक्षा करणं द्विविधं ज्ञेयं काऊण नमुक्कारं - कालाविरोधि निर्दिष्टं गोला य असंखिज्जा चतुर्थ्यन्तं पदमेव देवता । ज्ञानपालिपरिक्षिप्ते (श्लो. ४) ज्ञानिनो धर्मतीर्थस्य जावइया वयणपहा ण णिहाणगया भग्गा तस्मादनुष्ठानगतं - तत्स्थ्यात् तद्व्यपदेशः । ताल्वादिजन्मा ननु दग्धे बीजे यथात्यन्तं द्रव्यपर्यायात्मकं वस्तु · द्विष्ठसम्बन्धसंवत्ति दुः शिक्षितकुतर्काश देवोपहारव्याजैन देशतो नाशिनो भावा न चायं भूतधर्मः नाकारणं विषयः । नागृहीतविशेषणा नान्योऽनुभाव्यो- (श्लोकद्वयम्) नानृतं ब्रूयात् । नासन्नं सन्न सदसन्न २६४१४६ ५, १०० ६९ ४५ २१० ७७ २०६ ७१ ७१ ४ १८१ ११६ ४ १८१ ७५ २०४ ६९ ११२ ६० ७१ १२८ १४९ ११५ ५६. ११९ ३० १३० और र जर र द स्याद्वादमञ्जरी Page #291 -------------------------------------------------------------------------- ________________ निखिलवासनोच्छेदनिर्विकल्पकं - प्रत्यक्षं परद्रव्याणि लोष्ठवत् । परिणामोऽवस्थान्तरगमनं प्रत्येकं यो भवेद्दोषो प्राप्तानामेव प्राप्तिः समवायः । प्रवृत्तिदोषजनितं - पाणबहाईआणं-(गाथात्रयम्) पूजया विपुलं राज्यं पुण्यपापक्षयो मोक्षः । पुरुषोऽविकृतात्मैवबहुभिरात्मप्रदेशैरधिष्ठाताब्राह्मणार्थेऽनृतं ब्रूयात्बुद्धिदर्पणसङ्क्रान्त- • भागा एव हि भासन्तेभागे सिंहो नरो भागे भूतिर्येषां क्रिया सैव मोक्षे भवे च सर्वत्र - मृतानामपि जन्तूनां - यचित्तं तच्चित्तान्तरं यथा यथा विचार्यन्ते यदद्वैतं तद्ब्रह्मणो रूपम् यदि संवेद्यते नीलं यदेवार्थक्रियाकारि तदेव - यद्युत्पादादयो भिन्नाः यस्मिन्नेव हि सन्ताने यावदात्मगुणाः सर्वे- (श्लोकसप्तकम्) (स्याद्वादमञ्जरी १३३ ८९ ३० १८० ११८, १३६. . ३५ ६९ २१३ - ے فا ५० १०६ ५८ ३० १०६ १४८ २९ ११८ ५० ७४ १३२ ·१२६ ८७, ८९ ११३ .१८६ १४४ १३२, १७९ ४९ २६५ Page #292 -------------------------------------------------------------------------- ________________ २६६ यूपं छित्वा पशून् हत्वायो यत्रैव स तत्रैव रागाद्वा द्वेषाद्वा वरं वृन्दावने रम्ये वर्षातपाभ्यां किं व्योम्नः विकल्पयोनयः पः शब्दा विविक्तेदृक् परिणतौ शब्दगुणमाकाशम् । शब्देतरत्वे युग़पत्श्वेतं वायव्यमजमालभे शुद्धोऽपि पुरुष:षट्शतानि नियुज्यन्ले - सर्व एवायमनुमानानुमेयसर्वगतत्वेऽप्यात्मनो सर्वं पश्यतु वा मावा सर्वमस्ति स्वरूपेण . सर्वव्यक्तिषु नियतं - सव्वत्थ संजमं संजमाओ - सुखादि चेत्यमानं हि - (श्लोकद्वयम् ) सुखमात्यन्तिकं यत्र स्वाकारबुद्धिजनका ६९ २० १२९ ४८ १७९ ९८ १०६ १०८ ७२ ६९ १०४ ३० 625 १२४ ५२ ४ ९९ १४३ ७७ १२६ ४८ ११९ स्याद्वादमञ्जरी Page #293 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ४ अतीन्द्रियाणामर्था अर्थोपलब्धिहेतुः उभयत्र तदेव ज्ञानं तत्रान्यथा द्रव्यं पर्यायवियुतं