________________
द्रव्यमुद्दिश्य अस्तित्वम्, अवक्तव्यत्वञ्चेति धर्मद्वयं विधेयम् । क्रमिकत्वमत्रापि समानम् । प्रकृतधर्मवत्त्वेन वस्तुनः सत्त्वेऽपि स्वेतरधर्मयोगपद्येन तस्य वक्तव्यता नास्तीति तात्पर्यम् । एकत्र धर्मिणि अस्तित्व- अवक्तव्यत्वयोः क्रमिको बोधः ।
षष्ठे ऽपि भङ्गे एकं द्रव्यमुद्दिश्य धर्मद्वयं विधेयम् । तथा च तदालाप:
स्याद् नास्ति एव । स्याद् अवक्तव्यमेव । द्रव्यमुद्दिश्य नास्तित्वम्, अवक्तव्यत्वञ्चेति धर्मद्वयं विधेयम् । अत्रापि क्रमिकत्वम् । अप्रकृतधर्माभाववत्त्वेन वस्तुनो नास्तित्वेऽपि स्वेतरधर्मयोगपद्येन तस्य वक्तव्यता नास्तीति तात्पर्यम् । एकत्र धर्मिणि नास्तित्वअवक्तव्यत्वयोः क्रमिको बोधः । .
पञ्चम-षष्ठयोः को विशेष इति चेद् अयं स भेदः । अस्तिधर्मबोधोपहित- मवक्तव्यत्वं पञ्चमे, नास्तिधर्मबोधोपहितमवक्तव्यत्वं षष्ठे । इतरधर्मसापेक्षता अनुवर्तत एव ।
अयं सप्तमः।
साना
- स्याद् अस्ति एव । स्याद् नास्ति एव । स्याद् अवक्तव्यमेव ।
अत्र द्रव्यमुद्दिश्य विधेयत्रयम् । प्रकृतधर्मसहितत्वेन, अप्रकृतधर्मरहितत्वेन च गम्यमानमिदं . द्रव्यं तदुभयरूपेण युगपदुल्लेखविषयं नास्तीति क्रमेणधर्मत्रयविषयो बोधः ।
अष्टमो भङ्गो नास्ति । त्रिसंख्याकत्वेन सप्तानामेव संभवाद् । स्थापना चेयम् ।
१। २ । ३। १.२ । १.३ । २.३ । १.२.३ ।
काल्पनिकपद्धत्या त्रयोऽस्य विभागाः । प्रत्येकं चत्वारो लभ्यन्ते । अस्तित्वविभागे- . . १-स्याद् अस्ति एव । २-स्याद् अस्ति एव । स्याद् नास्ति एव ।
स्याद्वादमञ्जरी
Annihindisi 170