________________
सिध्यति । तथा सति अनिर्वचनीयानंदकंदस्य समाधेरप्यानंदवैकल्यप्रसङ्गः। '
वस्तुतस्तु प्रथमो भङ्गः स्वविधया निरूप्यं दर्शयति । द्वितीयो भङ्गः स्वविधया निरुप्याभावं दर्शयति । तृतीयो भङ्गः स्वविधया निरुपकाभावं दर्शयति । अत्र निरूप्यनिरुप्याभावयोः स्वीकारेऽपि युगद्रूपेण तेषां निरूपको नास्तीति हार्दम् । निरूप्ये प्रस्तुतसद्भावः, निरूप्याभावे अप्रस्तुतासद्भावः, निरूपकाभावे तु तयोर्निरूपणसामर्थ्याभावः । प्रथमोऽस्तिधर्मावच्छिन्नः, द्वितीयो नास्तिधर्मावच्छिन्नः, तृतीयस्तु अवक्तव्यताऽवच्छिन्नः ।
अवक्तव्यभङ्गस्य स्वातंत्र्यं शब्दाभावरूपेण । मूकस्य घटज्ञानं निरूपकतारहितमपि निरूप्यविषयवत्त्वेन सद् अस्ति । तस्य ज्ञानाऽभावत्वाभाववत्त्वात् । तथैवायमवक्तव्यताभङ्गः निरूपकाभावविशिष्टोऽपि निरूप्यधर्मानुगत एव।। - ननु अनभिलाप्यावक्तव्ययोः को भेदः ? निरूपकाभावस्योभयत्र तुल्यत्वाद् इत्याशङ्कायाम् इदमुत्तरम् । अभिलाप्यभावानां संदर्भ एवावक्तव्यताविचारः, अनभिलाप्यभावास्तु सङ्ख्यामतिक्रान्ता ज्ञानजनकशब्दमात्रस्याविषया इति कुतस्तयोरैक्यम् । निरूपकाभाव एव ऐक्यमूलम् इति चेद्-नैतत् । अनभिलाप्यभावानां निरूपकाभानस्तेषामानन्त्यमूलः । अनभिलाप्यभावानां विषये निरूपणीयत्वाभावविशिष्टनिरूप्याणां समावेशः । अवक्तव्यताविषये तु निरूपणीयत्वविशिष्टनिरूप्याणां समावेशः । अस्ति-नास्तिधर्मद्वयस्य युगपदुल्लेखनीयत्वाभावमूलः सः । अनभिलाप्यभावाः सदैव शब्दातीताः । अवक्तव्यविषयास्तु पृथक्त्वेन शब्दानुबद्धा एवेति विवेकः । . एवमवक्तव्यभङ्गे वस्तुनोऽभावो, वस्तुधर्माणामभावो, वस्तुधर्माणां वाच्यत्वा-भावोऽपि नाभिप्रेतः । केवलं प्रथमद्वितीयभङ्गकधर्माणां यौगपद्येनोल्लेखाभावो-ऽभिप्रेतः । यथेदं . द्रव्यं घटत्वावच्छिन्नं, पटत्वाद्यनवच्छिन्नञ्चेति । पृथक् वक्तुं पार्यते । परम् इदं द्रव्यमुभयरूपेण कीदृग् इति प्रश्ने योगपद्येन वक्तव्यता नोपलभ्यते । यथा वा रामो हनुमतो मित्रं, रावणस्य शत्रुरिति वाच्यता सुलभा । राम उभयोः किम् इति प्रश्ने मित्रत्वशत्रुत्वसत्त्वेऽपि योगपद्येन वाच्यता दुर्लभा । स्याद्वादमञ्जरी RAAAAAAAAAAAA 15)