न नर्मयुक्तं वचनं हिनस्ति नानात्मानो व्यवस्थातः नानाश्रयायाः प्रकृतेरेव निर्विशेषं हि सामान्यं यद्यपि ब्राह्मणो हठेन रुसउ वा परो मा वा श्रोतव्यो मन्तव्यो निदि सत्सम्प्रयोगे इन्द्रिय परिशिष्टम् - ५ अक्षपादशास्त्रम् आचाराङ्गम् आवश्यकभाष्यम् गन्धहस्तिटीका गौडपादभाष्यम् जीतकल्पः तत्त्वोपप्लवसिंहः त्रिपुरार्णवः धर्मसङ्ग्रहणी निशीथचूर्णि: स्याद्वादमञ्जरी उपलब्धसमवाक्यानि । ७५ ह. सू. ष. द. स. जैमि. द. श्लो. ६९ ६० गौ. सू. पृ. ९४ पं. ४ १११ न्या. बिं. १-२८ २०३ प्र. न. लो. प. ३ सू. १० १६ सम्म. कां. १ गा. १२ ३० व. ध. सू. अं. १६ श्लो. ३६ ५४ वै. द. ३-२-२० १०८ सां. का. ६२ ९० मी. श्लो. सू. ५ आ. वा. श्लो. १० ३० म. स्मृ. अ. १ श्लो. १०१ ११ श्रेणिकचरित्रे स. २ श्लो.. ३२ ८८ बृ. उ. ८२ मी. द. सू. १-१-४,५. . ६३ १२८ १८४ २०१ ११० १०१ १२६ १०१, ६५ २८ स्याद्वादमंजरीनिर्दिष्टा ग्रन्थाः । .न्यायकुमुदचन्द्रः न्यायतात्पर्यपरिशुद्धिः न्यायबिन्दुटीका न्यायवार्तिकम् न्यायावतारः रघुवंशः वादमहार्णवः समयसागरः स्याद्वादरत्नाकरः साङ्ख्यतत्त्वकौमुदी १०२ १२४ ११२ ५९ २०१ ८५ १०६ २०६ २०३ ११० ॐॐॐॐॐॐॐॐ २६७ Page #294 -------------------------------------------------------------------------- ________________ परिशिष्टम्-६ स्याद्वादमंजरीनिर्दिष्टा ग्रन्थकृतः । ग्रन्थकृत्रामानि १०६ ६९ . आसुरिः । x ईश्वरकृष्णः । १०४ उदयनः । ४० उदयनः । . १२४ उदयप्रभः । * . जयन्त: । . द्रव्यालङ्कारकारः । ४ . ५४, १५१ धर्मोत्तरः । .. न्यायभूषणसूत्रकारः५ . ६९ (न्यायसारकारो भासर्वज्ञः) । पञ्चलिङ्गीकार:६ .६८ (श्रीजिनेश्वरसूरिः) । पतञ्जलि: । '१०४ पातञ्जलंटीकाकारः । । १८० प्रशस्तकारः : १८, ३८ (प्रशस्तपादाचार्यः)। . बाणः भट्टः श्रीधरः१० । ५२ भद्रबाहुः११ । । ९८ महाभाष्यकार:१२ (श्रीजिनभद्रगणिक्षमाश्रमणः) मोक्षाकरगुप्तः । ११५, १३२ मृगेन्द्रः । x ७२ २६RahimshimashanNA स्याद्वादमञ्जरी ༧ ༩ & ༈ དྷཱ༔ ཆ་ ༡ ཤཱ མ '' २४ १२० Page #295 -------------------------------------------------------------------------- ________________ वाचकमुख्यः१४ ११, १४, १४९, १६८, १८६ . वाचस्पति:१५ । १०४ वादिदेवसूरि:१६ । १०२, १८८ विन्ध्यवासी । x १०६ व्यासः । ७१, ७८ समन्तभद्रः१७ । २०१.. १५सिद्धसेनदिवाकरः । ३, २५ .. हरिभद्रसूरिः । ५९ १. वि. सं. ४११ इ. स. ४५५ (माठरवृत्तिप्रस्तावना पृ. २ पं: १२), इ. सं. १००-२०० (सर्वदर्शनसङ्ग्रहः पृ. ५३३) २. इ. सं. ९८४ (सर्वदर्शनसङ्ग्रहः पृ. ५३१) ३ इ. सं. ९००-११०० (डो. सतीश. पृ. १४७) ४. इ. सं. ८४७ (न्यायबिंदुप्रस्तावना पृ. १६), इ. ६३५-६५० (डो. सतीशचंद्र), इ. सं. ६३५ (सर्वदर्शनसङ्ग्रहःपृ. ११०) ५. इ..सं. ९२५ (सर्वदर्शनसङ्ग्रहः पृ..