________________
ज्ञानं नास्तीति मे दुःखं शक्तिर्नास्तीति मे श्रमः ।। । . बन्धुर्नास्तीति मे चिन्ता प्रिया नास्तीति मे व्यथा । मित्रं नास्तीति मे दुःखं माता नास्तीति मे श्रमः ।
प्रतीत्यधर्माणामनुपदेशो विदुषां न मान्यः । अस्ति चानुभवोऽपि । यथा पटमन्वेषयन् मञ्जूषामुद्घाटयति सुवर्णघटं च पश्यति तदा विचारयति-किं पुनः सकलगृहे, मञ्जूषायामपि . पटो नास्ति । अत्र घटसत्त्वेऽपि पटाऽसत्त्वेनैवावगमो मुख्यः । ..
परद्रव्यादिचतुष्टयेनात्र नास्तिधर्मप्रतीतिः । यथा घटोऽयं न जलनिर्मितो वा मृतिकानिर्मितो वा । अयं द्रव्येण विचारः । क्षेत्रेण यथा घटोऽयं न श्रावस्तीनिर्मितः । काले यथा घटोऽयं न वर्षाकालीनः । भावेन यथा घटोऽयं न शुक्लवर्णः । अत्र घटस्य सुवर्णनिर्मितत्वेऽपि न तत्प्राधान्यम् । अस्तिधर्मत्वेन तेषां प्रथमभङ्गे एव विचारितत्वाद् । ..
स्याद् इति-घटत्वावच्छिन्नत्वेऽपि, नास्तीति-व्रव्यं पटत्वाद्यनवच्छिन्नम् इतीदम् एवेतिनिश्चितमस्ति । _प्रथमेनास्तिधर्मोऽवगतः । द्वितीयेन नास्तिधर्मोऽवगतः । तृतीयेन यौगवपद्यहेतुकावक्तव्यता अवगम्यते । वस्तुनि अस्तिधर्मनास्तिधर्मयोः पृथग्-अवगमेऽपि तयोर्युगपदुल्लेखविषयत्वं नास्तीति तदवगमो विभिन्नस्तृतीयभङ्गे भवति । तदभिलापश्चैषः । स्याद् अवक्तव्यम् एव । __वस्तु अस्तिधर्मेण, नास्तिधर्मेण च यथाक्रमं वक्तव्यतामापद्यते । परंतु युगपद्धर्मेण वक्तव्यतां नापद्यत इति ।
ननु अवक्तव्यम् इति पदस्य, वक्तव्यं नास्तीति वाच्यार्थः । अयं तु नास्तिधर्मः समुपस्थितः । तत्समावेशस्तु द्वितीये भङ्गे एव भवतु इति चेद्-न । नास्ति-धर्मस्य द्वितीयभङ्गे वक्तव्यत्वेन स्वीकारात् । अत्र तु यथैवाऽस्तिधर्मस्य वक्तव्यताऽस्वीकारः, तथैव नास्तिधर्मस्यापि वक्तव्यताऽस्वीकारः । न हि अवक्तव्यतामात्रेण वस्तुनोऽभावः
( 14h
A
RNA स्याद्वादमञ्जरी