________________
एतेन-यद् वक्तव्यमेव नास्ति तस्य भङ्ग एव निरर्थक इति मतं प्रत्युक्तम् । युगपदस्तित्वस्वीकारपूर्वकं युगपदुल्लेखाभावविधयैव तस्य निरूपणाद् । भावश्चायम्
एकसंख्या निरुप्यन्ते नैकसंख्या ह्यगोचराः । निरूपकाणामाधारा धर्मास्तस्यैव रोधकाः ।।
अत्र स्यात् पदेन युगपद्-अस्तित्वस्वीकारः, अवक्तव्यतापदेन च युगपदुल्लेख प्रतिषेधः ।
ननु युगपदुल्लेखाभावेऽपि एकस्मिन् धर्मिणि द्वयोः प्रतीतिरस्तिः । तत् समावेशस्तृतीये भवतु । प्रथमद्वितीयभङ्गेभ्योऽतिरिक्तत्वाद् इति चेद्, न. । एकत्र धर्मिणि युगपत् प्रतीतेरभावात् । ज्ञातुः शब्दस्य च मर्यादानुबद्धत्वात् प्रतीतिः क्रमेणैव भवतीति नियमाञ्च । घटत्वावच्छिन्नत्वबोधपूर्वकं पटत्वाद्यनवच्छिन्नत्वबोधो भवतीत्यत्र पूर्वपश्चाद्भावेन विना न व्यवहारः । अत एव विवक्षाविशेषेण द्वयोरेकत्र क्रमिकसमुल्लेखार्थं चतुर्थो भङ्गोऽस्ति । स चायम्- स्याद् अस्ति एव ! स्याद् नास्ति एव । . ___ द्रव्यमुद्दिश्य-अस्तिधर्म-नास्तिधर्मयोविधेयत्वमत्र प्रस्तुतम् ।. घटद्रव्यं घटत्वावच्छिन्नं पटत्वाद्यनवच्छिन्नं चास्तीति विशेषोऽयमवगमः वस्तुस्वरूपं स्फुटरूपेण दर्शयति । स्यात्पदाभ्यां क्रमेणास्तिधर्मो नास्तिधर्मश्च सापेक्षभावेन गृह्यते ।
उभयविषयत्वञ्चास्य यथा नट-शब्दे न-बोधपूर्वकं ट-बोधः । न-ट-आकारदर्शनेन . उभयप्रतीतिर्भवति । तेन च तदर्थबोधः । अत्राक्षरद्वय एकतरानवगमे नार्थबोधः । उभयावगमोऽपि क्रमिक एव । न-बोधसमये ट-बोधाभावः, ट-बोध समये नबोधाभावः । युगपद्बोधे तु सामर्थ्याभावः । एवं नबोधपूर्वकट-बोधसहितं ज्ञानं क्रमिकत्वादर्थप्रतीतिं जनयति उभयोर्निजनिजस्थानसमुपस्थितिरपि क्रमेणैव गम्यते ।
प्रकृतधर्म-तदितरधर्मयोः क्रमिकं ज्ञानं चतुर्थे । पञ्चमभङ्गस्य विषयो व्यतिरिक्तः । तत्पाठश्चायम् । स्याद् अस्ति एव । स्याद् अवक्तव्यमेव ।
म
(16 FANSANNAANANKAR
स्याद्वादमञ्जरी