५२२), इ. सं. ९०० (न्यायसारप्रस्तावना पृ. ५ पं. ८) ६ वि. सं. १२०४ (पंचलिङ्गीप्रस्ता, पृ. २) ७. इ. सं. पूर्व १५० (सर्वदर्शनसङ्ग्रह पृ. ५२९) ८ शा. श. पूर्व ४०० मुक्तावलिकाराः । विश्वनाथमते तु सूत्रकारसमये (वैशेषिकदर्शनप्रस्तावना पृ. २ श्लो. १४), इ. सं. ४५० (सर्वदर्शनसङ्ग्रहः पृ. ५२५) ९. इ.स. सप्तमशताब्द्याम् । १०. इ. सं. ९९१ (सर्व-दर्शनसङ्ग्रहः पृ. ५२५) ११. वी. सं. १७० (जैनसाहित्यसंशोधक २-३ वीरवंशावलि पृ. ५), इ.सं. पूर्व ४३३, ३५७ (डो. सतीशचंद्रः) १२ इ.सं. ४८४ सं. ५४१ (डो. सतीशचन्द्र पृ. १८१), इ. सं. ५२८-५८८ (डो. पिटरसन्), वी. सं. ११२० वत्सरे स्वर्गगमनम् ( जैन साहित्य संशोधक २ विचारश्रेणि पृ. ७ पं. २५) १३. इ. सं. ११०० (डो. सतीशचन्द्र पृ. ३४६) १४. वि. सं. ५७ (तत्त्वार्थप्रस्तावना रा. जै. शा.), इ. सं. १- ८५ (डो. सतीशचन्द्र x एतञ्चिाङ्कितानां ग्रन्थकृतां समयो न ज्ञायते । * श्रीउदयप्रभसूरीणां समयः प्रस्तावनायां प्रशस्तौ च द्रष्टव्यः । . स्याद्वादमञ्जरीAAAAAAAAAARAANNARA R६९) Page #296 -------------------------------------------------------------------------- ________________ पृ. १६८), इ.स. ५० (सर्वदर्शनसङ्ग्रहः पृ. ५११) १५. शा. श. ८९८ (न्यायवार्तिकप्रस्तावना पृ. १४५), वि. सं. ८९८ (पातंजलयोगसूत्रप्रस्तावना पृ. २१), इ.सं. ८४१ (डो. सती. पृ. १३३) १६. वि. सं. ११४३ इ.सं. १०८६ (डो. सतीशचन्द्र पृ. २००), इ.स. ११४० (सर्वदर्शनसंग्रहः पृ. ५२३), वि. सं. १२२६ (जैन इतिहास). १७. वैक्रमीयद्वितीयशताब्द्याम् (जै. सा. सं. १-१-६), इ. सं. ६०० (डो. सती. पृ. १८२) वैक्रमीयद्वितीयायां तृतीयायां शताब्द्याम् (बृहत्स्वयम्भूस्तोत्रप्रस्ता. पृ. २६), इ.सं. ६०० सर्वदर्शनसंग्रहः पृ. १२) १८. विक्रमीयप्रथमशताब्द्याम् (संमतितर्कप्र. पृ. ११), वि.सं. ५०० तत्त्वार्थप्र. रा. जै. शा. पृ. ३. टीप ४), इ. स. ४८०-५३० पृ. (डो. सती. १७३), इ. स. ४५० (सर्वदर्शनसंग्रहः पृ. ४१२) १९. विक्रमीयषष्ठशताब्द्याम् (जै. सा. सं. १-२८), वी. सं. १०५५ (जै. सा. सं. विचारश्रे. पृ. ७), इ. स. ४७८ (डो. सती. पृ. २०८). (obadditidNAAMKARANA स्याद्वादमञ्जरी स्याद्वादमञ्जरी Page #297 -------------------------------------------------------------------------- ________________ परिशिष्टम्-७ स्याद्वादमंजरीनिर्दिष्टा न्याया: न्यायः __ m १३० ० १४७ १०७ अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तदिनभणनन्यायः । ११३ अन्धगजन्यायः । ९६, १३८ ३ अर्धजरतीयन्यायः । - ४२ इतो व्याघ्र इतस्तटी । ५ इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति । उत्सर्गपवादयोरपवादो विधिर्बलीयान् । ७ उपचारस्तत्त्वचिन्तायामनुपयोगी ८ . गजनिमीलिका । ९ घट्टकुट्यां प्रभातम् । १० घण्टालालान्यायः । . डमरुकमणिन्यायः । १२ तटादर्शिशकुन्तपोतन्यायः (अन्ययोगव्यवच्छेदिकायां श्लो. १९) ।१३५ १३ तुल्यबलयोर्विरोधः । १४ न हि दृष्टेऽनुपपन्नं नाम। . .. १५ स्तेनभीतस्य स्तेनाऽन्तरशरण- स्वीकरणम् । १६ सर्वं हि वाक्यं सावधारणम् । १७ सर्वे गत्या ज्ञानार्थाः । १८ साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत् । २४ सापेक्षसमर्थम् । २० सुन्दोपसुन्दन्यायः । १७७ ७७ १३४ स्याद्वादमञ्जरी n indian २७१ Page #298 -------------------------------------------------------------------------- ________________ परिशिष्टम्-८ . . टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । सङ्केतचिन्हानि अ. सं. जर्मनी निर्णयसागर अ. द्वा. भीमसिहं माणेक, मुंबई दोशी आ. मी. मुंबई आ. सू. देवचंद लालभाई आश्व. गृ. सू. पूना ग्रन्थनामानि अनेकार्थसंग्रहः । (कोष) अमरकोषः । अयोगव्यवच्छेदद्वात्रिंशिका । आचाराङ्गम् । आप्तमीमांसा । आवश्यकसूत्रम् । आश्वलायनगृह्यसूत्रम् । ईशावास्योपनिषद् उत्तराध्ययनम् । (क्षी. भावविजयकृतः । टीकासह) ऋग्वेदः । ऐतरेयब्राह्मणः । कादम्बरी । किरणावली । कुमारसम्भवमहाकाव्यम् । गौतमसूत्रम् । (न्यायसूत्रम्) चाणक्यराजनीतिशास्त्रम् । छान्दोग्योपनिषद् । तत्त्वार्थश्लोकवार्तिकम् । तत्त्वार्थसूत्रम् । (साभाष्य) दे. ला. पिटर्सन आवृत्ति कलकत्ता नि. सागर गौ. सू. पूना कलकत्ता छा. उ. पूना त. श्लो. वा. मुंबई त. सू. रायचन्द्रजैनशास्त्रमाला मुंबई तै. सं. द्वा. द्वा. भावनगर A स्याद्वादमञ्जरी तैत्तिरीयसंहिता । द्वात्रिशद्वात्रिंशिका । (२७२६intaininARAN Page #299 -------------------------------------------------------------------------- ________________ धर्मदीपिका । (हैमव्याकरण) धर्मसङ्ग्रहणी न्याबिन्दुः सटीकः । न्यायवार्तिकम् । न्यायसारः । पञ्चलिङ्गीः । प्रमाणनयतत्त्वालोकालङ्कारः । पातञ्जलसूत्रं सभाष्यम् । बृहदारण्यकोपनिषद् । बृहत्स्वयम्भऊस्तोत्रम् मनुस्मृतिः । मीमांसादर्शनं सभाष्यम् । मीमांसाश्लोकवार्तिकम् । मुण्डकोपनिषद् । याज्ञवल्क्यस्मृतिः । योगशास्त्रम् । रघुवंशमहाकाव्यम् । वसिष्ठधर्मसूत्रम् । वाक्यपदीयम् । . विशेषावश्यकभाष्यम् । वैशेषिकदर्शनं सभाष्यम् । शिशुपालवधमहाकाव्यम् । शुक्लयजुर्वेदसंहिता । श्रेणिकचरित्रम् । षड्दर्शनसमुच्चयः । हरिभद्रसूरिकृत) श्री. मङ्गलविजयजी दे. ला. . न्याय बिं. चौखम्बासिरीज काशी न्या. वा. चौखम्बासिरीज काशी कलकत्ता दे. ला.. प्र. न. लो. . यशोविजयजी ग्रन्थमाला पूना बृ. उ. पूना . दोशी, सोलापुर नि. सागर . चौ. सि. काशी .. चौ. सि. काशी मुं. पूना नि. सागर कलकत्ता नि. सागर कलकत्ता वि. य. ग्रं. भावनगर वै. द. काशी नि. सागर पं. हिरालाल हंसराज पं. बेचरदास . स्थाद्वादमञ्जरी A N ANARA२७३) Page #300 -------------------------------------------------------------------------- ________________ पं. हि. हं. जामनगर भावनगर चौ. सि. काशी चौ. सि. काशी कलकत्ता सम्बोधसप्तप्तिका । सम्मतितर्कः । साङ्ख्यकारिका । साङ्ख्यतत्त्वकौमुदी. सामान्यदूषणदिक्प्रसारिता (Six Buddhist Nyaya Tracts) स्थानाङ्गसूत्रम् ।. हैमलिङ्गानुशासनम् । हैमव्याकरणम् । हरिभद्राऽष्टकानि । दे. ला. य. ग्रंथमाला य. ग्रंथमाला भी. माणेक यत्र मुद्रणालयनिर्देशो न कृतस्तानि पुस्तकानि लिखितानीति ज्ञेयम् । - २७AAAAAAAAAAAAAAA स्याद्वादमञ्जरी Page #301 -------------------------------------------------------------------------- ________________ परिशिष्टम्-९ मुद्रणार्थमुपयोजितानि पुस्तकानि । १ अ. लिखितं पुस्तकं 'भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकालः संवत् १४९६ पौष शु. १३ पत्राणि ४३ । २ क. लिखितं पुस्तकं 'भाण्डारकर इन्स्टिट्यूटतः' लब्धम् । लेखनकालो न निर्दिष्टः । पत्राणि ४० तत्र प्रथमपत्रं न लभ्यते । ३ ख. लिखित पुस्तकम् ‘भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकाल: संवत् १५२० पौष कृ. २ पुस्तकस्यान्ते एवं निर्देश:- ... 'श्रीधारमहानगरे राजाधिराजश्रीमहंमुदराज्ये चन्द्रगच्छे पण्डितज्ञानहर्ष' ४ ग. लिखितं पुस्तकं 'भाण्डाकर इंस्टिट्यूटतः' लब्धम् । अत्यन्ताशुद्धं ततस्तदुपयोगो न कृतः । ५ घ. लिखितं पुस्तकं — भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकाल: वीरसंवत् २२६३ विक्रमसंवत् १७९३ कार्तिकप्रथमपञ्चम्यां बुधे श्रीचिन्तामणिपार्श्वदेवालय -विराजितकृष्णादुर्गाह्वयपुरे रत्नेन रत्नत्रयैषिणा दुःखकर्मपरिक्षयार्थं लिखितेयम् इत्यन्तें निर्देशः । ६ रा. रायचंद्र जैनशास्त्रमालायां मुद्रिता वीरसंवत् २४३६ ७ च. चौखम्बासंस्कृसीरीज काशी ८ ह. पं. हरगोविन्दसबेचरदासंशोधितपुस्तकम् । 'भाण्डारकर इंस्टिट्यूट' कार्यालयाधिपैः प्रथमोक्तपञ्चपुस्तकान्यालोचनार्थ मनुज्ञातानि । ततस्तेषामनुग्रहभरान्वहामि । . (इतीदं परिशिष्टनवकं श्रीमोतीलाललाधाजीसंपादितम् ।) स्याद्वादमञ्जरीindisint२७५) Page #302 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१० .. मूलसूत्राणामकारादिक्रमः . २७ २२ १ अनन्तधर्मा. अनन्तविज्ञान. अनेक अन्यो नैकान्त प्रतिक्षणो मायासती भुक्तो अपर्ययं अयं आदीप य एव यत्रैव वाग्वैभवं विनाऽनु - विना प्रमाणं सतामपि सदेव सत् उपाधि कर्ता कृतप्रणाशा गुणेष्वसूयां चिद्गर्थशून्या . न तुल्यकाले न धर्मधर्म न धर्म हेतु सा वासना स्याद्नाशि स्वतो स्वयं । : ७ ११ . स्वार्था (९७६)&&&&&oedesiseeidosस्याद्वादमञ्जरी) स्याद्वादमञ्जरा Page #303 -------------------------------------------------------------------------- ________________ પ્રવચન પ્રકાશન સાહિત્ય ૧) આજનો નિયમ (પાંચ આવૃત્તિ) ૨) તત્વાર્થાધિગમસૂત્રમ્ (સંસ્કૃત) ૩) રિમંત્રકલ્પસંદોહ ૪) જૈન સાહિત્યનો સંક્ષિપ્ત ઇતિહાસ ૫) આસ પૂરે પ્રભુ પાસ ૬) સ્તુતિ સરિતા (ચાર આવૃત્તિ). ૭) ષોડશાધિકરકરણસટીકમ્ (સંસ્કૃત) ૮) ષોડશાધિકારપ્રકણ મૂળમાત્રમ્ (સંસ્કૃત) ૯) મરણં મંગલં મમ (બીજી આવૃત્તિ) ૧૦). ફૂલમાં ફોર્યા રામ (બીજી આવૃત્તિ) ૧૧) આચારોપદેશ (હિન્દી અનુવાદ) . ૧૨) પૂનાથી કાડ સુધીનાં પ્રવચનો ૧૩) રત્નાકરાવતારિકા (સંસ્કૃત). ૧૪) નરનારાયણાન%મહાકાવ્યમ્ (સંસ્કૃત) ૧૫) અકળના સૂરજ ૧૬) શ્રાવકધર્મવિધિપ્રકરણ (સંસ્કૃત) ૧૭) પદર્શન સમુચ્ચય (સંસ્કૃત - અનુવાદ) ૧૮) જાગો રે માબાપ (હિન્દી) ૧૯) ગુણાનુવાદ પ્રવચન ૨૦) રામચંદ્ર નમામિ ૨૧) પાતંજલયોગ દર્શન સટીકમ્ (સંસ્કૃત) ૨૨) સ્યાદ્વાદમંજરી (સંસ્કૃત) ૨૩) કારિબાવલી (સંસ્કૃત) ૨૪) નામૃતમ્ (સંસ્કૃત). ૨૫) યોગદ્રષ્ટિ સમુચ્ચય (સંસ્કૃત) આગામી સાહિત્ય ૨૬) બંધશતક - વૃત્તિ (સંસ્કૃત) ૨૮) સાધુ તો ચલતા ભલા ૨૭) પ્રભુ! ક્યારે કૃપા કરશો ૨૯) બાળકોના જીવવિચાર Page #304 -------------------------------------------------------------------------- ________________ પ્રવચન પ્રકાશન આજ્ઞાધર્મથી અનુબદ્ધ અને શબ્દશ્રીથી સમૃદ્ધ સાહિત્યનું પ્રકાશન કરવાનો મુદ્રાલેખ ઘરાવતાં પ્રવચન પ્રકાશનને સમુદાર સહયોગ આપનાર - પ્રવચન તંભ શ્રી હેમતલાલ છગનલાલ મહેતા પરિવાર - કલકત્તા શ્રીમતી પ્રભાબેન નંદલાલ શેઠ - મુંબઈ યુવા સંસ્કાર ગ્રૂપ - નાગપુર - પ્રવચન પ્રેમી શ્રી સુધીરભાઈ કે. ભણશાળી - કલકત્તા શ્રી કુમારપાળ દિનેશકુમાર સમદડિયા - મંચર શ્રી પ્રકાશ બાબુલાલ, દેવેન્દ્ર, પરાગ, પ્રિતમ શાહ - મંચર . પ્રવચન ભકત શ્રી ચંદુલાલ નેમચંદ મહેતા - કલકત્તા શ્રી છોટાલાલ દેવચંદ મહેતા - કલકત્તા શ્રી ખુશાલચંદ વનેચંદ શાહ - કલંકત્તા શ્રી રસીકલાલ વાડીલાલ શાહ- કલકત્તા શ્રી કારચંદનાનચંદ શાહ - કલકત્તા શ્રી ગુલાબચંદ તારાચંદજી કોચર - નાગપુર શ્રીમતી સમજુબેન મણીલાલ દોશી પરિવાર - નાગપુર ઉઝનિવાસી શ્રી નટવરલાલ પોપટલાલ મહેતા - નાગપુર શ્રી પ્રવીણચંદ્ર વાલચંદજી શેઠ (ડીસાવાલા) - નાસિક શ્રી ચંદ્રશેખર નરેંદ્રકુમાર ચોપડા - વોરા શ્રી સુભાષકુમાર વાડીલાલ શાહ- કરાડ શ્રીમતી હસમુખબેન જયંતીલાલ શાહ (પૃથ્વી) - વાપી આ ઘર્મનુરાગી મહાનુભાવોની અને હાર્દિક અનુમોદના કરીએ છીએ. Page #305 --------------------------------------------------------------------------  Page #306 -------------------------------------------------------------------------- ________________ શ્રી વિજયમહોદયસૂરિ ગ્રંથમાળા नमो पवयणस्स प्रवचनम् પ્રવચન પ્રકાશન